
本章以问答式神学论述展开:诸仙人发问,苏多答复,确立女神为唯一的原初大能,为诸天福祉并为削减扰乱之力而示现多种形相。文中回顾先前著名的显现——迦底耶尼为诛摩醯沙阿修罗而现,遮母ṇḍā为降伏舒姆婆与尼舒姆婆而现,室利摩多在后续威胁轮回中护持众生——继而引出较少细述的形相“凯利湿瓦丽”(Keliśvarī)。 叙事转向安达迦(Andhaka)之患:湿婆以近于阿闼婆吠陀体系的咒法召请至上威力;女神以普遍性的尊号受赞,宣示一切女性形态皆为其化现。湿婆请求女神相助,以制伏已驱逐诸天、夺其位的安达迦。经文并释名:因女神取“keli-maya”(游戏、万形)之态,又在火(阿耆尼 agni)的仪式语境中被召请,故三界共称其为凯利湿瓦丽。 随后给出实修指引:于阿ष्ट弥(Aṣṭamī)与十四日(Caturdaśī)礼敬凯利湿瓦丽,可得所愿之果;王家使者若于战时诵其赞颂,即使兵力有限亦蒙许以胜利。章末嵌入安达迦的谱系与性格轨迹:其与希兰尼亚迦湿布(Hiraṇyakaśipu)一系相关,曾向梵天苦修求免老死(绝对不许),继而转为复仇,与诸天交战。战斗描写诸神兵器往复、湿婆降临、母性/瑜伽尼之力出动;安达迦以“男子誓愿”拒击妇女,终又施放黑暗之器(tamo’stra),使冲突兼具武战与道德—仪式的意味。
Verse 1
ऋषय ऊचुः । केलीश्वरी च या देवी श्रूयते सूतनंदन । माहात्म्यं वद नस्तस्या उत्पत्तिं च सुविस्तरात्
诸仙人说道:“噢,苏多之子,我们听闻吉利湿瓦丽女神(Kelīśvarī)。请为我们详尽宣说她的伟大功德,并将她的起源来历一一铺陈。”
Verse 2
कस्मिन्काले समुत्पन्ना किमर्थं च सुरेश्वरी । किं तस्या जायते श्रेयः पूजया नमनेन च
这位天众之主母(Sureśvarī)于何时出现,又为成就何种目的?礼敬供养她并向她顶礼,能获得何等śreyas(最上善利、福德)?
Verse 3
त्वया कात्यायनी प्रोक्ता चामुण्डा च सुरेश्वरी । श्रीमाता च समुत्पन्ना किमर्थं च सुरेश्वरी
你已讲述迦底耶耶尼(Kātyāyanī),也讲述了旃牟荼(Cāmuṇḍā)——神圣的天众女主(Sureśvarī);又讲到圣母Śrīmātā及其显现。那么,这位Sureśvarī(Kelīśvarī)究竟为何而现?
Verse 4
श्रीमाता च तथा तारा देवी शत्रुविनाशिनी । केलीश्वरी न संप्रोक्ता तस्मात्तां वद सांप्रतम्
圣母Śrīmātā,以及同样能摧灭怨敌的女神多罗(Tārā),都已述及;唯独Kelīśvarī尚未阐明。因此,请你此刻讲说她。
Verse 5
कौतुकं नः समुत्पन्नमत्रार्थे सूतनंदन
关于此事,我们心中生起了求知之愿,噢,苏多之子。
Verse 6
सूत उवाच । आद्यैका देवता लोके बहुरूपा व्यवस्थिता । देवतानां हितार्थाय दैत्यपक्षक्षयाय च
苏多说道:在此世间,唯有一位本初神性,却安住为无量形相——为诸天之利益,并为摧灭代底耶(Daitya)之众。
Verse 7
यदायदात्र देवानां व्यसनं जायते क्वचित् । तदातदा परा शक्तिर्या सा व्याप्य व्यवस्थिता
无论何时,诸天一旦遭逢灾厄,就在那一刻,遍满一切的至上神力便显现而安住其位。
Verse 8
सर्वमेतज्जगद्धात्री जन्म चक्रे धरातले । महिषासुरनाशाय सा च कात्यायनी भुवि
正是那位护持世界的圣母,以种种方式降生于大地;为诛灭摩醯娑阿修罗,她在世间化为迦底耶耶尼。
Verse 9
अवतीर्णा परा मूर्तिर्गतास्मिन्भुवनत्रये । यदा शुंभनिक्षंभौ च दानवौ बलदर्पितौ
至上圣相降临,行遍三界;当时,达那婆兄弟商婆与尼商婆因恃力而狂,兴起称雄。
Verse 10
अवतीर्णा तदा सैव चामुंडा रूपमाश्रिता । प्रोद्गते कालयवने सर्वदेवभयावहे
其时,她又亲自降世,取迦牟ṇḍā之相;当迦罗耶伐那兴起,令诸天尽皆恐惧之际。
Verse 11
श्रीमातारूपिणी देवी सैव जाता महीतले । अंधासुरवधार्थाय शंभुनाऽक्रांतचेतसा । सृष्टा केलीवरी देवी यया व्याप्तमिदं जगत्
同一位女神以圣母室利玛塔之相降生于世。为诛杀安陀阿修罗,商婆(湿婆)心意奋起而化现凯利瓦丽女神;由她遍满此整个世界。
Verse 12
ततस्तस्याः प्रभावेन हत्वा दैत्यानशेषतः । अन्धको निहतः पश्चात्त्रैलोक्यव्यसनप्रदः
随后,凭借她无上的威力,诸多代提耶被尽数诛灭;其后,那使三界受苦的安陀迦亦被诛杀。
Verse 13
ऋषय ऊचुः । अन्धकः कस्य पुत्रोऽयं किंप्रभावः कथं हतः । कस्माद्धतस्तु संग्रामे सर्वं विस्तरतो वद
诸仙人说道:“这安陀迦是谁之子?他有何威势,又是如何被杀?为何在战场上被诛?请为我们详尽宣说一切。”
Verse 14
सूत उवाच । दक्षस्य दुहिता नाम्ना दितिः सर्वगुणालया । हिरण्यकशिपुर्नाम तस्याः पुत्रो बभूव ह
苏多说道:“达叉有一女名底蒂,具足诸德。由她诞生一子,名闻于世,号希兰尼亚迦湿布。”
Verse 15
येन शक्रादयो देवा जिताः सर्वे रणाजिरे । स्वर्गे राज्यं कृतं भूरि स्वयमेव महात्मना
因他之故,帝释天等诸天在战场上尽皆败北;那位大者遂在天界为自己建立了广大的王权。
Verse 16
यद्भयात्सकलैर्देवैर्नानाशस्त्राण्यनेकशः । निर्मितान्यतिमुख्यानि वर्मचर्मयुतानि च
因畏惧于他,诸天多次铸造种种兵器,尤以最为可怖者为甚,并备制铠甲与护身之皮革。
Verse 18
तस्य पुत्रद्वयं जज्ञ वीर्यौदार्यगुणान्वितम् । ज्येष्ठः प्रह्लाद इत्युक्तो द्वितीयश्चांधकस्तथा
他生了两个儿子,具足勇武与慷慨之德:长子名为普罗诃罗陀(Prahlāda),次子名为安陀迦(Andhaka)。
Verse 19
हिरण्यकशिपौ प्राप्ते मृत्युलोकं सुहृद्गणैः । अमात्यैश्च ततः प्रोक्तः प्रह्लादो विनयान्वितैः
当希兰尼亚迦希布(Hiraṇyakaśipu)前往死者之界时,普罗诃罗陀(Prahlāda)便被亲友之众与谦恭有礼的大臣们上前劝告。
Verse 21
प्रह्राद उवाच । नाहं राज्यं करिष्यामि कथंचिदपि भूतले । यतस्ततो निबोधध्वं वचनं मम सांप्रतम्
普罗诃罗陀说道:“我绝不在此大地上承受王位,万万不可。故而,你们当善加领会我此刻所说之言。”
Verse 22
दैत्यराज्यं न वांछंति देवाः शक्रपुरोगमाः । तेषां रक्षाकरो नित्यं विष्णुः स भगवान्स्वयम्
以因陀罗为首的诸天并不愿见达底耶族(Daitya)得势称王;因为他们恒常的护持者正是毗湿奴(Viṣṇu)——至福的世尊亲自守护。
Verse 23
अप्यहं सन्त्यजे प्राणान्सर्वस्वं वा न संशयः । हरिणा सह संग्रामं नाहं कर्तुमहो क्षमः
我宁可舍弃生命——甚至舍尽一切所有,毫无疑虑;但唉,我实无力与诃利(Hari,毗湿奴)交战。
Verse 24
यो मयाऽभ्यर्चितो नित्यं प्रणतश्च सुरेश्वरः । न तेन सहितो युद्धं करिष्यामि कथञ्चन
那位我日日礼拜、俯首顶礼的天神之主——我决不以任何方式与祂为敌而兴兵作战。
Verse 25
सूत उवाच । प्रह्लादेन च संत्यक्ते राज्ये पितृसमुद्भवे । अन्धकः स्थापितस्तत्र संमंत्र्य सचिवैर्मिथः
苏多说道:当普罗诃罗陀舍弃从父亲承继的王国时,众臣相互商议后,便在彼处立安陀迦为王。
Verse 26
हिरण्यकशिपोः पुत्रो देवदानवदर्पहा । सोऽपि राज्यममात्येभ्यो निधाय तदनन्तरम्
希兰尼亚迦湿布之子——摧折天神与达那婆傲慢者——也将国政托付群臣,随后便退隐不理王事。
Verse 27
तपश्चक्रे चिरं कालं ध्यायमानः पितामहम् । त्यक्त्वा कामं तथा क्रोधं दंभं मत्सरमेव च
他久修苦行,专心观想毗多摩诃(梵天),并舍离欲望、嗔怒、虚伪与嫉妒。
Verse 28
जितेंद्रियः सुशांतात्मा समः सर्वेषु जन्तुषु । वृक्षमूलाश्रयः शांतः संतुष्टेनांतरात्मना
他制伏诸根,内心寂静,对一切众生平等无偏;栖居树根之下,安然澄定,心中自足而满足。
Verse 29
यावद्वर्षसहस्रांतं फलाहारो बभूव ह । शीर्णपर्णाशनाहारो यावद्वर्षसहस्रकम्
长达一千年,他以果实为食而活;又一千年,他以落叶为粮而度日。
Verse 30
ध्यायमानो दिवानक्तं देवदेवं पितामहम् । वायुभक्षस्ततो जज्ञे तावत्कालं द्विजोत्तमाः
他昼夜禅观毗多摩诃——诸神之神;于是,在那段岁月里,噢最胜的再生者,他成为“以风为食”之人。
Verse 31
ततो वर्षसहस्रांते चतुर्थे समुपस्थिते । तमुवाच स्वयं ब्रह्मा स्वयमभ्येत्य हर्षितः
随后,当第四个千年期圆满之时,梵天亲自——欣然欢喜——前来,对他说道。
Verse 33
ब्रह्मोवाच । परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत । तुष्टोऽहं ते प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् । अन्धक उवाच । यदि यच्छसि मे ब्रह्मन्वरं मनसि वांछितम् । जरामरणनाशाय दीयतां सुरसत्तम
梵天说道:“孩子啊,我对你甚为欢喜;噢持戒坚固者,选择一个恩赐吧。我既已满足,纵使那恩赐极难得,我也将赐予你。”安陀迦说道:“若你愿赐我,噢梵天,赐我心中所愿之恩;愿赐此恩以灭除衰老与死亡,噢诸天中最胜者。”
Verse 34
श्रीब्रह्मोवाच । न कश्चिच्च जराहीनो विद्यतेऽत्र धरातले । मरणेन विना नैव यस्य जन्म भवेत्क्षितौ
圣梵天说道:“确然,在此大地之上,无人能离于衰老;若无死亡,则无人能在世间出生。”
Verse 35
तथापि तव दास्यामि बहुधर्मरतस्य च । तस्मात्कुरु महाभाग राज्यं गत्वा निजं गृहम्
即便如此,我仍将赐你一项恩赐,因为你笃信并奉行多种法(dharma)。因此,吉祥之人啊,回到你自己的家中,承担起治理你王国的职责。
Verse 36
भवेद्बहुफलं राज्यं श्मशानं भवनं यथा । बहुकण्टकसंकीर्णं क्रूरकर्मभिरावृतम्
王权结出诸多果报——如同一所宅邸却是火葬场:荆棘丛生,并被残酷之业及其重担所环绕。
Verse 37
सूत उवाच । एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः । कस्यचित्त्वथ कालस्य प्रेरितः कालधर्मणा । प्रोवाच सचिवान्सोऽथ पितुर्वैरमनुस्मरन्
苏多说道:如此说罢,四面者(梵天)便从视野中隐没。过了一段时日,在时间之法的驱使下,他(安陀迦)忆起对父亲的仇怨,便对群臣开口。
Verse 38
अन्धक उवाच । पितास्माकं हतो देवैः पितृव्यश्च महाबलः । कपटेन न शौर्येण तस्मात्तान्सूदयाम्यहम्
安陀迦说道:我们的父亲被诸天所杀,我们那大力的叔父亦复如是——凭诡计,而非凭勇武。因此,我必灭尽他们。
Verse 39
कोऽर्थः पुत्रेण जातेन यो न कृत्यैः सुशंसितैः । प्राकट्यं याति सर्वत्र वंशस्याग्रे ध्वजो यथा
生子有何意义?若他不以可赞之行而名闻四方——如同宗族之前高举的旗帜一般。
Verse 41
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः । यज्ञभागान्हरिष्यामो हत्वा शक्रमुखान्सुरान्
诚然,这些世界本属我们——诸天算什么?二次生者又算什么?待诛灭以释迦罗(因陀罗)为首的诸神,我们必夺取祭祀中应得的供分。
Verse 42
एवं ते समयं कृत्वा सैन्येन महतान्विताः । प्रजग्मुस्त्वरितास्तत्र यत्र शक्रो व्यवस्थितः
他们如此订立盟约,又率领大军随行,便急速前往释迦罗驻守之处。
Verse 43
शक्रोऽपि दानवानीकं दृष्ट्वा तान्सहसागतान् । आरुह्यैरावणं नागं युद्धार्थं निर्ययौ तदा
释迦罗见达那婆大军骤然来袭,便乘上白象爱罗婆多,当即出征迎战。
Verse 44
सह देवगणैः सर्वैर्वसुरुद्रार्कपूर्वकैः । एतस्मिन्नंतरे शक्रो वज्रं रौद्रतमं च यत्
与诸神众同在,以婆苏、鲁陀罗与阿底提耶诸神为先导;就在那一瞬,释迦罗执起金刚杵,怒威至极,凶猛可怖。
Verse 45
समुद्दिश्यांधकं तस्मै मुमोच परवीरहा । स हतस्तेन वज्रेण विहस्य दनुजोत्तमः
那位诛灭敌方勇士者(释迦罗)瞄准安陀迦,将金刚杵掷向他。被那雷霆金刚击倒,达奴之子中最卓越者仍放声而笑。
Verse 46
शक्रं प्रोवाच संहृष्टस्तारनादेन संयुगे । दृष्टं बाहुबलं शक्र तवाद्य सुचिरान्मया
在激战之中,他欢喜振奋,以铿锵长鸣对释迦罗(因陀罗)说道:“噢,释迦罗,今日终于,历经久长,我得见你臂力之威。”
Verse 47
अधुना पश्य चास्माकं त्वमेव बलसूदन
如今且看我等之威——正是你亲自来见证,噢,诛灭婆罗者!
Verse 48
सूत उवाच । एवमुक्त्वाथ चाविध्य गदां गुर्वीं मुमोच ह । शतघंटामहारावां निर्मितां विश्वकर्मणा
苏多说道:言毕,他旋转而掷出一柄巨大的金刚杵般的重槌——轰鸣如百铃齐震——乃毗湿瓦羯摩所造。
Verse 49
सर्वायसमयीं गुर्वीं यमजिह्वाभिवापराम् । शतहस्तां प्रमाणेन प्राणिनां भयवर्द्धिनीम्
那巨槌通体皆铁,沉重无比,宛如阎摩炽燃之舌;其长百肘,令一切众生恐惧倍增。
Verse 50
तया विनिहतः शक्रो मूर्छाव्याकुलितेंद्रियः । ध्वजयष्टिं समाश्रित्य निविष्टो गजमूर्द्धनि
被那巨槌击中,释迦罗(因陀罗)应声倒下,昏眩使诸根紊乱;他攀住旗杆,坐在象首之上。
Verse 51
अथ संमूर्छितं दृष्ट्वा शक्रं स्कन्दः प्रकोपितः । मुमोचाथ निजां शक्तिममोघां वज्रसंनिभाम्
当时,见帝释天(Śakra)昏厥,军荼(Skanda)怒焰腾起,放出自身无不中的圣力(Śakti),如金刚雷霆一般。
Verse 52
तामायांतीं समालोक्य दानवो निशितैः शरैः । प्रतिलोमां ततश्चक्रे लीलयैव महाबलः
见那圣力向自己逼近,那大力的阿修罗以锐箭迎击,仿佛戏耍一般,使其倒转,朝相反方向退回。
Verse 53
ततः स्कन्दोऽपि संगृह्य चापं तं प्रति सायकान् । मुमोचाशीविषाकाराल्लंघ्वस्त्रं तस्य दर्शयन्
随后,军荼亦执弓收箭,向他连发;其箭如毒蛇般可怖,向他显现自己兵器之术的迅疾与威能。
Verse 54
एतस्मिन्नन्तरे देवाः सर्वे शस्त्रप्रवृष्टिभिः । समंताच्छादयामासुर्दानवानामनीकिनीम्
其间,诸天神以兵器如雨倾洒,从四面八方遮蔽了阿修罗的大军。
Verse 55
ततस्तु दानवाः सर्वे देवतानामनीकिनीम् । प्रहारैः पीडयामासुर्दुद्रुवुस्ते दिवौकसः
然而随后,众阿修罗以重击猛攻诸神之军,天界诸神遂溃退奔逃。
Verse 57
मा भैष्ट देवताः सर्वाः पश्यध्वं मद्विचेष्टितम् । इत्युक्त्वा भगवाञ्छम्भुर्मंत्रैराथर्वणैस्तदा
“诸天莫惧——且观我之所为!”言毕,吉祥的商婆(Śambhu)当即以阿闼婆那系的真言行持。
Verse 58
आह्वयामास विश्वेशां परां शक्तिमनुत्तमाम् । आहूता परमा शक्तिर्जगाम हरसंनिधिम्
他召请宇宙之主的无上、无比之大能;蒙召之时,至高的圣力(Śakti)便来到哈罗(Hara)之前。
Verse 59
ततो भग्नान्सुरान्दृष्ट्वा सगणो वृषवाहनः । दर्शयामास चात्मानं देवानाश्वासयन्निव
随后,他见诸天败散溃乱,牛旗之主(湿婆)偕同眷属众伽那显现其身,宛如在抚慰并安定诸天之心。
Verse 60
श्रीभगवानुवाच । नमस्ते देवदेवेशि नमस्ते भक्तिवल्लभे । सर्वगे सर्वदे देवि नमस्ते विश्वधारिणि
世尊说道:“敬礼于汝,诸神之主宰女神;敬礼于汝,爱悦信奉者之圣母。遍在之天女,赐予一切恩愿者——敬礼于汝,承载宇宙者。”
Verse 61
नमस्ते शक्तिरूपेण सृष्टिप्रलयकारिणि । नमस्ते प्रभया युक्ते विद्युज्ज्वलितकुण्डले
“敬礼于汝,以圣力(Śakti)之身,成就创生与毁灭者。敬礼于汝,具足辉耀光明,耳环灿然如电闪者。”
Verse 62
त्वं स्वाहा त्वं स्वधा देवि त्वं सृष्टिस्त्वं शुचिर्धृतिः । अरुंधती तथेंद्राणी त्वं लक्ष्मीस्त्वं च पार्वती
女神啊,你即是“娑婆诃”(Svāhā),你亦是“娑陀”(Svadhā)。你是创造;你是清净与坚固。你是阿伦达蒂(Arundhatī),亦是因陀罗尼(Indrāṇī);你是吉祥天女拉克什米(Lakṣmī)——你也正是帕尔瓦蒂(Pārvatī)。
Verse 63
यत्किंचित्स्त्रीस्वरूपं च समस्तं भुवनत्रये । तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चयः
三界之中,凡一切女性之相,无论何处所现——皆是你的本相;此乃诸经论所确立的定论。
Verse 64
श्रीदेव्युवाच । किमर्थं च समाहूता त्वयाहं वृषवाहन । मंत्रैराथर्वणै रौद्रैस्तत्सर्वं मे प्रकीर्तय
女神说道:“你为何召唤我前来,乘牛之主啊?你以猛烈的阿闼婆那(Atharvaṇa)与罗陀罗(Raudra)真言呼请我——请将此事始末,尽皆为我宣说。”
Verse 65
येन ते कृत्स्नशः कृत्यं प्रकरोमि यथोदितम्
“为使我能依你所示,圆满无缺地完成你的使命。”
Verse 66
श्रीभगवानुवाच । एते शक्रादयो देवाः सर्वे स्वर्गाद्विवासिताः । अंधकेन महाभागे दैत्यानामधिपेन च
世尊说道:“这些天神,以释迦罗(Śakra,因陀罗)为首,皆被安陀迦(Andhaka)逐出天界,福德殊胜者啊——那位统御代提耶(Daitya)的魔王所为。”
Verse 67
तस्मात्तस्य वधार्थाय गच्छमानस्य मे शृणु । साहाय्यं कुरु मे चाशु सूदयामि रणाजिरे
因此,当我出发去诛杀他时,请听我言:速赐我援助,使我能在战场上将他击倒。
Verse 68
एते मातृगणाः सर्वे मया दत्तास्तवाधुना । क्षुत्क्षामाः सूदयिष्यंति दानवान्ये पुरः स्थिताः
这些母神众(Mātṛgaṇa)我如今尽数交付于你。她们饥渴难耐,必将毁灭站在我们面前的达那婆(Dānava)。
Verse 69
यस्मात्केलीमयं रूपं विधाय त्वं सहस्रधा । अनेकैर्विकृतै रूपैः समाहूताग्निमध्यतः
因为你以千般方式示现嬉游而奇妙之形,并且——化作多种令人敬畏的变相——从神圣祭火的正中被召请而出,
Verse 70
तस्मात्केलीश्वरीनाम त्रैलोक्ये त्वं भविष्यसि । अनेनैव तु रूपेण यस्त्वां भक्त्याऽर्चयिष्यति
因此,在三界之中,你将以“嬉游自在女神(Kelīśvarī)”之名为人所知。凡以虔敬之心,正以此形相礼拜供养你者,
Verse 71
अष्टम्यां च चतुर्दश्यां तस्याभीष्टं भविष्यति । युद्धकालेऽथ संप्राप्ते स्तोत्रेणानेन ते स्तुतिम्
在月相第八日与第十四日,他所愿求者必得成就。及至战斗之时,当以此赞颂之偈来称扬你。
Verse 72
यः करिष्यति भूपालो जयस्तस्य भविष्यति । अपि स्वल्पस्वसैन्यस्य स्वल्पाश्वस्य च संगरे
凡有国王如此行持,胜利必归于他;即使临阵,自军寡少、战马稀少,亦能得胜。
Verse 73
भविष्यति जयो नूनं त्वत्प्रसादादसंशयम् । एवं सा देवदेवेन प्रोक्ता केलीश्वरी तदा
胜利必定到来——毫无疑虑——皆由汝之恩佑。于是当时,天中之天(Devadeva)便如此告谕凯利湿伐梨(Kelīśvarī)。
Verse 74
प्रस्थिता पुरतस्तस्य भवसैन्यस्य हर्षिता । सर्वैर्मातृगणैः सार्धं रौद्रारावैःसुभीषणैः
她欢喜踊跃,行于婆婆(Bhava)军前;与一切母神众同往,发出凶猛可怖的战吼。
Verse 75
युद्धोत्साहपरै रौद्रैर्नानाशस्त्रप्रहारिभिः । अथ ते दानवा दृष्ट्वा स्त्रीसैन्यं तत्समागतम्
她们凶猛而战意炽盛,以种种兵刃击斩。于是那些达那婆(Dānava)见那女军来到此处。
Verse 76
विकृतं विकृताकारं विकृताकाररावणम् । शस्त्रोद्यतकरं सर्वयुद्धवांछापरायणम्
他们见其诡异非常——形貌诡异,吼声亦诡异——手擎兵刃高举,尽皆归命于求战之欲。
Verse 77
जहसुः सुस्वरं केचित्केचिन्निर्भर्त्सयंति च । अन्ये स्त्रीति परिज्ञाय प्रहरंति न दानवाः
有的放声大笑,有的出言辱骂;另一些认出“她们是女子”,于是达那婆众并未下手击打。
Verse 78
वध्यमानापि लज्जंतः पौरुषे स्वे व्यवस्थिताः । एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः
纵然正被杀戮,他们仍感羞惭,却固守自身的男儿之志。就在此时,圣贤之最的那罗陀到来了。
Verse 79
अन्धकाय स वृत्तांतं कथयामास कृत्स्नशः । नैताः स्त्रियो दनुश्रेष्ठ युद्धार्थं समुपस्थिताः
他便将一切经过详尽告知安陀迦:“噢,达奴族中最胜者,她们并非寻常女子,而是为战而来。”
Verse 80
एषा कृत्या वधार्थाय तव रुद्रेण निर्मिता । यैषा सिंहसमारूढा चक्रांकितकरा स्थिता
“此乃kṛtyā——由咒仪之力成就的毁灭之形——为鲁陀罗所造,专为诛灭你。她立于狮背,手上有轮(cakra)之印。”
Verse 81
एषा केलीश्वरीनाम वह्निकुण्डाद्विनिर्गता । एताभिः सह रौद्राभिः स्त्रीभिर्मंत्रबलाश्रयात्
“此女名为Kelīśvarī,自火坑中涌现;依凭真言之力,她与这些凶烈的罗陀罗女众一同而来。”
Verse 82
स्वरक्तेन कृते होमे देवदेवेन शम्भुना । स एष भगवान्क्रुद्धः स्वयमभ्येति तेंऽतिकम्
当众神之神商布(Śambhu)以自身之血行火供(homa)时,那位圣主——如今忿怒——将亲自来到你面前。
Verse 83
युद्धाय निजहर्म्ये तान्स्थापयित्वा सुरोत्तमान् । प्रतिज्ञाय वधं तुभ्यं पुरतः परमेष्ठिनः
为备战,他将诸天中最尊胜者安置在自己的宫邸之内,并在至上主宰帕拉梅什提因(梵天 Brahmā)面前立誓要取你性命。
Verse 84
एतज्ज्ञात्वा महाभाग यद्युक्तं तत्समाचर
既已知晓此事,尊贵者啊,当行其所当行、所宜行者。
Verse 85
अन्धक उवाच । नाहं बिभेमि रुद्रस्य तथान्यस्यापि कस्यचित् । न स्त्रीणां प्रहरिष्यामि पालयन्पुरुषव्रतम्
安陀迦说道:“我不惧鲁陀罗,也不惧任何他者。我决不击打妇女,因为我守持男子荣誉之誓。”
Verse 86
सूत उवाच । एवं प्रवदतस्तस्य दानवस्य महात्मनः । आक्रंदः सुमहाञ्जज्ञे तस्मिन्देशे समंततः
苏多说道:当那位大心的达那婆如此言说之时,那一方地域四面八方忽然响起极其悲恸的哀号。
Verse 87
भक्ष्यन्ते दानवाः केचिद्वध्यन्ते त्वथ चापरे । अर्धभक्षित गात्राश्च प्रणश्यंति तथा परे
有些达纳瓦被吞噬,有些被诛杀。还有些肢体被吃了一半,也同样灭亡了。
Verse 88
युध्यमानास्तथैवान्ये शक्तिमंतोऽपि दानवाः । भक्ष्यंते मातृभिस्तत्र सायुधाश्च सवाहनाः
同样,其他的达纳瓦虽然强大且正在战斗,却连同武器和坐骑一起被母神们吞噬。
Verse 89
तच्छ्रुत्वा स महाक्रंदमंधकः क्रोधमूर्छितः । आदाय खड्गमुत्तस्थौ किमिदं किमिदं ब्रुवन्
安德卡听闻此言,发出可怕的吼叫,愤怒得几欲昏厥,抓起宝剑跳了起来,连声惊呼:“这是怎么回事?这是怎么回事?”
Verse 90
अथ पश्यति विध्वस्तान्दानवान्बलदर्पितान् । भक्ष्यमाणास्तथैवान्यान्पलायनपरायणान्
接着他看见那些曾经因力量而骄傲自大的达纳瓦们粉身碎骨;他还看见其他的正在被吞噬,一心只想逃跑。
Verse 91
अन्येषां निहतानां च रुदंत्यो निकटस्थिताः । स पश्यति प्रिया भार्याः प्रलपंत्योऽतिदुःखिताः
在附近,他看见妇女们为被杀的人哭泣;看见爱妻们悲叹不已,悲痛欲绝。
Verse 92
अथ तत्कदनं दृष्ट्वा अंधकः क्रोधमूर्छितः । भर्त्सयामास ताः सर्वा योगिनीः समरोद्यताः
见到那场屠戮,安达卡再度被怒火所吞没,便辱骂一切已整装待战的瑜伽女神众。
Verse 93
न च तास्तस्य दैत्यस्य भयं चक्रुः कथंचन । केवलं सूदयंति स्म भक्षयंति च दानवान्
然而她们对那位达伊提亚毫无惧意;只是不断诛杀,并吞食诸多达那婆。
Verse 94
ततः स दानवस्तासां दृष्ट्वा तच्चेष्टितं रुषा । स्वस्य गात्रस्य रक्षां स चकार भयसंकुलः
于是那达那婆见她们如此行事,怒火炽燃,却又心生恐惧,便着手护持自身之躯。
Verse 95
तमोऽस्त्रं मुमुचे रौद्रं कृत्वा रावं स तत्क्षणात् । एतस्मिन्नंतरे कृत्स्नं त्रैलोक्यं तमसा वृतम्
他发出凶猛的咆哮,刹那间放出可怖的“黑暗之器”;就在那一瞬,三界尽被幽冥所笼罩。
Verse 96
न किंचिज्ज्ञायते तत्र समं विषममेव च । केवलं दानवेन्द्रश्च सर्वं पश्यति नेतरः
在那里万物皆不可辨——平坦与崎岖亦无从分明;唯有达那婆之主能见一切,旁人皆不能见。
Verse 97
ततः स सूदयामास योगिनीस्ताः शितैः शरैः । यथायथा परा नार्यस्तादृग्रूपा भवन्ति च
随后,他用锋利的箭矢击倒了那些瑜伽女;然而,随着他的攻击,更多的女子显现出来,化作同样的形态。
Verse 98
अथ दृष्ट्वा परां वृद्धिं योगिनीनां स दानवः । संहारं तस्य चास्त्रस्य चकार भयसंकुलः
随后,看到瑜伽女数量惊人的增长,那个达纳瓦(Dānava)充满了恐惧,收回了他的武器。
Verse 99
ततः शुक्रं समासाद्य दीनः प्राह कृतांजलिः । पश्य मे भार्गवश्रेष्ठ स्त्रीभिर्यत्कदनं कृतम्
随后,那个痛苦的人走近苏克拉(Śukra),这位至高无上的巴尔加瓦(Bhārgava),双手合十说道:“看啊,婆利古(Bhṛgu)一脉中最优秀的人,女人们给我带来的毁灭。”
Verse 101
तस्मात्त्वमपि तां विद्यां प्रसाधय महामते । यदि मे वांछसि श्रेयो नान्यथास्ति जयो रणे
“因此,拥有大智慧的人啊,你也应该适当地掌握那神圣的知识。如果你希望我安好,除此之外别无他在战斗中获胜的方法。”
Verse 107
स्वयं विदारितो यश्च विष्णुना प्रभविष्णुना । करजैर्जानुनि पृष्ठे विनिधाय प्रकोपतः
“他被毗湿奴(Viṣṇu)——那位强大且无所不在的毗湿奴——亲自撕裂,毗湿奴在愤怒中将他按在膝盖上,用利爪刺入他的背部。”