Adhyaya 48
Mahesvara KhandaKaumarika KhandaAdhyaya 48

Adhyaya 48

本章开篇,圣者那罗陀宣示将清晰阐明索摩那他(Somanātha)的伟大功德(māhātmya),并指出聆听与诵读能成为解脱罪业(pāpa-mokṣa)的法门。两位光辉卓著的婆罗门——乌尔阇延多(Ūrjayanta)与普拉勒耶(Prāleya)——偶得一偈赞颂普拉婆娑(Prabhāsa)及其诸圣渡处(tīrtha),遂立志远行,求行沐浴之仪。 他们穿越森林与河流,包括那尔摩陀河(Narmadā),进入一片以“陆海相会”意象著称的神圣地域。疲惫、饥饿与干渴成为朝圣戒行的考验;二人倒卧于悉地灵伽(Siddhaliṅga)近旁,虔敬礼拜悉地那他(Siddhanātha)。在这临界之境,据说有灵伽自现,伴随天声与花雨,赐予普拉勒耶等同索摩那他的果报,并指示海滨另有一座所立之灵伽。 叙事继而回到普拉婆娑,揭示“二重索摩那他”的主题——两种显现与两位行者相系。又引出哈塔凯湿伐罗(Hāṭakeśvara):描述梵天(Brahmā)建立灵伽,并以结构严整的赞歌列举湿婆的宇宙形态,契合八相(aṣṭamūrti)之意象,如日/火、地、风、空/声等。末后的果报偈(phalaśruti)宣说:诵听梵天之赞歌并忆念哈塔凯湿伐罗,可得与八相湿婆相近相融(sāyujya),并肯定陆海交汇处福德圣地繁多无量。

Shlokas

Verse 1

नारद उवाच । अथातः संप्रवक्ष्यामि सोमनाथमहिं स्फुटम् । शृण्वन्यां कीर्त यिष्यामि पापमोक्षमवाप्नुयात्

那罗陀说道:“如今我将清晰阐明苏摩那他之伟大。我将宣说赞颂;凡听闻者,得离罪垢之解脱。”

Verse 2

पुरा त्रेतायुगे पार्थ चौडदेशसमुद्भवौ । ऊर्जयंतश्च प्रालेयो विप्रावास्तां महाद्युती

往昔在特雷塔纪,婆尔他啊,有两位光辉的婆罗门生于乔荼之地:乌尔阇延多与普罗勒耶。

Verse 3

तावेकदा पुराणार्थे श्लोकमेकमपश्यताम् । तं दृष्ट्वा सर्वशास्त्रज्ञावास्तां कंटकितत्वचौ

有一次,他们考察诸《普拉那》的义理时,看见了一偈。见到此偈,那两位通达一切沙斯特拉者心生法喜,周身起鸡皮疙瘩。

Verse 4

प्रभासाद्यानि तीर्थानि पुलस्त्यायाह पद्मभूः । न यैस्तत्राप्लुतं चैव किं तैस्तीर्थमुपासितम्

莲生者(梵天 Brahmā)对普拉斯提亚谈及以普拉婆娑为首的诸圣渡处: “未曾在那里沐浴者,纵去依止他处诸提尔塔,又真正得到了什么?”

Verse 5

इति श्लोकं पठित्वा तौ पुनःपुनरभिष्टुतम् । तर्ह्येव च प्रभासाय निःसृतौ स्नातुमुत्तमौ

诵读了那一偈后,两人反复赞叹不已。就在当下,这两位卓越之士便启程前往普拉婆娑,为求沐浴净身。

Verse 6

तौ वनानि नदीश्चैव व्यतिक्रम्य शनैःशनैः । महर्षिगणसंकीर्णामुत्तीणौ नर्मदां शिवाम्

他们缓缓穿越林野与河流,又渡过吉祥的那尔摩陀河;河畔群集着无数大圣仙众。

Verse 7

गुप्तक्षेत्रस्य माहात्म्यं महीसागरसंगमम् । तत्र स्नात्वा प्रभासाय तन्मध्येन प्रतस्थतुः

他们听闻了隐秘圣域(Guptakṣetra)的伟大功德,以及大地与海洋相会之处的汇合圣地。在那里沐浴之后,他们便循着这条道路前往普拉婆娑。

Verse 8

ततो मार्गस्य शून्यत्वात्तृट्क्षुधापीडितौ भृशम् । आस्तां विचेतनौ विप्रौ सिद्धलिंगसमीपतः

随后,由于道路荒寂无人,两位婆罗门被饥渴猛烈折磨。就在悉地林伽(Siddhaliṅga)近旁,他们昏沉无觉,虚弱欲绝。

Verse 9

सिद्धनाथं नमस्कृत्य संप्रयातौ सुधैर्यतः । क्षुधावेगेन तीव्रेण तृषा मध्यार्कतापितौ

他们向悉檀那他(Siddhanātha)顶礼后,便以沉稳的勇气继续前行;然而正午烈日灼身,饥与渴的猛势逼迫着他们。

Verse 10

सहसा पतितौ भूमौ स्थूणपादौ विमूर्छितौ । ततो मुहूर्तात्प्रालेय ऊर्जयंतमभाषत

忽然他们倒在地上,双足僵直如柱,昏厥过去。过了片刻,普罗莱耶(Prāleya)对乌尔贾延塔(Ūrjayanta)开口说道。

Verse 11

किंचिद्विश्वस्य धैर्याच्च सखे किं न श्रुतं त्वया । यथा यथा विवर्णांगो जायते तीर्थयात्रया

朋友啊,你难道连一点点都未曾听闻世间所需的坚忍吗?因为踏上朝圣,前往诸圣渡口(tīrtha)时,身躯往往一再变得苍白憔悴、劳损不堪。

Verse 12

तथातथा भवेद्दानैर्दीनः सोमेश्वरो हरः । तथाऽस्तां लुंठमानौ तावेवमुक्ते श्रुतेऽपि च

“同样地,凭借布施与施舍,哈罗·苏摩湿伐罗(Someshvara Hara)便会垂怜受苦之人。”纵然此言已说亦已听,那两人仍卧于彼处,虚弱翻滚,难以自持。

Verse 13

लुंठमानो जगामैव प्रालेयः किंचिदंतरे । उत्थितं सहसा लिंगं भूमिं भित्त्वा सुदुर्दृशम्

普罗莱耶仍在扭动挣扎,向前又挪出一段。忽然间,一尊林伽破土而起——裂开大地——景象可怖而令人敬畏。

Verse 14

खे वाणी चाभवत्तत्र पुष्पवर्षपुरःसरा । प्रालेय तव हेतोस्तु सोमनाथसमं फलम् । उत्थितं सागरतटे लिंगं तिष्ठात्र सुव्रत

随即,天际传来声音,先有花雨纷纷:“普罗莱耶啊,因你之故,此处所得功果将与索摩那他(Somanātha)等同。此林伽已在海滨涌现——愿它安住于此,噢,持善誓者。”

Verse 15

प्रालेय उवाच । यद्येवं सत्यमेतच्च तथाप्यात्मा प्रकल्पितः

普罗莱耶说道:“若此事确为真实,纵然如此,我的决意也早已定下。”

Verse 16

प्रभासाय प्रयातव्यं यदाऽमृत्योर्मया स्फुटम् । ततश्चैवोर्ज्जयंतोऽपि मूर्छाभावाल्लुठन्पुरः

“我必须前往普拉婆娑(Prabhāsa)——纵使以生命为代价,我也已明明立定此志。”随后,乌尔阇延多也因昏眩而无力,仍在前方匍匐翻滚着前行。

Verse 17

अपश्यदुत्थितं लिंगं स चैवं प्रत्यपद्यत । ततः प्रत्यक्षतां प्राप्तो भवश्चक्रे तयोर्दृढे

他看见林伽升起,便由此领悟其真实无疑。随即,婆伐(即湿婆,Śiva)亲自显现,使二人的誓愿坚固不动、不可撼摇。

Verse 18

दृष्ट्या तनू ततो यातौ प्रभासं शिवसद्म च । तावेतौ सोमनाथौ द्वौ सिद्धेश्वरसमीपतः

随后,仅凭一眼观见,他们的身躯便被送往普拉婆娑(Prabhāsa)与湿婆的圣居。那二位遂成双生的苏摩那他(Somanātha),安住于悉地湿伐罗(Siddheśvara)近旁。

Verse 19

ऊर्जयंतः प्रतीच्यां च प्रालेयस्येश्वरोऽपरः । सोमकुडांभसि शनैः स्नात्वार्णवमहीजले

在西方还有另一位主尊——普拉勒耶湿伐罗(Prāleyeśvara),赐予力量。应当缓缓沐浴于苏摩池(Soma-kuḍa)之水,即海水与大地之水相融之处。

Verse 20

सोमनाथद्वयं पश्येज्जन्मपापात्प्रमुच्यते । ब्रह्मात्र स्थापयित्वा तु हाटकेश्वर संज्ञितम्

凡得瞻礼双苏摩那他(Somanātha)者,便能解脱自出生以来所积之罪。于此处,梵天(Brahmā)安立一尊灵伽,名为哈塔凯湿伐罗(Hāṭakeśvara)。

Verse 21

महीनगरके लिंगं पातालात्सुमनोहरम् । तुष्टाव देवं प्रयतः स्तुतिं तां शृणु पांडव

在摩希城(Mahī-nagara)有一尊极其殊妙的灵伽,自帕塔拉(Pātāla)涌现而出。随后他以专注的虔敬赞颂主神。般度之子(Pāṇḍava)啊,请聆听那赞歌。

Verse 22

नमस्ते भगवन्रुद्र भास्करामिततेजसे । नमो भवाय रुद्राय रसायांबुमयाय ते

顶礼于您,世尊鲁陀罗(Rudra),其光辉如日般无量无边。顶礼于婆伐·鲁陀罗(Bhava-Rudra),您由大地之精髓与水之本性所成。

Verse 23

शर्वाय क्षितिरूपाय सदा सुरभिणे नमः । ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः

礼敬舍婆(Śarva),其形为大地,恒常芬芳,滋养众生。复复礼敬于汝,噫湿(Īśa),汝为风,亦为触之本原。

Verse 24

पशूनां पतये चापि पावकायातितेजसे । भीमाय व्योमरूपाय शब्दमात्राय ते नमः

礼敬牧主(Paśupati),众生之主;亦礼敬汝为火焰,光辉超绝。礼敬怖畏者(Bhīma),其形为虚空,乃声之微妙精髓。

Verse 25

महादेवाय सोमाय अमृताय नमोऽस्तु ते । उग्राय यजमानाय नमस्ते कर्मयोगिने

愿礼敬归于汝,摩诃提婆(Mahādeva)——苏摩(Soma)——即是不死甘露本身。复礼敬于汝,乌格罗(Ugra)威猛可畏者,祭主行祭者,与业瑜伽之道相应的主宰。

Verse 26

इत्येवं नामभिर्दिव्यैः स्तव एष उदीरितः । यः पठेच्छृणुयाद्वापि पितामहकृतं स्तवम्

如是,此赞颂以诸天圣名而宣说。凡诵持者,或但得闻者——此由祖父(梵天 Brahmā)所作之赞…

Verse 27

हाटकेश्वरलिंगस्य नित्यं च प्रयतो नरः । अष्टमूर्तेः स सायुज्यं लभते नात्र संशयः

若有人持戒精勤、行止清净,日日礼拜哈塔凯湿伐罗林伽(Hāṭakeśvara-liṅga),必得萨尤吉亚(sāyujya)——与八相主(Aṣṭamūrti 之湿婆)亲密合一;此无疑也。

Verse 28

हाटकेश्वरलिंगं च प्रयतो यः स्मरेदपि । तस्य स्याद्वरदो ब्रह्मा तेनेदं स्थापितं जय

即使有人自持清净,仅仅忆念哈塔凯湿伐罗圣林伽,梵天亦将赐福于他;因为此林伽正是由梵天所建立,噢,阇耶。

Verse 29

एवंविधानि तीर्थानि महीसागरसंगमे । बहूनि संति पुण्यानि संक्षेपाद्वर्णितानि मे

在陆地与大海交汇之处,有许多如此的圣地渡口(tīrtha)——数量众多,能赐福增德。我只是略述而已。

Verse 48

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तम्भतीर्थमाहात्म्ये सोमनाथवृत्तांतवर्णनंनामाष्टचत्वारिंशोऽध्यायः

至此,《圣室建陀大往世书》(八万一千颂集)第一《摩醯湿伐罗部》之《鸠摩利迦部》中,《斯坦婆圣地功德篇》里名为《索摩那他事迹叙述》的第四十八章圆满。