
第44章以三段展开深层的神学叙事。(1) 斯甘达描绘湿婆安住于珠宝辉映的光明宫殿,却患上“与迦尸分离所生之热病”(Kāśī-viyoga-ja jvara)。文中以悖论作喻:湿婆具“尼罗迦ṇṭha”(不为毒所伤)之相,却被月光“灼热”,表明此苦非身病,而是为彰显迦尸救度中心地位的叙事铺陈。 (2) 帕尔瓦蒂以教义安慰,并长篇赞颂迦尸,尤推崇摩尼迦尔尼迦(Maṇikarṇikā):无有国土可比;恐惧与再生于彼处止息;解脱在迦尸通过死亡/出离而独特可得,而非仅凭苦行、仪轨或学识。 (3) 湿婆愿意回归,却顾及伦理与王法:天神梵天所命之王迪沃达萨(Divodāsa)以正法(dharma)治迦尸,湿婆不愿以武力废黜贤王。于是他敕令诸瑜伽女(Yoginī)施行瑜伽幻力(yogamāyā),令迪沃达萨生厌不欲久居,从而使湿婆得以在不违正法之下“重振”瓦拉纳西(Vārāṇasī)。
Verse 1
स्कंद उवाच । अथ मंदरकंदरोदरोल्लसद समद्युति रत्नमंदिरे । परितः समधिष्ठितामरे निजशिखरैर्वसनीकृतांबरे
斯堪陀说道:其时,在一座宝殿之中,光辉匀净,宛如曼陀罗山洞府内所放之明耀——四方诸天环侍,而其自身峰峦仿佛为苍穹披上衣裳——
Verse 2
निवसञ्जगदीश्वरो हरः कृशरजनीश कलामनोहरः । लभते स्म न शर्म शंकरः प्रसरत्काशिवियोगज ज्वरः
虽居于彼处,哈罗——宇宙之主,因夜之主(月亮)那纤淡新月而更显庄严可爱——然而商羯罗不得安宁;由与迦尸分离而生之热恼,在他心中不断蔓延。
Verse 3
विरहानलशांतये तदा समलेपि त्रिपुरारिणापि यः । मलयोद्भव पंक एष स प्रतिपेदेह्यधुना पिपांसुताम्
为平息离别之火,那出自摩罗耶山的旃檀香膏——昔日连三城之敌(湿婆)亦曾涂抹——如今竟已干涸,仿佛再度渴求润泽。
Verse 4
परितापहराणि पद्मिनीनां मृदुलान्यपि कंकणीकृतानि । गदितानि यदीश्वरेण सर्पास्तदभूत्सत्यमहोमहेश्वरेच्छा
即便是柔软的莲丝——本为消除莲女之热恼——一经主宰开口称说,竟被制成手镯,化作群蛇。于是言成真实;摩醯首罗的意志,实在奇妙!
Verse 5
यदु दुग्धनिधिं निमथ्यदेवैर्मृदुसारः समकर्षि पूर्णचंद्रः । स बभूव कृशो वियोगतप्तेश्वरमूर्धोष्मपरिक्षरच्छरीरः
诸天搅动乳海,牵引出温柔之精华——圆满的满月——它也因消瘦而憔悴;其身仿佛在主顶上升腾的热焰中融化,被离别(于迦尸)之痛所灼。
Verse 6
यददीधरदेष जाततापः पृथुले मौलिजटानि कुंजकोणे । परितापहरां हरस्तदानीं द्युनदीं तामधुनापि नोज्जिहीते
当那山地之处生起忧热,诃罗在林间一隅铺展其冠上浓密的结发;而那能除灼恼的天河——恒河伽ṅgā——他当时所承载的,至今亦不舍离。
Verse 7
महतो विरहस्य शंकरः प्रसभंतस्यवशी वशंगतः । विविदेन सुरैः सदोगतैरपि संवीतसुतापवेष्टितः
商羯罗虽为主宰,却被那巨大的离别强行摄伏;纵使诸天以种种方式环绕,他仍被炽烈的内在苦恼所裹覆。
Verse 8
अतिचित्रमिदं यदात्मना शुचिरप्येष कृपीटयोनिना । स्वपुरीविरहोद्भवेन वै परिताप्येत जगत्त्रयेश्वरः
此事何其奇异:此主本自清净,且出自火焰(kṛpīṭa)而生,为三界之主,却竟因与自城(迦尸 Kāśī)分离所生的忧苦而受煎熬。
Verse 9
निजभालतलं कलानिधेः कलया नित्यमलंकरोति यः । स तदीश्वरमप्यतापयद्विधुरेको विपरीत एव तु
那位常以“诸分之主”——月神——的一分装点自己额头者;正是那月神,在奇异的反转中,竟使他的主宰也为离苦而灼痛。
Verse 10
गरलं गलनालिकातले विलसेदस्य न तेन तापितः । अमृतांशु तुषारदीधिति प्रचयैरेव तु तापितोऽद्भुतम्
纵使毒液在他喉间闪耀,他并不为此所灼;反倒是那甘露之光的月神,以层层清冷如霜的光辉,奇异地使他灼痛。
Verse 11
विलसद्धरिचंदनोदकच्छटया तद्विरहापनुत्तये । हृदया हि तयाप्यदूयत प्रसरद्भोगिफटाभवैर्न तु
为驱除那离别之苦,涂抹了掺有黄檀的清亮水雾;然而他的心仍在隐痛——并非确因群蛇舒展的伞盖所致。
Verse 12
सकलभ्रममेष नाशयेत्स्रगहित्वाद्यपदेशजं हरः । इदमद्भुतमस्य यद्भ्रमः स्फुटमाल्येपि महाहिसंभवः
诃罗本能摧毁一切迷妄——那由取花鬘等借口而生的迷妄。然而奇哉:即便花鬘分明可见,他的迷妄仍会生起,仿佛出自那作为饰物的大蛇。
Verse 13
स्मृतिमात्रपथंगतोपि यस्त्रिविध तापमपाकरोत्यलम् । स हि काशिवियोगतापितः स्वगतं किंचिदजल्पदित्यजः
那位只要踏入忆念之途,便能尽除三重苦者——那不生之主,却因与迦尸分离而灼痛,遂自语低言了几句。
Verse 14
अपि काशि समागतोऽनिलो यदि गात्राणि परिष्वजेन्मम । दवथुः परिशांतिमेति तन्नहि मानी परिगाहनैरपि
纵使从迦尸而来的微风拥抱我的肢体,这灼痛也将得以安息;因为这傲然的痛楚,即便反复抚慰也不肯消退。
Verse 15
अगमिष्यदहोकथं सतापो ननु दक्षांगजयाय एधितः । ममजीवातुलता झटित्यलं ह्यभविष्यन्न हिमाद्रिजा यदि
唉,我怎能在这般炽烈的苦楚中继续活下去?诚然,此折磨因达克沙之女而愈加增长。若喜马拉雅之女不在此,我的生命必将顷刻终绝。
Verse 16
न तथोज्झितदेहयातया मम दक्षोद्भवयामनोऽदुनोत् । अविमुक्तवियोगजन्मनापरि दूयेत यथा महोष्मणा
当达克沙之女舍身之时,那由此而来的痛苦并未如此折磨我的心;如今却因与阿毗穆克多分离而生的灼烧,使我如被烈焰四面炙烤一般。
Verse 17
अयि काशि मुदा कदा पुनस्तव लप्स्ये सुखमंगसंगजम् । अतिशीतलितानि येन मेऽद्भुतगात्राणि भवंति तत्क्षणात्
噢,迦尸!我何时才能再度欢喜地得享与你相合之乐,使我奇妙的肢体在刹那间清凉安抚?
Verse 18
अयि काशि विनाशिताघसंघे तवविश्लेषजआशुशुक्षणिः । अमृतांशुकलामृदुद्रवैरतिचित्रंहविषेव वर्धते
噢,迦尸,摧灭罪聚者!由与你分离而生、迅速干枯的痛楚竟愈发增长——奇异如祭火得食被月之甘露光辉所润柔的酥油,便更炽盛。
Verse 19
अगमन्मम दक्षजा वियोगजो दवथुः प्राग्घिमवत्सुतौषधेन । अधुना खलु नैव शांतिमीयां यदि काशीं न विलोकयेहमाशु
从前,因与达克沙之女分离而生的热恼,曾被喜马拉雅之女这灵药所平息;而今若不速速瞻见迦尸,我确实不得安宁。
Verse 20
मनसेति गृणंस्तदा शिवः सुतरां संवृततापवैकृतः । जगदंबिकया धियां जनन्या कथमप्येष वियुक्त इत्यमानि
于是,湿婆在心中默诵(迦尸)之名而赞叹,掩藏了炽痛所致的种种异状;然而世间之母Jagadambikā——诸慧之母——心中疑念:“他怎会如此分离而忧苦?”
Verse 21
प्रियया वपुषोर्धयानयाप्यपरिज्ञात वियोगकारणः । वचनैरुपचर्यते स्म सप्रणतप्राणिनिदाघदारणः
虽则他所爱者——与他同体之半——并不知这离别之因,却以柔和言辞抚慰他:那位为一切虔敬顶礼的众生焚尽生死炽热之苦者。
Verse 22
श्रीपार्वत्युवाच । तव सर्वग सर्वमस्ति हस्ते विलसद्योग वियोग एव कस्ते । तव भूतिरहो विभूतिदात्री सकलापत्कलिकापि भूतधात्री
圣帕尔瓦蒂说道:“遍在之主啊,一切皆在你手中——合与离亦然。谁能令你有‘离别’?你的神力赐予诸般神通成就;它支撑灾厄的黑暗时代,也护持一切众生。”
Verse 23
त्वदनीक्षणतः क्षणाद्विभो प्रलयं यांति जगंति शोच्यवत् । च्यवते भवतः कृपालवादितरोपीशनयस्त्वयोंकृतः
“大主啊,若你不垂一瞥,诸世界顷刻便陷于毁灭,令人哀怜。离了你慈悲的一滴甘露,纵有他‘主宰’也不能立足——一切主权唯由你所安立。”
Verse 24
भवतः परितापहेतवो न भवंतींदु दिवाकराग्नयः । नयनानियतस्त्रिनेत्र तेऽमी प्रणयिन्यस्तिलसज्जला च मौलौ
对你而言,月亮、太阳与火焰都不是灼热苦恼的因。噢三眼者,你的眼目不受拘束;在你头顶的发髻上,黑如芝麻油的夜与清凉恩泽的明净之水,皆如挚爱的饰物安住。
Verse 25
भुजगाभुजगाः सदैव तेऽमी न विषं संक्रमते च नीलकंठ । अहमस्मि च वामदेव वामा तव वामंवपुरत्र चित्तयुक्ता
噢尼罗迦ṇṭha(青颈者),这些蛇恒常盘绕在你身上,然而它们的毒并不侵入你。至于我——你的爱侣,噢瓦摩提婆——此刻在此,心念系于你的左侧,与您吉祥之身相合。
Verse 26
इति संसृतिसंबीजजनन्याभिहिते हिते । गिरां निगुंफे गिरिशो वक्तुमप्याददे गिरम्
当她——生起轮回之种的母者——如此说出有益之言,言辞如花鬘般编织成串时,吉利沙(湿婆)便开口答复。
Verse 27
ईश्वर उवाच । अयि काशीत्यष्टमूर्तिर्भवो भावाष्टकोभवत् । सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः
自在天说道:“噢湿婆耶,当‘迦尸!’这一呼名一生起,婆伐(湿婆)便成八相之主,显现为八重存在之态。因此,噢知晓湿婆者,诃罗必定立刻被牵引向迦尸。”
Verse 28
अथबालसखी भूत तत्तत्काननवीरुधम् शिवाप्रस्तावयांचक्रे विमुक्तां मुक्तिदां पुरीम्
随后,她(帕尔瓦蒂)仿佛化作一位年少的同伴,便开始提起并描绘那座城——迦尸——自性解脱、亦赐解脱之都,环绕于种种林木与藤蔓之间。
Verse 29
पार्वत्युवाच । गगनतलमिलितसलिले प्रलयेपि भव त्रिशूलपरि विधृताम् । कृतपुंडरीकशोभां स्मरहरकाशीं पुरीं यावः
帕尔瓦蒂说道:“噢,婆伐啊,即使在宇宙大劫毁灭之时,诸水漫至天穹,也让我们前往迦尸——由你的三叉戟高擎——莲华般光辉灿然,噢,诛灭爱神斯摩罗者。”
Verse 30
धराधरेंद्रस्य धरातिसुंदरा न मां तथास्यापि धिनोति धूर्जटे । धरागतापीह न या ध्रुवंधरा पुरीधुरीणा तव काशिका यथा
噢,杜尔阇提啊,即便是山王之主那极其秀美的国土,也不能如迦湿迦那般令我欢悦——那是你最尊胜的城,坚固不移、无与伦比,虽同样安住于大地之上。
Verse 31
न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः । न यत्र काश्यां कलुषोद्भवं भयं कथं विभो सा नयनातिथिर्भवेत्
在迦尸,没有由迦梨时代生起的恐惧;在迦尸,死后不再轮回;在迦尸,没有由垢染而起的怖畏。噢,主宰啊,那座城怎能不成为我双眼所珍爱的来客?
Verse 32
किमत्र नो संति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः । परं न काशी सदृशीदृशोः पदं क्वचिद्गता मे भवता शपे शिव
此处岂不有千百城邑——步步皆是圆满富饶之地?然而,没有一座能如迦尸,乃双目所归之境。若我曾说过相反之语,噢,湿婆啊,愿你责我其过。
Verse 33
त्रिविष्टपे संति न किं पुरः शतं समस्तकौतूहलजन्मभूमयः । तृणी भवंतीह च ताः पुरःपुरः पदं पुरारे भवतो भवद्विषः
在三十三天(Triviṣṭapa)中,岂不有百座城邑,皆为万般奇妙之所生?然而在此,它们一座接一座都如草芥般微末,立于你那境地之前,噢,破城者(Purāri)——立于你的迦尸之前,噢,摧伏婆伐之敌者。
Verse 34
न केवलं काशिवियोगजो ज्वरः प्रबाधते त्वां तु तथा यथात्र माम् । उपाय एषोत्र निदाघशांतये पुरी तु सा वा ममजन्मभूरथ
折磨你的不只是与迦尸(Kāśī)离别所生的热病;它对我的煎迫更甚。此处有一法可息此炎热:让我们前往那座圣城——无论它是否为我的出生之地。
Verse 35
मया न मेने ममजन्मभूमिका वियोगजन्मा परिदाघईशितः । अवाप्यकाशीं परितः प्रशांतिदां समस्तसंतापविघातहेतुकाम्
我未曾料到,与我出生之地离别所生的灼痛竟如此强烈难制;然而一旦抵达赐予圆满寂静的迦尸(Kāśī),它便成为摧破一切苦恼的因缘。
Verse 36
न मोक्षलक्ष्म्योत्र समक्षमीक्षितास्तनूभृता केनचिदेव कुत्रचित् । अवैम्यहं शर्मद सर्वशर्मदा सरूपिणी मुक्तिरसौ हि काशिका
在别处,具身众生从未如此直接地见到“解脱之福”。我已明了:迦尸迦(Kāśikā)自身——赐乐者、万善之源——正是以可见之形显现的解脱。
Verse 37
न मुक्तिरस्तीह तथा समाधिना स्थिरेंद्रियत्वोज्झित तत्समाधिना । क्रतुक्रियाभिर्न न वेदविद्यया यथा हि काश्यां परिहाय विग्रहम्
如此的解脱,在他处并不能由那种缺乏真实根稳之定(samādhi)而得;也不由祭祀、仪轨之行,乃至吠陀学识而得;唯如在迦尸(Kāśī)舍离此身,方能如是成就。
Verse 38
न नाकलोके सुखमस्ति तादृशं कुतस्तु पातालतलेऽतिसुंदरे । वार्तापि मर्त्ये सुखसंश्रया क्व वा काश्यां हि यादृक्तनुमात्रधारिणि
如此之乐,天界亦不可得,更何况在极其瑰丽的波多罗(Pātāla)之地。于人间尘世,又何处能谈及如迦尸(Kāśī)这般的喜乐,纵使只是具此一身者亦然?
Verse 39
क्षेत्रे त्रिशूलिन्भवतोऽविमुक्ते विमुक्तिलक्ष्म्या न कदापि मुक्ते । मनोपि यः प्राणिवरः प्रयुंक्ते षडंगयोगं स सदैव युंक्ते
在你那不离弃的圣域阿毗穆克塔中,哦持三叉戟者,解脱之福从不缺失。即使众生中最殊胜者,只要将心安住于彼处,实则恒常与六支瑜伽相应。
Verse 40
षडंगयोगान्नहि तादृशी नृभिः शरीरसिद्धिः सहसात्र लभ्यते । सुखेन काशीं समवाप्य यादृशीदृशौ स्थिरीकृत्य शिव त्वयि क्षणम्
凭六支瑜伽,此等成就并非世人于此处能迅速得之;然而只要安然抵达迦尸,并将双目哪怕片刻定住于你,哦湿婆,同样的圆满便可获得。
Verse 41
वरं हि तिर्यक्त्वमबुद्धिवैभवं न मानवत्वं बहुबुद्धिभाजनम् । अकाशिसंदर्शननिष्फलोदयं समंततः पुष्करबुद्बुदोपमम्
诚然,宁可为缺乏智慧之财的禽兽,也胜过虽具多智却为人;若因未得瞻见迦尸而终无成果,其生起尽如水上泡影,转瞬即灭。
Verse 42
दृशौ कृतार्थे कृतकाशिदर्शने तनुःकृतार्था शिवकाशिवासिनी । मनःकृतार्थं धृतकाशिसंश्रयं मुखं कृतार्थं कृतकाशिसंमुखम्
得见迦尸,双目遂得圆满;居住于湿婆之迦尸,身亦得圆满。依止迦尸,心便得圆满;面向迦尸,容颜亦得圆满。
Verse 43
वरं हि तत्काशिरजोति पावनं रजस्तमोध्वंसि शशिप्रभोज्ज्वलम् । कृतप्रणामैर्मणिकर्णिका भुवे ललाटगंयद्बहुमन्यते सुरैः
迦尸之尘实为吉祥:至极清净,摧灭罗阇与昏暗(惰性),皎然如月光。在人间的摩尼迦耳尼迦,那因顶礼而沾至额上的尘土,连诸天亦深加敬仰。
Verse 44
न देवलोको न च सत्यलोको न नागलोको मणिकर्णिकायाः । तुलां व्रजेद्यत्र महाप्रयाणकृच्छ्रुतिर्भवेद्ब्रह्मरसायनास्पदम्
无论天界、真谛天(Satyaloka),还是那伽之域,都不能与摩尼迦耳尼迦(Maṇikarṇikā)相比;在那里,连艰难的“伟大离去”也仿佛成为由《闻传》(śruti)所证成的道路,因为此处是梵(Brahman)甘露的安住之所。
Verse 45
महामहोभूर्मणिकर्णिकास्थली तमस्ततिर्यत्र समेति संक्षयम् । परः शतैर्जन्मभिरेधितापि या दिवाकराग्नींदुकरैरनिग्रहा
摩尼迦耳尼迦(Maṇikarṇikā)广大庄严、光辉灿然,是连黑暗之聚也在此归于消亡的圣地。纵使那黑暗历经百生而愈发强盛,也无法抵御此处如日、如火、如月般的光明之制伏。
Verse 46
किमु निर्वाणपदस्य भद्रपीठं मृदुलं तल्पमथोनुमोक्षलक्ष्म्याः । अथवा मणिकर्णिकास्थली परमानंदसुकंदजन्मभूमिः
摩尼迦耳尼迦(Maṇikarṇikā)岂不正是涅槃境界的吉祥宝座、柔和的安息之榻?抑或它正是解脱(mokṣa)福德的诞生处,是至上安乐(ānanda)与真实喜悦的源地?
Verse 47
समतीतविमुक्तजंतुसंख्या क्रियते यत्र जनैः सुखोपविष्टैः । विलसद्द्युति सूक्ष्मशर्कराभिः स्ववपुःपातमहोत्सवाभिलाषैः
在那里,人们安然端坐,仿佛在点算已得解脱的众生之数:那是由闪耀微光的细小砂粒所标记;而他们心中渴望着“舍离此身”的大庆典——在迦尸(Kāśī)圆寂之时。
Verse 48
स्कंद उवाच । अपर्णापरिवर्ण्येति पुरीं वाराणसीं मुने । पुनर्विज्ञापयामास काशीप्राप्त्यै पिनाकिनम्
斯坎达(Skanda)说道:圣者啊,如此描绘了婆罗那西(Vārāṇasī)之城后,阿帕尔那(Aparṇā,即帕尔瓦蒂 Pārvatī)又一次向持弓者毗那迦(Pinākin,即湿婆 Śiva)陈请,愿得抵达迦尸(Kāśī)。
Verse 49
श्रीपार्वत्युवाच । प्रमथाधिप सर्वेश नित्यस्वाधीनवर्तन । यथानंदवनं यायां तथा कुरु वरप्रद
圣帕尔瓦蒂说道:噢,普罗摩塔众之主,万有之主,恒常自持而行的主宰——赐福者啊,请安排使我得以前往难陀林(Nandavana)。
Verse 50
स्कन्द उवाच । जितपीयूषमाधुर्यां काशीस्तवनसुंदरीम् । अथाकर्ण्याहमुदितो गिरिशो गिरिजां गिरम्
斯坎达说道:听到吉丽迦(Girijā)之言——赞颂迦尸(Kāśī)而华美,甘甜胜于甘露——吉利沙(湿婆)便大为欢喜。
Verse 51
श्रीदेवदेव उवाच । अयि प्रियतमे गौरि त्वद्वा गमृतसीकरैः । आप्यायितोस्मि नितरां काशीप्राप्त्यै यतेधुना
诸神之主说道:噢,我最亲爱的高丽(Gaurī),你言语中的甘露点滴使我深深滋润、焕然。故而如今,我将为你而努力,使你得至迦尸(Kāśī)。
Verse 52
त्वं जानासि महादेवि मम यत्तन्महद्व्रतम् । अभुक्तपूर्वमन्येन वस्तूपाश्नामि नेतरत्
你知道,噢,大女神,这是我的大誓愿:我只享用那未曾被他人享受过之物;除此之外,决不为之。
Verse 53
पितामहस्य वचनाद्दिवोदासे महीपतौ । धर्मेण शासति पुरीं क उपायो विधीयताम्
既因祖父神(梵天 Brahmā)之命,国王提沃达萨(Divodāsa)以正法(dharma)治理此城——如今当设何策?
Verse 54
कथं स राजा धर्मिष्ठः प्रजापालनतत्परः । वियोज्यते पुरः काश्या दिवोदासो महीपतिः
那位最守正法、专心护持臣民的国王——大地之主提婆陀娑(Divodāsa)——怎能被迫离开圣城迦尸(Kāśī)呢?
Verse 55
अधर्मवर्तिनो यस्माद्विघ्नः स्यान्नेतरस्य तु । तस्मात्कं प्रेषयामीशे यस्तं काश्या वियोजयेत्
既然障碍只会降临于行于非正法(adharma)者,而不临于正直之人;因此,主啊,我将派遣一位能使他离开迦尸(Kāśī)的人。
Verse 56
धर्मवर्त्मानुसरतां यो विघ्नं समुपाचरेत् । तस्यैव जायते विघ्नः प्रत्युत प्रेमवर्धिनि
凡欲对随行正法之道者施加障碍的人,那障碍唯独在他自身生起;而且到最后,反倒增长了信众的爱与坚固。
Verse 57
विनाच्छिद्रेण तं भूपं नोत्सादयितुमुत्सहे । मयैव हि यतो रक्ष्याः प्रिये धर्मधुरंधराः
若不寻得破绽,我便无力倾覆那位国王;因为那些坚毅承荷正法的人,确应由我亲自护持,亲爱的。
Verse 58
न जरा तमतिक्रामेन्न तं मृत्युर्जिर्घांसति । व्याधयस्तं न बाधंते धर्मवर्त्मभृदत्रयः
衰老不能追及他,死亡也不欲击倒他;诸病不来侵扰他——他承持正法之道,无所畏惧。
Verse 59
इति संचिंतयन्देवो योगिनीचक्रमग्रतः । ददर्शातिमहाप्रौढं गाढकार्यस्य साधनम्
神如此思惟,立于瑜伽女众之轮前,见到一极其雄强可畏之法门,足以成就那艰难之事。
Verse 60
अथ देव्या समालोच्य व्योमकेशो महामुने । योगिनीवृंदमाहूय जगौ वाक्यमिदं हरः
随后,维摩髻舍(Vyomakeśa)与女神商议毕——大圣者啊——召集瑜伽女众,哈罗(Hara)便说出如下言辞。
Verse 61
सत्वरं यात योगिन्यो मम वाराणसीं पुरीम् । यत्र राजा दिवोदासो राज्यं धर्मेण शास्त्यलम्
瑜伽女众啊,速往我之城瓦拉纳西;彼处天赐王(Divodāsa)依正法(dharma)圆满治理其国。
Verse 62
स्वधर्मविच्युतः काशीं यथा तूर्णं त्यजेन्नृपः । तथोपचरत प्राज्ञा योगमायाबलान्विताः
智者瑜伽女众啊,凭藉瑜伽幻力(yogamāyā)行事,使那国王一旦背离其本分之法,便迅速舍离迦尸(Kāśī)。
Verse 63
यथा पुनर्नवीकृत्य पुरीं वाराणसीमहम् । इतः प्रयामि योगिन्यस्तथा क्षिप्रं विधीयताम्
瑜伽女众啊,速速筹办:待我将瓦拉纳西之城重新整饬复兴之后,便可自此离去。
Verse 64
इति प्रसादमासाद्य शासनं शिरसा वहन् । कृतप्रणामो निर्यातो योगिनीनां गणस्ततः
如是得蒙其恩,顶戴其命令于首,那群瑜伽女众礼敬稽首之后,遂即离去。
Verse 65
ययुराकाशमाविश्य मनसोप्य तिरंहसा । परस्परं भाषमाणा योगिन्यस्ता मुदान्विताः
那些瑜伽女众欢喜充满,入于虚空,疾行如意念之速,彼此交谈而行。
Verse 66
अद्य धन्यतराः स्मो वै देवदेवेन यत्स्वयम् । कृतप्रसादाः प्रहिताः श्रीमदानंदकाननम्
“今日我等实为最有福者:诸神之神亲自垂恩,遣我等往那辉煌的阿难陀迦那那——喜乐之林。”
Verse 67
अद्य सद्यो महालाभावभूतां नोतिदुर्लभौ । त्रिनेत्रराजसंमानस्तथा काशी विलोकनम्
“今日我等顷刻得二大福报,赖其恩德并不难得:三眼王所赐之尊荣,以及得见迦尸之吉祥圣观。”
Verse 68
इति मुदितमनाः स योगिनीनां निकुरंवस्त्वथमंदराद्रिकुंजात् । नभसि लघुकृतप्रयाणवेगो नयनातिथ्यमलंभयत्पुरीं ताम्
如是心怀欢悦,那群瑜伽女众自曼陀罗山的林苑出发;在虚空中轻捷其行速,不久便得那圣城的清净“眼之宾客”——吉祥的瞻礼——迦尸。