Adhyaya 4
Brahma KhandaBrahmottara KhandaAdhyaya 4

Adhyaya 4

苏多开篇宣说一段“非凡”的事迹,彰显湿婆(Śiva)的伟大:对沉溺于感官境界者而言,礼敬湿婆(Śiva-pūjā)是渡越“罪业之海”的决定性法门。 本章叙述基拉塔(Kirāta)地区的毗摩尔达那王(Vimardana):虽性情暴烈、行止放纵,却常行湿婆供奉,尤重每月明半月与暗半月的第十四日——“十四日”(caturdaśī),并以歌舞庆赞。王后俱牟陀伐底(Kumudvatī)疑其行与信相违,国王遂以前生业余解释:他曾为一犬,觅食时屡次绕行湿婆庙作右绕(pradakṣiṇā),后被驱逐并遭击打,死于庙门;因亲近圣所与反复右绕之功,得生王族。又言其具“三时智”(tri-kāla-jñatva,知过去、现在、未来),乃因曾得见十四日供奉与燃灯庆典之缘。 国王亦述王后前生为一飞鸽,避猛禽追袭,绕行湿婆神龛而死于其处,故今得王后之身。继而预言二人将于多国共受再生,终至出离为修行者,蒙阿伽斯提耶(Agastya)授予梵智(brahma-jñāna),并同证湿婆至上住处。章末功德偈(phalaśruti)宣称:闻此或诵此“摩诃特弥”(māhātmya)者,得至最高境界。

Shlokas

Verse 1

सूत उवाच । भूयोपि शिवमाहात्म्यं वक्ष्यामि परमाद्भुतम् । शृण्वतां सर्वपापघ्नं भवपाशविमोचनम्

苏多说道:我将再宣说湿婆最为奇妙的伟大;闻之则诸罪尽灭,轮回之缚亦得解脱。

Verse 2

दुस्तरे दुरितांभोधौ मज्जतां विषयात्मनाम् । शिवपूजां विना कश्चित्प्लवो नास्ति निरूपितः

在难以渡越的罪业大海中,沉溺于诸欲境者正下沉;除礼敬湿婆之外,未曾宣说另有舟筏。

Verse 3

शिवपूजां सदा कुर्याद्बुद्धिमानिह मानवः । अशक्तश्चेत्कृता पूजां पश्येद्भक्तिविनम्रधीः

在此世间,智者当恒常修行对湿婆的礼拜;若力不能及,则应以恭敬信心谦下其意,至少观礼他人所行之供奉。

Verse 4

अश्रद्धयापि यः कुर्याच्छिवपूजां विमुक्तिदाम् । पश्येद्वा सोपि कालेन प्रयाति परमं पदम्

即使有人无信而行能解脱的湿婆礼拜——乃至仅仅目睹此礼拜——他也终将随时日推移而证得至上境界。

Verse 5

आसीत्किरातदेशेषु नाम्ना राजा विमर्दनः । शूरः परमदुर्द्धर्षो जितशत्रुः प्रतापवान्

在基罗多诸地,有一位名为毗摩尔达那的国王:英勇无畏,难以征服,克敌制胜,威势赫然。

Verse 6

सर्वदा मृगयासक्तः कृपणो निर्घृणो बली । सर्वमांसाशनः क्रूरः सर्ववर्णांगनावृतः

他常沉溺于狩猎,吝啬而无慈,且力大;食尽诸肉,性情残酷,身边又环侍着各阶层的女子。

Verse 7

तथापि कुरुते शंभोः पूजां नित्यमतंद्रितः । चतुर्दश्यां विशेषेण पक्षयोः शुक्लकृष्णयोः

然而他仍日日不懈地礼敬商婆(湿婆),尤其在白分与黑分两半月的第十四日更为郑重。

Verse 8

महाविभवसंपन्नां पूजां कृत्वा स मोदते । हर्षेण महताविष्टो नृत्यति स्तौति गायति

他以盛大供养成就庄严礼拜,便心生欢喜;被无量喜悦所充满,遂起舞、赞颂、歌咏。

Verse 9

तस्यैवं वर्तमानस्य नृपतेः सर्वभक्षिणः । दुराचारस्य महिषी चेष्टितेनान्वतप्यत

那国王如此度日——饮食无所择、行止尽皆不义——其正妃因他的所作所为而被忧苦折磨。

Verse 10

सा वै कुमुद्वतीनाम राज्ञी शीलगुणान्विता । एकदा पतिमासाद्य रहस्ये तदपृच्छत

那位王后名为“俱慕陀伐底”(Kumudvatī),具足清净品德与诸般美德;一日她私下走近夫君,询问此事。

Verse 11

एतत्ते चरितं राजन्महदाश्चर्यकारणम् । क्व ते महादुराचारः क्व भक्तिः परमेश्वरे

“大王啊,你的行径实在令人惊异:你那极重的恶行在何处?你对至上主宰的虔敬又在何处?”

Verse 12

सर्वदा सर्वभक्षस्त्वं सर्वस्त्रीजनलालसः । सर्वहिंसापरः क्रूरः कथं भक्तिस्तवेश्वरे

“你常常饮食不择,贪恋一切女子,专事诸般伤害而性情残酷;如此之人,怎能对主怀有虔敬?”

Verse 13

इति पृष्टः स भूपालो विमृश्य सुचिरं ततः । त्रिकालज्ञः प्रहस्यैनां प्रोवाच सुकुतूहलः

国王被如此询问,便沉思良久;他通达三世,向她含笑,怀着兴味,开始作答。

Verse 14

राजोवाच । अहं पूर्वभवे कश्चित्सारमेयो वरानने । पंपानगरमाश्रित्य पर्यटामि समंततः

国王说道:“在前世,哦,容颜姣好者,我曾是一只狗。依止于彭帕城附近,我四方游走,遍历周遭。”

Verse 15

एवं कालेषु गच्छत्सु तत्रैव नगरोत्तमे । कदाचिदागतः सोहं मनोज्ञं शिवमंदिरम्

“岁月流转之时,就在那座上妙之城里,我有一次来到一座庄严可爱的湿婆神庙。”

Verse 16

पूजायां वर्तमानायां चतुर्दश्यां महातिथौ । अपश्यमुत्सवं दूराद्बहिर्द्वारं समाश्रितः

“当四月十四相(第十四日的月相)这一大圣日的礼拜正在进行时,我倚在外门处,从远处望见那场庆典。”

Verse 17

अथाहं परमक्रुद्धैर्दंडहस्तैः प्रधावितः । तस्माद्देशादपक्रांतः प्राणरक्षापरायणः

“随后,我被一些人怒不可遏、手执棍杖地追赶;我从那地方奔逃而去,一心只求保全性命。”

Verse 18

ततः प्रदक्षिणीकृत्य मनोज्ञं शिवमंदिरम् । द्वारदेशं पुनः प्राप्य पुनश्चैव निवारितः

“于是我绕行礼敬那座可爱的湿婆神庙,复又来到门前之处——却再次被驱逐退去。”

Verse 19

पुनः प्रदक्षिणीकृत्य तदेव शिवमन्दिरम् । बलिपिंडादिलोभेन पुनर्द्वारमुपागतः

他又一次绕行那座湿婆神庙作右绕礼,因贪恋供献的饭团等物,再次回到庙门前。

Verse 20

एवं पुनःपुनस्तत्र कृत्वा कृत्वा प्रदक्षिणाम् । द्वारदेशे समासीनं निजघ्नुर्निशितैः शरैः

他就这样一遍又一遍地绕行;当他在门旁坐下时,他们以锐利的箭矢射中他。

Verse 21

स विद्धगात्रः सहसा शिवद्वारि गतासुकः । जातोऽस्म्यहं कुले राज्ञां प्रभावाच्छिवसन्निधेः

他遍体被箭穿透,忽然在湿婆门前断气。因亲近湿婆之威德,我那时得生于王族之中。

Verse 22

दृष्ट्वा चतुर्दशीपूजां दीपमाला विलोकिताः । तेन पुण्येन महता त्रिकालज्ञोऽस्मि भामिनि

我曾目睹十四日月相之礼拜,又见灯盏成行;凭此广大功德,爱人啊,我得知三世之时。

Verse 23

प्राग्जन्मवासनाभिश्च सर्वभक्षोऽस्मि निर्घृणः । विदुषामपि दुर्लंघ्या प्रकृतिर्वासनामयी

由于前生潜藏的习气,我成了残忍无情、吞食一切者。由诸般欲习织成的本性,连智者也难以超越。

Verse 24

अतोऽहमर्चयामीशं चतुर्दश्यां जगद्गुरुम् । त्वमपि श्रद्धया भद्रे भज देवं पिनाकिनम्

因此我在月之第十四日礼敬主宰——世间之师。你也,贤淑的夫人,当以信心奉敬持弓之神毗那迦者(湿婆)。

Verse 25

राज्ञ्युवाच । त्रिकालज्ञोऽसि राजेन्द्र प्रसादाद्गिरिजापतेः । मत्पूर्वजन्मचरितं वक्तुमर्हसि तत्त्वतः

王后说道:“大王,承蒙吉丽迦之主(湿婆)恩典,你通达三世。故请如实为我宣说我前生的事迹。”

Verse 26

राजोवाच । त्वं तु पूर्वभवे काचित्कपोती व्योमचारिणी । क्वापि लब्धवती किंचिन्मां सपिंडं यदृच्छया

国王说道:“在前世,你曾是一只雌鸽,翱翔天际。某处因缘偶然,你得到了我——这一团肉块。”

Verse 27

त्वद्गृहीतमथालोक्य गृध्रः कोप्यामिषं बली । निरामिषः स्वयं वेगाभिदुद्राव भीषणः

它见你夺得那肉,一只强壮的秃鹫因贪肉而震怒;虽自身无食,却以迅疾之势猛冲而来,令人骇惧。

Verse 28

ततस्तं वीक्ष्य वित्रस्ता विद्रुतासि वरानने । तेनानुयाता घोरेण मांसपिंडजिघृक्षया

于是你见之惊惧,便奔逃,端颜者啊;那可怖之物为夺肉团而追逐你。

Verse 29

दिष्ट्या श्रीगिरिमासाद्य श्रांता तत्र शिवालयम् । प्रदक्षिणं परिक्रम्य ध्वजाग्रे समुपस्थिता

蒙福得幸,她抵达圣吉里(Śrīgiri);虽已疲惫,仍来到那里的湿婆圣殿。她恭敬地右绕行(pradakṣiṇa)一周后,侍立于殿前旗杆之下。

Verse 30

अथानुसृत्य सहसा तीक्ष्णतुंडो विहंगमः । त्वां निहत्य निपात्याधो मांसमादाय जग्मिवान्

随后,一只尖喙之鸟忽然追袭;它击倒你,杀死你,使你坠地,并叼走血肉而去。

Verse 31

प्रदक्षिणप्रक्रमणाद्देवदेवस्य शूलिनः । तस्याग्रे मरणाच्चैव जातासीह नृपांगना

因你为诸神之神、执三叉戟者(Śūlin)行右绕礼(pradakṣiṇa),又在他面前舍身而逝,你确已转生为王女,噢王族夫人。

Verse 32

राज्ञ्युवाच । श्रुतं सर्वमशेषेण प्राग्जन्मचरेितं मया । जातं च महदाश्चर्यं भक्तिश्च मम चेतसि । अथान्यच्छ्रोतुमिच्छामि त्रिकालज्ञ महामते । इदं शरीरमुत्सृज्य यास्यावः कां गतिं पुनः

王后说道:“我已完整听闻我等前生所行之事。巨大的惊异——以及虔敬——在我心中生起。如今,噢通达三世的智者,我还愿再闻一事:舍此身后,我们将再往何处归趋?”

Verse 33

राजोवाच । अतो भवे जनिष्येऽहं द्वितीये सैंधवो नृपः

国王说道:“在来世,我将投生为信度(Sindhu)之王,于那第二次的生命之中。”

Verse 34

सृंजयेशसुता त्वं हि मामेव प्रतिपत्स्यसे । तृतीये तु भवे राजा सौराष्ट्रे भविताऽस्म्यहम्

你将作为斯林伽耶诸王之主的女儿,必定再次归于我、以我为夫。至于第三世,我将生为索罗湿多罗的国王。

Verse 35

कलिंगराजतनया त्वं मे पत्नी भविष्यसि । चतुर्थे तु भविष्यामि भवे गांधारभूमिपः

你将作为迦陵伽国王之女,成为我的妻子。至于第四世,我将成为乾陀罗之地的统治者。

Verse 36

मागधी राजतनया तत्र त्वं मम गेहिनी । पंचमेऽवंतिनाथोऽहं भविष्यामि भवांतरे

在那里,你将作为摩揭陀国王之女,成为我的妻室。于另一轮生存之中,在第五世,我将成为阿槃提之主。

Verse 37

दाशार्हराजतनया त्वमेव मम वल्लभा । अस्माज् जन्मनि षष्ठेऽहमानर्ते भविता नृपः

你将作为达沙尔哈国王之女,唯独你是我所钟爱的。于此生生世世之序列中,在第六世,我将成为阿那尔多的国王。

Verse 38

ययातिवंशजा कन्या भूत्वा मामेव यास्यसि । पांड्यराजकुमारोऽहं सप्तमे भविता भवे

当你成为出自耶耶提族系的少女时,你将再次只归向我。至于第七世,我将生为般荼耶国王的王子。

Verse 39

तत्र मत्सदृशो नान्यो रूपौदार्यगुणादिभिः । सर्वशास्त्रार्थतत्त्वज्ञो बलवान्दृढविक्रमः

在那里,无人能在容貌、尊贵与德行上与我相比。他通达一切《沙斯特拉》(śāstra)的真实旨趣与精髓,威力雄健,勇武坚定不移。

Verse 40

सर्वलक्षणसंपन्नः सर्वलोकमनोरमः । पद्मवर्ण इति ख्यातः पद्ममित्रसमद्युतिः

他具足一切吉祥相,令诸世界皆欢悦;以“莲色”(Padmavarṇa)之名著称,光辉灿然,堪与其莲华般的友者同辉。

Verse 41

भविता त्वं च वैदर्भी रूपेणाप्रतिमा भुवि । नाम्ना वसुमती ख्याता रूपावयवशोभिनी

而你,毗陀婆(Vidarbha)的公主,将在大地上美貌无双;你将以“瓦苏玛蒂”(Vasumatī)之名闻世,四肢百体皆具庄严光彩。

Verse 42

सर्व राजकुमाराणां मनोनयननंदिनी । सा त्वं स्वयंवरे सर्वान्विहाय नृपनंदनान्

你令诸王子心悦目赏;在自择婚(svayaṃvara)之时,你将舍弃所有那些王子。

Verse 43

वरं प्राप्स्यसि मामेव दमयंतीव नैषधम् । सोऽहं जित्वा नृपान्सर्वान्प्राप्य त्वां वरवर्णिनीम्

你将选择我为夫,如同达摩延蒂(Damayantī)选择奈沙陀(Naiṣadha)之王。我将战胜诸王,赢得你——肤色姝美者——并迎你归我。

Verse 44

स्वराष्ट्रस्थोऽखिलान्भोगान्भोक्ष्ये वर्षगणान्बहून् । इष्ट्वा च विविधैर्यज्ञैर्वाजिमेधादिभिः शुभैः

安住于我自己的国土之中,我将多年享受一切王者之乐;并以种种吉祥祭祀奉行敬礼——如马祭(Aśvamedha)等。

Verse 45

संतर्प्य पितृदेवर्षीन्दानैश्च द्विजसत्तमान् । संपूज्य देवदेवेशं शंकरं लोकशंकरम्

既以供养使祖灵(Pitṛ)、诸天与圣仙(ṛṣi)满足,又以布施令最上婆罗门欢喜;并如法礼敬圣主之主、护世赐福的商羯罗(Śaṅkara)。

Verse 46

पुत्रे राज्यधुरं न्यस्य गंतास्मि तपसे वनम् । तत्रागस्त्यान्मुनिवराद्ब्रह्मज्ञानमवाप्य च

将王权重担托付于我之子后,我将入林修苦行(tapas);并在彼处从大圣者阿伽斯提耶(Agastya)得证梵(Brahman)之智。

Verse 47

त्वया सह गमिष्यामि शिवस्य परमं पदम् । चतुर्दश्यां चतुर्दश्यामेवं संपूज्य शंकरम्

我将与你同往湿婆(Śiva)的至上住处——如此在每一个十四日(caturdaśī)都礼拜商羯罗(Śaṅkara)。

Verse 48

सप्तजन्मसु राजस्त्वं भविष्यति वरानने । इत्येतत्सुकृतं लब्धं पूज़ादर्शनमात्रतः । क्व सारमेयो दुष्टात्मा क्वेदृशी बत सङ्गतिः

美颜者啊,汝于七生之中当为王。仅仅得见礼拜之相,便可获此善业。恶心之犬何在?如此圣善之缘又何其相称!

Verse 49

सूत उवाच । इत्युक्तो निजनाथेन सा राज्ञी शुभलक्षणा

苏多说道:被自己的夫主如此告诫,那位具吉祥相的王后恭敬专注地聆听。

Verse 50

परं विस्मयमापन्ना पूजयामास तं मुदा । सोऽपि राजा तया सार्द्धं भुक्त्वा भोगान्यथेप्सितान्

她为大惊异所摄,欢喜地礼敬供养于他。那位国王也与她同享所愿之乐。

Verse 51

जगाम सप्तजन्मांते शंभोस्तत्परमं पदम् । य एतच्छिवपूजाया माहात्म्यं परमाद्भुतम् । शृणुयात्कीर्तयेद्वापि स गच्छेत्परमं पदम्

历经七生之终,她往至商婆(Śambhu)的至上住处。凡闻听——乃至称扬——此最奇妙的湿婆礼拜功德者,亦得至上境界。