Adhyaya 32
Rudra SamhitaYuddha KhandaAdhyaya 3235 Verses

शिवदूतस्य शङ्खचूडकुलप्रवेशः — The Śiva-Envoy’s Entry into Śaṅkhacūḍa’s City

第三十二章中,善那特库玛罗叙述:为顺应诸天之愿与时运渐暗之“迦罗”(kāla)的推动,摩诃伊湿伐罗决意促成商迦楚陀(Śaṅkhacūḍa)之死。湿婆任命并派遣使者——名为普什帕丹塔(Puṣpadanta)的湿婆之使(dūta)——速往商迦楚陀处。使者奉主命前行,抵达阿修罗之城;其繁华被描绘为胜过因陀罗之城,亦超越俱毗罗之居。入城中心,使者见商迦楚陀宫殿,十二门森严,门卫守护。使者无惧陈明来意,获准入内,观其殿宇广阔、装饰精妙。继而见商迦楚陀端坐宝石宝座,处于武备集会之中,周围环列达那婆诸王与浩大武装军众。普什帕丹塔惊叹之余,庄重致辞于“国王”,自陈为湿婆使者,并宣示商羯罗(Śaṅkara)之讯息,为随后的外交对峙与走向战事的升级铺陈。

Shlokas

Verse 1

सनत्कुमार उवाच । अथेशानो महारुद्रो दुष्टकालस्सतांगतिः । शंखचूडवधं चित्ते निश्चिकाय सुरेच्छया

萨那特库玛罗说道:其时,伊湿那——大鲁陀罗,惩治恶徒、庇护善者之归依处——依诸天之愿,于心中决意成就诛灭商卡楚达(Śaṅkhacūḍa)之事。

Verse 2

दूतं कृत्वा चित्ररथं गंधर्वेश्वरमीप्सितम् । शीघ्रं प्रस्थापयामास शंखचूडांतिके मुदा

他拣选奇特拉拉塔(Citraratha)——所心许的乾闼婆之主——为使者,欢喜之中迅速遣往商卡楚达面前。

Verse 3

सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः । महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्

奉至上主宰之命,使者启程而至那座城——其辉煌胜过因陀罗之都,甚至超越俱毗罗的天宫宝宅。

Verse 4

गत्वा ददर्श तन्मध्ये शंखचूडालयं वरम् । राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम्

他到达那里,见其中央有善伽俱陀(Śaṅkhacūḍa)辉煌的宫殿,装饰着十二道门,并配有守门之卫。

Verse 5

स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः । कथयामास वृत्तांतं द्वारपालाय निर्भयः

见到此景,普什帕丹塔看见那殊胜的门阙;他无所畏惧,便将所发生的一切始末尽数告知守门者。

Verse 6

अतिक्रम्य च तद्द्वारं जगामाभ्यंतरे मुदा । अतीव सुन्दरं रम्यं विस्तीर्णं समलंकृतम्

越过那道门,他欢喜地进入其内,见到里面极其华美、悦意、宽广之处,处处庄严,装饰周备。

Verse 7

स गत्वा शंखचूडं तं ददर्श दनुजाधिपम् । वीरमंडल मध्यस्थं रत्नसिंहासनस्थितम्

到达那里,他看见商迦楚陀(Śaṅkhacūḍa),为达那婆众之主——端坐于宝石王座之上,立于勇士环列的中央。

Verse 8

दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः । शतः कोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रपाणिभिः

他被诸达那婆之王环绕,三俱胝战士侍从左右;又有百俱胝之众同在,手执兵刃,往来游走。

Verse 9

एवंभूतं च तं दृष्ट्वा पुष्पदंतस्सविस्मयः । उवाच रणवृत्तांतं यदुक्तं शंकरेण च

见他处于如此非凡之状,普湿波檀多惊叹不已,便将整场战事的经过一一叙述,正如商羯罗(主湿婆)所宣说的那样。

Verse 10

पुष्पदंत उवाच । राजेन्द्र शिवदूतोऽहं पुष्पदंताभिधः प्रभो । यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते

普施波檀多说道:“噢,万王之王,噢,主宰,我乃湿婆之使者,名为普施波檀多。请听商羯罗亲口所言——我将为你宣告。”

Verse 11

शिव उवाच । राज्यं देहि च देवानामधिकारं हि सांप्रतम् । नोचेत्कुरु रणं सार्द्धं परेण च मया सताम्

湿婆说道:“将国权归还诸天,因为他们正当的权柄如今必须重立。否则,便入于战阵——与汝至上的盟友同往——来面对我;我与正义之士同立。”

Verse 12

देवा मां शरणापन्ना देवेशं शंकरं सताम् । अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम्

“诸天已来投我为庇护——投向我商羯罗,天众之主,贤善所敬的吉祥者。如今我,大鲁陀罗,怒火炽然;我必定诛灭汝,毫无疑虑。”

Verse 13

हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम् । खलदंडधरोऽहं वै शरणागतवत्सलः

“我即哈罗(湿婆)。诚然,我已赐诸天无畏。我是执杖惩恶的裁罚者;而对归投于我的众生,我恒常慈爱护念。”

Verse 14

राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् । तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै

“你是要交出王国,还是要发动战争?说出真相——在深思之后二择其一吧,哦,达那婆之主。”

Verse 15

पुष्पदंत उवाच । इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् । वितथं शंभुवाक्यं न कदापि दनुजाधिप

普湿波檀多说道:“大自在天(摩诃湿伐罗,主湿婆)对你所说之语,我已如实转告。噢,檀那婆之主,商婆之言从不虚妄。”

Verse 16

अहं स्वस्वामिनं गंतुमिच्छामि त्वरितं हरम् । गत्वा वक्ष्यामि किं शंभोस्तथा त्वं वद मामिह

我愿迅速前往我自己的主宰——诃罗。到达之后,我将向商婆禀告当说之语;因此,请你就在此处明明白白告诉我,要我转达什么讯息。

Verse 17

सनत्कुमार उवाच । इत्थं च पुष्पदंतस्य शिवदूतस्य सत्पतेः । आकर्ण्य वचनं राजा हसित्वा तमुवाच सः

萨那特库玛罗说道:国王如此听罢普湿波檀多——那位高贵的湿婆使者——的话语,便大笑起来,继而对他说道。

Verse 18

शंखचूड उवाच । राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा । रणं दास्यामि ते रुद्र देवानां पक्षपातिने

商迦楚陀说道:“我决不把国土让给诸天;此大地当为英雄所享。然对你,噢鲁陀罗——偏护诸天者——我将赐你一场战斗。”

Verse 19

यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः । अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम्

凡是抢在他人之前并自称为英雄的人,在这个世界上是最低贱的人。因此,噢,鲁德拉,我将走在你的前面——这是毫无疑问的。

Verse 20

प्रभात आगमिष्यामि वीरयात्रा विचारतः । त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम

“拂晓之时我将前来,已如理思量诸勇士行军之事。你现在就去,将我这番话原原本本禀告鲁陀罗(Rudra)。”

Verse 21

इति श्रुत्वा शंखचूडवचनं सुप्रहस्य सः । उवाच दानवेन्द्रं स शंभुदूतस्तु गर्वितम्

听罢商迦楚陀(Śaṅkhacūḍa)之言,他微微含笑;随后,商布(Śambhu)之使者对那傲慢的达那婆(Dānava)之主开口说道。

Verse 22

अन्येषामपि राजेन्द्र गणानां शंकरस्य च । न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम्

大王之最胜者啊,他连在商羯罗(Śaṅkara)的其他伽那(gaṇa)面前对立而立都不配;更何况要直面商羯罗本尊!

Verse 23

स त्वं देहि च देवानामधिकाराणि सर्वशः । त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि

因此,你必须将诸天的正当权柄与职分尽数归还。嗟乎仇敌,若欲保命,便下入钵多罗(Pātāla)去。

Verse 24

सामान्यममरं तं नो विद्धि दानवसत्तम । शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः

噢,诸达那婆中最卓越者,当知彼并非寻常“长生者”。因为商羯罗(湿婆)实为至上真我,是一切之上的主宰之主。

Verse 25

इन्द्राद्यास्सकला देवा यस्याज्ञावर्तिनस्सदा । सप्रजापतयस्सिद्धा मुनयश्चाप्यहीश्वराः

因陀罗及一切诸天,恒常依从那至上主宰的圣命而行;连同诸般生主(Prajāpati)、成就者(Siddha)与诸牟尼圣贤——乃至龙蛇之王(Nāga)亦皆处于祂的主权之下。

Verse 26

हरेर्विधेश्च स स्वामी निर्गुणस्सगुणस्स हि । यस्य भ्रूभंगमात्रेण सर्वेषां प्रलयो भवेत्

祂确是哈利(毗湿奴)与毗提(梵天)之上的主宰。祂既为离相无德(nirguṇa),亦为具相有德(saguṇa)。唯以眉间一蹙,便可令一切众生趋于大毁灭(pralaya)。

Verse 27

शिवस्य पूर्णरूपश्च लोकसंहारकारकः । सतां गतिर्दुष्टहंता निर्विकारः परात्परः

祂是湿婆圆满无缺的显现,亦是世界毁灭之业的执行者。祂是善人之归依与究竟归宿;是恶者之诛灭者;不变无染,超越至高之上。

Verse 28

ब्रह्मणोधिपतिस्सोऽपि हरेरपि महेश्वरः । अवमान्या न वै तस्य शासना दानवर्षभ

祂是梵天之主,亦是哈利(毗湿奴)之上的大自在天(Maheśvara)。因此,噢,达那婆之雄杰,切莫轻慢或亵渎祂的圣命。

Verse 29

किं बहूक्तेन राजेन्द्र मनसा संविचार्य च । रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम्

何必多言,噢,大王?当于心中善加观照,了知鲁陀罗即是大自在主(Maheśāna)——至上梵(Brahman),其自性乃清净纯粹之觉知。

Verse 30

देहि राज्यं हि देवानामधिकारांश्च सर्वशः । एवं ते कुशलं तात भविष्यत्यन्यथा भयम्

把主权交还给诸天,并在各方面归还他们一切正当的权能。如此,孩子啊,你的安泰便可保全;否则,恐惧与危难将临到你。

Verse 31

सन्त्कुमार उवाच । इति श्रुत्वा दानवेंद्रः शंखचूडः प्रतापवान् । उवाच शिवदूतं तं भवितव्यविमोहितः

萨那特库玛罗说道:听罢此言,那威猛的达那婆之主——以武威著称的商迦楚陀——因宿命将至而心智蒙蔽,便对湿婆的使者开口说道。

Verse 32

शंखचूड उवाच । स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् । विना युद्धं महेशेन सत्यमेतद्ब्रवीम्यहम्

商迦楚陀说道:“我绝不自愿交出王国,也绝不放弃我的权利与特权——此乃我坚定的决意。若不与摩诃伊湿伐罗(主湿婆)一战,此事不能了结;我以真实之言如是宣告。”

Verse 33

कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम् । कालाद्भवति सर्वं हि विनश्यति च कालतः

当知整个宇宙——动与不动的一切——皆受时间(迦罗,Kāla)所统摄。万有由时间而生,亦由时间而灭。

Verse 34

त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत । स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो

你去见圣者商羯罗、鲁陀罗,如实转达我所说的一切。愿祂依正道而行,并将此事的详尽回报带回给我们。

Verse 35

सनत्कुमार उवाच । इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् । यथार्थं कथयामास पुष्पदंतश्च सन्मुने

萨纳特库马拉说:说完这些话,湿婆的使者回到了他自己的主人那里。噢,德高望重的圣人,普什帕丹塔随后如实陈述了事情的经过。

Frequently Asked Questions

Śiva dispatches his envoy Puṣpadanta to Śaṅkhacūḍa; the envoy enters the asura’s city and court and begins delivering Śaṅkara’s message—an explicit diplomatic prelude to the coming conflict.

The chapter frames kāla (time) and īśvara-ājñā (the Lord’s command) as coordinating forces: even immense asuric power and splendor remain contingent before the supreme will that restores dharma.

Śiva is highlighted as Īśāna/Mahārudra/Śaṅkara—sovereign commander and moral regulator—while Puṣpadanta functions as the embodied extension of Śiva’s authority through dūta-roles.