
第17章叙述萨蒂严守“难陀誓”(Nandā-vrata)的圆满。诸天赞叹之后,萨蒂于阿湿毗那月(Āśvina)白半月第八日(śukla-aṣṭamī)斋戒礼拜,专注入定。誓愿成就时,湿婆(哈罗,Hara)亲自显现(pratyakṣa),具足圣像特征:身色皎洁端严,五面三目,月轮为饰,圣灰光耀,四臂执三叉戟,并作护佑与赐福之印,顶上有恒河( Gaṅgā )。萨蒂谦恭礼敬,俯伏于其足下。湿婆称她为达克沙之女,赞许其誓行,并请她自择恩赐,虽已洞悉其内心所愿——彰显主的慈恩,以及在誓愿仪轨中明言所求的教化意义。梵天的叙述强调湿婆的主宰与引导之意。
Verse 1
ब्रह्मोवाच । इत्युक्त्वा सर्वदेवैश्च कृता शंभोर्नुतिः परा । शिवाच्च सा वरं प्राप्ता शृणु ह्यादरतो मुने
梵天说道:如是言毕,诸天众神便向商婆(圣主湿婆)献上至高的赞颂。她亦从湿婆处获得一项恩赐。圣者啊,请恭敬专注地聆听。
Verse 2
अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता । आश्विने मासि सर्वेशं पूजयामास भक्तितः
随后,萨蒂又在白半月第八日守持斋戒。于阿湿毗那月,她以至诚之心礼拜萨尔维沙——万有之主湿婆。
Verse 3
इति नंदाव्रते पूर्णे नवम्यां दिनभागतः । तस्यास्तु ध्यानमग्नायाः प्रत्यक्षमभवद्धरः
如是,当难陀誓戒圆满之时,于第九日白昼渐进之际,因她沉入禅观,负载万有者(湿婆)便在她面前亲自显现。
Verse 4
सर्वाङ्गसुन्दरो गौरः पंचवक्त्रस्त्रिलोचनः । चंद्रभालः प्रसन्नात्मा शितिकंठश्चतुर्भुज
他肢体无不端严,光辉皎洁;五面三目。额间饰以月轮;内心安宁而慈和。青颈四臂——此即人们所赞颂的湿婆圣主吉祥的有相(saguṇa)显现之身。
Verse 5
त्रिशूलब्रह्मकवराभयधृग्भस्मभास्वरः । स्वर्धुन्या विलसच्छीर्षस्सकलाङ्गमनोहरः
他以圣灰(毗布提)光耀,执三叉戟,具梵天之护佑,并现无畏印。天界恒河装点其顶髻,周身肢体之美皆令人神醉。
Verse 6
महालावण्यधामा च कोटिचन्द्रसमाननः । कोटिस्मरसमाकांतिस्सर्वथा स्त्रीप्रियाकृतिः
他是大美之光辉所栖之处;其面容如亿万明月。其魅力堪比亿万伽摩天,而其形相处处可喜,为众女所倾慕。
Verse 7
प्रत्यक्षतो हरं वीक्ष्य सती सेदृविधं प्रभुम् । ववन्दे चरणौ तस्य सुलज्जावनतानना
萨蒂亲见哈拉就在眼前——她自己的主宰如此显现——便含羞而端庄,微垂其面,以恭敬之心顶礼于其足下。
Verse 8
अथ प्राह महादेवस्सतीं सद्व्रतधारिणीम् । तामिच्छन्नपि भार्यार्थं तपश्चर्याफलप्रदः
于是大天(摩诃提婆)——赐予苦行果报者——对坚守善誓的萨蒂开口。虽欲纳她为妻,他仍以维护苦行(tap as)之清净与圆满的方式对她说道。
Verse 9
महादेव उवाच । दक्षनंदिनि प्रीतोस्मि व्रतेनानेन सुव्रते । वरं वरय संदास्ये यत्तवाभिमतं भवेत्
大天(摩诃提婆)说道:“噢,达叉所爱的女儿,噢,持守清净誓愿的贤善者,我因你此誓而欢喜。你当自选恩赐;你心中所愿,我必定赐予。”
Verse 10
ब्रह्मोवाच । जानन्नपीह तद्भावं महादेवो जगत्पतिः । जगौ वरं वृणीष्वेति तद्वाक्यश्रवणेच्छया
梵天说道:尽管大天(摩诃提婆)、诸界之主,早已知晓她此处的内心所愿,他仍说道:“选择一个恩赐吧”,只因渴望亲闻她自己的言辞。
Verse 11
सापि त्रपावशा युक्ता वक्तुं नो हृदि यत्स्थितम् । शशाक सा त्वभीष्टं यत्तल्लज्जाच्छादितं पुनः
她也被羞怯所制,无法说出心中所住之意。纵然想要表达,那珍爱的愿望又一次被羞涩遮蔽。
Verse 12
प्रेममग्नाऽभवत्साति श्रुत्वा शिववचः प्रियम् । तज्ज्ञात्वा सुप्रसन्नोभूच्छंकरो भक्तवत्सलः
听闻主湿婆那可爱之语,萨蒂全然沉入爱意之海。洞悉她的心,商羯罗——恒怜悯护念诸奉者者——极为欢喜。
Verse 13
वरं ब्रूहि वरं ब्रूहि प्राहेति स पुनर्द्रुतम् । सतीभक्तिवशश्शंभुरंतर्यामी सतां गतिः
他又急切地一再说道:“说出你的愿赐,说出你的愿赐!”因为商布虽为一切众生之内在主宰(内住者),却会因萨蒂的虔敬而应允;他是善人之归依与究竟归宿。
Verse 14
अथ त्रपां स्वां संधाय यदा प्राह हरं सती । यथेष्टं देहि वरद वरमित्यनिवारकम्
随后,萨蒂收摄自身的羞怯,对诃罗(主湿婆)说道:“噢赐福者,请依你的圣意赐我一愿——一愿无人能阻、无人能止。”
Verse 15
तदा वाक्यस्यावसानमनवेक्ष्य वृषध्वजः । भव त्वं मम भार्येति प्राह तां भक्तवत्सलः
当时,牛为旗帜的弗利沙陀伐阇——即以公牛为徽的湿婆——未待她言毕,怀着对信徒的慈爱对她说道:“汝当为我之妻。”
Verse 16
एतच्छ्रुत्वा वचस्तस्य साभीष्टफल भावनम् । तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम्
听闻他的话语——必定成就所愿之果的话语——她欢喜而默然伫立,因已得到了心中久所珍藏的恩赐。
Verse 17
इति श्रीशैवे महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवरलाभो नाम सप्तदशोऽध्यायः
如是,在《湿婆大往世书》中,第二部名为《鲁陀罗集》,其第二分部“萨蒂品”之第十七章,题为《萨蒂得赐》,至此圆满。
Verse 18
ततो भावान्समादाय शृंगाराख्यो रसस्तदा । तयोश्चित्ते विवेशाशु कला हावा यथोदितम्
随后,摄取相应的内在情致,名为“室利伽罗”(Śṛṅgāra,爱恋)的审美之味便兴起。正如所述,其精妙的流露——雅致的风姿与含情的举止——迅速进入二人心中。
Verse 19
तत्प्रवेशात्तु देवर्षे लोकलीलानुसारिणोः । काप्यभिख्या तयोरासीच्चित्रा चन्द्रमसोर्यथा
噢天圣仙人,当他们进入彼处之时,那二位随顺世间嬉游之理而行,遂得一种别样的名闻,奇妙如月华之辉。
Verse 20
रेजे सती हरं प्राप्य स्निग्धभिन्नांजनप्रभा । चन्द्राभ्याशेऽभ्रलेखेव स्फटिकोज्ज्वलवर्ष्मणः
得遇哈罗(主湿婆)之后,萨蒂光彩照人;其肤色如新研柔润的安阇那之辉。她宛若明月旁一缕轻云,而彼之身形晶莹如水晶,放射灿然光明。
Verse 21
अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः । सुप्रसन्ना करौ बद्ध्वा नतका भक्तवत्सलम्
于是达叉之女达叉耶尼(萨蒂)欢喜无量,屡屡对哈罗说出这些话。她合掌恭敬、俯首致礼,启告那位恒常怜爱信徒的主。
Verse 22
सत्युवाच । देवदेव महादेव विवाह विधिना प्रभौ । पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते
萨蒂说道:“噢,诸神之神,噢,摩诃提婆,大主宰——愿你依正当婚礼仪轨纳我为妻,并使我父亲同意允诺。噢,宇宙之主,请接纳我。”
Verse 23
ब्रह्मोवाच । एवं सतीवचः श्रुत्वा महेशो भक्तवत्सलः । तथास्त्विति वचः प्राह निरीक्ष्य प्रेमतश्च ताम्
梵天说道:听到萨蒂的话,摩诃伊湿伐罗——恒常怜爱信众者——以爱意凝视她,答道:“如是成就。”
Verse 24
दाक्षायण्यपि तं नत्वा शंभुं विज्ञाप्य भक्तितः । प्राप्ताज्ञा मातुरभ्याशमगान्मोहमुदान्विता
达叉耶妮(萨蒂)亦向商婆(Śambhu)顶礼,以虔敬恭敬禀告;得蒙许可后,她为迷妄所覆,遂前往母亲面前。
Verse 25
हरोपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् । दाक्षायणीवियोगाद्वै कृच्छ्रध्यानपरोऽभवत्
哈罗(Hara,湿婆)亦入喜马瓦特高地,回到自己的道场;因与达叉之女(萨蒂)分离,祂便全然专注于艰苦严峻的苦行禅定。
Verse 26
समाधाय मनः शंभुर्लौकिकीं गतिमाश्रितः । चिंतयामास देवर्षे मनसा मां वृषध्वजः
商布(湿婆)安住其心,外相随顺世间行仪;而在内心却默然观念于我,噢天仙圣者。那以公牛为旌的主,在心中思惟着我。
Verse 27
ततस्संचिंत्यमानोहं महेशेन त्रिशूल्रिना । पुरस्तात्प्राविशं तूर्णं हरसिद्धिप्रचोदितः
随后,当我正被摩诃伊湿伐罗——执三叉戟之主——所观念之时,我在哈罗不失之神力催动下,迅疾现于祂面前。
Verse 28
यत्रासौ हिमवत्प्रस्थे तद्वियोगी हरः स्थितः । सरस्वतीयुतस्तात तत्रैव समुपस्थितः
就在喜马梵山的坡麓那一带,哈罗(湿婆)因与她离别而悲苦驻留。也正是在那里,噢亲爱者,梵天与萨拉斯瓦蒂一同到来。
Verse 29
सरस्वतीयुतं मां च देवर्षे वीक्ष्य स प्रभुः । उत्सुकः प्रेमबद्धश्च सत्या शंभुरुवाच ह
噢天仙圣者,当至上主商婆见我与萨拉斯瓦蒂同在时,祂心生欣悦,为爱所系,便对萨蒂开口说道。
Verse 30
शंभुरुवाच । अहं ब्रह्मन्स्वार्थपरः परिग्रहकृतौ च यत् । तदा स्वत्वमिवस्वार्थे प्रतिभाति ममाधुना
商婆说道:“婆罗门啊,当我趋向私利并行取有之举时,即便如今,那私利仍在我心中显现为‘我的’,仿佛真有其所有权一般。”
Verse 31
अहमाराधितस्सत्याद्दाक्षायण्याथ भक्तितः । तस्यै वरो मया दत्तो नंदाव्रतप्रभावतः
确实,达叉之女萨蒂以虔诚之心礼敬供奉于我;因此,凭借“难陀誓戒”(Nandā-vrata)的威力,我赐予她一项恩赐。
Verse 32
भर्ता भवेति च तया मत्तो ब्रह्मन् वरो वृतः । मम भार्या भवेत्युक्तं मया तुष्टेन सर्वथा
婆罗门啊,她从我这里选择的恩赐是:“愿他成为我的夫君。”而我满心欢喜,便宣言:“愿她确实成为我的妻。”
Verse 33
अथावदत्तदा मां सा सती दाक्षायणी त्विति । पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते
随后,达叉之女萨蒂对我说道:“我乃达叉耶妮(萨蒂)。我已使自己进入父亲的视线与牵念之中;噢,诸世界之主,请收纳我,作为你的人。”
Verse 34
तदप्यंगीकृतं ब्रह्मन्मया तद्भक्ति तुष्टितः । सा गता भवनं मातुरहमत्रागतो विधे
噢,婆罗门啊,我也因她的虔敬而心生欢喜,遂接受了那项提议。她已前往母亲的居所,而我来到此处,噢,毗提(Vidhe),万事的安排者。
Verse 35
तस्मात्त्वं गच्छ भवनं दक्षस्य मम शासनात् । तां दक्षोपि यथा कन्यां दद्यान्मेऽरं तथा वद
因此,依我的命令,你去达叉(Dakṣa)的家中。你要说得恰当,使达叉也能按正法礼仪,将那位少女许配给我。
Verse 36
सतीवियोगभंगस्स्याद्यथा मे त्वं तथा कुरु । समाश्वासय तं दक्षं सर्वविद्याविशारदः
你要行事使我与萨蒂(Satī)的离别得以终止。依我所愿,你当如此而行。噢,通达诸学的贤者,去安慰达叉吧。
Verse 37
ब्रह्मोवाच । इत्युदीर्य महादेवस्सकाशे मे प्रजापतेः । सरस्वतीं विलोक्याशु वियोगवशगोभवत्
梵天说道:在我这位生主(Prajāpati)面前如此言毕后,摩诃提婆随即望向萨拉斯瓦蒂;刹那之间,他便被离别的牵引所摄,生起强烈的思恋。
Verse 38
तेनाहमपि चाज्ञप्तः कृतकृत्यो मुदान्वितः । प्रावोचं चेति जगतां नाथं तं भक्तवत्सलम्
因此,我也受他指示;自觉使命已毕,心中欢喜充盈,便开口称颂那位诸世界之主——慈爱护念其奉献者的主宰。
Verse 39
ब्रह्मोवाच । यदात्थ भगवञ्शम्भो तद्विचार्य सुनिश्चितम् । देवानां मुख्यस्स्वार्थो हि ममापि वृषभध्वज
梵天说道:“噢,吉祥的商布(Śambhu)!我已细细思量你所言,并已坚定确信。诸天的首要福祉——以及我的福祉,噢以公牛为旗的主(Vṛṣabhadhvaja)——确在其中。”
Verse 40
दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति । अहं चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः
达克沙将亲自把自己的女儿许配给你为妻;而我也将当面在他面前,直述你所说的言辞。
Verse 41
ब्रह्मोवाच । इत्युदीर्य्य महादेवमहं सर्वेश्वरं प्रभुम् । अगमं दक्षनिलयं स्यंदनेनातिवेगिना
梵天说道:“如此禀告了大天(Mahādeva)——至上的主宰、万有之王——我便乘极其迅疾的车驾,前往达克沙的居所。”
Verse 42
नारद उवाच । विधे प्राज्ञ महाभाग वद नो वदतां वर । सत्यै गृहागतायै स दक्षः किमकरोत्ततः
那罗陀说道:“噢,造物主梵天,睿智而大福之者、言辞最善者,请告诉我们:当萨蒂来到父家之时,达克沙随后做了什么?”
Verse 43
ब्रह्मोवाच । तपस्तप्त्वा वरं प्राप्य मनोभिलषितं सती । गृहं गत्वा पितुर्मातुः प्रणाममकरोत्तदा
梵天说道:萨蒂修行苦行,得到了心中所愿的恩赐;随后她回到家中,当时恭敬地向父母顶礼。
Verse 44
मात्रे पित्रेऽथ तत्सर्वं समाचख्यौ महेश्वरात् । वरप्राप्तिः स्वसख्या वै सत्यास्तुष्टस्तु भक्तितः
随后她将一切都告诉了母亲与父亲——说明如何因大自在天(Maheśvara)而得获所赐之愿。确实,她的同伴萨蒂雅(Satyā)也因虔敬而心生欢喜。
Verse 45
माता पिता च वृत्तांतं सर्वं श्रुत्वा सखीमुखात् । आनन्दं परमं लेभे चक्रे च परमोत्सवम्
母亲与父亲从她友人的口中听完全部经过,便得至上的欢喜,并筹办了最为隆重的庆典。
Verse 46
द्रव्यं ददौ द्विजातिभ्यो यथाभीष्टमुदारधीः । अन्येभ्यश्चांधदीनेभ्यो वीरिणी च महामनाः
那位心地高贵、慧解慷慨的夫人,按诸“二生者”(dvija)各自所愿施与财物;而这位大心之人亦向他人布施——施与盲者与贫乏困顿者。
Verse 47
वीरिणी तां समालिंग्य स्वसुतां प्रीतिवर्द्धिनीम् । मूर्ध्न्युपाघ्राय मुदिता प्रशशंस मुहुर्मुहुः
毗里尼拥抱自己的女儿,她使母亲的喜悦与慈爱倍增。她欢喜地在女儿头顶轻吻(嗅闻),并一再称赞不已。
Verse 48
अथ दक्षः कियत्काले व्यतीते धर्मवित्तमः । चिंतयामास देयेयं स्वसुता शम्भवे कथम्
过了一段时日,达叉——最通达法义者——开始思量:“我究竟该如何把自己的女儿许配给商婆(主湿婆)呢?”
Verse 49
आगतोपि महादेवः प्रसन्नस्स जगाम ह । पुनरेव कथं सोपि सुतार्थेऽत्रागमिष्यति
纵然大天(Mahādeva)已然到来,祂仍欢然离去。如此一来,为了得子之故,祂又将如何再度回到此处呢?
Verse 50
प्रास्थाप्योथ मया कश्चिच्छंभोर्निकटमंजसा । नैतद्योग्यं निगृह्णीयाद्यद्येवं विफलार्दना
随后,我将迅速派一人前往湿婆圣主商布(Śambhu)近旁。然而不相称者不应承担此事;若如此行之,所作之功终将徒然,并招致苦恼。
Verse 51
अथवा पूजयिष्यामि तमेव वृषभध्वजम् । मदीयतनया भक्त्या स्वयमेव यथा भवेत्
否则,我将亲自礼敬那位圣主——旗帜饰以神牛的湿婆。愿凭我女儿的虔敬之心,圣主自发垂允,成为她所择之主与夫君。
Verse 52
तथैव पूजितस्सोपि वांछत्यार्यप्रयत्नतः । शंभुर्भवतु मद्भर्त्तेत्येवं दत्तवरेणतत्
如是依仪礼敬之后,她亦以高贵而恳切的修持,祈求此愿:“愿商布(Śambhu)成为我的夫君。”于是,这一恩赐便赐予了她。
Verse 53
इति चिंतयतस्तस्य दक्षस्य पुरतोऽन्वहम् । उपस्थितोहं सहसा सरस्वत्यन्वितस्तदा
当达克沙(Dakṣa)如此日复一日地思量之时,于彼时我忽然现于他前,并有辩才天女萨拉斯瓦蒂(Sarasvatī)随侍左右。
Verse 54
मां दृष्ट्वा पितरं दक्षः प्रणम्यावनतः स्थितः । आसनं च ददौ मह्यं स्वभवाय यथोचितम्
达克沙见到我,先向其父恭敬顶礼,谦卑而立。随后,依其身份与家礼之所宜,为我设座相待。
Verse 55
ततो मां सर्वलोकेशं तत्रागमन कारणम् । दक्षः पप्रच्छ स क्षिप्रं चिंताविष्टोपि हर्षितः
随后,达克沙迅速问我——湿婆,诸世界之主——我到那里来的缘由。虽内心被忧惧与思虑所扰,他外表仍显得欢喜。
Verse 56
दक्ष उवाच । तवात्रागमने हेतुः कः प्रवेशे स सृष्टिकृत् । ममोपरि सुप्रसादं कृत्वाचक्ष्व जगद्गुरो
达克沙说道:“你为何来到此处?又是哪一位造化主安排你进入这会众?噢,世间之师,请垂慈于我,为我开示。”
Verse 57
पुत्रस्नेहात्कार्यवशादथ वा लोककारक । ममाश्रमं समायातो हृष्टस्य तव दर्शनात्
噢,利益诸世的护世者,无论因爱子之情,或为某事所迫,你已来到我的林居;见到你,我心欢喜充满。
Verse 58
ब्रह्मोवाच । इति पृष्टस्स्वपुत्रेण दक्षेण मुनिसत्तम । विहसन्नब्रुवं वाक्यं मोदयंस्तं प्रजापतिम्
梵天说道:噢,诸牟尼中最胜者,当我被亲子达叉如此询问时,我含笑开口,说出令那位生主(Prajāpati)欢喜的话语。
Verse 59
ब्रह्मोवाच । शृणु दक्ष यदर्थं त्वत्समीपमहमागतः । त्वत्तोकस्य हितं मेपि भवतोपि तदीप्सितम्
梵天说道:“听着,哦达叉,我为何来到你近前。你女儿的福祉,我亦所愿;而这福祉,正是你自己所求。”
Verse 60
तव पुत्री समाराध्य महादेवं जगत्पतिम् । यो वरः प्रार्थितस्तस्य समयोयमुपागतः
“你的女儿已如法敬拜大天(摩诃提婆)——宇宙之主——并得其恩宠。如今,所祈求的赐福之时已然到来。”
Verse 61
शंभुना तव पुत्र्यर्थं त्वत्सकाशमहं धुवम् । प्रस्थापितोस्मि यत्कृत्यं श्रेय स्तदवधारय
“为着你女儿之事,商布(湿婆)确已遣我到你面前。因此,当明了此刻当行之事——那通向至上善的道路。”
Verse 62
वरं दत्त्वा गतो रुद्रस्तावत्प्रभृति शंकरः । त्वत्सुताया वियोगेन न शर्म लभतेंजसा
“赐下恩愿之后,鲁陀罗便离去。自那时起,商羯罗因与汝女(萨蒂)分离,难以轻易得心中安宁。”
Verse 63
अलब्धच्छिद्रमदनो जिगाय गिरिशं न यम् । सर्वैः पुष्पमयैर्बाणैर्यत्नं कृत्वापि भूरिशः
“即便爱神摩陀那(迦摩)竭力施为,射尽无数花箭,也未能在吉利沙(主湿婆)身上寻得一丝可乘之隙,以致胜之。”
Verse 64
स कामबाणविद्धोपि परित्यज्यात्म चिंतनम् । सतीं विचिंतयन्नास्ते व्याकुलः प्राकृतो यथा
纵然被伽摩(爱神)的箭所伤,他也放下内在自观,只是焦灼地坐着,反复思念萨蒂——如同寻常世人一般。
Verse 65
विस्मृत्य प्रश्रुतां वाणीं गणाग्रे विप्रयोगतः । क्व सतीत्येवमभितो भाषते निकृतावपि
因离别之痛,他在众伽那之前忘却了先前所言;纵使受骗,仍四方呼唤:“萨蒂在哪里?”
Verse 66
मया यद्वांछितं पूर्वं त्वया च मदनेन च । मरीच्याद्यैमुनिवरैस्तत्सिद्धमधुना सुत
“孩子啊,我从前所愿之事——你与迦摩(爱神)亦所愿——如今已由以摩利支为首的诸大牟尼成就了。”
Verse 67
त्वत्पुत्र्याराधितश्शंभुस्सोपि तस्या विचिंतनात् । अनुशोधयितुं प्रेप्सुर्वर्त्तते हिमवद्गिरौ
你女儿以虔敬礼拜的商布亦因思念于她,今欲追究并查明此事;故而安住于喜马伐特山。
Verse 68
यथा नानाविधैर्भावैस्सत्त्वात्तेन व्रतेन च । शंभुराराधितस्तेन तथैवाराध्यते सती
正如他以种种虔敬之情、以萨特瓦(清净本性)并以那神圣的誓行(vrata)令商布(湿婆)欢喜受供;同样地,萨蒂亦当如是受礼敬与安抚。
Verse 69
तस्मात्तु दक्षतनयां शंभ्वर्थं परिकल्पिताम् । तस्मै देह्यविलंबेन कृता ते कृतकृत्यता
因此,切莫迟延;当即将达克沙之女——为商布(湿婆)而注定者——许配于他。将她赐与他,你的所愿便得圆满,你的本分亦告成就。
Verse 70
अहं तमानयिष्यामि नारदेन त्वदालयम् । तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम्
“我将借由那罗陀把他带到你的住处。因此,你当把这位少女许配给他;因为她已被如法地注定为此目的而生。”
Verse 71
ब्रह्मोवाच । श्रुत्वा मम वचश्चेति स मे पुत्रोतिहर्षितः । एवमेवेतिमां दक्ष उवाच परिहर्षितः
梵天说道:听了我的话,我的儿子欢喜至极。随后,达克沙亦大为欣悦,对我答道:“如是,如是——就照此而行。”
Verse 72
ततस्सोहं मुने तत्रागममत्यंतहर्षितः । उत्सुको लोकनिरतो गिरिशो यत्र संस्थितः
于是,噢圣贤,我怀着无比的欢喜前往彼处——心切而专注,只为瞻仰那神圣世界:山主吉利沙(吉里沙,即湿婆,山岳之主)所安住之地。
Verse 73
गते नारद दक्षोपि सदार तनयो ह्यपि । अभवत्पूर्णकामस्तु पीयूषैरिव पूरितः
当那罗陀离去后,达叉亦然——与妻与子同在——心中圆满满足,仿佛被甘露充盈;诸愿似乎皆已得偿。
Satī completes the Nandā-vrata with fasting and worship in Āśvina (śukla-aṣṭamī), enters deep meditation, and Śiva appears directly (pratyakṣa) and invites her to choose a boon.
The chapter models a bhakti-tapas pathway: disciplined observance (vrata + upavāsa) matures into dhyāna, which culminates in darśana—signifying that divine encounter is both grace-given and practice-conditioned.
Śiva’s manifested form is described with key dhyāna markers—pañcavaktra, trilocana, caturbhuja, śitikaṇṭha, ash-brilliance, trident-bearing, and Gaṅgā on the head—linking narrative to iconography and meditation practice.