Adhyaya 28
Kotirudra SamhitaAdhyaya 2875 Verses

रावणस्य तपः-शिवानुग्रहः — Rāvaṇa’s Austerity and Śiva’s Bestowal of Grace

本章由苏多以《往世书》式纪述口吻宣说,围绕罗波那展开:他虽傲慢,却是强悍的湿婆奉者,为求湿婆垂恩而不断加重苦行。其修行先在凯拉萨,后移至喜马瓦特南部一处被称为成就之地(siddhi-sthāna)的圣域,凸显神圣地理。罗波那建立仪轨次第:掘坑(garta)、安置圣火(agni)、令湿婆临近而住,并行火供(havana),将苦行与吠陀祭祀法度相融。其苦行呈三季极端:夏行五火(pañcāgni)、雨季卧地、冬季浸水;然湿婆仍未悦纳,显示大自在天对德行紊乱者“难以取悦”(durārādhya)。转折在于供养更趋猛烈:罗波那依仪次自我献祭般礼拜,逐一斩下自己的头,至九首皆断。仅余一首之时,商羯罗显现,因其奉献已达彻底归命而示现为怜爱 भक्त(bhaktavatsala)。湿婆令诸首完好复原,并赐予无与伦比的力量之大愿,呈现神恩既能复原亦能加持,同时也含蓄留下:由虔敬所得之权能,仍带道德上的暧昧。

Shlokas

Verse 1

सूत उवाच । रावणः राक्षसश्रेष्ठो मानी मानपरायणः । आरराध हरं भक्त्या कैलासे पर्वतोत्तमे

苏多说道:罗波那,罗刹之中最为卓绝者——自负而执著于名誉——在群山之最的凯拉萨山上,以虔敬礼拜哈罗(主湿婆)。

Verse 2

आराधितः कियत्कालं न प्रसन्नो हरो यदा । तदा चान्यत्तपश्चक्रे प्रासादार्थे शिवस्य सः

他礼拜了一段时日,哈罗(主湿婆)仍未欢喜;于是他又修行另一种苦行,为的是为湿婆建造一座殿堂圣所。

Verse 3

नतश्चायं हिमवतस्सिद्धिस्थानस्य वै गिरेः । पौलस्त्यो रावणश्श्रीमान्दक्षिणे वृक्षखंडके

他俯身致敬后,那光辉的罗波那——普罗拉斯提耶的后裔——立于喜马瓦特山南面的林木之地;此山实为成就悉地的著名圣处。

Verse 4

भूमौ गर्तं वर कृत्वा तत्राग्निं स्थाप्य स द्विजाः । तत्सन्निधौ शिवं स्थाप्य हवनं स चकार ह

他在地上掘成吉祥的火坑,安置圣火于其中。随后在圣火之前安奉湿婆主,依仪轨举行护摩(供献祭火)之礼。

Verse 5

ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थंडिलेशयः । शीते जलांतरस्थो हि त्रिधा चक्रे तपश्च सः

夏天,他站在五火之中修行;雨季,他躺在裸露的地面上;冬天,他待在水里——就这样,他以三种方式进行了严厉的苦行(tapas)。

Verse 6

एकैकं च शिरश्छिन्नं विधिना शिवपूजने । एवं सत्क्रमतस्तेन च्छिन्नानि नव वै यदा

在按照规定的仪式祭祀湿婆的过程中,他一次砍下一个头。就这样,以正当有序的方式进行,当他确实砍下了九个头时……

Verse 7

ततश्शिरांसि छित्त्वा च पूजनं शंकरस्य वै । प्रारब्धं दैत्यपतिना रावणेन महात्मना

然后,在砍下(自己的)头颅后,伟大的罗波那——大提亚人的领主——确实开始了对商羯罗(湿婆神)的祭祀。

Verse 9

एकस्मिन्नवशिष्टे तु प्रसन्नश्शंकरस्तदा । आविर्बभूव तत्रैव संतुष्टो भक्तवत्सलः

当只剩下一人之时,欢喜的商羯罗(湿婆)便在那同一处当下显现,心满意足,恒常慈爱于其奉主者。

Verse 10

शिरांसि पूर्ववत्कृत्वा नीरुजानि तथा प्रभुः । मनोरथं ददौ तस्मादतुलं बलमुत्तमम्

随后,主如先前一般复原了他们的头颅,使其无痛无恙;并赐予那位奉献者所愿之恩:至上之力,卓绝无比。

Verse 11

प्रसादं तस्य संप्राप्य रावणस्स च राक्षसः । प्रत्युवाच शिवं शम्भुं नतस्कंधः कृतांजलिः

得蒙其恩典后,罗波那——罗刹之首——谦卑垂肩,合掌作礼,答复吉祥的湿婆、商布。

Verse 12

रावण उवाच । प्रसन्नो भव देवेश लंकां च त्वां नयाम्यहम् । सफलं कुरु मे कामं त्वामहं शरणं गतः

罗波那说道:“愿您垂恩,诸天之主。我将带您前往楞迦。愿使我的愿望得以圆满;我已归依于您。”

Verse 13

सूत उवाच । इत्युक्तश्च तदा तेन शंभुर्वै रावणेन सः । प्रत्युवाच विचेतस्कः संकटं परमं गतः

苏多说道:当时罗波那如此陈述,那位商布之主——心神一时不定,陷入极其严峻的困境——便开口答复。

Verse 14

शिव उवाच । श्रूयतां राक्षसश्रेष्ठ वचो मे सारवत्तया । नीयतां स्वगृहे मे हि सद्भक्त्या लिंगमुत्तमम्

湿婆说道:“听我之言,罗刹中最胜者;此言蕴含要义。将那至上的林伽带回你家,并以真诚的奉爱加以供奉。”

Verse 15

भूमौ लिंगं यदा त्वं च स्थापयिष्यसि तत्र वै । स्थास्यत्यत्र न संदेहो यथेच्छसि तथा कुरु

“当你在大地上、就在那一处安立此灵伽时,它必定住于此地——毫无疑虑。随你所愿而行吧。”

Verse 16

सूत उवाच । इत्युक्तश्शंभुना तेन रावणो राक्षसेश्वरः । तथेति तत्समादाय जगाम भवनं निजम्

苏多说道:罗波那——罗刹之主——既蒙商布(湿婆)如此开示,便答道:“如是。”他将此言铭记于心,遂启程回到自己的住处。

Verse 17

आसीन्मूत्रोत्सर्गकामो मार्गे हि शिवमायया । तत्स्तंभितुं न शक्तोभूत्पौलस्त्यो रावणः प्रभुः

由于湿婆自身的幻力(māyā),就在路途中,出自普拉斯提耶一系的威严罗波那忽被尿意所迫,却无法克制。

Verse 18

दृष्ट्वैकं तत्र वै गोपं प्रार्थ्य लिंगं ददौ च तत् । मुहूर्तके ह्यतिक्रांते गोपोभूद्विकलस्तदा

他在那里见到一位牧牛人,便恳求并将那尊湿婆林伽托付给他。然而仅过了一瞬(muhūrta),牧牛人便心神不安、摇摇欲坠。

Verse 19

भूमौ संस्थापयामास तद्भारेणातिपीडितः । तत्रैव तत्स्थितं लिंगं वजसारसमुद्भवम् । सर्वकामप्रदं चैव दर्शनात्पापहारकम्

他被其重压所迫,便将其安放于大地之上。就在那处,林伽安然建立——由金刚般坚固的精髓所生——能赐予一切正当愿望的圆满;仅以瞻礼一见,亦能除罪。

Verse 20

वैद्यनाथेश्वरं नाम्ना तल्लिंगमभवन्मुने । प्रसिद्धं त्रिषु लोकेषु भुक्तिमुक्तिप्रदं सताम्

圣者啊,那尊林伽以“吠陀耶那泰湿伐罗”(Vaidyanātheśvara)之名而著称。名闻三界,赐予清净善信以世间福乐与解脱。

Verse 21

ज्योतिर्लिंगमिदं श्रेष्ठं दर्शनात्पूजनादपि । सर्वपापहरं दिव्यं भुक्तिवर्द्धनमुत्तमम्

此光明林伽(Jyotirliṅga)至为殊胜。仅仅瞻仰之——乃至礼拜供奉之——便成就为神圣之力,尽除诸罪,并为最上施主,增长世间福乐与吉祥兴盛。

Verse 22

तस्मिंलिंगे स्थिते तत्र सर्वलोकहिताय वै । रावणः स्वगृहं गत्वा वरं प्राप्य महोत्तमम् । प्रियायै सर्वमाचख्यौ सुखेनाति महासुरः

当那林伽为利益一切世界而安立于彼处时,罗波那得获最殊胜之恩赐,便返回自己的居所;那位强大的阿修罗欢喜安然地将一切经过尽述于其爱侣。

Verse 23

तच्छ्रुत्वा सकला देवाश्शक्राद्या मुनयस्तथा । परस्परं समामन्त्र्य शिवासक्तधियोऽमलाः

闻此消息,诸天众神——以释迦罗(因陀罗)为首——以及诸仙圣者,因专心归敬湿婆而心地清净,便彼此商议,共同筹谋。

Verse 24

तस्मिन्काले सुरास्सर्वे हरिब्रह्मादयो मुने । आजग्मुस्तत्र सुप्रीत्या पूजां चक्रुर्विशेषतः

圣者啊,当时诸天众神——以诃利(毗湿奴)与梵天为首——欢喜而至彼处,并以殊胜之仪礼奉修对湿婆的礼拜供养。

Verse 25

प्रत्यक्षं तं तदा दृष्ट्वा प्रतिष्ठाप्य च ते सुराः । वैद्यनाथेति संप्रोच्य नत्वा नुत्वा दिवं ययुः

随后,诸神亲见祂在面前显现,便依仪轨在彼处安立祂。宣称“祂是吠陀耶那他(Vaidyanātha)”,他们顶礼赞颂,继而返回天界。

Verse 26

ऋषय ऊचुः । तस्मिंल्लिंगे स्थिते तत्र रावणे च गृहं गते । किं कि चरित्रमभूत्तात ततस्तद्वद विस्तरात्

诸仙人说道:“亲爱的啊,当那灵伽安住于彼处,而罗波那已回到自己的宫邸之后,随后发生了什么事?请将那段因缘详尽叙说。”

Verse 27

सूत उवाच । रावणोपि गृहं गत्वा वरं प्राप्य महोत्तमम् । प्रियायै सर्वमाचख्यौ मुमोदाति महासुरः

苏多说道:罗波那得了那至上殊胜的恩赐后,也回到自己的住处,将一切尽告其所爱之人;那强大的阿修罗因此大为欢喜。

Verse 28

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वैद्यनाथेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः

至此,在《圣湿婆摩诃往世书》第四部《拘底鲁陀罗集》中,题为“毗陀耶那提湿伐罗光明灵伽(Jyotirliṅga)功德(Māhātmya)之描述”的第二十八章圆满结束。

Verse 29

देवादय ऊचुः । रावणोयं दुरात्मा हि देवद्रोही खलः कुधीः । शिवाद्वरं च संप्राप्य दुःखं दास्यति नोऽपि सः

诸天等说道:“此罗波那实乃恶徒,背逆诸天,卑劣而心智乖谬。既从主湿婆得了恩赐,他也必将把痛苦加诸于我们。”

Verse 30

किं कुर्मः क्व च गच्छामः किं भविष्यति वा पुनः । दुष्टश्च दक्षतां प्राप्तः किंकिं नो साधयिष्यति

“我们该怎么办,又该往哪里去?接下来还会发生什么?那邪恶的达刹已得势——他还会对我们做出什么事来?”

Verse 31

इति दुःखं समापन्नाश्शक्राद्या मुनयस्सुराः । नारदं च समाहूय पप्रच्छुर्विकलास्तदा

于是,因陀罗等诸天与诸仙皆陷于忧苦。心神惶然之际,他们召来那罗陀,并在当时向他请问。

Verse 32

देवा ऊचुः । सर्वं कार्य्यं समर्थोसि कर्तुं त्वं मुनिसत्तम । उपायं कुरु देवर्षे देवानां दुःखनाशने

诸天说道:“噢,最胜的圣贤啊,你能成就一切事业。因此,噢,天界仙人,请设法消除诸天的忧苦。”

Verse 33

रावणोयं महादुष्टः किंकि नैव करिष्यति । क्व यास्यामो वयं चात्र दुष्टेनापीडिता वयम्

“这罗波那极其凶恶——还有什么恶事是他不做的?我们从此要往哪里去?我们正被那恶徒所折磨。”

Verse 34

नारद उवाच । दुःखं त्यजत भो देवा युक्तिं कृत्वा च याम्यहम् । देवकार्यं करिष्यामि कृपया शंकरस्य वै

那罗陀说道:“诸天啊,舍弃忧愁吧。我已筹定善巧之策,即将前往。凭借商羯罗(湿婆)的慈恩,我必定成就诸天之事。”

Verse 35

सूत उवाच । इत्युक्त्वा स तु देवर्षिरगमद्रावणालयम् । सत्कारं समनुप्राप्य प्रीत्योवाचाखिलं च तत्

苏多说道:说罢,那位天仙圣者前往罗波那的居所。在那里受到如法的款待与敬礼之后,他欢喜地将所言一切尽数转告于他。

Verse 36

नारद उवाच । राक्षसोत्तम धन्यस्त्वं शैववर्य्यस्तपोमनाः । त्वां दृष्ट्वा च मनो मेद्य प्रसन्नमति रावण

那罗陀说道:“罗刹中之最胜者啊,你真是有福——为湿婆最上之 भक्त,心志专注于苦行。今日见到你,我心欢喜而澄然,罗波那啊。”

Verse 37

स्ववृत्तं ब्रूह्यशेषेण शिवाराधनसंभवम् । इति पृष्टस्तदा तेन रावणो वाक्यमब्रवीत्

他如此发问:“请将你自身的经历——由对湿婆的礼敬修持而生者——完整道来。”当时罗波那被他问及,便开口叙说。

Verse 38

रावण उवाच । गत्वा मया तु कैलासे तपोर्थं च महामुने । तत्रैव बहुकालं वै तपस्तप्तं सुदारुणम्

罗波那说道:“噢,大圣者,我为修苦行而前往迦罗娑(Kailāsa)。就在那处,我历经漫长岁月,修行了极其严峻的苦行(tapas)。”

Verse 39

यदा न शंकरस्तुष्टस्ततश्च परिवर्तितम् । आगत्य वृक्षखंडे वै पुनस्तप्तं मया मुने

“当圣羯罗(Śaṅkara)尚未满足时,我便随之改易行持;随后,噢牟尼,我又回到那段木片处,在那里再度修行苦行。”

Verse 40

ग्रीष्मे पंचाग्निमध्ये तु वर्षासु स्थंडिलेशयः । शीते जलांतरस्थो हि कृतं चैव त्रिधा तपः

夏时,行者处于五火之中;雨季,卧于裸地;冬时,浸没水中——如是,三重苦行确然得以成就。

Verse 41

एवं मया कृतं तत्र तपोत्युग्रं मुनीश्वर । तथापि शंकरो मह्यं न प्रसन्नोऽभवन्मनाक्

如是,噢牟尼之主,我在彼处修行极其严酷的苦行;然而圣羯罗对我竟连一丝欢喜也未生起。

Verse 42

तदा मया तु क्रुद्धेन भूमौ गर्तं विधाय च । तत्राग्निं समाधाय पार्थिवं च प्रकल्प्य च

当时我怒火炽盛,在地上掘成一坑;于彼处安置并点燃圣火,又如法备办以土所成的“帕尔提瓦”(Pārthiva)仪轨——凭可触之林伽之相与严谨供奉,以召请主宰。

Verse 43

गंधैश्च चंदनैश्चैव धूपैश्च विविधैस्तदा । नैवेद्यैः पूजितश्शम्भुरारार्तिकविधानतः

随后依照规定的阿拉尔提卡(ārārtika)献灯仪式,以诸般香料、檀香膏、种种熏香,并以食供(naivedya)供养礼拜商婆(Śambhu)。

Verse 44

प्रणिपातैः स्तवैः पुण्यैस्तोषितश्शंकरो मया । गीतैर्नृत्यैश्च वाद्यैश्च मुखांगुलिसमर्पणैः

我以顶礼叩拜与清净赞颂之圣歌,使商羯罗(Śaṅkara)欢喜;又以歌咏、舞蹈、器乐之音,并以自身口与指所作的亲身供奉而奉事。

Verse 45

एतैश्च विविधैश्चान्यैरुपायैर्भूरिभिर्मुने । शास्त्रोक्तेन विधानेन पूजितो भगवान् हरः

噢牟尼啊,凭借这些以及更多种种不同的方便法门,依照经典(śāstra)所规定的仪轨,吉祥的主宰哈罗(Hara)得到了如法的礼敬供养。

Verse 46

न तुष्टः सन्मुखो जातो यदा च भगवान्हरः । तदाहं दुःखितोभूवं तपसोऽप्राप्य सत्फलम्

当吉祥的主宰哈罗(Hara)既不欢喜,也未以慈颜转向我时,我便忧伤起来,因为我尚未得到苦行(tapas)的真实果报。

Verse 47

धिक् शरीरं बलं चैव धिक् तपः करणं मम । इत्युक्त्वा तु मया तत्र स्थापितेग्नौ हुतं बहु

“嗟乎此身与此力,亦嗟乎我苦行之所凭!”我如此言毕,便在彼处燃起圣火,于已安立的祭火中投入大量供献(homa)之供物。

Verse 48

पुनश्चेति विचार्यैव त्वक्षाम्यग्नौ निजां तनुम् । संछिन्नानि शिरांस्येव तस्मिन् प्रज्वलिते शुचौ

她再次想到:“就这样吧,”她决定道:“我要将自己的身体投入火中。”在那炽热、纯净的火焰中,那些被砍下的头颅躺在那里,仿佛被切断了一样。

Verse 49

सुच्छित्वैकैकशस्तानि कृत्वा शुद्धानि सर्वशः । शंकरायार्पितान्येव नवसंख्यानि वै मया

我细心逐一拣选,并以诸法彻底净化;随后我亲自将它们供奉于商羯罗——共九件,确然如此。

Verse 50

यावच्च दशमं छेत्तुं प्रारब्धमृषिसत्तम । तावदाविरभूत्तत्र ज्योतीरूपो हरस्स्वयम्

正当他开始斩断第十个之时,噢,最胜的圣仙,就在那一刻,哈罗(湿婆)亲自随其本愿于彼处显现,化作灿然光明之形。

Verse 51

मामेति व्याहरत् प्रीत्या द्रुतं वै भक्तवत्सलः । प्रसन्नश्च वरं ब्रूहि ददामि मनसेप्सितम्

主宰素来怜爱 भक्त者,便欢喜而迅速地柔声说道:“归于我!”继而慈颜悦纳,又言:“说出你的恩赐所求;我将赐予你心中所愿。”

Verse 52

इत्युक्ते च तदा तेन मया दृष्टो महेश्वरः । प्राणतस्संस्तुतश्चैव करौ बद्ध्वा सुभक्तितः

当他如此说时,就在那一刻,我得见大自在天(摩诃湿伐罗)。我以至深 भक्त之心俯伏顶礼,以生命之息赞颂祂,并合掌恭敬,奉上礼拜供养。

Verse 53

तदा वृतं मयैतच्च देहि मे ह्यतुलं बलम् । यदि प्रसन्नो देवेश दुर्ल्लभं किं भवेन्मम

那时我祈求道:“这便是我所择之恩赐:愿赐我无与伦比之力。若您确已欢喜,噢,诸天之主,又有什么会对我成为不可得呢?”

Verse 54

शिवेन परितुष्टेन सर्वं दत्तं कृपालुना । मह्यं मनोभिलषितं गिरा प्रोच्य तथास्त्विति

当慈悲的湿婆完全满意时,他赐予了一切。他大声说出了我心中所想,说道:“就这样吧。”

Verse 55

अमोघया सुदृष्ट्या वै वैद्यवद्योजितानि मे । शिरांसि संधयित्वा तु दृष्टानि परमात्मना

的确,通过他那永恒而吉祥的目光,我被砍下的头颅重新连接在了一起——像医生一样熟练地缝合在一起——因此,通过至高自性(湿婆)的愿景和恩典,我得以康复。

Verse 56

एवंकृते तदा तत्र शरीरं पूर्ववन्मम । जातं तस्य प्रसादाच्च सर्वं प्राप्तं फलं मया

当这一切完成后,就在此时此地,我的身体恢复如初。由于他的恩典,我圆满地得到了所有承诺的果实。

Verse 57

तदा च प्रार्थितो मे संस्थितोसौ वृषभध्वजः । वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये

然后,在我祈祷之后,那位主——湿婆,其旗帜上印有公牛——便在那里安顿下来;他以“吠陀那特湿婆罗”之名闻名于三界。

Verse 58

दर्शनात्पूजनाज्ज्योतिर्लिंगरूपो महेश्वरः । भुक्तिमुक्तिप्रदो लोके सर्वेषां हितकारकः

仅以瞻礼与供奉,显现为光明灵伽(Jyotirliṅga)的摩诃提婆,便于此世赐予福享(bhukti)与解脱(mukti),成为一切众生的利益施主。

Verse 59

ज्योतिर्लिंगमहं तद्वै पूजयित्वा विशेषतः । प्रणिपत्यागतश्चात्र विजेतुं भुवनत्रयम्

“在以特殊的虔诚礼拜了那座光辉林伽(Jyotirlinga)之后,我在顶礼后礼来到这里,为了征服三界。”

Verse 60

सूत उवाच । तदीयं तद्वचः श्रुत्वा देवर्षिर्जातसंभ्रमः । विहस्य च मनस्येव रावणं नारदोऽब्रवीत्

苏塔说:听到他的这番话,神圣的哲人那罗延(Narada)瞬间感到惊讶,他在内心微笑,然后对罗波那(Ravana)说道。

Verse 61

नारद उवाच । श्रूयतां राक्षसश्रेष्ठ कथयामि हितं तव । त्वया तदेव कर्त्तव्यं मदुक्तं नान्यथा क्वचित्

那罗陀说道:“听着吧,罗刹中最卓越者。我将告诉你对你真正有益之事。你当完全依我所言而行,任何时候都不可另作他为。”

Verse 62

त्वयोक्तं यच्छिवेनैव हितं दत्तं ममाधुना । तत्सर्वं च त्वया सत्यं न मन्तव्यं कदाचन

“你所说的一切有益劝诫,实则是湿婆亲自于此刻赐予我的。因此,当将这一切都视为真实,任何时候都不可起疑。”

Verse 63

अयं वै विकृतिं प्राप्तः किं किं नैव ब्रवीति च । सत्यं नैव भवेत्तद्वै कथं ज्ञेयं प्रियोस्ति मे

“此人必是陷入紊乱之态,胡言种种。那决不可能是真实——那么我如何得知他是否真为我所亲爱(或真心敬奉于我)?”

Verse 64

इति गत्वा पुनः कार्य्यं कुरु त्वं ह्यहिताय वै । कैलासोद्धरणे यत्नः कर्तव्यश्च त्वया पुनः

既已如此前去,就再去完成那件事——确是为你自身招致祸害。你还须再次努力,欲举起凯拉萨圣山。

Verse 65

यदि चैवोद्धृतश्चायं कैलासो हि भविष्यति । तदैव सफलं सर्वं भविष्यति न संशयः

若此神圣的凯拉萨果真被举起(或复归原位),则就在那一刻,一切皆得圆满成就、结出果报——毫无疑惑。

Verse 66

पूर्ववत्स्थापयित्वा त्वं पुनरागच्छ वै सुखम् । निश्चयं परमं गत्वा यथेच्छसि तथा कुरु

将一切复归如前之后,安然再归来。既已达到至上的确定无疑,便随你所愿而行。

Verse 67

सूत उवाच । इत्युक्तस्स हितं मेने रावणो विधिमोहित । सत्यं मत्वा मुनेर्वाक्यं कैलासमगमत्तदा

苏多说道:如是被告诫后,罗波那——为命运之法所迷惑——竟以为此乃对己有益。认定仙者之言真实无欺,他当即启程前往凯拉萨。

Verse 68

गत्वा तत्र समुद्धारं चक्रे तस्य गिरेस्स च । तत्रस्थं चैव तत्सर्वं विपर्यस्तं परस्परम्

他前往彼处,也着手修复那座山。其间一切尽皆倾覆错乱,彼此颠倒混杂,物与物交织不分。

Verse 69

गिरीशोपि तदा दृष्ट्वा किं जातमिति सोब्रवीत् । गिरिजा च तदा शंभुं प्रत्युवाच विहस्य तम्

此时,吉里萨(湿婆主)看到所发生的一切,说道:“发生了什么事?”于是,吉里佳(帕尔瓦蒂)微笑着回答了商布。

Verse 70

गिरिजोवाच । सच्छिश्यस्य फलं जातं सम्यग्जातं तु शिष्यतः । शान्तात्मने सुवीराय दत्तं यदतुलं बलम्

吉里佳说:“真弟子的果实已经显现;的确,弟子之境已完全成熟。对于那灵魂平静而高尚的英雄,已赐予了那无与伦比的力量。”

Verse 71

सूत उवाच । गिरिजायाश्च साकूतं वचः श्रुत्वा महेश्वरः । कृतघ्नं रावणं मत्वा शशाप बलदर्पितम्

苏塔说:听了吉里佳意味深长的话语,玛赫什瓦拉判定罗波那是个忘恩负义、恃强凌弱的人,便对他施下了诅咒。

Verse 72

महादेव उवाच । रे रे रावण दुर्भक्त मा गर्वं वह दुर्मते । शीघ्रं च तव हस्तानां दर्पघ्नश्च भवेदिह

大自在天(摩诃提婆)说道:“喂,喂,罗波那!迷妄而不敬的恶人,莫负狂傲之心。就在此时此地,不久你双手的骄矜(那暴烈之力)必被摧碎。”

Verse 73

सूत उवाव । इति तत्र च यज्जातं नारदः श्रुतवांस्तदा । रावणोपि प्रसन्नात्माऽगात्स्वधाम यथागतम्

苏多说道:“于是,纳罗陀当时听闻了那里所发生的一切;罗波那亦然,心神安定而满足,便回到自己的住处,来时如何,去亦如是。”

Verse 74

निश्चयं परमं कृत्वा बली बलविमोहितः । जगद्वशं हि कृतवान्रावणः परदर्पहा

他立下至坚之决心,那强者却为自身之力所迷;罗波那——摧折他人傲慢者——确实使天下归于其掌控。

Verse 75

शिवाज्ञया च प्राप्तेन दिव्यास्त्रेण महौजसा । रावणस्य प्रति भटो नालं कश्चिदभूत्तदा

其时,凭借依湿婆之命所得、威力无比的天界神兵,对阵罗波那者竟无一勇士能立足相抗。

Verse 76

इत्येतच्च समाख्यातं वैद्यनाथेश्वरस्य च । माहात्म्यं शृण्वतां पापं नृणां भवति भस्मसात्

如是,吠地耶那陀自在天(Vaidyanātheśvara)之圣德已被如法宣说;凡聆听此神圣伟迹者,人之罪业皆化为灰烬。

Frequently Asked Questions

Rāvaṇa performs escalating tapas and a fire-ritualized worship, ultimately severing nine heads as offerings; when the tenth remains, Śiva appears, restores him, and grants a boon of extraordinary strength—demonstrating that grace manifests when devotion becomes total surrender rather than mere endurance.

The garta–agni–havana sequence encodes ‘inner yajña’ (self-offering) through outward ritual form, while the severed heads symbolize progressive dismantling of ego/identity layers; Śiva’s restoration signifies that authentic surrender does not annihilate the self but reconstitutes it under divine order (anugraha).

Śiva is emphasized as Hara/Maheśāna/Śaṅkara—Paramātmā who is ‘durārādhya’ for the impure-minded, yet ‘bhaktavatsala’ once devotion reaches sincerity and completeness, revealing a theology of conditional accessibility grounded in inner transformation.