本章开篇,阎摩承认哈利奉爱(Hari-bhakti)的至上威力:凡忆念哈利、守斋并赞颂者,阎摩不能拘系;甚至无意间说出“哈利”,亦能断除再生轮回,并从阎摩名册中除名。苏提叙述梵天为尊重阎摩职司而起的思惟,由此显现一位如摩希尼般摄人心魄的少女,并以教诫痛斥欲染:即便心念中对禁忌关系起欲望,也将堕地狱并毁坏所积功德。梵天以观身不净之法破除迷妄,见此身不过骨肉与秽浊,继而指示少女其使命。故事转至鲁克芒伽达王与王子达摩芒伽达,二者以离欲与守真为范。梵天之计,是令少女以誓约缚住国王,要求他舍弃哈利瓦萨拉斋戒,最终更索求国王亲手斩首其子——构成极端的真谛法(satya-dharma)试炼,并许诺坚守真理者将得至毗湿奴之居所。
Verse 1
यम उवाच । प्राप्तं तात मया सार्द्धं वेदांघ्रिनमने हितम् । नाहं गच्छामि योगांतं पुनरेव जगत्पते ॥ १ ॥
阎摩说道:“亲爱的孩子,你与我同得有益之事——在吠陀之足(吠陀之主)前恭敬顶礼。噢,诸世界之主,我不趋向瑜伽的最终归宿;我将再度返回。”
Verse 2
प्रशासति महीं भूपेहाटकांगदसंज्ञके । तमेकं देवताश्रेष्ठं संप्राप्ते हरिवासरे ॥ २ ॥
当名为哈塔迦安伽达的国王统治大地之时,逢至哈利的圣日,他前往亲近并礼拜那唯一至上的主——诸天之中最胜者。
Verse 3
यदि चालयसे धैर्यात्ततोऽहं तव किंकरः । स मे शत्रुर्महान्देव तेन लुप्तः पटो मम ॥ ३ ॥
若你能动摇我坚固的勇毅,那么我便作你的仆从。然而我那大敌,噢大能之主,正因他使我的衣裳失落。
Verse 4
तमेकं भोजयित्वा तु कार्ष्णेऽहनि महीपतिम् । कृतकृत्यो भविष्यामि गयापिंडप्रदो यथा ॥ ४ ॥
然而若在迦尔施那之日,我供养那位大地之王一餐,我便成为功德圆满之人,如同在伽耶奉献供团(piṇḍa)者一般。
Verse 5
अद्य प्रभृति देवेशोयैर्नरैः संस्मृतो हरिः । उपोषितः स्तुत्वोपि न नियम्या मया हि ते ॥ ५ ॥
从今日起,噢诸天之主,凡忆念哈利、守斋并献颂赞之人,确实不再能被我拘束。
Verse 6
हरिरिति सहसा ये संगृणंतिच्छलेन जननिजठरमार्गात्ते विमुक्ते विमुक्ता हि मर्त्याः । मम पटविलिपिं ते नो विशंति प्रवीणा दिविचरवरसंघैस्ते नमस्या भवन्ति ॥ ६ ॥
即便是凡人一时冲动呼唤“哈利(Hari)”之名——纵然只是借口——也能脱离再入母胎之途;确然得解脱。那些善巧之人不入我掌管的簿录与刻记之境,反而为天界高贵众神的合唱所礼敬。
Verse 7
सौतिरुवाच । वैवस्वतस्य कार्येण तत्सम्मानचिकीर्षया । चिंतयामास देवेशो विरिंचिः कुशलांछनः ॥ ७ ॥
苏提说道:关于毗婆斯瓦塔(Vaivasvata)的职责,并欲加以尊崇,诸天之主——具吉祥相的毗林支(Viriñci,梵天Brahmā)开始沉思。
Verse 8
चिंतयित्वा क्षणं देवः सर्वभूतैश्च भूषितः । भूतत्रासनमात्रं तु रूपं स जगृहे विभुः ॥ ८ ॥
沉思片刻之后,那位以一切众生为庄严的主,取了一种唯为震慑群类的形相;于是遍在者便显现为那般模样。
Verse 9
तस्मिन्नुत्पादयामास प्रमदां लोकमोहिनीम् । सर्वयोषिद्वरा देवीमनसा निर्भिता बभौ ॥ ९ ॥
就在那处,她生出一位摄人心魄的少女,迷惑诸世界;那位女神——诸女之最胜者——却在心中显得惴惴不安。
Verse 10
सा बभूवाग्रतस्तस्य सर्वालंकारभूषिता । दृष्ट्वा पितामहस्तां तु रूपद्रविणसंयुताम् ॥ १० ॥
她佩戴一切饰物,立于他前。毗多摩诃(Pitāmaha,梵天Brahmā)见她具足容色之宝与富贵之资,便凝视于她。
Verse 11
प्राहेमान् पश्यतो ह्येतां स्वकान्वै काममोहितान् । प्रत्यवायभयाद्ब्रह्या चक्षुषी संन्यमीलयत् ॥ ११ ॥
她见自家眷属皆为欲望所迷,便开口告诫;又因畏惧罪业之报(pratyavāya),那位可敬的夫人合上了双眼。
Verse 12
सरागेणेह मनसा सरागेणेह चक्षुषा । चिंतयेद्वीक्षयेद्वापि जननीं वा सुतामपि ॥ १२ ॥
在此世间,若以染欲之心、染欲之眼去思量或哪怕只是注视——即便是自己的母亲或自己的女儿——亦成过失,因为欲念玷污了眼光。
Verse 13
वधूं वा भ्रातृजायां वा गुरोभार्यां नृपस्त्रियम् । स याति नरकं घोरं संचिंत्य श्वपचीमपि ॥ १३ ॥
凡于心中对儿媳、兄弟之妻、师长之妻或国王之妻起欲念者,必堕可怖地狱;即便只是意念触及最下贱的女子,也同样招致其报。
Verse 14
दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः । तस्य जन्मकृतं पुण्यं वृथा भवति नान्यथा ॥ १४ ॥
诚然,男子若见这些女子而心生骚动,其一生所积之福德便归于徒然;决无他途。
Verse 15
प्रसंगे दशसाहस्रं पुण्यमायाति संक्षयम् । पुण्यस्य संक्षयात्पापी पाषाणाखुर्भवेद्ध्रुवम् ॥ १५ ॥
因不正当的交往与放纵的纠缠,纵有万分福德亦趋于毁尽。福德既竭,造罪者必定转生为“石鼠”,堕入卑贱之身。
Verse 16
तस्मान्न चिंतयेत्प्राज्ञो ह्येता रागेण चक्षुषा । जनन्या अपि पादौ तु नादेयौ द्वादशाब्दिकैः ॥ १६ ॥
因此,智者不应以贪爱之眼沉溺于此;年满十二岁者,即便是母亲的双足也不应触碰(作为欲望的对象)。
Verse 17
सुतैस्त्वभ्यंगकरणे पुनर्यौवनसंस्थितैः । षष्ट्यतीतां सुतोऽभ्यंगे नियुञ्जीत विचक्षणः ॥ १७ ॥
当儿子正值青春壮年时,应行油浴按摩(abhyaṅga)。明理之子应为年过六旬的母亲协助按摩。
Verse 18
वृद्धो वापि युवा वापि न पादौ धावयेद्वधूम् । उभयोः पतनं प्रोक्तं रौरवेऽङ्गारसंचये ॥ १८ ॥
无论老少,男子皆不应令儿媳洗足。据说二者皆会堕落,在号叫地狱(Raurava)中,炽热的炭堆将是他们的归宿。
Verse 19
या वधूर्दर्शयेदंगं विवृतं श्वशुरस्य हि । पाणिपादाहता राजन् क्रिमिभक्ष्या भवेत्तु सा । वधूहस्तेन यः पापः पादशौचं करोति हि ॥ १९ ॥
国王啊,若儿媳在公公面前裸露身体,其手足将受击打,并沦为虫豸之食。那让儿媳之手为其洗足的罪人,亦复如是。
Verse 20
स्नानं वाप्यथवाभ्यंगं तस्याप्येवंविधा गतिः । सूचीमुखैः कृष्णवक्रैःर्भुज्यते कल्पसंस्थितिम् ॥ २० ॥
即便是沐浴或仅涂抹油脂,亦会导致同样的命运:此人将被针面黑口之恶鬼折磨,直至劫末。
Verse 21
तस्मान्न वीक्षयेन्नारीं सुतां वापि वधूं नरः । साभिलाषेण मनसा तत्क्षणात्पतते नरः ॥ २१ ॥
因此,男子不应怀着欲望注视女子,无论是自己的女儿还是儿媳;在那一刻,他便堕落了。
Verse 22
एवं संचिंतयित्वा च सूक्ष्मां दृष्टिं चकार ह । यदिदं वर्तुलं वक्त्रं सोन्नतं दृश्यते शुभम् ॥ २२ ॥
如此深思后,他投以细致敏锐的目光。“这圆润的面庞,五官端正,显得吉祥。”
Verse 23
अस्थिपंजरमेतद्धि चर्ममांसावृतं त्विति । वसा मेदोऽथ नयने सोज्वले स्त्रीषु संस्थिते ॥ २३ ॥
实际上,这只是一个骨架,覆盖着皮肉。里面是脂肪和骨髓;那双明亮的眼睛长在女子身上。
Verse 24
अत्युच्छ्रितमिदं मांसं स्तनयोः समवस्थितम् । निम्नांशतां दर्शयति त्रिवली जठरस्थिता ॥ २४ ॥
这高高隆起的肉位于双乳之间,腹部的三道褶皱显示出腰部的纤细凹陷。
Verse 25
पुनरेवाधिकं क्षिप्तं मांसं जघनवत्मनि । मूत्रद्वारमिदं गुह्यं यत्र मुग्धं जगत्त्रयम् ॥ २५ ॥
此外,臀部之路上堆积着多余的肉块——这隐秘的孔窍,排尿的器官——三界众生皆因此而受以此迷惑。
Verse 26
अपानवायुना जुष्टं सदैव प्रतिकुत्सितम् । भस्त्रावर्गाधिकं क्षिप्तं मांसं जघनवर्त्मनि ॥ २६ ॥
与下行气(apāna)相系,恒常令人厌恶、屡遭轻蔑——如风箱所载之重——这团肉被抛在臀部之道(下身通道)上。
Verse 27
कृतं यद्विद्द्विधा काष्ठं तद्वज्जंघा द्विधा ध्रुवम् । शुक्रास्थिपूरितं मांसैः कथं सुन्दरतां व्रजेत् ॥ २७ ॥
如木段既已劈开,必定成两半;同样,小腿亦确然为二。内充精液与骨,外覆以肉——如此之物,怎能得真实之美?
Verse 28
मांसमेदोवसासारे किं सारं देहिनां वद । विष्ठामूत्रमलैः पुष्टे को देहे रज्यते नरः ॥ २८ ॥
请告诉我:有身之众,在其身体仅由肉、脂与髓所成者中,何来真实精髓?以粪尿与诸不净滋养的此身,谁会真心贪著?
Verse 29
एवं विचार्य बहुधा विरिंचिर्ज्ञानचक्षुषा । धैर्यं कृत्वा च नारीं तामुवाच गजगामिनीम् ॥ २९ ॥
如是以真知之眼多方观照后,毗林支(梵天)摄持其定力,遂对那位步态如象般端雅的女子开口说道。
Verse 30
यथाहि मनसा सृष्टा मया त्वं वरवर्णिनी । तथा भूतासि चार्वंगि मानसोन्मादकारिणी ॥ ३० ॥
“汝乃肤色殊妙之女,我于心中塑成汝;而今亦如其然,汝这美肢之人,已成令心神迷狂者。”
Verse 31
तमुवाच तदा सा तु प्रणम्य चतुराननम् । पश्य मूर्छान्वत्नांथ जगत्स्थावरजंगमम् ॥ ३१ ॥
于是她向四面之主(梵天)顶礼而说道:“请看——此一切世界,动与不动者,皆为迷妄所覆,昏厥沉沦。”
Verse 32
मोहितं मम रूपेण सयोगि यदकल्मषम् । स नास्ति त्रिषु लोकेषु यः पुमान्मम दर्शनात् ॥ ३२ ॥
被我的形相所摄受,那位瑜伽行者便离垢无罪。于三界之中,无一人见我之后而不为之转化。
Verse 33
भवंतमादितः कृत्वा न क्षोभं याति पद्मज । आत्मस्तुतिर्न कर्तव्या केनचिच्छुभमिच्छता ॥ ३३ ॥
噢莲生者(梵天),若先以可敬之主为首,便不陷于扰动。因此,凡求真实吉祥者,切莫自赞自夸。
Verse 34
स्तवनान्नरकं याति विशुद्धोऽपि च मानवः । तथापि स्तवनं ब्रह्मन् कर्तव्यं कार्यहेतुना ॥ ३४ ॥
仅以颂扬奉承之辞,即便清净之人亦可能堕入地狱。然而,婆罗门啊,赞颂仍当为之——当其为正当之目的而行。
Verse 35
साहं सृष्टा त्वया ब्रह्मन् कस्यचित्क्षोभणाय वै । तमादिश जगन्नाथ क्षोभयिष्ये न संशयः ॥ ३५ ॥
“婆罗门啊,我确由你所造,为的是扰动某人。因此,宇宙之主啊,请就那人命我;我必定使他动摇——毫无疑虑。”
Verse 36
मां दृष्ट्वापि क्षितौ देव भूधरश्चापि मुह्यति । किं पुनश्चेतनोपेतः श्वासोच्छासी नरस्त्विति ॥ ३६ ॥
噢主宰!即使大地上的山岳,仅仅见到我也会摇晃迷乱;何况具足知觉、随吸与呼而动的人,又怎能不更为迷惑?
Verse 37
तथा चोक्तं पुराणेषु नारीवीक्षणवर्णनम् । उन्मादकरणं नॄणां दुश्चरव्रतनाशनम् ॥ ३७ ॥
因此诸《往世书》亦言:描写凝视女子之举,会使男子生狂乱,并摧毁即便艰难苦行所守的誓戒。
Verse 38
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेंद्रियाणां लज्जां तावद्विधत्ते विनयमपि समालंबते तावदेव । भ्रूचापाक्षेपयुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतंति ॥ ३८ ॥
人能安住正道多久,诸根便受其制多久;羞惭与自持亦能依止多久——只到那嬉戏女子的“目光之箭”,以眉为弓,循耳之路而来,带着深蓝的睫羽,坠入心中,盗走他的定力。
Verse 39
धिक्तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति । भ्रूक्षेपविस्मितकटाक्षनिरीक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशांके ॥ ३९ ॥
可耻啊,那愚钝的拙劣诗人之“诗才”,竟敢把女子的面容与月亮相提并论!噢月啊,你哪里有这些——令人反复凝望的眼波、眉间的轻挑、惊异的斜睨,以及嗔怒、垂怜与欢笑的神情?
Verse 40
पीतं हि मद्यं मनुजेन नाथ करोति मोहं सुविचक्षणस्य । स्मृता च दृष्टा युवती नरेण विमोहयेदेव सुराधिका हि ॥ ४० ॥
噢主宰!人若饮下醉酒之物,连明辨者也会生迷惑;而年轻女子——无论仅在忆念中,或只是偶然一见——确能使男子比酒更为迷乱。
Verse 41
मोहनार्थं त्वया सृष्टा नराणां प्रपितामह । तमादिशजगन्नाथ त्रैलोक्यं मोहयाम्यहम् ॥ ४१ ॥
噢,普利毗塔摩诃,我由你所造,为使世人陷入迷惑。因此,宇宙之主啊,请命令我——让我迷乱三界。
Verse 42
ब्रह्मोवाच । सत्यमुक्तं त्वया देवि नासाध्यं भुवनत्रये । नागनासोरु सुभगे मत्तमातंगगामिनि ॥ ४२ ॥
梵天说道:“女神啊,你所言真实无妄。三界之中,没有你不能成就之事。吉祥者啊,你的大腿如象鼻,你的步态如醉象母般摇曳。”
Verse 43
या त्वं दूषयसे चेतो ममापि वरवर्णिनि । तन्मया सुगृहीतं तु कृतं ज्ञानांकुशेन हि ॥ ४३ ॥
噢,肤色姣美的女子,你欲败坏的正是我的心;我已以灵性智慧之钩牢牢摄持并加以制御。
Verse 44
सा त्वं कथं न लोकानां चेतांस्यपहरिष्यसि । सत्यमेतद्विशालाक्षि तव रूपं विमोहनम् ॥ ४४ ॥
你怎会不能摄取世人的心念?诚然,广目者啊,你的形相令人神迷,也使人陷入迷妄。
Verse 45
सामरं हि जगत्सर्वं निश्चेष्टमपि लक्षये । यन्निमित्तं मया सृष्टा तत्साधय वरानने ॥ ४५ ॥
我确见整个世界充满争斗,却又仿佛静止不动。噢,容颜姣好的你,请成就那一目的——正为此我创造了你。
Verse 46
वैदिशे नगरे राजा नाम्ना रुक्मांगदः क्षितौ । यस्य सन्ध्यावली भार्या तव रूपोपमा शुभे ॥ ४६ ॥
在大地上,于毗底沙城(Vaidiśa),有一位国王名叫鲁克芒伽达(Rukmāṅgada)。他的王后是善提耶瓦丽(Sandhyāvalī)——吉祥之女——其容颜可与汝之美貌相媲。
Verse 47
यस्यां धर्मांगदो जातो पितुरत्यधिकः सुतः । दशनागायु तबलः प्रतापेन रविर्यथा ॥ ४७ ॥
由她诞生了达摩芒伽达(Dharmāṅgada),其子胜过其父;力如万象,威光炽盛,勇武如日轮般辉耀。
Verse 48
यः क्षांत्या धरया तुल्यो गांभीर्ये सांगरोपमः । तेजसा वह्निवद्द्वीप्तः क्रोधे वैवस्वतोपमः ॥ ४८ ॥
其忍耐如大地,其深沉如海洋;其光辉炽然如火;而一旦震怒,严峻可比毗婆斯瓦多(阎摩,Yama)。
Verse 49
त्यागे वैरौचनिर्यद्वद्गतौ हि पवनोपमः । सौम्यत्वे शशितुल्यस्तु रूपवान् मन्मथो यथा ॥ ४९ ॥
其舍施出离,如毗卢遮那之子婆利(Bali);其行止迅疾,如风。其温柔如月;其容貌俊美,如爱神曼摩他(Manmatha)。
Verse 50
जीवभार्गवयोस्तुल्यो यो नीतौ राजनन्दनः । पित्रा भुक्तं समस्तैकं जंबूद्वीपं वरानने ॥ ५० ॥
噢,容颜姝丽者,那位王子——令国土欢悦——在治国之道(nīti)上可与吉瓦(Jīva)与婆尔伽瓦(Bhārgava)比肩;而其父曾将整个阎浮提(Jambūdvīpa)合为一统而统治。
Verse 51
धर्मांगदेन द्वीपानि संजितान्यपराण्यपि । पित्रोस्तु व्रीडया येन न ज्ञातं प्रमदासुखम् ॥ ५१ ॥
达摩昂伽陀亦征服诸多岛屿;然因谦恭并敬畏父母,他从未沉溺于与女子调情之乐。
Verse 52
स्वयं प्राप्ताः परित्यक्ता येन भार्याः सहस्रशः । यो न वाक्याद्विचलते सहैव हि पितुर्गृहे ॥ ५२ ॥
纵有千百妻子自愿前来,他亦尽皆舍离;且他不偏离所许之言,即在父家之中亦坚守不移。
Verse 53
यस्य वै त्रीणि सुभगे मातॄणां चारुहासिनि । शतानि कनकाभासे त्वविशेषेण पश्यति ॥ ५३ ॥
噫,福慧之人,甜笑的淑女,金辉之色者——能不加分别而观见三百位母神(Mātṛ)者,即被称为具此圣见。
Verse 54
तस्य धर्मप्रधानस्य पुत्ररत्नांचितस्य च । समीपं गच्छ चार्वंगि मंदरे पर्वतोत्तमे ॥ ५४ ॥
肢体娟美的女子啊,往他近前去——那以法为先、以宝玉般的诸子为饰者——就在曼陀罗山,这最胜之山上。
Verse 55
तत्र वत्स्यति राजा वै तुरगेणातिवाहितः । तव गीतेन चार्वंगि मोहितोऽश्वं विहाय च ॥ ५५ ॥
在那里,国王将停驻,虽由骏马疾驰载行;然肢体娟美者啊,他被你的歌声迷醉,竟也会舍下那匹马。
Verse 56
अधिरुह्य गिरेः पृष्ठं स संगं यास्यति त्वया । तत्र देवि त्वयावाच्यं मिलित्वा भूभुजा त्विह ॥ ५६ ॥
登上山背之后,他将与你一同前往约定的会面之处。到那里,噢女神,你在此与国王相见之后,应将此讯息转告于他。
Verse 57
अहं भार्या भविष्यामि तव राजन्न संशयः । यद्ब्रवीमि ह्यहं नाथ तत्कार्यं हि त्वया ध्रुवम् ॥ ५७ ॥
噢国王,毫无疑问,我必将成为你的妻子。噢主君,我所说的一切,你都必须确实履行。
Verse 58
मोहितस्तव रूपेण तथैव प्रतिपद्यते । यतस्तं शपथैर्धृत्वा दक्षिणेन करेण वै ॥ ५८ ॥
他被你的容貌所迷惑,便随之而行;因此,以庄严誓言将他约束之后,确实握住了他的右手。
Verse 59
वाच्यः कतिपयैः सुभ्रु दिनैरपगतैस्त्विति । सुरते तव चार्वंगि यदा मुग्धो हि लक्ष्यते ॥ ५९ ॥
“过了几日之后,噢秀眉之人,你应如此说道:当清楚看见他在欢爱之中对你迷恋沉醉时,噢体态婀娜的女子……”
Verse 60
तदा प्रहस्य राज्ञो वै स्मारणीयं पुरा वचः । यस्त्वया शपथो राजन्कृतो मद्वाक्यपालने ॥ ६० ॥
随后,他含笑提醒国王先前的话:“噢国王,你曾起誓要遵行我的吩咐。”
Verse 61
तत्पालयमहीपाल मन्येऽहं समयस्त्विति । एवमुक्ते त्वया मुग्धो राजा वै सत्यगौरवात् ॥ ६१ ॥
因此,大地之王啊,请护持此事——我认为这正是所立之约、应守之责。你如此言说时,那位心性淳朴的国王因敬重真理而应允。
Verse 62
पालयामि न संदेहो ब्रूहि किं ते ददाम्यहम् । एवमुक्ते तु वचने त्वया वाच्यो वरानने ॥ ६२ ॥
“我必护持你,毫无疑虑。说吧:我当赐你何物?”当这些话说出之后,容颜姝丽者啊,你便应当陈述你的所求。
Verse 63
रुक्मांगदो महीपालो धर्मांगदपिता शुभे । नोपवासस्त्वया कार्यो जातु वै हरिवासरे ॥ ६३ ॥
吉祥者啊,大地之王鲁克芒伽陀——达摩芒伽陀之父——宣言道:“你切莫在哈利的圣日(Harivāsara)行斋戒。”
Verse 64
सुरतस्रं सकारी मे ह्युपवासो भवेत्प्रिय । सुमुग्धां यौवनोपेतां स्वभार्यां यो न सेवते ॥ ६४ ॥
“爱卿,对我而言,禁绝夫妻之亲近本身亦成一种斋戒。若有人不以爱意亲近并照拂自己的妻子——娴美可人、正值青春——便是违失居家之法(gṛhastha-dharma)。”
Verse 65
पर्वापेक्षी दुराचारः स याति नरकं ध्रुवम् । त्रिरात्रमपविद्धाहं त्वया भूप उपोषणात् ॥ ६५ ॥
品行败坏之人若只为节庆之名而行斋戒,必定堕入地狱。大王啊,因你守斋,我被冷落在外(遭轻慢)整整三夜。
Verse 66
नाहं निमेषमप्येकं स्थातुं शक्ता त्वया विना । श्राद्धकाले तु संप्राप्ते उपाविष्टैर्द्विजैः किल ॥ ६६ ॥
须臾不可无君,虽一瞬亦难熬。诚然,当祭祖大典(Śrāddha)之时已至,婆罗门众既已升座……
Verse 67
याचते संगमं भार्या यदि भोग्या तदैव सा । एवं संबोध्यमानोऽपि यदा राजा वचस्तव ॥ ६७ ॥
若妻求欢合,且适宜亲近,则必当即刻允之。纵以此理相劝,若王仍出此言……
Verse 68
न करिष्यति चार्वंगि तदा वाच्यं परं वचः । यदि न त्यजसे राजन्नुपवासं हरेर्दिने ॥ ६८ ॥
妙肢女啊,若彼不从,当更发重语云:‘王啊,若君不弃哈里(Hari)圣日之斋戒……’
Verse 69
स्वहस्तेन शिरश्च्छित्वा स्वपुत्रस्य वरासिना । धर्मांगदस्य राजेंद्र ममोत्संग्क्षिप स्वयम् ॥ ६९ ॥
王啊,请以此宝剑,亲手斩下爱子达摩安伽达(Dharmāṅgada)之首,并亲自置于我膝之上。
Verse 70
यद्येतन्मत्प्रियं त्वं हि न करोषि महीपते । धर्मक्षीणो भवान् गंता नरके नात्र संशयः ॥ ७० ॥
王啊,若君不为此令我欢喜之事,君之正法(Dharma)必将耗尽,且必堕地狱,此乃无疑。
Verse 71
श्रुत्वा त्वदीयं वचनं वरांगने न हिंस्यते प्राणसमं च पुत्रम् । संगृह्य वाक्यं वसुधामराणां सम्भोक्ष्यते माधववासंरेऽसौ ॥ ७१ ॥
噢,肢体端美的女子,听闻你的言语后,她必不加害那如同自身性命般珍爱的儿子。她将摄受诸天在世间的劝诫,安住于摩达婆(Mādhava)之居所,享受神圣的福乐。
Verse 72
ततो जनो यास्यति पूर्ववच्च यमांतिकं किंकरपाशबद्धः । लिपिप्रमाणं नरकाधिवासी भविष्यते साधु कृतं त्वया हि ॥ ७२ ॥
随后,此人仍如从前一般,被阎摩(Yama)使者以绳索缚住,押至阎摩之前。住于地狱之中,他将以书写的业录为凭证而受审——你所言确实正当。
Verse 73
अथ यदि निहंति तनयं राजा सत्येन संयुतः श्रीमान् । निःशेषामरपूज्यं व्रजति पदं पद्मनाभस्य ॥ ७३ ॥
若有一位光辉的国王,坚住于真实之道,即便杀害自己的儿子,也将到达莲脐者帕德玛那婆(毗湿奴)之境界——那为一切不死诸天所敬奉礼拜的归处。
Verse 74
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीं प्रति ब्रह्मवाक्यं नाम सप्तमोऽध्यायः ॥ ७ ॥
至此,神圣《广那罗陀往世书》后分(Uttara-bhāga)中名为《梵天对摩希尼之开示》的第七章圆满结束。
The chapter frames Hari-smaraṇa and vrata-observance as a grace-based jurisdictional shift: devotees who fast and praise Hari are said to move beyond Yama’s karmic accounting (his ‘records’), indicating bhakti’s power to nullify or transcend punitive karmic pathways.
It functions as a classical vairāgya technique (aśubha-bhāvanā): by seeing the body as bones, flesh, fat, impurities, and transient parts, the mind is pulled away from kāma-delusion and anchored in discriminative knowledge (jñāna) and self-restraint.
By setting up Rukmāṅgada’s oath-bound dilemma—abandon Harivāsara or commit an unthinkable act—the text dramatizes dharma’s hierarchy and the cost of truth-vows; the promised resolution is that unwavering satya, aligned with Viṣṇu’s purpose, culminates in attaining Padmanābha’s abode.