Adhyaya 66
Purva BhagaThird QuarterAdhyaya 66152 Verses

The Explanation of Sandhyā and Related Daily Observances (Saṅdhyā-ādi Nitya-karma-Vidhi)

圣童子(Sanatkumāra)开示日常常行之法(nitya-karma):起步先礼敬大地;如厕之仪与事后以土与水行净(śauca);漱口并于齿木仪中祈请林木之神 Vanaspati;整备坛场,以 astra/mūla 真言行 ārati。又说入河沐浴:以真言加持之泥土涂身,观想由梵孔(brahma-randhra)成就内浴,并以 śrauta 式端肃安住。真言沐浴(mantra-snāna)含时地誓愿(saṅkalpa)、调息(prāṇāyāma)、召请诸圣渡处(tīrtha:恒河 Gaṅgā、阎牟那 Yamunā 等)、sudhā-bīja、kavaca/astra 护持与多次加持循环。病中可修 Aghamarṣaṇa 以作忏悔除罪;暮晨 Sandhyā 以 Keśava–Nārāyaṇa–Mādhava 之名召请;详述毗湿奴派 ācamana/nyāsa 并及湿婆/女神(Śaiva/Śākta)之别法;规定 tilaka 与 tripuṇḍra 的标记;门阈供奉、诸神安置与守门神名录;广说 mātṛkā 与 śakti-nyāsa 对应、bīja/śakti 之理,末示:行毕 ṣaḍaṅga-nyāsa 方可开始正式礼拜。

Shlokas

Verse 1

सनत्कुमार उवाच । ततः श्वासानुसारेण दत्वा पादं महीतले । समुद्र मेखले देवि पर्वतस्तनमण्डले 1. ॥ १ ॥

善那特库玛罗说道:随后,随呼吸之节律,将双足安置于大地之上——女神啊——当观想此大地:以诸海为带,以群山如乳房般庄严点缀。

Verse 2

विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे । इति भूमिं तु सम्प्रार्थ्य विहरेच्च यथाविधि ॥ २ ॥

“大地啊,毗湿奴之配偶,向你顶礼。愿你宽恕我双足之触。”如是恭敬祈请大地之后,当依所规定之法而行止。

Verse 3

रक्षः कोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत् । गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः ॥ ३ ॥

随后,从村落前往与罗刹相应之方位,应诵此真言:“愿诸仙(ṛṣi)与诸天离去;愿诸毗舍遮(piśāca)及所谓隐神(guhyaka)亦皆离去。”

Verse 4

पितृभूतगणाः सर्वे करिष्ये मलमोचनम् । इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा ॥ ४ ॥

“诸位祖灵(Pitṛ)与诸鬼众(Bhūta)啊,我今将排除秽物。”说罢,他拍掌三次,并以布覆首而行。

Verse 5

दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः । मलं विसृज्य शौचं तु मृदाद्भिः समुपाचरेत् ॥ ५ ॥

夜间应面向南方;白昼则应站立面向北方。排泄之后,当依仪以土(泥)与水行净洁(śauca)。

Verse 6

एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः । करयोः सप्त वै दद्यात्त्रित्रिवारं च पादयोः ॥ ६ ॥

净土的用法:生殖器用一次;肛门用三次;左手用十次。双手共用七次;双足则各三次、再三次。

Verse 7

एवं शौचं विधायाथ गण्डूषान्द्वादशैव तु । कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना ॥ ७ ॥

如是行净之后,当作十二次含漱(gaṇḍūṣa)。继而恭请神圣的“林主”梵那斯帕提(Vanaspati,草木之主),并以此所规定的真言祈祷。

Verse 8

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ ८ ॥

噢,林主梵那斯帕提(Vanaspati)啊,赐予我们寿命与力量、名声与光辉;子嗣、牛群与财富;并赐我们吉祥福泽(Śrī)、智慧与敏锐的聪慧(medhā)。

Verse 9

संप्रार्थ्यैवं दन्तकाष्ठं द्वादशाङ्गुलसंमितम् । गृहीत्वा काममंत्रेण कुर्यान्मन्त्री समाहितः ॥ ९ ॥

如是恭敬祈请许可与加持后,行者当取一根长十二指幅的洁齿木;继而摄心专注,诵持迦摩真言而行其仪轨。

Verse 10

कामदेवपदं ङेन्तं तथा सर्वजनप्रियम् । हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत् ॥ १० ॥

当用与迦摩天(Kāmadeva)相应之音节(pada),以鼻音“ṅ”作结,为众人所爱。其以“心音”(hṛd-anta)为终,并具足欲种子(kāma-bīja);凭此亦当净化齿音字母(dantya)。

Verse 11

जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखम् । देवागारं ततो गत्वा निर्माल्यमपसार्य च ॥ ११ ॥

刮净舌面之后,当以语生(Vāgbhava)之根本真言漱口;继而前往神龛,移除旧供之物(nirmālya),如枯萎花等。

Verse 12

परिधायाम्बरं शुद्धं मङ्गलारार्तिकं चरेत् । अस्त्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेच्च तम् ॥ १२ ॥

披上清净衣服后,当行吉祥阿罗提(ārati)。以阿斯特罗真言(Astra-mantra)洒净器皿,继而以根本真言(Mūla-mantra)点燃之。

Verse 13

संपूज्य पात्र्रमादायोत्थाय घन्टां च वादयेत् । सुगोघृतप्रदीपेन भ्रामितेन समन्ततः ॥ १३ ॥

既已如法供奉,当执器起立并鸣铃;继而以备办周全、燃以牛酥(goghṛta)之灯,在阿罗提中环绕四方旋行。

Verse 14

वाद्यैर्गींतैर्मनोज्ञैश्च देवस्यारार्तिकं भवेत् । इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम् ॥ १४ ॥

以悦耳的歌咏与乐器之声,当为神明奉行ārārtika(阿拉提)之礼。如此完成nīrājana(摇灯献光)之后,应当向自己所奉之主祈祷。

Verse 15

स्नातुं यायान्निम्नगादौ कीर्तयन्देवतागुणान् । गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै ॥ १५ ॥

欲行沐浴,当往河流或低洼水道而去,并诵唱诸天之德。抵达tīrtha(圣渡口)后,应先顶礼致敬,再如法安置沐浴所需之物。

Verse 16

मूलाभिमन्त्रितमृदमादाय कटिदेशतः । विलिप्य पादपर्यन्तं क्षालयेत्तीर्थवारिणा ॥ १६ ॥

取以根本真言(mūla-mantra)所加持之净土,涂抹自腰际至足端;随后以tīrtha(圣渡口)之水洗净。

Verse 17

ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः । प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च ॥ १७ ॥

随后以五捧水洗足,再次入水;立于水至脐处,并以左手亦取一团净土(泥)。

Verse 18

मणिबन्धे हस्ततले तदग्रे च तथा पुनः । कृत्वाङ्गुल्या गाङ्गमृदमादायास्त्रेण तत्पुनः ॥ १८ ॥

于腕处、掌心处,并再于掌之前部,以指取恒河圣泥(Ganga-mṛd),复次涂抹,并伴诵Astra-mantra(武器真言)。

Verse 19

निजोपरि च मन्त्रज्ञो भ्रामयित्वा त्यजेत्सुधी । तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत् ॥ १९ ॥

通晓真言的智者,应将其在自身之上旋转一周,然后置于一旁。随后仍以同一真言,将掌中所置之物涂抹于六支(六分身)之上。

Verse 20

निमज्य क्षालयेत्सम्यग् मलस्नानमितीरितम् । विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत् ॥ २० ॥

浸入水中之后,应当彻底洗净自身——此名为“除垢之浴”。继而观想一切皆充满所爱之主、所择本尊(Iṣṭa-devatā)的临在,修行内在之浴,即心意的净化。

Verse 21

अनन्तादित्यसङ्काशं निजभूषायुधैर्युतम् । मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम् ॥ २१ ॥

忆念主宰——其光辉如无尽之日,具足自有的饰物与神兵,且为真言之身——随后应取那由洗濯其莲足之水所生的圣水/圣质(足水)。

Verse 22

धारां च ब्रह्मरन्ध्रेण प्रविशन्तीं निजां तनुम् । तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम् ॥ २२ ॥

并当观想一股清流由梵穴(brahma-randhra,顶门)进入自身。凭此内流,应彻底洗净一切潜藏于身内的垢染。

Verse 23

तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः । ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः ॥ २३ ॥

就在那一刹那,持诵真言者即离垢染,澄澈如水晶。随后依照《施劳多》(Śrauta)传统所说的仪轨沐浴,行者安住于寂静、摄心与忆念之中。

Verse 24

मन्त्रस्नानं ततः कुर्यात्तद्विधानमथोच्यते । देशकालौ च सङ्कीर्त्य प्राणायामषडङ्गकैः ॥ २४ ॥

其后,当行“真言沐浴”(mantra-snāna)。今说其法:先如法宣告处所与时辰,然后配合六支辅分(ṣaḍ-aṅga)修持调息(prāṇāyāma)。

Verse 25

कृत्वार्कमन्दलात्तीर्थान्याह्वयेन्मुष्टिमुद्र या । ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः ॥ २५ ॥

既结成“日轮坛”(arka-maṇḍala),当以握拳印(muṣṭi-mudrā)召请诸圣渡处(tīrtha)。噢罗毗(日神),安住于“梵卵宇宙”(brahmāṇḍa)之胎中的诸 tīrtha,皆为汝光线如手所触。

Verse 26

तेन सत्येन मे देव देहि तीर्थं दिवाकर ॥ २६ ॥

以我此真诚之力,噢天神——噢提婆迦罗(日神)——赐我一处圣渡(tīrtha)。

Verse 27

गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ २७ ॥

噢恒河、噢亚穆纳,亦噢戈达瓦丽、噢萨拉斯瓦蒂;噢讷尔摩达、噢信度、噢卡维丽——愿诸圣河于此水中临在。

Verse 28

इत्यावाह्य जले तानि सुधाबीजेन योजयेत् । गोमुद्र यामृतीकृत्य कवचेनावगुण्ठ्य च ॥ २८ ॥

如是将彼等召入水中后,当以“苏陀种子”(Sudhā-bīja)真言相应加持。继而以牛印(Go-mudrā)令其如甘露(amṛta),并以护甲真言(Kavaca)覆护守持。

Verse 29

संरक्ष्यास्त्रेण तत्पश्चाच्चक्रमुद्रां प्रदर्शयेत् । वह्न्यर्केन्दुमण्डलानि तत्र सन्चितयेद्बुधः ॥ २९ ॥

以护持的阿斯特罗(astra)护咒守护仪轨/坛场之后,应当示现轮印(Cakra-mudrā);智者行者当于其处安置火、日、月之圆轮徽相。

Verse 30

मन्त्रयेदर्कमन्त्रेण सुधाबीजेन तज्जलम् । मूलेन चैकादशधा तत्र सम्मन्त्र्य भावयेत् ॥ ३० ॥

当以日神咒(Arka-mantra)与甘露种子音(Sudhā-bīja)加持彼水;复以根本咒(mūla-mantra)如法加持十一遍,然后观想摄持,使其充满所愿之清净圣力。

Verse 31

पूजायन्त्रं च तन्मध्ये स्वान्तादावाह्य देवताम् । स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः ॥ ३१ ॥

当备置供养坛图(pūjā-yantra),自内心圣处迎请本尊,安请于其中央。继而为本尊作沐浴供,并以意供(mānasa-upacāras)恭敬礼拜。

Verse 32

सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः । आधारः सर्वभूतानां विष्णोरतुलतेजसः ॥ ३२ ॥

礼敬安坐宝座之圣母之后,智者亦当礼敬彼水;因为此水为一切众生之依止,隶属于光辉无比的毗湿奴(Vishnu)。

Verse 33

तद्रू पाश्च ततो जाता आपस्ताः प्रणमाम्यहम् । इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः ॥ ३३ ॥

继而观念:“由彼本原,具彼同相之诸水出生;我今礼敬彼诸水。”如是礼敬已,行者闭摄头部七窍而加以制御。

Verse 34

निमज्य सलिले तस्मिन्मूलं देवाकृतिं स्मरेत् । निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया ॥ ३४ ॥

将其浸入彼水之后,应忆念根本真言并观想神圣之形。随后如是三次沉入复出,并以宝瓶印(kumbha-mudrā)洒净其水。

Verse 35

त्रिर्मूलेन चतुर्मन्त्रैरभिर्षिञ्चेन्निजां तनुम् । चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने ॥ ३५ ॥

以三遍根本(Mūla)真言,并加四种真言,应以仪轨洒净而加持自身。于此处,噢牟尼,亦依坦特罗传统宣说四位“摩奴”。

Verse 36

सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः । मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ॥ ३६ ॥

愿神圣之水——一切众生之母——净化于我:当生主(Prajāpati)欲创造此全宇宙时,那从其精种一次又一次涌现的诸水。

Verse 37

अलक्ष्मीर्मलरूपा या सर्वभूतेषु संस्थिता । क्षालयन्ति च तां स्पर्शादापो देव्यः पुनन्तु माम् ॥ ३७ ॥

愿神圣之水净化于我:因不祥的阿拉克什弥(Alakṣmī)——以垢秽为形——住于一切众生;而诸水以其触及便能洗除她。

Verse 38

यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः ॥ ३८ ॥

凡我发上之不幸、发缝之不幸、与头顶之不幸——以及额上、耳中、眼中的一切不祥——愿圣水尽皆除灭。向汝等诸水致敬礼。

Verse 39

आयुरारोग्यमैश्वर्यमरिपक्षक्षयं शुभम् । सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः ॥ ३९ ॥

愿汝得长寿、安康、富贵威德,摧灭敌对之势,并具诸吉祥;愿汝心生知足、忍耐、对吠陀之信与真实智慧——向汝致敬。

Verse 40

विप्रपादोदकं पीत्वा शालग्रामशिलाजलम् । पिबेद्विरुद्धं नो कुर्यादेषां तु नियतो विधिः ॥ ४० ॥

先饮婆罗门足洗之水,继而饮与圣石舍利伽罗摩(Śālagrāma)相应之水。不可视二者为相违;于此自有既定而特定的仪轨法则。

Verse 41

पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौ तानि भूसुरे । स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले ॥ ४१ ॥

噢婆罗门(bhūsura)啊,大地上一切圣地(tīrtha)之力,皆摄于右足。既如法奉请自选所敬之神(iṣṭa-devatā),知咒者当于玛尔坦达(太阳)之光轮中观想而礼拜。

Verse 42

ततस्तीरं समागत्य वस्त्रं संक्षाल्य यत्नतः । वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः ॥ ४२ ॥

随后来到河岸,当谨慎洗净衣物;更换清洁衣裳后,智者应行三时礼(Sandhyā)及其他日常仪轨。

Verse 43

रोगाद्यशक्तो मनुजः कुर्यात्तत्राघमर्षणम् । अथवा भस्मना स्नातो रजोभिश्चैव वाऽक्षमः ॥ ४३ ॥

若有人因疾病等而无力行之,当于彼处修行名为“阿伽摩尔沙那”(Āghamarṣaṇa)的忏悔净罪法。若仍不能,则以灰沐浴,亦可兼以尘土为浴。

Verse 44

अथ सन्ध्यादिकं कुर्यात् स्थित्वा चैवासने शुभे । केशवेन तथा नारायणेन माधवेन च ॥ ४४ ॥

随后,当安坐于吉祥之座,应行桑迪亚(Sandhyā)及相关日常仪轨,称念主为“凯沙瓦(Keśava)”,亦为“那罗延那(Nārāyaṇa)”与“摩达瓦(Mādhava)”。

Verse 45

संप्राश्य तोयं गोविन्दविष्णुभ्यां क्षालेत्करौ । मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत् ॥ ४५ ॥

饮水作阿遮摩那(ācaman)之后,应诵“戈文达(Govinda)”与“毗湿奴(Viṣṇu)”而洗手;并诵“摩度苏达那(Madhusūdana)”与“三步王(Trivikrama)”而拭唇。

Verse 46

वामनश्रीधराभ्यां च मुखं हस्तौ स्पृशेत्ततः । हृषीकेशपद्मनाभाभ्यां स्पृशेच्चरणौ ततः ॥ ४६ ॥

随后,忆念主为“矮神(Vāmana)”与“持吉祥者(Śrīdhara)”,当触面与双手;继而忆念主为“主宰诸根者(Hṛṣīkeśa)”与“莲脐者(Padmanābha)”,当触双足。

Verse 47

दामोदरेण मूर्द्धानं मुखं सङ्कर्षणेन च । वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः ॥ ४७ ॥

以“达摩达罗(Dāmodara)”之真言触头顶;以“桑迦尔沙那(Saṅkarṣaṇa)”触面;继而以“婆苏提婆(Vāsudeva)”与“普拉丢姆那(Pradyumna)”触双鼻孔。

Verse 48

अनिरुद्धपुरुषोत्तमाभ्यां नेत्रे स्मृशेत्ततः । अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा ॥ ४८ ॥

随后,忆念“阿尼鲁达(Aniruddha)”与“至上人格(Puruṣottama)”,当触(加持)双眼;同样,忆念“不可思议者(Adhokṣaja)”与“人狮(Nṛsiṃha)”,当触(加持)双耳。

Verse 49

नाभिं स्पृशेदच्युतेन जनार्दनेन वक्षसि । हरिणा विष्णुनांसौ च वैष्णावाचमनं त्विदम् ॥ ४९ ॥

诵“阿周陀(Acyuta)”而触脐;诵“阇那尔达那(Janārdana)”而触胸;以“哈利(Hari)”与“毗湿奴(Viṣṇu)”触双肩。此即毗湿奴派的阿遮摩那(ācamana)净化饮水仪轨。

Verse 50

प्रणवाद्यैर्ङेतमोन्तैः केशवादिकनामभिः । मुखे नसोः प्रदेशिन्याऽनामया नेत्रकर्णयोः 1. ॥ ५० ॥

以“Oṁ”起首、以“netra(眼)”作结的诸咒,并以“凯沙瓦(Keśava)”等圣名行安置(nyāsa):先置于口与鼻;再以食指(pradeśinī)配“阿那摩耶(Anāmaya)”安置于双眼与双耳。

Verse 51

कनिष्ठया नाभिदेशं सर्वत्राङ्गुष्ठयोजनम् । आत्मविद्याशिवैस्तत्त्वैस्वाहान्तैः शैवमीरितम् ॥ ५१ ॥

以小指(kaniṣṭhā)触及脐部,并依拇指之宽遍处作印记;行安置(nyāsa)时,安置湿婆派诸真理(tattva),自“我之明(Ātma-vidyā)”起,至咒式“svāhā”而止——此为所传之湿婆法。

Verse 52

दीर्घत्रयेन्दुयुग्व्योमपूर्वकैश्च पिबेज्जलम् । आत्मविद्याशिवैरेव शैवं स्वाहावसानिकैः ॥ ५२ ॥

先诵“dīrgha、traya、indu、yuga、vyoma”诸音,然后饮水;同样地,以含“ātma(我)、vidyā(明)、śiva(吉祥/湿婆)”并以“svāhā”作结的湿婆派咒语,行其湿婆仪轨。

Verse 53

वालज्जाश्रीमुखैः प्रोक्तं शाक्तं स्वाहावसानिकैः । वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम् ॥ ५३ ॥

所传的夏克蒂派(Śākta)咒式,以“vā、la、ljjā、śrī”起首,以“svāhā”作结。具功效的二次生者(dvija)之阿遮摩那(dvijācamanam),则教为以“vāk、ljjā、śrī”起首。

Verse 54

तिलकं च ततः कुर्याद्भाले सुष्ठु गदाकृति । नन्दकं हृदये शखचक्रे चैव भुजद्वये ॥ ५४ ॥

随后应在额头端正点涂圣印(tilaka),其形如金刚杵般的钉锤;又当于心间安置“难陀迦”(Nandaka)之印,并在双臂上安置海螺与法轮之印。

Verse 55

शार्ङ्गबाणं मस्तके च विन्यसेत्क्रमशः सुधीः । कर्णमूले पार्श्वयोश्च पृष्ठे नाभौ ककुद्यपि ॥ ५५ ॥

具慧之行者应依次在头顶安置“舍楞伽”(Śārṅga)与箭之印;并同样安置于双耳根、两胁、背部、脐间,以及上背隆起处(肩胛间)之处。

Verse 56

एवं तु वैष्णवः कुर्यान्मृद्भिस्तीर्थोद्भवादिभिः । अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यम्बकेण तु ॥ ५६ ॥

如是,毗湿奴信徒(Vaiṣṇava)当以出自圣地(tīrtha)之土与诸类圣泥而行;并取由阿耆尼火供(Agnihotra)所生之灰,诵“特里央巴迦”(Tryambaka)真言而涂施。

Verse 57

किवाग्निरिति मंत्रैणाभिमन्त्र्य पञ्चमन्त्रकैः । क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः ॥ ५७ ॥

先以起首为“kivāgnir…”之真言作加持(abhimantra)后,应依次以五真言而行净化:名为“Tatpuruṣa、Aghora、Sadyojāta”等诸咒。

Verse 58

पञ्च कुर्यात्त्रिपुन्ड्राणि भालांसोदरहृत्सु च । शैवः शाक्तत्त्रिकोणाभं नारीवद्वा समाचरेत् ॥ ५८ ॥

应作五处三横圣印(tripuṇḍra):在额、在双肩、在腹、在心。奉湿婆者或奉女神者(Śākta)应点涂三角形之印,或依妇女所规定之仪轨而行。

Verse 59

कृत्वा तु वैदिकीं सन्ध्यां तान्त्रिकीं च समाचरेत् । आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत् ॥ ५९ ॥

既已完成吠陀的桑迪亚(Sandhyā)礼,当亦应如法修行坦陀罗之仪。随后依规行阿遮摩那(ācamana,啜水净身),持咒者当如前召请诸圣地渡口(tīrtha)。

Verse 60

ततस्त्रिवारं दर्भेण भूमौ तोयं विनिःक्षिपेत् । सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत् ॥ ६० ॥

随后以一茎达尔婆草(darbha)将水滴洒于地三次;继而以那同一之水,七次洒灌其顶。

Verse 61

ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम् । आदाय वामहस्तेऽम्बु दक्षेणाच्छाद्य पाणिना ॥ ६१ ॥

继而调息行持(prāṇāyāma),并作六支安置(ṣaḍ-aṅga nyāsa)。然后以左手承水,以右掌覆其上。

Verse 62

वियद्वाय्वग्नितोयक्ष्माबीजैः सन्मन्त्र्य मन्त्रवित् । मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया ॥ ६२ ॥

通晓真言者当以虚空、风、火、水、地之种子真言(bīja)如法加持。继而以根本真言(mūla),取其所滴出的点滴(bindu),以“真如要素印”(tattva-mudrā)封印之。

Verse 63

स्वशिरः सप्तधा प्रोक्ष्यावशिष्टं तत्पुनर्जलम् । कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत् ॥ ६३ ॥

自顶七次洒净之后,持咒者当再取余水。既已成就并加持彼一音节(akṣara),便将之引至鼻孔近处。

Verse 64

जलं तेजोमयं तच्चाकृष्यान्तश्चेडया पुनः । प्रक्षाल्यान्तर्गतं तेन कलमषं तज्जलं पुनः ॥ ६४ ॥

随后,将那如火般光耀之水,再由伊陀(iḍā,左脉)吸入体内,洗净内里所入之垢染;而后将此水再度排出。

Verse 65

कृष्णवर्णं पिङ्गलया रचयेत्स्वाग्रतस्तथा । क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले ॥ ६५ ॥

以平伽罗(piṅgalā,黄色)之物,于自身前方绘作黑色之印相;继而以“阿斯特罗”(Astra,武器真言)将其投掷于预备好的金刚雷石(kuliśa-upala)之上。

Verse 66

एतद्धि सर्वपापघ्नं प्रोक्तं चैवाघमर्षणम् । ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित् ॥ ६६ ॥

此法确被宣说为“阿伽摩尔沙那”(Aghamarṣaṇa),能灭尽一切罪业。其后,通晓真言者当洗净双手,并如先前行阿遮摩那(ācamana,净口啜水之礼)。

Verse 67

समुत्थाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकम् । प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन् ॥ ६७ ॥

随后起身,通晓真言者当将花等吉祥供品置于铜器之中,并诵念以“母音”(mūla,根本音节)作结的真言而献阿尔伽(arghya)供水。

Verse 68

रविमंडलसंस्थाय देवायार्घ्यं प्रकल्पयेत् । दत्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत् ॥ ६८ ॥

当为安住于日轮之中的神祇备办并奉献阿尔伽(arghya)供水。依此法三次献供之后,应观想主宰在太阳之内显现。

Verse 69

स्वल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम् । अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत् ॥ ६९ ॥

亦当诵持简略的伽雅特丽一百零八遍;或诵二十八遍,并以起首为“guhyeti”的密语真言随之作供献。

Verse 70

उद्यदादित्यसंकाशां पुस्तकाक्षकरांबुजाम् । कृष्णाजिनाम्बरां ब्राह्मीं ध्यायेत्ताराङिकतेऽम्बरे ॥ ७० ॥

当观想梵母(Brāhmī,圣智之女神),光辉如旭日初升;莲华之手执经卷与念珠;披黑羚羊皮衣,安坐于繁星标记的虚空之中。

Verse 71

मध्याह्ने वरदां देवी पार्वतीं संस्मरेत्पराम् । शुक्लाम्बरां वृषारूढां त्रिनेत्रां रविबिम्बगाम् ॥ ७१ ॥

正午时分,当忆念观想至上的女神帕尔瓦蒂(Pārvatī),赐福施愿者:身着白衣,乘牛而行,具三目,光耀如日轮。

Verse 72

वरं पाशं च शूलं च दधानां नृकरोटिकाम् । सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम् ॥ ७२ ॥

她作施愿之印,执索与三叉戟,并持人颅钵;至于傍晚,当见其身——珠宝严饰,身披黄色绸衣。

Verse 73

श्यामरङ्गां चतुर्हस्तां शङ्खचक्रलसत्कराम् । गदापद्मधारां देवीं सूर्यासनकृताश्रयाम् ॥ ७३ ॥

当观想女神:肤色幽黯,具四臂;其手以法螺与神轮熠熠生辉;又持金刚杵般之棍(钺槌)与莲华,安坐于日轮宝座之上。

Verse 74

ततो देवानृषींश्चैव पितॄश्चापि विधानवित् । तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः ॥ ७४ ॥

随后,通晓仪轨者当以塔尔帕那(tarpana,奠水供养)敬献诸天、诸仙圣(ṛṣi)与祖灵;继而依循《迦尔帕》(Kalpa)所立之仪道,令自己所择之本尊(iṣṭa-devatā)欢喜受供。

Verse 75

गुरुपङिक्तं च सन्तर्प्य साङ्गं सावरणं तथा । सायुधं वैनतेयं सन्तर्पयामीति तर्पयेत् ॥ ७५ ॥

又当以塔尔帕那使师承之列(guru-paṅkti)得满足——连同其诸分支、眷属与兵器——然后行奠水并宣言:“我令毗那泰耶(Vainateya,迦楼罗)欢喜受供。”

Verse 76

नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् । विष्वक्सेनं च शैलेयं वैष्णवः परितर्पयेत् ॥ ७६ ॥

毗湿奴的奉献者(毗湿奴派信众)应以塔尔帕那敬献纳罗陀(Nārada)、帕尔瓦塔(Parvata)、吉什努(Jiṣṇu)、尼沙塔(Niśaṭha)、乌达婆(Uddhava)、达鲁卡(Dāruka),并及毗湿瓦克塞那(Viṣvaksena)与舍勒耶(Śaileya)。

Verse 77

एवं सन्तर्प्य विप्रेन्द्र दत्त्वार्घ्यं च विवस्वते । पूजागारं समागत्य प्रक्षाल्यान्घ्री उपस्पृशेत् ॥ ७७ ॥

如是,婆罗门中之最胜者啊,既已如法行毕诸供养,并向毗婆斯梵(Vivasvān,日神)奉献阿尔吉亚(arghya),便当来到礼拜之处;洗净双足,行阿遮摩那(ācamana,啜水净身)。

Verse 78

अग्निहोत्रस्थितानग्नीन् हुत्वोपस्थाय यत्नतः । पूजास्थलं समागत्य द्वारपूजां समाचरेत् ॥ ७८ ॥

既向为阿耆尼霍特罗(Agnihotra)所护持之圣火中投献供物(āhuti),并以恭敬勤谨侍奉其火,然后当至礼拜之处,如法行门阈之礼(dvāra-pūjā,门供)。

Verse 79

गणेशं चोर्द्धशाखायां महालक्ष्मीं च दक्षिणे । सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः ॥ ७९ ॥

应将伽内沙安置于上方枝位;将大吉祥天女(摩诃拉克什米)安置于南侧;将辩才天女(萨拉斯瓦蒂)安置于左侧;并再将障碍主毗伽涅湿伐罗安置于右侧。

Verse 80

क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेत् । वामे च यमुनां दक्षे धातारं वामतस्तथा ॥ ८० ॥

应在左侧礼拜护境神克谢特拉帕拉,在右侧礼拜恒河女神(冈伽);同样地,在左侧礼拜亚穆纳,在右侧礼拜达塔(造化主),皆依其所规定的方位而安置供奉。

Verse 81

विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः । द्वारपालांस्ततोऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः ॥ ८१ ॥

智者行者当在左右两侧礼敬毗达塔(天命的制定者),并礼敬宝藏神祇商伽与莲华(Śaṅkha、Padma);其后,再依各部《劫法》(Kalpa)所说,供奉诸门卫守护神。

Verse 82

नन्दः सुनन्दश्चंडण्श्च प्रचण्डः प्रचलोबलः । भद्र ः सुभद्र श्चेत्याद्या वैष्णवा द्वारपालकाः ॥ ८२ ॥

难陀、苏难陀、旃陀那、普罗旃陀、普罗遮罗婆罗、跋陀罗、苏跋陀罗等——这些便是毗湿奴信仰(外士那瓦)的门卫护法。

Verse 83

नन्दी भृङ्गी रिटीस्कन्दो गणेशोमामहेश्वराः । वृषभश्च महाकालः शैवा वै द्वारपालकाः ॥ ८३ ॥

难提、婆陵祇、里提、军荼(斯堪达)、伽内沙、乌玛与大自在天(摩诃伊湿伐罗),以及神牛弗利沙婆与大黑天(摩诃迦罗)——这些确是湿婆派(Śaiva)的门卫护法。

Verse 84

ब्राह्मयाद्य्रा मातरोऽष्टौ तु शक्तयो द्वाःस्थिताः स्वयम् । सेन्दुः स्वनामाघर्णाद्या ङेनमोन्ता इमे स्मृताः ॥ ८४ ॥

自梵母(Brāhmī)起,有八位母力(Mātṛ-śakti),自然而立,守于两处门阈。她们被忆念为:(Sa-)因度(Indu)、斯瓦那玛(Svanāmā)、阿伽尔那(Agharṇā)等——以Ṅenamontā为终。

Verse 85

ततः स्थित्वासने धीमानाचम्य प्रयतः शुचिः । दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः ॥ ८५ ॥

随后,智者安坐于座,行阿遮摩那(ācamana),自持清净;当勤勉驱除一切障碍,无论来自天界、空际,或大地。

Verse 86

केशवाद्यां मातृकां तु न्यसेद्वैष्णवसत्तमः । केशवः कीर्तिसंयुक्तः कांत्या नारायणस्तथा ॥ ८६ ॥

至上的毗湿奴信徒当行母字安置(Mātṛkā-nyāsa),以“Keśava(凯沙瓦)”为始。“Keśava”与名闻(kīrti)相应;同样,“Nārāyaṇa(那罗延那)”与光辉(kānti)相应。

Verse 87

माधवस्तुष्टिसहितो गोविन्दः पुष्टिसंयुतः । विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः ॥ ८७ ॥

“Mādhava(摩达瓦)”与满足(tuṣṭi)相随;“Govinda(瞿文达)”具足滋养与兴盛(puṣṭi)。“Viṣṇu(毗湿奴)”与坚忍(dhṛti)相应;“Madhusūdana(摩度苏达那)”与寂静安和(śānti)相合。

Verse 88

त्रिविक्रमः क्रियायुक्तो वामनो दयितायुतः । श्रीधरो मेधया युक्तो हृषीकेशश्च हर्षया ॥ ८८ ॥

“Trivikrama(三步主)”具足圣行(kriyā);“Vāmana(侏儒化身)”与所爱之伴(圣配)相随。“Śrīdhara(持吉祥者)”与明辨慧(medhā)相应;“Hṛṣīkeśa(主宰诸根者)”与欢喜(harṣa)相应。

Verse 89

पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता । वासुदेवश्च लक्ष्मीयुक् सङ्कर्षण सरस्वती ॥ ८९ ॥

Śraddhā(信心)与莲华脐者帕德玛那婆相应;Lajjā(谦羞)与达摩达罗相应。瓦苏德瓦有吉祥天女拉克什米相伴,桑卡尔沙那有辩才天女萨拉斯瓦蒂随侍。

Verse 90

प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः । चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः ॥ ९० ॥

普拉丢姆那与普丽蒂(爱慕)相应,阿尼鲁达与拉蒂(欢悦)相应。其后,执轮者毗湿奴有阇耶(胜利)随侍;再后,执杵者有杜尔迦(护持之力)相伴。

Verse 91

शार्ङ्गी तु प्रभया युक्तः खड्गी युक्तस्तु सत्यया । शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः ॥ ९१ ॥

执持娑尔恩伽神弓者与普拉婆(光辉)相应;执剑者与萨蒂雅(真实)相应。执螺者与旃陀(猛烈威力)相应;执犁者与瓦妮(神圣言语)相应。

Verse 92

मुसली च विलासिन्या शूली विजययान्वितः । पाशी विरजया युक्तो कुशी विश्वासमन्वितः ॥ ९२ ॥

执持木杵(musala)者有维拉西妮相伴;执三叉戟者具足维阇雅。执绳索(pāśa)者与维拉惹相应;执库沙草者具足毗湿瓦萨(信赖/信心)。

Verse 93

मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया । निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः ॥ ९३ ॥

穆昆达与维那塔相应,难达迦与苏难达相应。宁迪与斯摩利蒂(忆念)相应,而那罗具足弗哩陀提(增长、兴盛)。

Verse 94

समृद्धियुङ्नरकजिच्छुद्धियुक्च हरिः स्मृतः । कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः ॥ ९४ ॥

祂被忆念为哈利(Hari)——具足昌盛,征服那罗迦(Naraka)之狱,且本性清净。与明辨之智相应时称为克里希那(Kṛṣṇa);与如法的受用相系时称为萨提亚(Satya);与解脱(mokṣa)相连时称为萨特瓦塔(Sātvata)。

Verse 95

सौरिक्षमे सूररमे उमायुक्तो जनार्दनः । भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ॥ ९५ ॥

与名为娑乌利克沙玛(Saurikṣamā)的力量相应时,祂名“苏拉拉摩”(Sūrarama);与乌玛(Umā)合一时,祂名“阇那尔陀那”(Janārdana)。以“负地者”(Bhūdhara)之名时,祂与湿润之神力克勒底尼(Kledinī)相连;与克琳那(Klinnā)之神力相连时,祂成为“毗湿瓦穆尔提”(Viśvamūrti)——以整个宇宙为其形体者。

Verse 96

वैकुण्ठो वसुधायुक्तो वसुदः पुरुषोत्तमः । बली तु परया युक्तो बलानुजपरायणे ॥ ९६ ॥

祂是毗昆陀(Vaikuṇṭha);与大地女神瓦苏达(Vasudhā)相应时,祂为瓦苏达(Vasuda)——赐财者——亦为普鲁绍塔摩(Puruṣottama),至上之人。祂亦名婆利(Bali);当与至上之帕拉(Parā)相合时,祂归依并专注于巴拉之弟(即毗湿奴 Viṣṇu)。

Verse 97

बालसूक्ष्मे बृषघ्नस्तु सन्ध्यायुक्प्रज्ञया वृषः । हंसःप्रभासमायुक्तो वराहो निशया युतः ॥ ९७ ॥

在童稚与微细之境中,祂名布利沙格那(Bṛṣaghna);与暮昏(sandhyā)及觉醒的明慧相应时,祂名弗利沙(Vṛṣa)。天鹅圣相(Haṃsa)与光辉(prabhāsā)相连;野猪化身(Varāha)则与夜色(niśā)相合。

Verse 98

विमलो धारया युक्तो नृसिंहो विद्युता युतः । केशवादिमातृकाया मुनिर्नारायणो मतः ॥ ९८ ॥

毗摩罗(Vimala)与承持之流(dhārā)相应;人狮(Nṛsiṃha)与闪电(vidyutā)相连。在以“凯沙瓦”(Keśava)为首的母音矩阵(Keśava-ādi Mātr̥kā)中,圣牟尼被理解为那罗延(Nārāyaṇa)。

Verse 99

अनृताद्या च गायत्री छन्दो विष्णुश्च देवता । चक्राद्यायुधसंयुक्तं कुम्भादर्शधरं हरिम् ॥ ९९ ॥

对于以“anṛtā…”开头的咒段,其韵律为伽耶特丽(Gāyatrī),主宰神为毗湿奴(Viṣṇu)。当观想哈利(Hari)执持神轮(cakra)等诸武器,并手持水壶(kumbha)与明镜。

Verse 100

लक्ष्मीयुतं विद्युदाभं बहुभूषायुतं भजेत् । एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम् 1. ॥ १०० ॥

应当礼敬(观修)与吉祥天女拉克希米(Lakṣmī)相伴的本尊,光辉如闪电,佩戴众多庄严饰物。如此观想之后,当以由“室利(Śrī)”与“迦摩(Kāma)”诸咒所封护之音节/字母,行持圣力(Śakti)安置法(nyāsa)。

Verse 101

वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकम् । त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राण्यसून्वदेत् ॥ १०१ ॥

应诵念以圣音“唵”(Praṇava, Oṃ)开头的“心咒”(hṛdaya),并将其安置于毗湿奴及其诸圣力(Śakti)之中。亦当诵念对应于皮肤、血液、肌肉、脂肪、骨、髓、精液以及诸生命气息的仪轨文句。

Verse 102

प्राणं क्रोधं तथा मभ्यामन्तान्यादिदशस्वपि । एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ ॥ १०२ ॥

普拉那(prāṇa,生命气)与忿怒(krodha),以及由此起首的其他内在要素——合为十种——各有其所依:一在头顶,一在口中,两在双眼,两在双耳。

Verse 103

नसोर्द्वयं कपोले च द्वयं द्वे द्विरदच्छदे । एकं तु रसनामूले ग्रीवायामेकमेव च ॥ १०३ ॥

鼻孔处有二点,面颊处亦有二点;在所谓“象之覆罩”(即两侧太阳穴)处又各有二点。舌根处有一点,颈部亦有一点。

Verse 104

कवर्गं दक्षिणे बाहौ चवर्गं वामबाहुके । टतवर्गौ पादयोस्तु पफौ कुक्षिद्वये न्यसेत् ॥ १०४ ॥

应行安置法(nyāsa):将「ka」字母群安置于右臂,将「ca」字母群安置于左臂;将「ṭa」与「ta」两群安置于双足;并将「pa」与「pha」之音安置于腰部两侧。

Verse 105

पृष्ठवंशे वमित्युक्तं नाभौ भं हृदये तु मम् । यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि ॥ १०५ ॥

据说应将「vaṃ」安置于脊柱;将「bhaṃ」安置于脐轮;将「maṃ」安置于心中。同样,以「ya」起首的七字安住于身之诸界(dhātu);「haṃ」在于生命之气(prāṇa);而「laṃ」在于真我(ātman)。

Verse 106

क्षं क्रोधे क्रमतो न्यस्य विष्णुपूजाक्षमो भवेत् । पूर्णोदर्या तु श्रीकण्ठो ह्यनन्तो विजरान्वितः ॥ १०६ ॥

若依次第将音节「kṣaṃ」安置于嗔怒之处,行者便堪任供奉毗湿奴(Viṣṇu)之礼。由此,Śrīkaṇṭha 成为「Pūrṇodaryā」;实则为无尽者 Ananta,具不老之德(vijarā)。

Verse 107

सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक्त्रिमूर्तिकः । महेश्वरो वर्तुलाक्ष्याधीशो वै दीर्घघोणया ॥ १०७ ॥

Sūkṣmeśa 与 śālmalī(木棉、丝棉树)相应。Lolākṣī 与三相之理——三相神(Trimūrti)相合。Maheśvara 为主宰者,统摄 Vartulākṣī,亦同样统摄 Dīrghaghoṇā。

Verse 108

दीर्घमुख्या भारभूतिस्तिथीशो गोमुखीयुतः । स्थावरेशो दीर्घजिह्वायुग्धरः कुडोदरीयुतः ॥ १०८ ॥

有具长面之相者;有名为 Bhārabhūti 者;有名为 Tithīśa、具牛面者;有为不动众生(sthāvara)之主者;有长舌者;有负轭(yoke)者;并有具壶腹(大肚)者。

Verse 109

उर्द्ध्वकेश्या तु झिण्टीशो भौतिको विकृतास्यया । सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः ॥ १०९ ॥

随后显现的是“金提伊沙”(Jhiṇṭīśa):发竖而立,性属物质,面容扭曲;顷刻之间,他具足火焰之口,并由乌尔迦(Ulkā)等主要随从侍从左右,赐予恩惠。

Verse 110

अक्रूर आस्यया युक्तो महासेनो विद्यया युतः । क्रोधीशश्च महाकाल्या चण्डेशेन सरस्वती ॥ ११० ॥

阿克鲁拉(Akrūra)与阿斯雅(Āsyā)相应;摩诃军(Mahāsena)具足毗提耶(Vidyā)——神圣之智。忿主(Krodhīśa)与大黑天女(Mahākālī)相连,而辩才天女(Sarasvatī)则与旃提沙(Caṇḍeśa)相连。

Verse 111

पञ्चान्तकः सिद्धगौर्या युक्तश्चाथ शिरोत्तमः । त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः ॥ १११ ॥

继而有五终者(Pañcāntaka),与已成就的皎白女神悉达·高丽(Siddha-Gaurī)相合;又有最胜首(Śirottama),具足三界之智;并有一鲁陀罗(Ekarudraka),执持专一凝聚的真言之力。

Verse 112

कूर्मेशः कमठीयुक्तो भूतमात्रैकनेत्रकः । लम्बोदर्या चतुर्वक्त्रो ह्यजेशो द्राविणीयुतः ॥ ११२ ॥

他是龟主(Kūrmeśa),以龟形示现之主;具足龟形之力;为众生中独眼者;腹垂而大;四面四相;实为不生者阿阇(Ajā)——梵天(Brahmā)之主;并有财丰女神德拉维尼(Drāviṇī)随侍。

Verse 113

सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः । मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी ॥ ११३ ॥

一切主(Sarveśa)与那伽丽(Nāgarī)相合;月主(Someśa)与行空女(Khecarī)相合。依“玛尔雅达”(maryādā)之正法规矩,他为犁主(Lāṅgalīśa);而由达鲁凯沙(Dārukeśa)则指示具相者鲁毗尼(Rūpiṇī)。

Verse 114

वारुण्या त्वर्द्धनारीशो उमाकान्तो मुनीश्वरः । काकोदर्या तथाषाढी पूतनासंयुतो मतः ॥ ११४ ॥

在名为“瓦鲁尼”(Vāruṇī)之期,他被尊为半女半男的主——Ardhanārīśvara;在“乌玛坎塔”(Umākāntā)之期,他被称为牟尼之主——Munīśvara。同样,在“Kākodarī”与“Āṣāḍhī”之期,他被认为与普坦那(Pūtanā)相系。

Verse 115

दण्डीशो भद्रकालीयुगत्रीशो योगिनीयुतः । मीनेशः शङिखनीयुक्तो मेषेशस्तर्जनीयुतः ॥ ११५ ॥

达ṇḍīśa由怖陀罗迦梨(Bhadrakālī)随侍;Yugatrīśa与诸瑜伽女(Yoginī)相伴。双鱼之主携带持螺者Śaṅkhinī;白羊之主则与Tarjanī——警诫之指印相应。

Verse 116

लोहितः कालरात्र्या च शिखीशः कुजनीयुतः । छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ॥ ११६ ॥

洛希塔(Lohita,赤色者)与迦罗罗特丽(Kālarātrī)相应;Śikhīśa与Kujarṇī相合;Chalagaṇḍa与Kapardinī同在;Dviraṇḍeśa则与Vajrā(金刚力)相连。

Verse 117

महाबलो जयायुक्तो बलीशः सुमुखेश्वरी । भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः ॥ ११७ ॥

“具大力而庄严以胜利;大能之主与善面女主Sumukheśvarī同在。其为圣蛇,与Revatī相合;其为持Pināka神弓者,与Mādhavī相应。”

Verse 118

खड्गीशो वारुणीयुक्तो बकेशो वायवीयुतः । श्वेतोरस्को विदारिण्या भृगुः सहजया युतः ॥ ११८ ॥

Khaḍgīśa与瓦鲁尼(Vāruṇī)之力相应;Bakeśa与风性之力Vāyavī相合。Śvetoraska与Vidāriṇī同在;Bhṛgu则与Sahajā相伴。

Verse 119

लकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः । संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका ॥ ११९ ॥

在宇宙归灭之时(saṃvartaka),祂被宣说为:具足吉祥天女拉克什米的拉库利沙(Lakulīśa);与遍在女神维亚毗尼(Vyāpinī)合一的湿婆主(Śiveśa);以及被称为“室利迦ṇṭha母字”(Śrīkaṇṭha-mātṛkā)的大神幻力(Mahāmāyā)。

Verse 120

यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेत् । मुनिस्स्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम् ॥ १२० ॥

凡未明言“Svīśa”之处,皆应处处补入(默然领会)。其圣仙(ṛṣi)被说为达克希纳穆尔提(Dakṣiṇāmūrti),其韵律(chandas)宣称为伽雅特丽(Gāyatrī)。

Verse 121

देवता चार्द्धनारीशो विनियोगोऽखिलाप्तये । हलो वीजानि चोक्तानि स्वराः शक्तय ईरिताः ॥ १२१ ॥

主尊神祇为半女半男自在天(Ardhanārīśvara),其用法(viniyoga)为成就一切所求。诸辅音宣为种子音(bīja),诸元音则教为诸力(śakti)。

Verse 122

कुर्याद्भृगुस्थाकाशेन षड्दीर्घाढ्येन चाङ्गकम् । बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम् ॥ १२२ ॥

当以音节“kā”安置于婆利古住星宿(Bhṛgu-sthā),并具足六个长元音而成其身;其身色如班杜迦花与黄金般辉耀;并执胜妙念珠、钩杖(aṅkuśa)与绳索(pāśa)。

Verse 123

अर्द्धेन्दुशेखरं त्र्यक्षं देववन्द्यं विचिन्तयेत् । ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिमे ॥ १२३ ॥

当观想湿婆:以半月为冠,具三目,为诸天所礼敬。如此禅观湿婆与圣力(Śakti)之后,当于心之末处(心莲之中,作为终结安置)安放/诵出第四分(第四音/第四支)。

Verse 124

सौबीजमातृकापूर्वे विन्यसेन्मातृका स्थले । विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः ॥ १२४ ॥

先安置含种子音节的母音字母(Mātṛkā)之安置法(nyāsa),继而将诸母音字母安放于各自应处。应以“Hrī”同安置障碍主 Vighneśa,以“Śrī”同安置障碍王 Vighnarāja。

Verse 125

विनायकस्तथा पुष्ट्या शान्तियुक्तः शिवोत्तमः । विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती ॥ १२५ ॥

当召请毗那夜迦(Vināyaka)与“增长”Puṣṭi为一对;“寂静”Śānti与“至上吉祥者”Śivottama相应;“造障者”Vighnakṛt与“安瑞”Svasti相合;“除障者”Vighnahartā与辩才天 Sarasvatī相伴——皆为成就吉祥、消除障碍之成对神力。

Verse 126

स्वाहया गणनाथश्च एकदन्तः सुमेधया । कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः ॥ १२६ ॥

与“供献火供”Svāhā相应时,祂名为众主 Gaṇanātha;与“善慧”Sumedhā相应时,祂名为独牙 Ekadanta。与“光辉”Kānti相合则为双牙 Dvidanta;与“爱欲之力”Kāminī相伴则为象面 Gajavakra。

Verse 127

निरञ्जनो मोहिनीयुक्कपर्द्दी तु नटीयुतः । दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः ॥ १२७ ॥

离垢者 Nirañjana 伴以迷惑女神 Mohinī;结发者 Kapardī 与舞者 Naṭī相应。长舌者 Dīrghajihva 与帕尔瓦蒂 Pārvatī相连;而螺耳者 Śaṅkukarṇaka 则与焰光女神 Jvālinī相伴。

Verse 128

वृषध्वजो नन्दया च सुरेश्या गणनायकः । गजेन्द्रः कामरूपिण्या शूर्पकर्णस्तथोमया ॥ १२८ ॥

牛旗者 Vṛṣadhvaja(湿婆 Śiva)伴以难陀 Nandā 与天主女神 Sureśī;众主 Gaṇanāyaka(象头神 Gaṇeśa)亦如是侍从。象王 Gajendra 与变现随欲的 Kāmarūpiṇī相伴;而箕耳者 Śūrpakarṇa 亦与乌玛 Umā同在。

Verse 129

विरोचनस्तेजोवत्या सत्या लम्बोदरेण च । महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी ॥ १२९ ॥

与毗罗遮那、光辉女(Tejovatī)、真实女(Satyā)及大腹者(Lambodara),并大欢喜者(Mahānanda)同在——她即障碍主母毗伽尼希(Vighneśī),其自性为四重形相。

Verse 130

सदाशिवः कामदया ह्यामोदो मदजिह्वया । दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः ॥ १३० ॥

常住吉祥天(Sadāśiva)与欲施女(Kāmadayā)相应;欢香者(Āmoda)与醉舌女(Madajihvā)相应。恶面者(Durmukha)与福丰女(Bhūti)相连;善面者(Sumukha)与世成女(Bhautikī)相合。

Verse 131

प्रमोदः सितया युक्त एकपादो रमायुतः । द्विजिह्वो महिषीयुक्तो जभिन्याशूरनामकः ॥ १३१ ॥

欢悦者(Pramoda)与悉多(Sitā)相伴;独足者(Ekapāda)与罗摩(Ramā)同在;双舌者(Dvijihva)与摩希诗(Mahiṣī)相合;另有一位名为贾比尼亚舒罗(Jabhinyāśūra)。

Verse 132

वीरो विकर्णया युक्तः षण्मुखो भृकुटीयुतः । वरदो लज्जया वामदेवेशो दीर्घघोणया ॥ १३२ ॥

他为勇者,与维迦尔那雅(Vikarṇayā)相伴;具六面,眉间紧蹙为相。其为施愿赐福者,偕同惭愧德(Lajjā);又以“瓦摩提维沙”(Vāmadeveśa)之名,与长鼻女(Dīrghaghoṇā)相应。

Verse 133

धनुर्द्धर्या वक्रतुण्डो द्विरण्डो यामिनीयुतः । सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः ॥ १३३ ॥

“持弓者;曲鼻者;双牙者;与夜相伴者;统帅者;与夜相连者;为欲所盲者;并由村长随侍者”——此等皆被宣说为名号与仪轨之称。

Verse 134

मत्तः शशिप्रभायुक्तो विमत्तो लोलनेत्रया । मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः ॥ १३४ ॥

他沉醉,具足如月之光辉;却因那双目摇曳的女子,仿佛并未沉醉。乘着狂醉而迅疾的坐骑,伴以飘忽不定的同侣,他是结发苦行者,具炽然灿烂之威光。

Verse 135

मुण्डी सुभगया युक्तः खड्गी दुर्भगया युतः । वरेण्यश्च शिवायुक्तो भगया वृषकेतनः ॥ १३५ ॥

他是穆ṇḍī——剃首苦行者——与苏婆伽同住;他是卡ḍgī——执剑者——与杜婆伽相伴;他是瓦雷尼亚——至上、堪当拣择者——与湿婆女神相应;他是弗利沙凯塔那——以公牛为徽记者——与婆伽相合。

Verse 136

भक्ष्यप्रियो भगिन्या च गणेशो भगिनीयुतः । मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक् ॥ १३६ ॥

“喜食者”Bhakṣyapriya将与其姊妹同得成就;伽内沙亦将由其姊妹相随。梅伽那陀将与苏婆伽同在;而遍行者Vyāpī将与迦罗罗多利Kālarātri相合。

Verse 137

गणेश्वरः कालिकया प्रोक्ता विघ्नेशमातृकाः । गणेशमातृकायास्तु गणो मुनिभिरीरितः ॥ १३७ ॥

迦利迦宣说:伽内湿伐罗Gaṇeśvara为“障碍主母众”(Vighneśa-mātṛkā)之主宰神;诸牟尼亦言:其侍从之众gaṇa,隶属于伽内沙母众Gaṇeśa-mātṛkā。

Verse 138

त्रिवृद्गायत्रिकाछन्दो देवः शक्तिगणेश्वरः । षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि ततः स्मरेत् ॥ १३८ ॥

其韵律为“三重伽耶垂”(Trivṛt-Gāyatrī);其主宰神为“圣力伽内湿伐罗”Śakti Gaṇeśvara。以具六个长元音之种子真言行支分安置(aṅga-nyāsa)之后,当复观想忆念彼神/彼咒。

Verse 139

पांशांकुशाभयवरान्दधानं कज्जहस्तया । पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत् ॥ १३९ ॥

应观想并描绘象头神伽内沙:手持绳索与钩棒,示无畏印与施愿印;一手捧持甜点摩陀迦。其身赤红,具三目,为配偶所拥抱。

Verse 140

एवं ध्यात्वा न्यसेत्स्वीयबीजपूर्वाक्षरान्वितम् । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथेधिका ॥ १४० ॥

如是观想之后,应行安置法(nyāsa),将与自身种子音(bīja)及其前导音节相连的真言,安置于身。由此生起离欲退转、安住坚固、真实智、寂静安宁,以及更进一步的灵性增长。

Verse 141

दीपिका रेचिका चापि मोचिका च पराभिधा । सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ॥ १४१ ॥

她亦名为:Dīpikā(照明者)、Recikā(净化/涤空者)、Mocikā(解脱者)与 Parā(至上者)。同样,她又称 Sūkṣmā(微妙者)、Asūkṣmāmṛtā(超越微妙之甘露)、Jñānāmṛtā(智慧甘露)以及 Āpyāyinī(滋养者)。

Verse 142

व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका । स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः ॥ १४२ ॥

她遍满一切,体性如虚空——无有边际。她是创造与丰盛;她是忆念与慧智。继而她是光辉;她是吉祥天女拉克什米,是坚忍、稳固,以及安住不动的常住。

Verse 143

सिद्धिर्जरा पालिनी च क्षान्तिरीश्वरिका रतिः । कामिका वरदावाथ ह्लादिनी प्रीतिसंयुता ॥ १४३ ॥

她是悉地(Siddhi)、衰老(Jarā)、护持者(Pālinī)与忍辱(Kṣānti);她是女主(Īśvarikā)与爱悦(Rati);她是满愿者(Kāmikā)与施福者(Varadā);亦是欢喜能(Hlādinī)——具足 prīti 的慈爱喜悦。

Verse 144

दीर्घा तीक्ष्णा तथा रौद्रा प्रोक्ता निद्रा च तन्द्रि का । क्षुधा च क्रोधिनी पश्चात्क्रियाकारी समृत्युका ॥ १४४ ॥

睡眠被说有三种——绵长、锐利(压倒性)与猛烈;昏沉亦复如是。饥饿被称为“嗔怒”;其后便有那股催人起行的力量——宛如死亡本身。

Verse 145

पीता श्वेतारुणा पश्चादसितानन्तया युता । उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत् ॥ १४५ ॥

起初为黄色,继而为白与微红;随后与幽黑相合,并与无尽者阿难多(Ananta)相连。如此便说了“迦罗母字”(Kalā-mātṛkā);奉彼之 भक्त当依此修行。

Verse 146

कलायुङ्मातृकायास्तु मुनिः प्रोक्तः प्रजापतिः । गायत्रीछन्द आख्यातं देवता शारदाभिधा ॥ १४६ ॥

名为“迦罗勇母字”(Kalāyuṅmātṛkā)之咒/明的圣见者(ṛṣi)被说为生主波罗阇波提(Prajāpati);其韵律为伽耶特丽(Gāyatrī),主宰本尊为舍罗陀(Śāradā,即萨拉斯瓦蒂)。

Verse 147

ह्रस्वदीर्घांतरस्थैश्च तारैः कुर्यात्षडङ्गकम् । पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम् ॥ १४७ ॥

以标示短、长与中音的声调记号(tāra),当建立六支(ṣaḍaṅga)之安置;并当观想三眼女神,具莲华与轮(cakra)之德相,亦执持诸guṇa与aṃśa(构成之分量)。

Verse 148

पञ्चवक्त्रां भारतीं तां मुक्ताभूषां भजेत्सुधीः । ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम् ॥ १४८ ॥

智者当礼拜供奉彼婆罗底(Bhāratī,萨拉斯瓦蒂),五面具足,珠璎庄严。如是观想于她——以“多罗”音节(Tāra,即Oṃ)为先——当行诸字之安置(nyāsa),并与诸kalā相应,终以鼻音“ṅ”而结。

Verse 149

ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेत् । हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत् ॥ १४९ ॥

随后,应修行根本真言的六支法(ṣaḍaṅga);自“心处”(hṛdaya)起,至第四支为止,将诸“种类音节/种子音”(jāti)相应结合,并依法作安置(nyāsa)。

Verse 150

नमः स्वाहा वषट् हुं वौषट् फट् जातय ईरिताः । ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम् 1. ॥ १५० ॥

真言音节“namaḥ”“svāh┓vaṣaṭ”“huṃ”“vauṣaṭ”“phaṭ”被宣说为各自所属的jāti。其后,应观想自己所奉之本尊(iṣṭa-devatā),身佩庄严宝饰,并具足神圣兵器与法相标志。

Verse 151

न्यस्याङ्गषट्कं तन्मूर्तौ ततः पूजनमारभेत् ॥ १५१ ॥

于彼神圣形相之上安置六支之nyāsa(aṅga-ṣaṭka)之后,便应开始供奉礼拜(pūjā)。

Verse 152

इति श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सन्ध्यादिनिरूपणंनाम षट्षष्टिन्तमोऽध्यायः ॥ ६६ ॥

至此,神圣《广那罗陀往世书》(Bṛhannāradīya Purāṇa)前分(Pūrva-bhāga)之“大叙事”中第三品(Pada)名为“Sandhyā及相关日常行持之阐明”的第六十六章圆满结束。

Frequently Asked Questions

It is presented as a sin-destroying expiation (pāpa-nāśaka) usable when standard Sandhyā/bathing is obstructed by illness; the rite is framed in mantra-technical terms (astra deployment and ritual casting), preserving nitya-karma continuity under constraint.

It layers external cleansing (earth/water), mantra-consecrated tīrtha water (tīrtha-āhvāna with bīja, mudrā, kavaca/astra), and an inner visualization bath that imagines the Lord’s pādodaka entering via brahma-randhra to wash internal impurity—integrating śrauta decorum with tantric sādhanā.

It gives a normative Vaiṣṇava ācamana/tilaka/nyāsa while explicitly documenting Śaiva and Śākta ācamana and marking conventions (tripuṇḍra/triangular marks), indicating a cataloging intent rather than exclusivist polemic.