
萨那迦介绍一段毗湿奴派的赞颂,称只要聆听与歌咏便能灭除罪业。他追忆古老对话:因陀罗沉浸天界享乐之时,向布里哈斯帕提请问前一梵天劫中的创世,以及因陀罗与诸天的真实本性与职责。布里哈斯帕提承认所知有限,指引因陀罗去见苏达尔玛——一位自梵天界降临、居于因陀罗城的圣者。在苏达尔玛的集会殿中,因陀罗询问往昔劫事与苏达尔玛得以超胜之因。苏达尔玛阐明“梵天一日”(一千四瑜伽),并列举十四摩奴、相应诸因陀罗及各类天众(deva-gaṇa)在诸摩奴期(manvantara)中的更替,强调宇宙治理结构周而复始。继而叙述自身前生:曾为罪重的秃鹫,死于毗湿奴神庙附近;一条狗叼着其身绕殿而行,无意中完成右绕礼(pradakṣiṇā),二者遂同得至上境界。章末明示奉爱(bhakti)之果:即便机械绕行亦具大功德;诚心礼拜并恒常忆念那罗延那(Nārāyaṇa)能除罪、断轮回、得入毗湿奴之居;听闻/诵读此教,功德等同马祭(Aśvamedha)。
Verse 1
सनक उवाच । अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं मुने । यां श्रृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत् ॥ १ ॥
萨那迦说道:“从此以后,噢牟尼,我将宣说毗湿奴派的神圣威德——毗湿奴的诸般神妙显现;凡聆听并以颂赞歌咏者,其罪业当即消灭。”
Verse 2
वैवस्वतेंऽतरे पूर्वं शक्रस्य च बृहस्पतेः । संवादः सुमहानासीत्तं वक्ष्यामि निशामय ॥ २ ॥
在毗婆斯瓦塔(Vaivasvata)摩奴劫之前,曾有一场极其宏大的对话,发生在释迦罗(因陀罗)与布里哈斯帕提之间。请专心聆听,我今将为你叙述。
Verse 3
एकदा सर्वभोगाढ्यो विबुधैः परिवारितः । अप्सरोगणसंकीर्णो बृहस्पतिमभाषत ॥ ३ ॥
有一次,他享尽诸般福乐,众天神环侍左右,身处阿普萨罗(天女)群中,便向布里哈斯帕提开口说道。
Verse 4
इन्द्र उवाच । बृहस्पते महाभाग सर्वतत्त्वार्थकोविद । अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो ॥ ४ ॥
因陀罗说道:“噢布里哈斯帕提,大福德者,通达一切真理(tattva)之义的尊者!在梵天往昔的劫(kalpa)中,创造是以何种方式展开的?”
Verse 5
इन्द्रस्तु कीदृशः प्रोक्तो विवुधाः कीदृशाः स्मृताः । तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि ॥ ५ ॥
请依次如实开示:因陀罗被称为何等存在,诸天(vivudha)被理解为何等神众,以及他们被分配的职责与业行究竟为何。
Verse 6
बृहस्पतिरुवाच । न ज्ञायते मया शक्र पूर्वेद्युश्चरितं विधेः । वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे ॥ ६ ॥
布里哈斯帕提说道:噢,释迦罗啊,我连造化主(梵天)昨日所行都不能了知;即便是今日之事,在我看来也难以洞察。
Verse 7
मनवः समतीताश्च तान्वक्तुमपि न क्षमः । यो विजानाति तं तेऽद्य कथयामि निशामय ॥ ७ ॥
诸位摩奴早已逝去,我甚至无力逐一述说。然而,真正了知他们的人——我今日将向你道出其名;请专心聆听。
Verse 8
सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव । भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः ॥ ८ ॥
在你的城中住着一位名闻遐迩者,号为苏达尔摩(Sudharma);他享受天界妙乐,自梵天界(Brahmaloka)来到此处。
Verse 9
स वा एत द्विजानाति कथयामि निशामय । एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः ॥ ९ ॥
此教义确为“二次生者”(dvija)所知;我将为你宣说——请专心聆听。师长如此告诫后,释迦罗便与师同往,继续前行。
Verse 10
देवतागणसंकीर्णः सुधर्मनिलयं ययौ ॥ १० ॥
在众天神簇拥之下,他前往苏达摩(Sudharmā)——诸神集会的神圣殿堂。
Verse 11
समागतं देवपतिं बृहस्पतिसमन्वितम् । दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् ॥ ११ ॥
见天神之主偕同布里哈斯帕提到来,那位天界圣仙依礼迎接,并恭敬供奉礼拜。
Verse 12
सुधर्मेणार्चितः शंक्रो दृष्ट्वा तच्छ्रियमुत्तमाम् । मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः ॥ १२ ॥
受苏达摩恭敬供奉的商羯罗见到那至上光辉,心中惊叹充满,遂以谦逊之辞开口。
Verse 13
इंद्र उवाच । अतीतब्रह्मकल्पस्य वृत्तांतं वेत्सि चेद्बुध । तदाख्याहि समायात एतत्प्रष्टुं सयाजकः ॥ १३ ॥
因陀罗说道:“智者啊,若你知晓往昔梵天劫(Brahmā-kalpa)的事迹,请为我宣说。我与祭司同来,正为请问此事。”
Verse 14
गतनिद्रांश्च देवांश्च येन जानासि सुव्रत । तद्वदस्वाधिकः कस्मादस्मद्भ्योऽपि दिवि स्थितः ॥ १४ ॥
善持清净誓戒者啊,请宣说那真理,凭此你得知诸天从睡眠中觉醒;并请解释:在天界安住、甚至超越我们之上的那位至上者是谁?
Verse 15
तेजसायशसा कीर्त्या ज्ञानेन च परंतप । दानेन वा तपोभिर्वा कथमेतादृशः प्रभो ॥ १५ ॥
噢,焚灭仇敌者!凭何法门——凭灵性光辉、凭名望、凭声誉、凭智慧、凭布施,或凭苦行——才能成就如你一般,噢主宰?
Verse 16
इत्युक्तो देवराजेन सुधर्मा प्रहसंस्तदा । प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि ॥ १६ ॥
天帝如此发问,苏达摩当即含笑;他满怀谦恭,依照应有的次第,如实叙述先前的经过。
Verse 17
सुधर्म उवाच । चतुर्युगसहस्त्राणि ब्रह्मणो दिनमुच्यते । एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश ॥ १७ ॥
苏达摩说:四劫(四瑜伽)的一千个轮回,被宣说为梵天(Brahmā)的一日。噢,释迦罗(因陀罗)啊,在这一日之中有十四位摩奴(Manu)。
Verse 18
इंद्राश्चतुर्दश प्रोक्ता देवाश्च विविधाः पृथक् । इंद्राणां चैव सर्वेषां मन्वादीनां च वासव ॥ १८ ॥
经中宣说有十四位因陀罗;诸天亦有多种类别,各各不同。而对一切因陀罗,以及诸摩奴等众者——(其主宰)为婆娑婆(Vāsava)。
Verse 19
तुल्यता तेजसा लक्ष्म्या प्रभावेण बलेन च । तेषां नामानि वक्ष्यामि श्रृणुष्व सुसमाहितः ॥ १९ ॥
他们在光辉、在福德吉祥(拉克什米)、在威势影响、以及在力量上皆相等。如今我将宣说他们的名号;请以专注摄心而听。
Verse 20
स्वायंभुवो मनुः पूर्वं ततः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २० ॥
最初是自生者摩奴(Svāyambhuva Manu);其后同样有斯瓦罗奇沙(Svārociṣa)。随后是乌塔摩(Uttama)与塔摩萨(Tāmasa),并有赖瓦塔(Raivata)与恰克舒沙(Cākṣuṣa)。
Verse 21
वैवस्वतो मनुश्चैव सूर्यसावर्णिरष्टमः । नवमो दक्षसावर्णिः सर्वदेवहिते रतः ॥ २१ ॥
毗婆斯瓦塔(Vaivasvata)确是当今时代的摩奴;第八位是苏利耶萨瓦尔尼(Sūryasāvarṇi);第九位是达克沙萨瓦尔尼(Dakṣasāvarṇi),恒常致力于诸天的福祉。
Verse 22
दशमो ब्रह्मसावर्णिर्द्धर्मसावर्णिकस्ततः । ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः ॥ २२ ॥
第十位摩奴是梵天萨瓦尔尼(Brahma-sāvarṇi);其后是达摩萨瓦尔尼迦(Dharma-sāvarṇika)。再后是鲁陀罗萨瓦尔尼(Rudra-sāvarṇi),其后所记念者为罗恰摩那(Rocamāna)。
Verse 23
भौत्यश्चतुर्दशः प्रोक्त एते हि मनवः स्मृताः । देवानिंद्रांश्च वक्ष्यामि श्रृणुष्व विबुधर्षभ ॥ २३ ॥
因此,婆乌提耶(Bhautya)被宣说为第十四位;这些确是被忆念的诸摩奴。如今我也将讲述诸天与诸因陀罗——请听吧,噢智者之雄。
Verse 24
यामा इति समाख्याता देवाः स्वायंभुवेंऽतरे । शचीपतिः समाख्यातस्तेषामिंद्रो महापतिः ॥ २४ ॥
在自生者摩奴(Svāyambhuva)的摩奴期中,诸神被称为“夜摩”(Yāmas);而舍契之主舍契钵底(Śacīpati)被誉为他们的因陀罗,伟大的统领。
Verse 25
पारावताश्च तुषिता देवाः स्वारोचिषेंऽतरे । विपश्चिन्नाम देवेन्द्रं सर्वसंपत्समन्वितः ॥ २५ ॥
在斯瓦罗奇沙(Svārociṣa)摩奴劫中,诸天为帕拉瓦塔(Pārāvata)与图西塔(Tuṣita)诸众;天帝因陀罗名为毗帕悉(Vipaścit),具足一切福祉与昌盛。
Verse 26
सुधामानस्तथा सत्याः शिवाश्चाय प्रर्तदनाः । तेषामिंद्रः सुशांतिश्च तृतीये परिकीर्तितः ॥ २६ ॥
同样,还有苏达摩那(Sudhāmāna)、真实者(Satya)、吉祥者(Śiva)以及普拉尔塔达那(Prartadana)等诸众;其中天帝因陀罗为苏善提(Suśānti),被宣说为第三类之主。
Verse 27
सुताः पाराहराश्चैव सुत्याश्चासुधियस्तथा । तेषामिंद्रः शिवः प्रोक्तः शक्रस्तामसकेंऽतरे । विभानामा देवपतिः पञ्चमः परिकीर्तितः ॥ २७ ॥
有苏塔(Sutā)、帕拉哈拉(Pārāhara)、苏提亚(Sutya)以及阿苏提耶(Asudhiya)诸众;其中宣说“湿婆(Śiva)为因陀罗”,而在塔摩萨(Tāmasa)摩奴劫的间期又称为释迦罗(Śakra)。名为毗婆(Vibhā)的天众之主被称颂为第五位。
Verse 28
अमिताभादयो देवाः षष्ठेऽपि च तथा श्रृणु । आर्याद्या विबुधाः प्रोक्तास्तेषामिंद्रो मनोजवः ॥ २८ ॥
也当聆听第六类:诸天以阿弥多婆(Amitābha)等为首;以阿利耶(Ārya)等为首的智者被宣说于其中;其间天帝因陀罗为摩诺阇婆(Manojava)。
Verse 29
आदित्यवसुरुद्राद्या देवा वैवस्वतंऽतरे । इन्द्रः पुरंदरः प्रोक्तः सर्वकामसमन्वितः ॥ २९ ॥
在毗婆斯瓦特(Vaivasvata)摩奴劫中,诸天被说为阿底提耶(Āditya)、婆苏(Vasu)、鲁陀罗(Rudra)等众;天帝因陀罗被宣称为普兰达罗(Purandara),具足成就一切所愿之德。
Verse 30
अप्रमेयाश्च विबुधाः सुतपाद्याः प्रकीर्तिताः । विष्णुपूजाप्रभावेण तेषामिंद्रो बलिः स्मृतः ॥ ३० ॥
那些被称颂为不可测量的诸天,自苏塔帕起;由于礼敬毗湿奴的威力,据说他们以婆利为其因陀罗(主宰)。
Verse 31
पाराद्या नवमे देवा इन्द्रश्चाद्भुत उच्यते । सुवासनाद्या विबुधा दशमे परिकीर्तिताः ॥ ३१ ॥
在第九类中,有以帕拉为首的诸天,其因陀罗被称为“阿德布塔”(奇妙者)。在第十类中,宣说以苏瓦萨那为首的天众。
Verse 32
शांतिर्नाम च तत्रेंद्रः सर्वभोगसमन्वितः । विहंगॄमाद्या देवाश्च तेषामिंद्रो वृषः स्मृतः ॥ ३२ ॥
在那里,主宰(因陀罗)名为“商提”(Śānti),具足一切享乐。以“毗航伽”(天鸟)为首的诸天隶属于他;而他们的因陀罗被忆念为“弗利沙”(Vṛṣa)。
Verse 33
एकादशे द्वादशे तु निबोधकथायामि ते । ऋभुनामा च देवेंद्रो हरिनाभास्तथा सुराः ॥ ३३ ॥
如今,关于第十一与第十二类,你当听我为你解说:有名为“日布”(Ṛbhu)的天帝(Devendra),亦有称为“哈利那婆”(Harinābha)的诸天。
Verse 34
सुत्रामाद्यास्तथा देवास्त्रयोदशतमेऽन्तरे । दिवस्पतिर्महावीर्यस्तेषामिंद्रः प्रकीर्तितः ॥ ३४ ॥
同样,在第十三摩奴劫(Manvantara)中,记述以苏特拉曼(Sutrāman)为首的诸天;而大威力的提瓦斯帕提(Divaspati)被颂为他们的因陀罗。
Verse 35
चतुर्दशे चाक्षुपाद्या देवा इन्द्रः शुचिः स्मृतः । एवं ते मनवः प्रोक्ता इंद्रा देवाश्च तत्त्वतः ॥ ३५ ॥
在第十四个摩奴劫中,诸天被称为“恰克舒帕”(Cākṣupa),而“舒奇”(Śuci)被追忆为因陀罗。由此可知,依真实义,我已向你宣说了诸摩奴、诸因陀罗与诸天众。
Verse 36
एकस्मिन्ब्रह्यदिवसे स्वाधिकारं प्रभुंजते ॥ ३६ ॥
在梵天的一日之中,他们享受并行使各自被分配的权柄与职分之境域。
Verse 37
लेकेषु सर्वसर्गेषु सृष्टिरेकविधा स्मृता । कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः ॥ ३७ ॥
于一切世界与一切创世轮回中,创造被忆念为本质上一类。然而造作之者众多——究竟谁能知其全数?
Verse 38
मयि स्थिते ब्रह्मलोके ब्रह्माणां बहवो गताः । तेषां संख्या न संख्यातु शक्तोऽस्म्यद्य द्विजोत्तम ॥ ३८ ॥
当我安住于梵天界(Brahmaloka)之时,已有许多梵天相继逝去。即便今日,噢最胜的二生者,我亦无力计数其数目。
Verse 39
स्वर्गलोकमपि प्राप्य यावत्कालं श्रृणुष्व मे । चत्वारो मनवोऽतीता मम श्रीश्चातिविस्तरा ॥ ३९ ॥
纵使得至天界(Svarga),也当趁时光尚许聆听我言。已有四位摩奴过去,而我的“室利”(Śrī,吉祥与丰盛)亦曾极其广大。
Verse 40
स्थातव्यं च मयात्रैव युगकोटिशतं प्रभो । ततः परं गमिष्यामि कर्मभूमिं श्रृणुष्व मे ॥ ४० ॥
主啊,我必须在此停留百千万纪(Yugas)。之后,我将前往业报之地(人间)。请听我说。
Verse 41
मया कृतं पुरा कर्म वक्ष्यामि तव सुव्रत । वदतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ॥ ४१ ॥
拥有殊胜誓愿者啊,我将告诉你我很久以前所做的一件事——它能消除讲述者和倾听者的一切罪业。
Verse 42
अहमांस पुरा शक्र गृध्रः पापो विशेषतः । स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः ॥ ४२ ॥
帝释天(Shakra)啊,以前我是一只秃鹫,罪孽深重,栖息在地上,以不洁的腐肉为食。
Verse 43
एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो । पतितो व्याधशस्त्रेण सायं विष्णोर्गृहांगणे ॥ ४३ ॥
主啊,有一次,当我站在毗湿奴神庙的围墙上时,傍晚时分被猎人的武器击中,跌落在毗湿奴神殿的庭院里。
Verse 44
मयि कंठगतप्राणे भषणो मांसलोलुपः । जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः ॥ ४४ ॥
当我的生命气息升至喉咙时,贪婪血肉的巴沙那(Bhashana)用它的下颚咬住了我,其他的狗也撕咬着我。
Verse 45
वहन्मां स्वमुखेनैव भीतोऽन्यैर्भषणैस्तथा । गतः प्रदक्षिणा कारं विष्णोस्तन्मंदिरं प्रभो ॥ ४५ ॥
他把我含在自己口中,又因他人的威吓与讥诮而心生恐惧,便绕行毗湿奴主的圣殿作右绕礼(pradakṣiṇā),噢主啊。
Verse 46
तेनैव तुष्टिमापन्नो ह्यंतरात्मा जगन्मयः । मम चापि शुनश्चापि दत्तावन्परमं पदम् ॥ ४६ ॥
正因那一举动,遍满宇宙的内在真我(Antaryāmin)心生欢喜,遂赐予我与那条狗同得至上境界。
Verse 47
प्रदक्षिणा कारतया गतस्यापीदृशं फलम् । संप्राप्तं विबुधश्रेष्ट किं पुनः सम्यगर्चनात् ॥ ४७ ॥
即便只是机械地行右绕礼(pradakṣiṇā)者,也能得此果报,噢诸天中最胜者;何况如法如仪、正当供奉之功德,其果岂不更大!
Verse 48
इत्युक्तो देवराजस्तु सुधर्मेण महात्मना । मनसा प्रीतिमापन्नो हरिपूजा रतोऽभवत् ॥ ४८ ॥
天帝受大心者苏达摩如此开示,内心欢喜,遂专注于对哈利(毗湿奴)的礼拜供奉。
Verse 49
तथापि निर्जराः सर्वे भारते जन्मलिप्सवः । समर्चयंति देवेशं नारायणमनामयम् । तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः ॥ ४९ ॥
即便如此,一切不死诸天,渴望生于婆罗多(Bhārata)之地,皆礼敬诸神之主——那罗延(Nārāyaṇa),无瑕无病者。而这些诸天自身,又常被以梵天等为首的神众不断供敬礼赞。
Verse 50
नारायणानुस्मरणोद्यतानां महात्मनां त्यक्तपरिग्रहणाम् । कथं भवत्युग्रभवस्य बंधस्तत्सङ्गलुब्धा यदि मुक्तिभाजः ॥ ५० ॥
对于恒常专注忆念那罗延、并已舍离占有执著的伟大圣者,怎会有由凶猛世间生有而生的束缚?纵使被牵入那样的交往,他们仍是解脱之分的得者。
Verse 51
ये मानवाः प्रतिदिनं परिमुक्तसङ्गा नारायणं गरुडवाहनमर्चयंति । ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियांति हृष्टाः ॥ ५१ ॥
那些日日离于世缘、礼拜那罗延——乘伽楼罗之主——的人,周遍脱离无量罪聚;欢喜之中,他们到达毗湿奴至吉祥的圣境。
Verse 52
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरंति । ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबंति ॥ ५२ ॥
那些离于贪著、通达高下诸实相的人,恒常忆念那罗延——诸天之师。由此禅观,其心识罪垢尽除,不再饮母乳(即不复再生)。
Verse 53
ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णांघ्रपद्मभजने रतचेतनास्च । ते वै पुंनति च जगंति शरीरसंगात् संभाषणादपि ततो हरिरेव पूज्यः ॥ ५३ ॥
那些因聆听哈利圣传(Hari-kathā)而洗净过失、其心沉醉于礼敬克里希纳莲足之奉爱者,确能净化诸世间。仅与之相处交谈亦能令人成为清净;故唯有哈利值得礼拜。
Verse 54
हरिपूजापरा यत्र महांतः शुद्धबुद्धयः । तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज ॥ ५४ ॥
噢,二次生者啊,凡有心智清净的大圣者专注礼拜哈利之处,诸般吉祥便尽聚于彼——如水自然汇集于低洼之地。
Verse 55
हरिरेव परो बन्धुर्हरिरेव परा गतिः । हरिरेव ततः पूज्यो यतश्चेतन्यकारणम् ॥ ५५ ॥
唯有诃利(Hari)是至上的亲族;唯有诃利是最高的归依与究竟。故当唯独礼拜诃利,因为祂乃觉知(意识)之因。
Verse 56
स्वर्गापवर्गफलदं सदानंदं निरामयम् । पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति ॥ ५६ ॥
噢,诸牟尼中最胜者!对那堪受敬礼之人,此教法/修持将成无上之善——赐予天界之果与解脱之果,常住永恒喜乐,远离一切病苦。
Verse 57
पूजयंति हरिं ये तु निष्कामाः शुद्धमानसाः । तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति ॥ ५७ ॥
凡以无欲之心、清净之意礼拜诃利者,毗湿奴心生欢喜,便赐予他们一切应得的圆满成就。
Verse 58
यस्त्वेतच्छृणुयाद्वापि पठेद्वा सुसमाहितः । स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम ॥ ५८ ॥
凡以专注安定之心聆听此教或诵读此文者——噢,最上之牟尼——将获得阿湿婆梅陀(马祀)大祭的功德之果。
Verse 59
इत्येतत्ते समाख्यातं हरिपूजाफलं द्विज । संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते ॥ ५९ ॥
如是,噢“二次生”者,我已向你宣说礼拜诃利之果报。无论略说或广说,我还能对你说些什么呢?
It situates dharma and divine governance within cyclic cosmic time (manvantara-dharma), showing that offices like Manu and Indra are recurring roles within Brahmā’s day; this frames devotion and ritual merit as operating within a vast, ordered cosmology.
It teaches that contact with Viṣṇu’s temple and acts like pradakṣiṇā carry intrinsic devotional potency; even unintended performance can yield purification and uplift when oriented around Hari, while intentional worship is said to grant even greater fruit.
It repeatedly elevates Hari-bhakti—hearing Hari’s narratives, worship at Kṛṣṇa’s feet, desireless remembrance of Nārāyaṇa—as the direct cleanser of sin and the cause of freedom from rebirth, culminating in attainment of Viṣṇu’s abode.