Adhyaya 34
Purva BhagaFirst QuarterAdhyaya 3478 Verses

The Characteristics of Devotion to Hari

那罗陀请萨那迦说明:即使已教授瑜伽诸支,如何仍能令主神欢喜。萨那迦答曰:解脱源于以全心敬拜那罗延;具奉爱者得护佑,免于怨敌与灾厄;诸根若用于毗湿奴的瞻礼(darśana)、供奉(pūjā)与持名(nāma-japa),便成“有果”。他屡次宣说上师与克舍瓦之至上,强调在虚幻不实的轮回(saṃsāra)中,唯有对哈利的修持(Hari-upāsanā)是稳固真实。章中融汇伦理根基(不害、真实、不盗、梵行、不贪)、谦卑、慈悲、善友共修(satsanga)与恒常持名,并以吠檀多观照醒—梦—深睡三态,指示主为超越一切限制条件的内在主宰。又以人生短促劝人急修,斥责骄慢、嫉妒、嗔怒与欲望;赞叹在毗湿奴庙中服侍(乃至清扫);确认奉爱超越社会身份;终以忆念、礼拜与归依阇那尔达那,能断轮回系缚,趋入至上住处。

Shlokas

Verse 1

नारद उवाच । समाख्यातानि सर्वाणि योगाङ्गानि महामुने । इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम् 1. ॥ १ ॥

那罗陀说道:“噢,大牟尼,瑜伽的一切支分都已宣说。如今亦然,噢全知者,请为我开示我所请问之事。”

Verse 2

योगो भक्तिमतामेव सिध्यतीति त्वयोदितम् । यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम् ॥ २ ॥

你已宣示:瑜伽唯在具奉爱(bhakti)者身上得以成就。凡令万有之主欢喜者,其奉爱便成永恒。

Verse 3

यथा तुष्यति सर्वेशो देवदेवो जनार्दनः । तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे ॥ ३ ॥

请告诉我,噢全知的牟尼、慈悲之海:以何法能令阇那尔达那——万有之主、诸天之天——心生欢喜?

Verse 4

सनक उवाच । नारायणं परं देवं सच्चिदानन्दविग्रहम् । भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि ॥ ४ ॥

萨那迦说道:“婆罗门啊,若你渴求解脱,当以全身全心礼敬那罗延——至上神,其形体即‘有、知、乐’(Sat–Cit–Ānanda)。”

Verse 5

रिपवस्तं न हिंसन्ति न बाधन्ते ग्रहाश्च तम् । राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम् ॥ ५ ॥

仇敌不能伤害他,诸星宿亦不能加害于他;甚至罗刹也不敢正眼看那全然归依毗湿奴之人。

Verse 6

भक्तिर्दृढा भवेद्यस्य देवदेवे जनार्दने । श्रैयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास्ततः ॥ ६ ॥

若有人对阎那尔达那——诸神之神——的奉爱坚固不移,则一切更高的福祉与吉祥成就皆得圆满;因为奉爱者确实胜过他人。

Verse 7

पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ । तौ करौ सफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ॥ ७ ॥

人的双足若走向毗湿奴的居所(圣殿),便真正有果;人的双手也当知为有果,若专心奉行对毗湿奴的礼拜供奉。

Verse 8

ते नेत्रे सुफले पुंसां पश्यतो ये जनार्दनम् । सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या ॥ ८ ॥

人的双眼若得瞻仰阎那尔达那,便真正有果。贤善之人又宣说:那才是真正的舌——专注于称念哈利圣名的舌。

Verse 9

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । तत्त्वं गुरुसमं नास्ति न देवः केशवात्परः ॥ ९ ॥

真实,真实,再次真实:我举臂高声宣告。没有任何真理原则高于上师(Guru),也没有任何神祇高于凯沙瓦(毗湿奴)。

Verse 10

सत्यं वच्मि हितं वच्मि सारं वच्मि पुनःपुनः । असारेऽस्मिस्तु संसारे सत्यं हरिसमर्चनम् ॥ १० ॥

我说真实,我说有益之言,我一再宣示其精要:在这虚浮的轮回世间,真正的真实就是对哈利的礼拜供奉。

Verse 11

संसारपाशं सुदृढं महामोहप्रदायकम् । हरिभक्तिकुठारेण च्छित्त्वात्यन्तसुखी भव ॥ ११ ॥

以对哈利(Hari)的奉爱之斧,斩断紧缚的轮回绳索——其性生起大迷妄;于是便得至上安乐。

Verse 12

तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा । ते श्रोत्रे तत्कथासारपूरिते लोकवन्दिते ॥ १२ ॥

心若系于毗湿奴,便是有福;言语若全然归依于祂,便是有福。那被世人称赞的双耳亦有福,因其充满祂圣传故事的精髓。

Verse 13

आनन्दमक्षरं शून्यमवस्थात्रितयैरपि । आकाशमध्यगं देवं भज नारद सन्ततम् ॥ १३ ॥

噢那罗陀,当恒常礼敬那位神祇:祂即是喜乐本身,不坏不灭,空离一切局限之相,乃至于醒、梦、深睡三态亦不能触及;祂安住于虚空之中,为遍一切处的真实。

Verse 14

स्थानं न शक्यते यस्य स्वरूपं वा कदाचन । निर्देष्टुं मुनिशार्दूल द्र ष्टुं वाप्यकृतात्मभिः ॥ १४ ॥

噢诸牟尼中的猛虎,祂的住处——乃至祂的真实形相——都无法被确切指示;内在尚未净化圆满之人,也不能得见祂。

Verse 15

समस्तैः करणैर्युक्तो वर्त्ततेऽसौ यदा तदा । जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ॥ १५ ॥

当那永恒的内在主宰(Antaryāmin)具足一切诸根之用(知觉与行动)而运作时,智者称此境为“醒觉位”(jāgrat)。

Verse 16

यदान्तःकरणैर्युक्तः स्वेच्छया विचरत्यसौ । स्वपन्नित्युच्यते ह्यात्मा यदा स्वापविवर्जितः ॥ १६ ॥

当自我(我性)与内在器官(心、智、我慢与记忆)相应,随其自愿而行时,确被称为“恒常作梦者”;而当远离睡眠之时,即是超越睡眠的真我。

Verse 17

न बाह्यकरणैर्युक्तो न चान्तः करणैस्तथा । अस्वरूपो यदात्मासौ पुण्यापुण्यविवर्जितः ॥ १७ ॥

彼真我不与外在诸根相系,亦不与内器(心)相系。当真我不被任何特定形相所局限时,便超越福德与罪业。

Verse 18

सर्वोपाधिविनिर्मुक्तो ह्यानन्दो निर्गुणो विभुः । परब्रह्ममयो देवः सुषुप्त इति गीयते ॥ १८ ॥

远离一切附加限制(upādhi),祂即是纯然安乐——无属性而遍一切处。那由至上梵(Parabrahman)所成的神圣实相,被称颂为“suṣupti”(深睡)之境。

Verse 19

भावनामयमेतद्वै जगत्स्थावरजङ्गमम् । विद्युद्विलोलं विप्रेन्द्र भज तस्माज्जनार्दनम् ॥ १९ ॥

此整个世界——动者与不动者——实由心之造作而成。它如电光般摇曳无常,婆罗门中最胜者啊,因此当礼敬供奉阇那尔达那(Janārdana)。

Verse 20

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । वर्तन्ते यस्य तस्यैव तुष्यते जगतां पतिः ॥ २० ॥

凡于不害、真实、不盗、梵行与不取(不贪执)中安住坚固者——唯独对这样的人,诸世界之主才心生欢喜。

Verse 21

सर्वभूतदयायुक्तो विप्रपूजा परायणः । तस्य तुष्टो जगन्नाथो मधुकैटभमर्दनः ॥ २१ ॥

具足对一切众生的慈悲,并专心礼敬供养婆罗门者,能令 जगन्नाथ Jagannātha——宇宙之主、诛灭摩度与凯塔婆者——心生欢喜。

Verse 22

सत्कथायां च रमते सत्कथां च करोति यः । सत्सङ्गो निरहङ्कारस्तस्य प्रीतो रमापतिः ॥ २२ ॥

凡喜乐于圣善法语,又令圣善法语得以宣说者;常住圣众之会(satsaṅga),远离我慢者;罗摩之主 Ramāpati(毗湿奴,吉祥天女拉克希米之主)便悦纳于他。

Verse 23

नामसङ्कीर्त्तनं विष्णोः क्षुत्तृट्प्रस्खलितादिषु । करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः ॥ २३ ॥

即便在饥饿、口渴、踉跄失足等诸般境况中,仍恒常唱诵毗湿奴之名(nāma-saṅkīrtana)者;阿多克沙阇 Adhokṣaja——超越诸根之主——便欢喜于他。

Verse 24

या तु नारी पतिप्राणा पतिपूजापरायणा । तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने ॥ २४ ॥

然而那女子以夫为命,专心敬奉并侍奉其夫;当宇宙之主 Jagannātha 悦纳于她时,便赐予她祂自身的至上住处,噢牟尼。

Verse 25

असूयारहिता ये तु ह्यहङ्कारविवर्जिताः । देवपूजापराश्चैव तेषां तुष्यति केशवः ॥ २५ ॥

凡无嫉妒、离我慢,并专心礼拜诸天(Deva)者;克舍瓦 Keśava 便悦纳他们。

Verse 26

तस्माच्छृणुष्व देवर्षे भजस्व सततं हरिम् । मा कुरुष्व ह्यहङ्कारं विद्युल्लोलश्रिया वृथा ॥ २६ ॥

因此,噢天界圣仙啊,当善听此言,恒常礼敬哈利(主毗湿奴)。莫起我慢,因为世间荣华飘忽不定,如闪电般摇曳;为虚荣而追逐它,终归徒然。

Verse 27

शरीरं मृत्युसंयुक्तं जीवनं चाति चञ्चलम् । राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः ॥ २७ ॥

此身与死亡相系,生命亦极其飘摇不定。财富会被君王等夺取,一切兴盛福泽皆在刹那间破碎。

Verse 28

किं न पश्यसि देवर्षे ह्यायुषार्द्धं तु निद्र या । हतं च भोजनाद्यैश्च कियदायुः समाहृतम् ॥ २८ ॥

噢天界的见者啊,你难道不见:人的寿命几乎一半被睡眠所耗尽?又被饮食等诸般享受所夺去——如此一来,为至高目的所能积聚的生命又剩几何!

Verse 29

कियदायुर्बालभावाद् वृद्धभावात्कियद् बृथा । कियद्विषयभोगैश्च कदा धर्मान्करिष्यति ॥ २९ ॥

人生有多少寿命耗于童年,多少耗于老年,又有多少徒然虚掷?又有多少沉溺于感官境界的享乐——如此,何时才能修行正法(达摩)?

Verse 30

बालभावे च वार्द्धक्ये न घटेताच्युतार्चनम् । वयस्येव ततो धर्मान्कुरु त्वमनहङ्कृतः ॥ ३० ॥

在童年与老年,礼拜阿周多(不堕者,毗湿奴)难以圆满成就。故当青春之时,当无我慢而行诸法义(达摩)之业。

Verse 31

मा विनाशं व्रज मुने मग्नः संसारगह्वरे । वपुर्विनाशनिलयमापदां परमं पदम् ॥ ३१ ॥

噢,牟尼圣者,莫趋于毁灭;纵然你沉没在轮回(saṃsāra)深谷之中。此身乃败坏之所依,亦是一切灾厄的至上座处。

Verse 32

शरीरं भोगनिलयं मलाद्यैः परिदूषितम् । किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा ॥ ३२ ॥

此身是享乐之居,且被污秽等彻底染污。既具对永恒者的觉知之人,何故还要徒然造罪?

Verse 33

असारभूते संसारे नानादुःखसमन्विते । विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसङ्कुले ॥ ३३ ॥

在这无实的轮回中,充满种种苦恼,切莫寄托信赖;因为其中确然拥塞着死亡。

Verse 34

तस्माच्छृणुष्व विप्रेन्द्र सत्यमेतद् ब्रवीम्यहम् । देहयोगनिवृत्यर्थं सद्य एव जनार्दनम् ॥ ३४ ॥

因此,婆罗门中的最胜者啊,请听我所说的真实:若你欲立刻止息对身体的系缚,当即归依阎那尔达那(Janārdana)。

Verse 35

मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः । भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम् ॥ ३५ ॥

舍弃我慢与贪欲,远离欲望与嗔怒。恒常礼敬毗湿奴(Viṣṇu),因为得人身实为极其难得。

Verse 36

कोटिजन्मसहस्रेषु स्थावरादिषु सत्तम । सम्भ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते ॥ ३६ ॥

噢,至善之人,历经千生——乃至百万生——在不动之类及诸多生命形态之中,人身之得实为难得;唯有心灵被法所触动、已然觉醒者,方能偶得此身。

Verse 37

तत्रापि देवताबुद्धिर्दानबुद्धिश्च सत्तम । भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम् ॥ ३७ ॥

即便得人身,噢,至善之人:敬奉诸天之心、布施之念,以及在人间求享乐之趋向——皆是前生所修苦行(tapas)之果报。

Verse 38

मानुष्यं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत् । मूर्खः कोऽस्ति परस्तस्माज्जडबुद्धिरचेतनः ॥ ३८ ॥

既得难得人身,若有人连一次也不礼拜哈利(Hari)——还有谁比此人更愚痴?其心识迟钝,毫无辨别。

Verse 39

दुर्लभं प्राप्य मानुष्यं नार्चयन्ति च ये हरिम् । तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति ॥ ३९ ॥

既得难得人身,却仍不礼拜哈利(Hari)者——在这等极其愚痴之人身上,辨别之智究竟安住何处?

Verse 40

आराधितो जगन्नाथो ददात्यभिमतं फलम् । कस्तं न पूजयेद्विप्र संसाराग्निप्रदीपितः ॥ ४० ॥

若能虔敬礼拜,宇宙之主佳甘那他(Jagannātha)便赐予所愿之果。噢,婆罗门啊,谁被轮回之火灼烧,却不来敬奉祂呢?

Verse 41

चण्डालोऽपि मुनिश्रेष्ठ विष्णुभक्तो द्विजाधिकः । विष्णुभक्तिविहीनश्च द्विजोऽपि श्वपचाधमः ॥ ४१ ॥

噢,最胜仙贤!即使是旃陀罗,若对毗湿奴怀有虔敬(bhakti),也胜过二次生者;而二次生者若无对毗湿奴的虔敬,实为最下劣,如同烹狗之人。

Verse 42

तस्मात्कामादिकं त्यक्त्वा भजेत हरिमव्ययम् । यस्मिंस्तुष्टेऽखिलं तुष्येद्यतः सर्वगतो हरिः ॥ ४२ ॥

因此,当舍弃欲望及其相随的过失,当礼敬哈利(Hari)——不坏者;因为祂若欢喜,一切皆欢喜,缘由哈利遍满万有。

Verse 43

यथा हस्तिपदे सर्वं पदमात्रं प्रलीयते । तथा चराचरं विश्वं विष्णावेव प्रलीयते ॥ ४३ ॥

正如一切足迹都被大象的足迹所包摄,如是这整个宇宙——动与不动——终究都融归于毗湿奴一者。

Verse 44

आकाशेन यथा व्याप्तं जगत्स्थावरजङ्गमम् । तथैव हरिणा व्याप्तं विश्वमेतच्चराचरम् ॥ ४४ ॥

正如虚空遍满世间——不动与能动——同样,这整个宇宙,动与不动,皆为哈利所遍满。

Verse 45

जन्मनो मरणं नॄणां जन्म वै मृत्युसाधनम् । उभे ते निकटे विद्धि तन्नाशो हरिसेवया ॥ ४५ ॥

对人而言,生后必有死,而生本身亦是导向死的因。应知此二者相距甚近;唯以事奉哈利(毗湿奴)方能摧破其系缚。

Verse 46

ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः । संसारपाशविच्छेदी कस्तं न प्रतिपूजयेत् ॥ ४६ ॥

无论观想、忆念、礼拜,或俯首顶礼——阎那尔达那(Janārdana)能斩断轮回(saṃsāra)的系缚;如此,谁还会不回向敬拜祂呢?

Verse 47

यन्नामोच्चारणादेव महापातकनाशनम् । यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ॥ ४७ ॥

噢,最胜的婆罗门圣贤!仅仅称诵祂的圣名,最重的罪业亦得摧灭;礼敬供奉祂者,便能分得解脱(mokṣa)之分。

Verse 48

अहो चित्रमहो चित्रमहो चित्रमिदं द्विज । हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते ॥ ४८ ॥

啊,何等奇妙——何等真奇妙啊,二次生者!当哈利(Hari)之名安住之处,纵在轮回的旋转中,世界亦随之转化。

Verse 49

भूयो भूयोऽपि वक्ष्यामि सत्यमेतत्तपोधन । नीयमानो यमभटैरशक्तो धर्मसाधनैः ॥ ४९ ॥

我将再三宣说——此乃真实,噢苦行之宝:当人被阎摩的使者拖拽而去时,便无力再修行诸般法(dharma)之道。

Verse 50

यावन्नेन्द्रि यवैकल्यं यावद्व्याधिर्न बाधते । तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति ॥ ५० ॥

只要诸根未衰、疾病未侵,当即不宜迟疑地礼拜毗湿奴(Viṣṇu)——若真切渴求解脱。

Verse 51

मातुर्गर्भाद्विनिष्क्रान्तो यदा जन्तुस्तदैव हि । मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत् ॥ ५१ ॥

众生自母胎出生之时起,死亡便近在身旁;因此应当专心归依并奉行正法(Dharma)。

Verse 52

अहो कष्टमहो कष्टमहोकष्टमिदं वपुः । विनश्वरं समाज्ञाय धर्मं नैवाचरत्ययम् ॥ ५२ ॥

哀哉——何其可悲,何其可悲此身!明知此身必坏、终将消逝,人仍不修行正法(Dharma)。

Verse 53

सत्यं सत्यं पुनःसत्यमुद्धृत्य भुजमुच्यते । दम्भाचारं परित्यज्य वासुदेवं समर्चयेत् ॥ ५३ ॥

真实——真实——再说一次,真实:举臂而宣告此言。舍弃虚伪之行,当以至诚恭敬礼拜婆苏提婆(Vāsudeva)。

Verse 54

भूयो भूयो हितं वच्मि भुजमुद्धृत्य नारद । विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथानृतम् ॥ ५४ ॥

我一再宣说真正有益之言——举臂以示强调,噢那罗陀(Nārada):当以全身全心礼敬供奉毗湿奴(Viṣṇu);并当舍弃嫉妒与虚妄不实。

Verse 55

क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत् ॥ ५५ ॥

心中煎恼以嗔怒为根;嗔怒本身即是系缚轮回(saṃsāra)之绳。嗔怒损坏正法;故当彻底舍离。

Verse 56

काममूलमिदं जन्म कामः पापस्य कारणम् । यशःक्षयकरः कामस्तस्मात्तं परिवर्जयेत् ॥ ५६ ॥

此有身之生以欲为根。欲为罪之因,亦能损减善名。故当舍离此欲。

Verse 57

समस्तदुःखजालानां मात्सर्यं कारणं स्मृतम् । नरकाणां साधनं च तस्मात्तदपि सन्त्यजेत् ॥ ५७ ॥

嫉妒(mātsarya)被称为一切苦网之因,亦是趋向诸地狱之具。故当彻底舍弃之。

Verse 58

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत् ॥ ५८ ॥

唯心为人之系缚与解脱之因。故当摄此心,使之与至上我(Paramātman)相应,则得安乐。

Verse 59

अहो धैर्यमहो धैर्यमहो धैर्यमहो नृणाम् । विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः ॥ ५९ ॥

嗟乎!何等狂妄——何等狂妄——何等狂妄的人类!纵然毗湿奴、宇宙之主 Jagannātha 现前,骄慢熏心者仍不礼拜祂。

Verse 60

अनाराध्य जगन्नाथं सर्वधातारमच्युतम् । संसारसागरे मग्नाः कथं पारं प्रयान्ति हि ॥ ६० ॥

若不礼敬 Jagannātha——不堕之阿周多(Acyuta)、万有之持者——沉没于轮回大海者,如何能到达彼岸?

Verse 61

अच्युतानन्तगोविन्दनामोच्चारणभेषजात् । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ६१ ॥

以称诵“阿周陀、阿难陀、戈文达”之圣名为妙药,一切疾病皆得消灭。此乃真实——真实无疑——我如是宣说。

Verse 62

नारायण जगन्नाथ वासुदेव जनार्दन । इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥ ६२ ॥

凡日日恒常称念“那罗延、 जगन्नाथ(世主)、婆苏提婆、阇那尔陀那”之名者,确实处处受人礼敬。

Verse 63

अद्यापि च मुनिश्रेष्ठ ब्रह्माद्या अपि देवताः । यत्प्रभावं न जानन्ति तं याहि शरणं मुने ॥ ६३ ॥

直至今日,噢最胜牟尼,纵然从梵天起的诸天也未能尽知祂的威德。是故,噢圣者,当往而归依于祂。

Verse 64

अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं दुरात्मनाम् । हृत्पद्मसंस्थितं विष्णुं न विजानन्ति नारद ॥ ६४ ॥

唉——何等愚痴,何等愚痴,恶心之人竟是极度愚痴!毗湿奴安住于心莲之中,他们却不识祂,噢那罗陀。

Verse 65

शृणुष्व मुनिशार्दूल भूयो भूयो वदाम्यहम् । हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः ॥ ६५ ॥

且听,噢牟尼中之猛虎;我再三告诫:哈利唯悦于具信之人,并非因财富,亦非因(徒有)亲族与关系。

Verse 66

बन्धुमत्वं धनाढ्यत्वं पुत्रवत्त्वं च सत्तम । विष्णुभक्तिमतां नॄणां भवेज्जन्मनि जन्मनि ॥ ६६ ॥

噢,至善者;对虔诚奉爱毗湿奴之人,生生世世皆得:亲族繁盛、财富丰盈,并蒙赐子嗣之福。

Verse 67

पापमूलमयं देहः पापकर्मरतस्तथा । एतद्विदित्वा सततं पूजनीयो जनार्दनः ॥ ६७ ॥

此身以罪为根,人亦常倾向于造作罪业。既知如此,当恒常礼敬并供奉阇那尔达那。

Verse 68

पुत्रमित्रकलत्राद्या बहवः स्युश्च संपदः । हरिपूजारतानां तु भवन्त्येव न संशयः ॥ ६८ ॥

儿女、朋友、配偶以及种种福裕固然可能出现;而对乐于礼拜哈利之人,这些必定成就,毫无疑惑。

Verse 69

इहामुत्र सुखप्रेप्सुः पूजयेत्सततं हरिम् । इहामुत्रासुखप्रेप्सुः परनिन्दापरो भवेत् ॥ ६९ ॥

欲求今世与来世之乐者,当恒常礼拜哈利;欲求此世与彼世之苦者,便会沉迷于讥毁他人。

Verse 70

धिग्जन्म भक्तिहीनानां देवदेवे जनार्दने । सत्पात्रदानशून्यं यत्तद्धनं धिक्पुनः पुनः ॥ ७० ॥

无有对阇那尔达那——诸神之神——的奉爱者,其出生可叹可咒;而不用于施与贤善受者之财,亦当一再可咒。

Verse 71

न नमेद्विष्णवे यस्य शरीरं कर्मभेदिने । पापानामाकरं तद्वै विज्ञेयं मुनिसत्तम ॥ ७१ ॥

凡不向毗湿奴顶礼者——毗湿奴依众生业力而分别安立——当知,噢最胜牟尼,此人实为罪业之矿藏、罪源之所。

Verse 72

सत्पात्रदानरहितं यद्द्र व्यं येन रक्षितम् । चौर्येण रक्षितमिव विद्धि लोकेषु निश्चितम् ॥ ७२ ॥

当于诸世间确知:凡财物为人守护却不施与贤善受者(善器、satpātra),应知其守财如同以盗取而守,确然无疑。

Verse 73

तडिल्लोलश्रिया मत्ताः क्षणभङ्गुरशालिनः । नाराधयन्ति विश्वेशं पशुपाशविमोचकम् ॥ ७३ ॥

他们沉醉于如闪电般摇曳的荣华,拥有转瞬即灭的脆弱财富;因此不敬拜宇宙之主——那位解脱者,能解众生脱离世间执著之缚。

Verse 74

सृष्टिस्तु विविधा प्रोक्ता देवासुरविभेदतः । हरिभक्तियुता दैवी तद्धीना ह्यासुरी महा ॥ ७४ ॥

造化被说为种种差别,依天神与阿修罗而分。凡具对哈利(Hari)之奉爱者为天性;离此奉爱者则为大阿修罗性。

Verse 75

तस्माच्छृणुष्व विप्रेन्द्र हरिभक्तिपरायणाः । श्रेष्ठाः सर्वत्र विख्याता यतो भक्तिः सुदुर्लभा ॥ ७५ ॥

因此,噢婆罗门之最胜者,请听:凡一心归依哈利之奉爱(bhakti)者,处处为最上、名闻诸方;因为真实的奉爱极其难得。

Verse 76

असूयारहिता ये च विप्रत्राणपरायणाः । कामादिरहिता ये च तेषां तुष्यति केशवः ॥ ७६ ॥

凡无嫉妒之心,专志护持婆罗门,又远离欲望等诸染者——克沙瓦(毗湿奴)为之欢喜。

Verse 77

सम्मार्जनादिना ये तु विष्णुशुश्रूषणे रताः । सत्पात्रदाननिरताः प्रयान्ति परमं पदम् ॥ ७७ ॥

然而,凡以扫拂清洁等事乐于侍奉毗湿奴,并勤于布施于贤善堪受者者,必得至上之境。

Verse 78

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे हरिभक्ति लक्षणं नामचतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

至此,《圣大那罗陀往世书》前分(Pūrva-bhāga)第一品(Pāda)中题为“哈利之奉爱(Bhakti)的特征”的第三十四章圆满结束。

Frequently Asked Questions

The chapter treats the Name of Hari as immediately efficacious in saṃsāra: utterance destroys grave sins, sustains devotion even amid bodily hardship, and functions as a ‘medicine’ (Acyuta–Ananta–Govinda) that removes inner and outer afflictions, thereby preparing the mind for liberation.

They are presented as stabilizing prerequisites that make the person a fit vessel for bhakti: when these restraints are firmly established, the Lord is said to be pleased, indicating ethical purity as supportive groundwork rather than a separate final goal.

It provides a Vedāntic frame for devotion by identifying the Lord/Self as the inner ruler beyond the changing states and adjuncts; this elevates worship from merely external ritual to recognition of Hari as the all-pervading Reality, strengthening surrender and non-attachment.

Yes. It explicitly praises acts like sweeping and cleaning done in service to Viṣṇu, presenting such seva—along with charity to worthy recipients—as a direct path to the supreme abode when performed with devotion.