Adhyaya 2
Purva BhagaFirst QuarterAdhyaya 258 Verses

Nārada’s Hymn to Viṣṇu (Nāradasya Viṣṇu-stavaḥ)

为答诸仙之问,苏多介绍三那迦等童子(Sanakādi Kumāra)——梵天意生之子,守梵行、志在解脱——自须弥山前往梵天会座。途中见恒河(被认作毗湿奴之圣河),并愿在西塔之水中沐浴。那罗陀到来,礼敬长兄,先以虔敬称念毗湿奴圣名(那罗延、阿周多、阿难陀、婆苏提婆、阇那尔达那),继而诵出宏阔赞颂。赞歌宣示毗湿奴既具德相又超越诸相,为知识与知者,为瑜伽亦可由瑜伽证得;虽现宇宙大形(viśvarūpa)而常不染著。其间列举主要化身(龟、野猪、人狮、侏儒、持斧罗摩、罗摩、黑天、迦尔吉),并反复赞叹圣名净罪与解脱之力。诸仙沐浴后完成晨昏礼(sandhyā)与供水祭(tarpaṇa),围绕哈利而论道;那罗陀遂正式请问世尊(Bhagavān)之定义特征,并求示能结果之业、真实之智、苦行与敬客之法,以令毗湿奴欢喜。章末以功德偈(phalaśruti)作结:清晨诵此赞歌得清净,并往生毗湿奴之界。

Shlokas

Verse 1

ऋषय ऊचुः । कथं सनत्कुमारस्तु नारदाय महात्मने । प्रोक्तवान् सकलान् धर्मान् कथं तौ मिलितावुभौ 1. ॥ १ ॥

诸仙人说道:“圣童萨那特库玛罗如何向大心的那罗陀宣说一切法(dharma)?二者又是如何相遇的?”

Verse 2

कस्मिन् स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ । हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥ २ ॥

噢,苏多啊,那两位宣说梵(Brahman)者坐于何处?又在何地开始以清妙歌声吟唱赞颂哈利(Hari)的圣歌?请为我们述说。

Verse 3

सूत उवाच । सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः । निर्ममा निरहङ्काराः सर्वे ते ह्यूर्ध्वरेतसः ॥ ३ ॥

苏多说道:以萨那迦等为首的诸大士,乃梵天(Brahmā)意生之子。无占有、无我慢;他们皆为梵行者(brahmacārī),精气上行,坚住清净。

Verse 4

तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः । सनत्कुमारश्च विभुः सनातन इति स्मृतः ॥ ४ ॥

我将宣说他们的名号:萨那迦(Sanaka)、萨难陀那(Sanandana)、自在的萨那特库玛罗(Sanatkumāra),以及被忆念为萨那檀那(Sanātana)的伟力者。

Verse 5

विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः । सहस्रसूर्यसंकाशाः सत्यसन्धा मुमुक्षवः ॥ ५ ॥

他们是大士,皆为毗湿奴(Viṣṇu)的奉爱者,专注于对梵(Brahman)的禅观;光辉如千日齐照,守持真实誓愿,志求解脱。

Verse 6

एकदा मेरुशृङ्गं ते प्रस्थिताः ब्रह्मणः सभाम् । इष्टां मार्गेऽथ ददृशुः गंगां विष्णुपदीं द्विजाः ॥ ६ ॥

有一次,那些二生的圣贤自须弥山巅启程,前往梵天的会众;在所择之路上,他们瞻见恒河——毗湿奴足迹所流的圣河(Viṣṇupadī)。

Verse 7

तां निरीक्ष्य समुद्युक्ताः स्नातुं सीताजलेऽभवन् । एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥ ७ ॥

见到她后,他们便急切欲在西多河水中沐浴。就在那一刻,天界圣仙——牟尼那罗陀(Nārada)——来到那里。

Verse 8

आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रातॄन् स्वकाग्रजान् । तान् दृष्ट्वा स्नातुमुद्युक्तान् नमस्कृत्य कृताञ्जलि ॥ ८ ॥

随后,二生者中最殊胜者来到。见到自己的长兄们,又见他们正欲沐浴,便合掌致敬,俯首礼拜而立。

Verse 9

गृणन् नामानि सप्रेमभक्तियुक्तो मधुद्विषः । नारायणाच्युतानन्त वासुदेव जनार्दन ॥ ९ ॥

当以爱敬之心、具足奉爱(bhakti),称诵灭摩度者的圣名:那罗延(Nārāyaṇa)、阿周多(Acyuta)、阿难多(Ananta)、婆苏提婆(Vāsudeva)、阇那尔达那(Janārdana)。

Verse 10

यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते । पद्माक्ष कमलाकान्त गङ्गाजनक केशव । क्षीरोदशायिन् देवेश दामोदर नमोऽस्तु ते ॥ १० ॥

噢祭祀之主(Yajñeśa)、噢祭祀之本体(Yajña-Puruṣa)——祭祀的精髓——噢克里希那、噢毗湿奴,向你顶礼。噢莲华眼者、吉祥天女拉克什米之所爱、恒河之源、噢凯沙瓦;噢卧于乳海者、诸天之主、噢达摩达罗,向你顶礼。

Verse 11

श्रीराम विष्णो नरसिंह वामन प्रद्युम्न संकर्षण वासुदेव । अजानिरुद्धामलरुङ् मुरारे त्वं पाहि नः सर्वभयादजस्रम् ॥ ११ ॥

噢,圣罗摩!噢,毗湿奴——那罗辛哈、婆摩那;噢,普拉丢姆那、桑迦尔沙那、婆苏提婆;噢,无垢的阿尼卢陀,噢,诛灭魔罗的穆拉里,愿你恒常护佑我们,远离一切怖畏。

Verse 12

इत्युच्चरन् हरेर्नाम नत्वा तान् स्वाग्रजान् मुनीन् । उपासीनश्च तैः सार्धं सस्नौ प्रीतिसमन्वितः ॥ १२ ॥

于是,他诵念哈利之名,礼拜诸位长老牟尼;随后与他们同坐,并沐浴净身,心中充满喜悦与慈爱。

Verse 13

तेषां चापि तु सीताया जले लोकमलापहे । स्नात्वा सन्तर्प्य देवर्षिपितॄन् विगतकल्मषाः ॥ १३ ॥

他们也在悉多之水中沐浴——此水能除世间垢染;沐浴之后,诸人罪垢尽消,并依仪轨向诸天、天仙圣贤与祖灵行满足供献。

Verse 14

उत्तीर्य सन्ध्योपास्त्यादि कृत्वाचारं स्वकं द्विजाः । कथां प्रचक्रुर्विविधाः नारायणगुणाश्रिताः ॥ १४ ॥

出水之后,诸位二生圣者依自家法度行持,如修行暮朝礼(Sandhyā);继而展开种种谈论,皆以那罗延的德性功德为依归。

Verse 15

कृतक्रियेषु मुनिषु गङ्गातीरे मनोरमे । चकार नारदः प्रश्नं नानाख्यानकथान्तरे ॥ १५ ॥

当诸位牟尼在秀丽的恒河岸边完成诸仪轨后,那罗陀在众多叙事与传说之间提出了一则疑问。

Verse 16

नारद उवाच । सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः । यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥ १६ ॥

那罗陀说道:“诸位最胜牟尼!你们皆为全知者,专心安住于对薄伽梵的奉爱(bhakti)。诚然,你们皆如宇宙之主——永恒而可敬的圣者。”

Verse 17

लोकोद्धारपरान् युष्मान् दीनेषु कृतसौहृदान् । पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥ १७ ॥

你们致力于救拔诸世,对卑微者亦施以友爱;因此我请问:诸位智者,请为我宣说薄伽梵的定义之相与殊胜标志。

Verse 18

येनेदमखिलं जातं जगत्स्थावरजङ्गमम् । गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥ १८ ॥

由祂而生此一切宇宙——不动与动者皆然;恒河之水亦是为祂洗足之圣水。如此的哈利,岂能以凡常手段而尽知?

Verse 19

कथं च त्रिविधं कर्म सफलं जायते नृणाम् । ज्ञानस्य लक्षणं ब्रूत तपसश्चापि मानदाः ॥ १९ ॥

又,人之三种业行如何得成果报?诸位可敬者,请为我宣说真知(jñāna)之相,以及苦行(tapas)之相。

Verse 20

अतिथेः पूजनं वापि येन विष्णुः प्रसीदति । एवमादीनि गुह्यानि हरितुष्टिकराणि च । अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ २० ॥

或以敬奉来客(atithi)而令毗湿奴欢喜;以及诸般隐秘行持,皆能令哈利满足。噢可敬的导师们,愿赐我慈恩,如实依其本质为我开示。

Verse 21

शौनक उवाच । नमः पराय देवाय परस्मात् परमाय च । परावरनिवासाय सगुणायागुणाय च ॥ २१ ॥

圣者绍那迦曰:我顶礼至上之主——超越一切至高,越过一切彼岸——祂是上界与下界的归依处,亦同时具德相(有相)而又离德相(无相)。

Verse 22

अमायायात्मसंज्ञाय मायिने विश्वरूपिणे । योगीश्वराय योगाय योगगम्याय विष्णवे ॥ २२ ॥

我顶礼毗湿奴——超越一切幻相,被称为真我本身;执持摩耶,其形即遍满宇宙;为瑜伽行者之主,亦是瑜伽本身,唯由瑜伽方可证得。

Verse 23

ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे । ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसम्पदे ॥ २३ ॥

我顶礼于彼——即是知识本身;由知识而可证得;为一切知识之唯一根因;为知识之主;为所应知者;为知者;亦为圆满的证悟智慧(vijñāna)之丰藏。

Verse 24

ध्यानाय ध्यानगम्याय ध्यातृपापहराय च । ध्यानेश्वराय सुधिये ध्येयध्यातृस्वरूपिणे ॥ २४ ॥

我顶礼于禅观——由禅观而可证得;顶礼于能除灭修观者罪垢者;禅观之主;清明慧智之源;以及其本性同时为所观之境与能观之人之真实。

Verse 25

आदित्यचन्द्रा ग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसंघाः । यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥ २५ ॥

日与月、阿耆尼与诸天,以及维达特利(造化者);又有悉达与夜叉、阿修罗、那伽诸众,皆因祂的神力而得其威能。我恒常顶礼那不生的太古之主——真理本身,一切赞颂之主宰。

Verse 26

यो ब्रह्मरूपी जगतां विधाता स एव पाता द्विजविष्णुरूपी । कल्पान्तरुद्रा ख्यतनुः स देवः शेतेऽङघ्रिपानस्तमजं भजामि ॥ २६ ॥

我礼敬那无生的主:祂以梵天之相为诸世界之创造者;以毗湿奴之相为护持者;于劫终又现名为鲁陀罗之身。彼神安卧于舍沙之上,圣足得以安憩。

Verse 27

यन्नामसङ्कीर्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः । विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥ २७ ॥

因称诵祂的圣名,象王伽金德罗从鳄鱼凶猛的束缚中得解脱。那光辉的主,安住于名为“帕拉(Para)”的至上本处。于那本初的毗湿奴,我归依。

Verse 28

शिवस्वरूपी शिवभक्तिभाजां यो विष्णुरूपी हरिभावितानाम् । सङ्कल्पपूर्वात्मकदेहहेतुस्तमेव नित्यं शरणं प्रपद्ये ॥ २८ ॥

我恒常唯归依于祂:对敬奉湿婆者,祂显为湿婆之相;对心念沉浸于哈利者,祂显为毗湿奴之相。祂正是有身之存在之因,由先前的意愿(誓愿)与微细的我(ātman)而起。

Verse 29

यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् । देवं च भूभारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥ २९ ॥

我恒常顶礼婆苏提婆:祂诛灭凯希,终结那罗迦;幼时便以臂端擎起群山;并以神圣之主之姿,乐于解除大地之重担。

Verse 30

लेभेऽवतीर्योग्रनृसिंहरूपी यो दैत्यवक्षः कठिनं शिलावत् । विदार्य संरक्षितवान् स्वभक्तं प्रह्लादमीशं तमजं नमामि ॥ ३० ॥

我顶礼无生的主:祂降现为威猛的那罗辛哈,撕裂坚如磐石的魔王胸膛,并护佑祂自己的奉献者——普拉赫拉达。

Verse 31

व्योमादिभिर्भूषितमात्मसंज्ञं निरंजनं नित्यममेयतत्त्वम् । जगद्विधातारमकर्मकं च परं पुराणं पुरुषं नतोऽस्मि ॥ ३१ ॥

我顶礼那至上本初之人——至高的《普罗那》——以虚空等诸宇宙原理为庄严;名为自我,清净无垢,恒常不变,其真实不可量度;为世界之安排者,而又无所作为。

Verse 32

ब्रह्मेन्द्र रुद्रा निलवायुमर्त्यगन्धर्वयक्षासुरदेवसंघैः । स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मानमहं भजामि ॥ ३२ ॥

在梵天、因陀罗、鲁陀罗、诸风、众生、乾闼婆、夜叉、阿修罗与诸天的众会之中——虽以自身诸形诸相而显现——唯有一位主宰安住其间。我礼敬那本初之我。

Verse 33

यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै । यस्मिन्नेष्यति पश्चाच्च तमस्मि शरणं गतः ॥ ३३ ॥

我已归依于彼:此一切差别之宇宙由彼而生,于彼而住,终亦归于彼中。

Verse 34

यः स्थितो विश्वरूपेण सङ्गीवात्र प्रतीयते । असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥ ३४ ॥

我归依于彼:彼以毗湿瓦卢帕(宇宙之相)而住,于此似与万有相连而被觉知;然其实无著,圆满具足。

Verse 35

हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् । न ज्ञायेत परः शुद्धस्तमस्मि शरणं गतः ॥ ३५ ॥

纵然那神圣的主住在心中,然被摩耶迷惑之人不能识知祂——至上者,常清净者。我归依于祂。

Verse 36

सर्वसङ्गनिवृत्तानां ध्यानयोगरतात्मनाम् । सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥ ३६ ॥

对于远离一切执著、心安住于禅观瑜伽者,智慧之我遍处光明显现。我今归依于彼。

Verse 37

दधार मंदरं पृष्ठे निरोदेऽमृतमन्थने । देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥ ३७ ॥

在搅拌大海求取甘露之时,祂以背负持曼陀罗山。为诸天之利益,我今归依于龟化身——库尔摩。

Verse 38

दंष्ट्रांकुरेण योऽनन्तः समुद्धृत्यार्णवाद् धराम् । तस्थाविदं जगत् कृत्स्नं वाराहं तं नतोऽस्म्यहम् ॥ ३८ ॥

我顶礼于野猪化身瓦拉哈——即无尽者阿难陀——祂以獠牙之尖从大海中举起大地;此整个宇宙亦依祂而安立。

Verse 39

प्रह्लादं गोपयन् दैत्यं शिलातिकठिनोरसम् । विदार्य हतवान् यो हि तं नृसिंहं नतोऽस्म्यहम् ॥ ३९ ॥

我顶礼于主那罗辛哈,祂护佑普罗诃罗陀,撕裂并诛灭那胸膛坚硬如石的阿修罗。

Verse 40

लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः । आब्रह्मभुवनं प्रादात् सुरेभ्यस्तं नतोऽजितम् ॥ ४० ॥

祂得受维罗遮那之子巴利所许之地,以两步便超越其量,继而将诸界直至梵天之界赐予诸天。我顶礼于阿吉达——不可战胜的主。

Verse 41

हैहयस्यापराधेन ह्येकविंशतिसंख्यया । क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ॥ ४१ ॥

我顶礼阇摩达格尼之子(帕罗修罗摩);因海诃耶族之罪,他成为刹帝利族系的毁灭者,二十一度荡尽其族。

Verse 42

आविर्भूतश्चतुर्धा यः कपिभिः परिवारितः । हतवान् राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ॥ ४२ ॥

我顶礼罗摩旃陀罗:他以四重形相显现,群猴军环侍左右,摧灭罗刹大军。

Verse 43

मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च । संजहार कुलं स्वं यस्तं श्रीकृष्णमहं भजे ॥ ४३ ॥

我敬拜圣克里希那:他以二重化身除去大地重担,继而又令自身族系走向覆灭。

Verse 44

भूम्यादिलोकत्रितयं संतृप्तात्मानमात्मनि । पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥ ४४ ॥

我敬拜那至主伊沙那,清净无垢;心已满足的圣贤于自我之中观见他,作为内在真实,遍满自地界起的三界。

Verse 45

युगान्ते पापिनोऽशुद्धान् भित्त्वा तीक्ष्णसुधारया । स्थापयामास यो धर्मं कृतादौ तं नमाम्यहम् ॥ ४५ ॥

在劫末,他以剃刀般锋利之刃劈裂罪恶不净之人;于圆满纪(克利多瑜伽)之初,他重立达摩——我向他顶礼。

Verse 46

एवमादीन्यनेकानि यस्य रूपाणि पाण्डवाः । न शक्यं तेन संख्यातुं कोट्यब्दैरपि तं भजे ॥ ४६ ॥

噢,般度之子们!如是,祂具无量化身;纵经亿万年亦不可尽数。故我以虔敬礼拜祂。

Verse 47

महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः । देवासुराश्च मनवः कथं तं क्षुल्लको भजे ॥ ४७ ॥

若连诸大圣仙也不能抵达那神圣名号的至上威德——诸天、阿修罗与诸摩奴亦然——我这卑微之人又怎能真正礼敬它呢?

Verse 48

यन्नामश्रवणेनापि महापातकिनो नराः । पवित्रतां प्रपद्यन्ते तं कथं स्तौमि चाल्पधीः ॥ ४८ ॥

仅仅听闻祂的圣名,犯下重罪之人亦得清净;我这浅慧之辈,又怎能赞颂祂呢?

Verse 49

यथाकथञ्चिद्यन्नाम्नि कीर्तिते वा श्रुतेऽपि वा । पापिनस्तु विशुद्धाः स्युः शुद्धा मोक्षमवाप्नुयुः ॥ ४९ ॥

无论如何,只要有人称念那圣名,或仅仅听闻,罪人便得净化;而得净化者将证得解脱。

Verse 50

आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः । पश्यन्ति यं ज्ञानरूपं तमस्मि शरणं गतः ॥ ५० ॥

将自我安住于真我之中,诸瑜伽行者净除一切垢染,得见那以智慧为自性的主。于彼我已归依。

Verse 51

साङ्ख्याः सर्वेषु पश्यन्ति परिपूर्णात्मकं हरिम् । तमादिदेवमजरं ज्ञानरूपं भजाम्यहम् ॥ ५१ ॥

数论派行者观见哈利为遍在一切众生之中、圆满具足的真我。我礼敬那本初天神——不老不坏、以智慧为体者。

Verse 52

सर्वसत्त्वमयं शान्तं सर्वद्र ष्टारमीश्वरम् । सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥ ५२ ॥

我顶礼哈利——遍满一切众生、寂静安然、全见的自在主;千首之神,亦是一切存在与情感诸态的本质。

Verse 53

यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् । दशाङ्गुलं योऽत्यतिष्ठत्तमीशमजरं भजे ॥ ५३ ॥

凡已成者与将成者,以及此一切世界——动与不动——皆被那不生之主以“十指之量”超越。我礼敬那不朽不老的自在者。

Verse 54

अणोरणीयांसमजं महतश्च महत्तरम् । गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥ ५४ ॥

我一次又一次顶礼那尊天神——微于至微之微尘,不生;大于至大之大;于一切秘密之中最为幽玄者。

Verse 55

ध्यातः स्मृतः पूजितो वा श्रुतः प्रणमितोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ ५५ ॥

无论是观想、忆念、供奉、聆听其圣德,乃至仅仅一拜——那位赐予自身至上居处的主,我顶礼彼至上人格主(Puruṣottama)。

Verse 56

इति स्तुवन्तं परमं परेशं हर्षाम्बुसंरुद्धविलोचनास्ते । मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रमुदं प्रजग्मुः ॥ ५६ ॥

他们如此赞颂至上主宰、最高的至尊,喜泪盈眶,双目为欢喜之泪所阻。诸大牟尼——与那罗陀同在——善难陀那等众,满怀欢悦而离去。

Verse 57

यं इदं प्रातरुत्त्थाय पठेद्वै पौरुषं स्तवम् । सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ ५७ ॥

凡清晨起身诵读此《普鲁沙》(至上人格)赞歌者,身心净除一切罪垢,终将到达毗湿奴之界。

Verse 58

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादेनारदकृतविष्णुस्तुतिर्नाम द्वितीयोऽध्यायः ॥ २ ॥

至此,《圣大那罗陀往世书》前分(Pūrva-bhāga)第一品(Pāda)中,善达库玛罗与那罗陀对话所载、名为《那罗陀所作毗湿奴赞》的第二章圆满结束。

Frequently Asked Questions

It sacralizes the teaching environment by linking tīrtha practice to Viṣṇu-theology (Gaṅgā as Viṣṇu-pāda-jala) and demonstrates the Purāṇic ideal that Vedic rites (snāna, sandhyā, tarpaṇa) are completed and crowned by Hari-nāma and stotra, integrating karma with mokṣa-dharma.

The stotra compresses core Purāṇic Vedānta: Viṣṇu as both saguṇa and nirguṇa, as knowledge/yoga and their goal, as viśvarūpa yet unattached, alongside an avatāra taxonomy and the doctrine that hearing or uttering the Divine Name purifies even grave sins and leads toward liberation.