
苏多传述:那罗陀听闻善难陀那开示解脱之法后,再次祈请内在灵修(adhyātma)之教(1–3)。善难陀那引出古事:弥提罗王阇那迦虽被诸家师说与死后祭仪之论所环绕,仍专志求证我(Ātman)之真实(4–7)。数论(Sāṅkhya)圣者般遮尸佉——由阿苏利承接迦毗罗一脉,且以圆满出离著称——来到弥提罗(8–18)。阇那迦辩难群师而多所折服,终倾心般遮尸佉;其教“至上之善”为数论解脱,并次第展开离贪(vairāgya):由执著种姓身份,进而舍离对业(karma)的系缚,乃至究竟无著(19–23)。此论批评为求祭仪果报而心志不定,并考察认知依据(现量、圣典、定论),回应唯物否认与关于自我与再生之迷惑(24–44)。阇那迦提出断灭之疑:若死后觉知终止,知识何益(49–52)。般遮尸佉遂分析有身聚合:五大、认知三组、知根与作根、觉性(buddhi)与三德(guṇa),以出离为所行之精髓,指向无相、无忧的“不死境”(53–85)。阇那迦安住其教,城中失火时发出名言:“我之所有,无一在燃”(86–87)。
Verse 1
सूत उवाच । सनंदनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः । पुनः पप्रच्छ तत्त्वज्ञो नारदोऽध्यात्मसत्कथाम् ॥ १ ॥
苏多说道:诸位二次生的圣贤啊,听闻善难陀那依止解脱之法的言教之后,通达真理的那罗陀又再一次请问关于内在真我(adhyātma)的清净妙谈。
Verse 2
नारद उवाच । श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् । न च मे जायते तृप्तिर्भूयोभूयोऽपि श्रृण्वतः ॥ २ ॥
那罗陀说道:“大福德者啊,我已听闻你所宣说的解脱圣典;然而即使反复聆听,我心中也不生丝毫厌足。”
Verse 3
यथा संमुच्यते जंतुरविद्याबंधनान्मुने । तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम् ॥ ३ ॥
圣者啊,请开示众生如何从无明的束缚中解脱。全知者啊,请宣说那恒可依止、导向解脱(mokṣa)的正法。
Verse 4
सनंदन उवाच । अत्राप्युदाहरंतीममितिहासं पुरातनम् । यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः ॥ ४ ॥
善难陀那说道:“在此我也将引述一则古老传说——米提拉之主阇那迦如何证得解脱。”
Verse 5
जनको जनदेवस्तु मिथिलाया अधीश्वरः । और्ध्वदेहिकधर्माणामासीद्युक्तो विचिंतने ॥ ५ ॥
阇那迦(亦名阇那提婆),弥提罗之主,深深专注于思惟亡后当行之法与仪轨(葬礼及其后续祭仪)。
Verse 6
तस्य श्मशान माचार्या वसति सततं गृहे । दर्शयंतः पृथग्धर्मान्नानापाषंजवादिनः ॥ ६ ॥
在他宫中,常有教授“尸林之道”(火葬场之行)的师长居住;又有诸多宗派辩者,各各标举不同“法”,不断陈说彼此相异的教义。
Verse 7
स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चये । आदमस्थः स भूयिष्टमात्मतत्त्वेन तुष्यति ॥ ७ ॥
而他既已审定他们死后之境与再生之归,便安住于自性(我、Ātman),尤以我之真实(我性真理)而得大满足。
Verse 8
तत्र पंचशिखो नाम कापिलेयो महामुनिः । परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥ ८ ॥
其时,有一位名为般遮尸佉(Pañcaśikha)的大牟尼,奉随迦毗罗之道;周游遍满大地之后,便前往弥提罗。
Verse 9
सर्वसंन्यासधर्माणः तत्त्वज्ञानविनिश्चये । सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः ॥ ९ ॥
他具足一切圆满出离(遍舍、sannyāsa)之行;安立于对真实(tattva)之决定智;所求已毕;超越诸对待,疑网尽断。
Verse 10
ऋषीणामाहुरेकं यं कामादवसितं नृषु । शाश्वतं सुखमत्यंतमन्विच्छन्स सुदुर्लभम् ॥ १० ॥
诸圣贤宣说:在人间有一唯一的至上归趣,乃在审察并超越欲望之后方能决定。寻求那永恒而至极的安乐者,将发现其获得实为极难。
Verse 11
यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम् । स मन्ये तेन रूपेण विख्यापयति हि स्वयम् ॥ ११ ॥
诸萨ṅkhya圣者称其为迦毗罗——至上见者、亦为生主(Prajāpati)。我以为,他正以此形相自显其身。
Verse 12
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् । पंचस्रोतसि यः सत्रमास्ते वर्षसहस्रकम् ॥ १२ ॥
人们称他为阿苏利的首位弟子,寿命绵长——他在五流汇处(Pañcasrotas)安住,修行连绵祭仪(satra)达千年之久。
Verse 13
पंचस्रोतसमागम्य कापिलं मंडलं महत् । पुरुषावस्थमव्यंक्तं परमार्थं न्यवेदयत् ॥ १३ ॥
抵达五流汇合之处后,他开示了宏大的“迦毗罗之轮”(Sāṅkhya之境):宣说阿毗耶克塔(Avyakta,不显)乃是普鲁沙(Puruṣa)的境位,并且是至上义(paramārtha)。
Verse 14
इष्टिमंत्रेण संयुक्तो भूयश्च तपसासुरिः । क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः ॥ १४ ॥
具足祭祀真言(iṣṭi-mantra),又以苦行更增其力,圣者阿苏利凭对身之本性的直接观照,清晰了知田界(kṣetra)与知田者(kṣetrajña)之分别。
Verse 15
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते । आसुरिर्मंडले तस्मिन्प्रतिपेदे तमव्ययम् ॥ १५ ॥
那梵(Brahman)——虽为不坏的“一字一音”——却被见为种种形相。在那同一曼荼罗之境中,圣者阿苏里(Āsuri)证悟了那不变不朽的真实。
Verse 16
तस्य पंचशिखः शिष्यो मानुष्या पयसा भृतः । ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ॥ १६ ॥
他有一位弟子名为般遮尸佉(Pañcaśikha),以人乳哺育而长。又有一位婆罗门妇、居家持家者,名叫迦毗梨(Kapilī)。
Verse 17
तस्यः पुत्रत्वमागत्य स्रियाः स पिबति स्तनौ । ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ॥ १७ ॥
既被视为她的儿子,他便吮饮圣母室利(Śrī,吉祥天女拉克什米 Lakṣmī)的乳房。由此他得名迦毗梨耶(Kāpileya),并获得坚定不移、究竟圆满的灵性智慧。
Verse 18
एतन्मे भगवानाह कापिलेयस्य संभवम् । तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ १८ ॥
这便是至福的主对我所说的:关于迦毗梨耶(Kāpileya)的来历。由此生起他的迦毗梨耶之性,并成就无上遍知——洞悉一切之智。
Verse 19
सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने । उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ १९ ॥
噢牟尼啊,阇那迦王(Janaka)与群臣同来,既识得那位通达法(Dharma)的智者,便前往拜会百位师长,并以论辩之理使他们迷惘失措。
Verse 20
जनकस्त्वभिसंरक्तः कापि लेयानुदर्शनम् । उत्सृज्य शतमाचार्याम्पृष्टतोऽनुजगाम तम् ॥ २० ॥
然而阇那迦王仅因瞥见那神秘少女一眼便深深执著,竟舍弃百位师长,从后紧随其人而行。
Verse 21
तस्मै परमकल्याणं प्रणताय च धर्मतः । अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते ॥ २१ ॥
对那位依于法而俯首顶礼的人,他宣说至上吉祥:即《数论》(Sāṅkhya)所教的最高解脱。
Verse 22
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् । कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ २२ ॥
先说对种姓身份的厌离,他又说对业行(karma)的厌离;既说对业行的厌离,继而又说对一切万有的彻底厌离。
Verse 23
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः । तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥ २३ ॥
人之所以依附于“法”而追求业果的生起——当知那便是迷妄(moha):不能给予真实安稳,终将败坏,飘忽变易,不可久住。
Verse 24
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके । आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ २४ ॥
当毁灭明明可见——亲证在前、世间共为见证——仍有人争辩说:“至上者唯凭圣典(āgama)之权威而立”,则在此辩论中他已落败。
Verse 25
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः । आत्मानं मन्यते मोहात्तदसम्यक् परं मतम् ॥ २५ ॥
对真我(Ātman)而言,非我(anātman)实为死亡;诸苦亦是死亡,老迈与疾病亦皆为死亡。由于迷妄,人将非我误认作真我——此乃最极致的邪解。
Verse 26
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते । अजरोऽयममृत्युश्च राजासौ मन्यते यथा ॥ २६ ॥
纵然有人声称“即便如此亦然”,在世间仍不合情理——正如那位国王自以为不老不死一般。
Verse 27
अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे । किमधिष्टाय तद् ब्रूयाल्लोकयात्राविनिश्चयम् ॥ २७ ॥
在那标相不定的原理中,人们甚至说“它存在”与“它不存在”。那么,凭借何种依据,才能确定无疑地宣说世间行持之准则与人生之途程?
Verse 28
प्रत्यक्षं ह्येतयोर्मूलं कृतांत ह्येतयोरपि । प्रत्यक्षो ह्यागमो भिन्नः कृतांतो वा न किंचन ॥ २८ ॥
直接现量(pratyakṣa)确为此二者之根本,而“kṛtānta”(既定之结论)亦为其所依。因为圣典传承(āgama)不同于直接现量;离开既定结论,则无一法得以成立。
Verse 29
यत्र तत्रानुमानेऽस्मिन्कृतं भावयतेऽपि च । अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः ॥ २९ ॥
在此或彼的推理(anumāna)之中,他们甚至可以想象并构造一种学说;然而依那斯提迦(nāstika,唯物否认者)之见,离开身体并无别异的生命我(jīva)存在。
Verse 30
रेतोवटकणीकायां घृतपाकाधिवासनम् । जातिस्मृतिरयस्कांतः सूर्यकांतोंऽबुभक्षणम् ॥ ३० ॥
若以精液(retas)与风性(vāta)制成小丸(kaṇikā),浸渍于酥油烹炼(ghṛta-pāka)之中,便能生起忆念前生之力(jāti-smṛti)。同样,磁石(ayaskānta)与日光石(sūryakānta)的运用,被说与“食水”相连——唯以水而住。
Verse 31
प्रेतभूतप्रियश्चैव देवता ह्युपयाचनम् । मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः ॥ ३१ ॥
此为定论:其征相是——喜爱饿鬼(preta)与鬼魅(bhūta)的神祇、该神祇索求供品、并推动为亡者而设的仪式;这些都被视为其性相之证。
Verse 32
नन्वेते हेतवः संति ये केचिन्मूर्तिसस्थिताः । अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते ॥ ३२ ॥
诚然,有些因由是以有形之相而成立;然而对于无形者(amūrta),与有形者(mūrta)之间并无可得的共同性。
Verse 33
अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् । तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ॥ ३३ ॥
有人宣说:无明(avidyā)、业(karma)与渴爱(tṛṣṇā)是再生之因。然而当那受死法所系的心识被摧毁、焚尽之时,再生便不复发生。
Verse 34
अन्योऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् । यदा सरूपतश्चान्यो जातितः श्रुततोऽर्थतः ॥ ३४ ॥
由此误执又生另一重迷妄;此即名为萨埵(sattva,清明与内在力量)的衰减。当人执取为“他异”——形相异、出身异、所闻异、义理异——便会发生。
Verse 35
कथमस्मिन्स इत्येव संबंधः स्यादसंहितः । एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः ॥ ३५ ॥
此处怎会有连贯的关联——所谓“他在此中”之说?若果真如此,那么凭借知识、学问、苦行(tapas)乃至权力,又怎能得到真实的满足?
Verse 36
यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते । अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ॥ ३६ ॥
凡是仅凭外相相似而推断为“他的作为”的事,甚至你——就在此世——也可能被其他凡夫所加害而受苦。
Verse 37
सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः । यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ॥ ३७ ॥
无论快乐或痛苦,这便是对“可见”与“不可见”的辨别:纵使此身被棍棒击倒,那同一具身仍会因再生而再度成形。
Verse 38
वृथा ज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते । ऋमसंवत्सरौ तिष्यः शीतोष्णोऽथ प्रियाप्रिये ॥ ३८ ॥
若不能由此证悟“此”(至上真理),则一切别样学问皆为徒然——不论其为何。否则便仍困于对待:四时与岁年、提舍(Tiṣya)星、寒与热、可爱与不可爱。
Verse 39
यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः । जरयाभिपरीतस्य मृत्युना च विनाशितम् ॥ ३९ ॥
正如人看见自己的父辈祖先相继逝去,自己的生命力也同样衰减;此身被老迈所颠覆,终究为死亡所毁灭。
Verse 40
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति । इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ॥ ४० ॥
如同一座房屋,脆弱之处先行坍塌;同样在此身中,凡柔弱者先早败坏——诸根、心意、生命之风(普拉那 prāṇa)、血、肉,乃至骨亦然。
Verse 41
आनुपूर्व्या विनश्यंति स्वं धातुमुपयाति च । लोकयात्राविधातश्च दानधर्मफलागमे ॥ ४१ ॥
它们依次败灭,复归各自的本源之界;而安立世间行程的主宰,使由布施(dāna)与正法行持所生之果报得以成熟。
Verse 42
तदर्थं वेदंशब्दाश्च व्यवहाराश्च लौकिकाः । इति सम्यङ् मनस्येते बहवः संति हेतवः ॥ ४२ ॥
正为此故,吠陀之言与世间通行之约定语用皆得建立;因此,若能如理思惟,便可发现支持此义的诸多因由。
Verse 43
ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते । तेषां विमृशतामेव तत्सम्यगभिधावताम् ॥ ४३ ॥
实无一人可真被见为可称“有”或“无”。唯有深加省察、如实宣说者,方能对那真实得其正解。
Verse 44
क्वचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् । एवंतुर्थैरनर्थैश्च दुःखिताः सर्वजंतवः ॥ ४४ ॥
智慧之心无论栖止何处、以彼为家,便在彼处如树木般枯萎衰老。是故,因“得”与“失”、因“利”与“祸”,一切众生皆为忧苦所逼。
Verse 45
आगमैरपकृष्यंते हस्तिपैर्हस्तिनो यथा ॥ ४५ ॥
正如大象被训练有素的驯象师牵引调御,人亦被《阿伽摩》诸经律所牵引引导。
Verse 46
अर्थास्तथा हंति सुखावहांश्च लिहत एते बहवोपशुष्काः । महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयांति ॥ ४६ ॥
世间诸物亦能毁坏那看似带来快乐者。许多人反复贪舔其味,终至枯竭憔悴;陷入更大的痛苦后,弃却诱饵,落入死神的权势之下。
Verse 47
विनाशिनो ह्यध्रुवजीविनः किं किं बंधुभिर्मत्रपरिग्रहैश्च । विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ ४७ ॥
对生命无常、终必败坏的众生而言,亲族何用?财物与占有何用?离去之人舍下一切,刹那即逝;既已逝去,便不复返。
Verse 48
भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयंति । इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते ॥ ४८ ॥
即使地、空、水、火、风也不断护持此身。既见如此,对它的执著怎会相宜?然而它虽必坏,人心对它仍无宁静与节制。
Verse 49
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् । नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥ ४९ ॥
国王观此言辞——无任何附带条件,无欺诳,至上离苦,并由自我(真我)作证——不禁惊异,又再度开始请问圣者。
Verse 50
जनक उवाच । भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् । एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ ५० ॥
阇那迦王说道:“噢,圣者!若人死后全然不存觉知,那么无明与智慧又有何别?二者还能成就什么呢?”
Verse 51
सर्वमुच्छेदनिष्टस्यात्पश्य चैतद्द्विजोत्तम । अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ ५१ ॥
请看此理,噢,最胜的二生者:若注定归于彻底毁灭,警醒或放逸又能有何差别?
Verse 52
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु । कस्मै क्रियत कल्पेत निश्चयः कोऽत्र तत्त्वतः ॥ ५२ ॥
实则与众生并无真实相系——纵有相系,也只是与可坏之物相系。既如此,又当为谁而作、为谁而谋?就真实而言,此中有何确定可言?
Verse 53
सनंदन उवाच । तमसा हि मतिच्छत्रं विभ्रांतमिव चातुरम् । पुनः प्रशमयन्वाक्यैः कविः पंचशिखोऽब्रवीत् ॥ ५३ ॥
萨难陀那说道:当无明的黑暗遮蔽了理解之伞,即便聪慧之人也仿佛迷乱。于是诗圣仙人般遮尸迦以言辞再度安抚他,开口说道。
Verse 54
पंचशिख उवाच । उच्छेदनिष्टा नेहास्ति भावनिष्टा न विद्यते । अयं ह्यपि समाहारः शरीरेंद्रियचेतसाम् ॥ ५४ ॥
般遮尸迦说道:“在此并无‘断灭’的终极定论,也无‘唯肯定’的终极定论;因为这同样只是身、根与心的聚合之体。”
Verse 55
वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु । धातवः पंचधा तोयं खे वायुर्ज्योतिषो धरा ॥ ५५ ॥
五大虽彼此有别,却在各自作用中相互依持而运转:水、虚空(以太)、风、火(光明)与地。
Verse 56
तेषु भावेन तिष्टंति वियुज्यंते स्वभावतः । आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ॥ ५६ ॥
在诸有情之身中,它们依各自之相而住;然以自性之故,亦复分离。故虚空、风、热、润湿与土性之坚实,皆随其本有德相而显现与消散。
Verse 57
एष पञ्चसमाहारः शरीरमपि नैकधा । ज्ञानमूष्मा च वायुश्च त्रिविधः कायसंग्रहः ॥ ५७ ॥
此身乃五种成分之和合,本非真多。具身之聚集有三:觉知、热力与生命之风。
Verse 58
इंद्रियाणींद्रियार्थाश्च स्वभावश्चेतनामनः । प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ ५८ ॥
由此本源而起:诸根及其境、天性之趋向、觉识与意、生命之气 prāṇa 与 apāna、诸变异,以及身中诸 dhātu(体质要素)。
Verse 59
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च । इंद्रियाणीति पंचैते चित्तपूर्वंगमा गुणाः ॥ ५९ ॥
听、触、舌、见与鼻:此五者名为诸根;而这些作用皆以心为先导而行。
Verse 60
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा । सुखदुःखेति यामाहुरनदुःखासुखेति च ॥ ६० ॥
在此处,与辨别智相应而不可分离的觉知,确为三种且恒常:称为(1)乐,(2)苦,以及(3)非苦非乐之境。
Verse 61
शब्दः स्पर्शश्च रूपं च मूर्त्यर्थमेव ते त्रयः । एते ह्यामरणात्पंच सद्गुणा ज्ञानसिद्धये ॥ ६१ ॥
声、触与色相——此三者唯为确立有形之物的对象性。然而从“不死”的本原中生起五种高贵德性,旨在成就真实之知。
Verse 62
तेषु कर्मणि सिद्धिश्च सर्वतत्त्वार्थनिश्चयः । तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत् ॥ ६२ ॥
于诸修持之中,得成于行,并能对一切原理之义作决定性的确证。此被称为至上清净——Buddhi(辨别智),广大而不坏。
Verse 63
इमं गुणसमाहारमात्मभावेन पश्यतः । असम्यग्दर्शनैर्दुःखमनंतं नोपशाम्यति ॥ ६३ ॥
若以“我”“我所”之想观此诸guṇa之聚,则无尽之苦不得止息,因为此见非正解。
Verse 64
अनात्मेति च यदृष्टं तेनाहं न ममेत्यपि । वर्तते किमधिष्टानात्प्रसक्ता दुःखसंततिः ॥ ६४ ॥
纵已辨知“此非真我”,亦复思惟“非我、非我所”,然持续不断的苦流仍依何所依而延续?
Verse 65
तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् । श्रृणुयात्तच्च मोक्षाय भाष्यमाणं भविष्यति ॥ ६५ ॥
在那里,名为“正知者”(Samyagjana)的人应当聆听无上之舍离教法;而此教法一经开示,便成为通向解脱(moksha)之因缘。
Verse 66
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् । नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः ॥ ६६ ॥
诚然,舍离本身就是一切所教之行持的精髓;而对恒常习于虚妄者,便生起烦恼——携带忧苦的黑暗。
Verse 67
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतानि च । सुखत्यागा तपो योगं सर्वत्यागे समापना ॥ ६७ ॥
舍弃财物时,当行持应尽之业;舍弃感官享乐时,当守持誓戒(vrata)。由舍弃安逸而生苦行(tapas)与瑜伽;而在一切尽舍之中,便有圆满的究竟成就。
Verse 68
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः । विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ॥ ६८ ॥
此即其道——无二无分(不二)——被开示为对一切执著的彻底舍离。由此,忧苦得以尽弃;否则,确会堕入不幸之途。
Verse 69
पंच ज्ञानेंद्रियाण्युक्त्वा मनः षष्टानि चेतसि । बसषष्टानि वक्ष्यामि पंच कर्मेद्रियाणि तु ॥ ६९ ॥
既已说明五种知觉之根(知根)以及内心之中作为第六的意(manas),我现在也将讲述五种行动之根(业根)。
Verse 70
हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतींद्रियम् । प्रजनान दयोमेढ्रो विसर्गो पायुरिंद्रियम् ॥ ७० ॥
当知双手为行作之根(业根),双足为行走之根。为繁衍,生殖器为其器具;为排泄,肛门为行作之根。
Verse 71
वाक्च शब्दविशेषार्थमिति पंचान्वितं विदुः । एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः ॥ ७१ ॥
言语(vāk)被知为具五分——声、其别别发音与其义(并诸余相)。如是,令心依于智(buddhi),从此十一根中收摄退回。
Verse 72
कर्णो शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे । तथा स्पर्शे तथा रूपे तथैव रसगंधयोः ॥ ७२ ॥
耳、声与心,三者和合而成闻之摄受。亦复如是,于触与色;同样,于味与香亦然。
Verse 73
एवं पंच त्रिका ह्येते गुणस्तदुपलब्धये । येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥ ७३ ॥
如是,这些诸德(guṇa)为悟知彼真实而安立为五组三合。由其相续的转变,此三重之有态便次第显现。
Verse 74
सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः । त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी ॥ ७४ ॥
彼三者复有三类:萨埵(sāttvika)、罗阇(rājasa)、昏暗(tāmasa)。于其中,吠陀之教亦以三相流布,作为成就一切之方便,利益具身众生。
Verse 75
प्रहर्षः प्रीतिरानंदः सुखं संशान्तचित्तता । अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥ ७५ ॥
欢欣振奋、慈爱满足、内在的阿难陀(ānanda)、安乐与彻底宁静的心——无论无外缘而起,或因某缘而生——就其本性而言,皆是心中萨埵(sattva)的德相。
Verse 76
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा । लिंगानि रजसस्तानि दृश्यंते हेत्वहेतुतः ॥ ७६ ॥
不满足、内心灼热、忧伤、贪欲与不堪忍受——这些是罗阇(rajas)的标记;可见其有时因缘而起,有时亦无因而生。
Verse 77
अविवेकस्तथा मोहः प्रमादः स्वप्नतंद्रिता । कथंचिदपि वर्तंते विविधास्तामसा गुणाः ॥ ७७ ॥
无辨别、迷妄、放逸,以及昏沉而渐入睡眠——这些与其他种种多样的昏性(tamas)倾向,不知何故仍在心中延续。
Verse 78
इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः । न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ॥ ७८ ॥
了知此解脱之慧,且不放逸而勤求我(Ātman)者,不为不善业果所染——如毒草之叶被水润湿,却不被其涂污。
Verse 79
दृढैर्हि पाशैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च । यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाऽग्र्यां गतिमेत्यलिंगः ॥ ७९ ॥
当人从种种坚固的系缚中解脱——包括因子嗣而起的束缚,乃至与主宰诸神相关的束缚——于是舍离苦与乐二边,便得解脱;并且无有身相之标,证入至上的境地。
Verse 80
श्रुतिप्रमाणगममंगलैश्च शेति जरामृत्युभयादतीतः । क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ॥ ८० ॥
依止《吠陀》与既定圣教之吉祥权威而安住者,超越对衰老与死亡的恐惧。福德既尽、罪垢既灭,身之因缘与其果报亦皆坏灭之时,他安住于一切条件之外。
Verse 81
अलेपमाकाशमलिंगमेवमास्थाय पश्यंति महत्यशक्ता । यथोर्णनाभिः परिवर्तमानस्तंतुक्षये तिष्टति यात्यमानः ॥ ८१ ॥
即便大有能力者,也唯有依止那如虚空般无染、无相的原则,方能观见“彼真实”。譬如蜘蛛吐丝而行,似在移动;丝尽之时便止息——虽先前仿佛仍在行进。
Verse 82
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्टमिवादिमृच्छन् । यथा रुरुः शृंगमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ॥ ८२ ॥
同样,解脱者舍离忧苦并将其粉碎——如土块被足下踏碎。又如鲁鲁鹿弃旧角,如蛇脱去陈旧之皮。
Verse 83
विहाय गच्छन्ननवेक्षघमाणस्तथा विमुक्तो विजहाति दुःखम् । मत्स्यं यथा वाप्युदके पतंतमुत्सृज्य पक्षी निपतत्सशक्तः ॥ ८३ ॥
同样,解脱者不回首而行,由此抛却忧苦;如鸟将鱼弃落池水之中,继而以全力再度俯冲——因已卸下重负。
Verse 84
तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिंगः ॥ ८४ ॥
诚然如此:舍离苦与乐,解脱者无相无著,得至至上而超越的境地。
Verse 85
इदममृतपदं निशम्य राजा स्वयमिहपंचशिखेन भाष्यमाणम् । निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥ ८५ ॥
国王听闻五顶髻(Pañcaśikha)亲自于此开示“无死之境”,便从各方面详加审察,确立其义;遂离忧无悲,安住于至上安乐之中。
Verse 86
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य । न खलु मम हि दह्यतेऽत्र किंचित्स्वयमिदमाह किल स्म भूमिपालः ॥ ८६ ॥
又有歌咏称:密提罗(Mithilā)之王见自城为火所焚,君主亲口宣言:“诚然,此处并无一物是我所有,何来焚烧?”
Verse 87
इमं हि यः पठति विमोक्षनिश्चयं महामुने सततमवेक्षते तथा । उपद्रवाननुभवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ ८७ ॥
大圣者啊,凡诵读此“解脱决定”并恒常观照者,便不遭诸苦扰;离忧无恼而得解脱,正如密提罗王得至迦毗罗(Kapila)一般。
It dramatizes non-attachment (asakti) and the dissolution of “I/mine” (ahaṅkāra/mamatā) after discernment of the aggregate body-mind as non-Self, showing liberation as inward independence even amid external catastrophe.
It proceeds by analytic enumeration and discrimination: elements and constituents, organs and their operations, guṇas and mental marks, and the kṣetra/kṣetrajña-style distinction, culminating in release through correct knowledge and complete renunciation.
It acknowledges āgama as distinct from perception while insisting that a settled conclusion (kṛtānta/siddhānta) is required for establishment; mere scriptural assertion without coherent grounding in what is seen and reasoned is treated as debate-weak.