
आडिबकयुद्ध-प्रशमनम् (Āḍi-baka-yuddha-praśamanam)
Lineage of Manus
本章叙述大仙人婆悉吒(Vasiṣṭha)与毗湿瓦密多罗(Viśvāmitra)因傲慢与嗔怒而互相诅咒,怨力由此滋长。继而爆发阿底(Āḍi)与婆迦(Baka)之间的惨烈大战,震动诸界,使众生惊惧。最终梵天(Brahmā)降临调停,息怒止战,令正法(Dharma)与安宁复归。
Verse 1
इति श्रीमार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानं नामाष्टमोऽध्यायः । नवमोऽध्यायः पक्षिण ऊचुः राज्यच्युते हरिश्चन्द्रे गते च त्रिदशालयम् । निश्चक्राम महातेजा जलवासात् पुरोहितः ॥
于是,在《圣摩尔迦ṇḍेय往世书》中,第八章“哈利施旃陀罗的故事”至此结束。现在开始第九章。群鸟说道:当哈利施旃陀罗从王国中坠落而往诸天之居时,那位光辉的家族祭司从其水中居所走出。
Verse 2
वशिष्ठो द्वादशाब्दान्ते गङ्गापर्युषितो मुनिः । शुश्राव च समस्तन्तु विश्वामित्रविचेष्टितम् ॥
十二年后,住在恒河畔的仙人婆悉吒,详尽听闻了毗湿瓦密多的诸般行事。
Verse 3
हरिश्चन्द्रस्य नाशञ्च राज्ञश्चोदारकर्मणः । चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयम् ॥
(他听闻)哈利施旃陀罗——那位德业高尚之王——的败落;又听闻他与旃陀罗族相交,以及他卖出妻子与儿子的事。
Verse 4
स श्रुत्वा सुमहाभागः प्रीतिमानवनīपतौ । चकार कोपं तेजस्वी विश्वामित्रऋषिं प्रति ॥
闻此言后,那位极其有福而光辉灿然、素来怜爱国王者,便对圣贤毗湿瓦密多罗(Viśvāmitra)生起忿怒。
Verse 5
वशिष्ठ उवाच मम पुत्रशतं तेन विश्वामित्रेण घातितम् । तत्रापि नाभवत् क्रोधस्तादृशो यादृशो 'द्य मे ॥
婆悉吒(Vasiṣṭha)说道:“我有一百个儿子被那毗湿瓦密多罗所杀;即便在那时,我心中也未生起如今日这般的忿怒。”
Verse 6
श्रुत्वा नराधिपमिमं स्वराज्यादवरīपितम् । महात्मानं महाभागं देवब्राह्मणपूजकम् ॥
听闻此王竟被逐出本有的王权——尽管他心地高贵、福德深厚,并敬奉诸天与婆罗门——说话者遂为忿怒所激。
Verse 7
यस्मात् स सत्यवाक् शान्तः शत्रावपि विमत्सरः । अनागाश्चैव धर्मात्मा अप्रमत्तो मदाश्रयः ॥
因为他言语真实,性情安和,即便对敌亦无嫉恨;无瑕无过,心怀正法,常自警觉,并以我为归依而虔诚奉事。
Verse 8
सपत्नीभृत्यपुत्रस्तु प्रापितो 'न्त्यां दशां नृपः । स राज्याच्च्यावितो 'नेन बहुशश्च खिलीकृतः ॥
那位国王——连同王后、侍从与诸子——被逼至穷途末路。他被此人逐出国土,并屡屡遭受羞辱。
Verse 9
तस्माद् दुरात्मा ब्रह्मद्विट् प्राज्ञानामवरोपितः । मच्छापोपहतो मूढः स बकत्वमवाप्स्यति ॥
因此,那心怀恶念、憎恨婆罗门、使贤智者沉沦之人,既被我的诅咒所击,中迷者将堕入为“baka”(鹤/苍鹭)之身。
Verse 10
पक्षिण ऊचुः श्रुत्वा शापं महातेजा विश्वामित्रो 'पि कौशिकः । त्वमप्याडिर्भवस्तेवति प्रतिशापमयच्छत ॥
群鸟说道:听闻此诅咒后,光辉伟大的毗湿瓦密多·考希迦亦宣说反诅咒:“你也将化为一只‘āḍi’。”
Verse 11
अन्यो 'न्यशापात् तौ प्राप्तौ तिर्यक्त्वं परमद्युतī । वशिष्ठः स महातेजा विश्वामित्रश्च कौशिकः ॥
由于彼此诅咒,那两位具至上光辉者——大光明的婆悉吒与毗湿瓦密多·考希迦——遂至于非人之生类(tiryak,旁生)之境。
Verse 12
अन्यजातिसमायोगं गतावप्यamitaujasau । यuyudhāte 'तिसंरब्धौ महाबलपराक्रमau ॥
虽已与另一种生类之身相系,那两位具无量威力者仍继续争战——盛怒非常,力大而勇猛。
Verse 13
योजनानां सहस्रे द्वे प्रमाणेनाडिरुच्छ्रितः । यन्नवत्यधिकं ब्रह्मन् ! सहस्रत्रितयं बकः ॥
按其尺度,āḍi之身高达二千由旬;而baka,噢婆罗门,高达三千(由旬)又九十。
Verse 14
तौ तु पक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ । प्रहरन्तौ भयं तीव्रं प्रजानाञ्चक्रतुस् तदा ॥
然而那二者,神勇无比,以双翼相互击打;在不断交击之际,令诸类众生生起强烈的恐惧。
Verse 15
विधूय पक्षाणि बको रक्तोद्वृत्ताक्षिराहनत् । आडिं सोऽप्युन्नतग्रीवो बकं पद्भ्यामताडयत् ॥
婆迦振动双翼,双目赤红翻转,击打其对手;而阿底亦高高昂起颈项,以足爪击打婆迦。
Verse 16
तयोः पक्षानिलापास्ताः प्रपेतुर्गिरयो भुवि । गिरिप्रपाताभिहता चकम्पे च वसुन्धरा ॥
为其双翼所激起的狂风所驱,群山坠落于大地;大地又被山岳崩落的轰然撞击所震,遂开始颤动。
Verse 17
क्ष्मा कम्पमाना जलधीनुद्वृत्ताम्बूंश्चकार च । ननामा चैकपार्श्वेन पातालगमनोनमुखी ॥
当大地震颤时,她使诸海翻涌,水浪上腾;她又向一侧倾斜,仿佛转向将坠入地下冥界。
Verse 18
केचिद् गिरिनिपातेन केचिद् अम्भोधिवारिणा । केचिन् महीसञ्चलनात् प्रययुः प्राणिनः क्षयम् ॥
有的众生为坠山所压而亡,有的为海水所没而亡;又有一些——因大地震荡——诸有情走向毁灭。
Verse 19
इति सर्वं परित्रस्तं हाहाभूतम् अचेतनम् । जगदासीद् सुसम्भ्रान्तं पर्यस्तक्षितिमण्डलम् ॥
于是万有皆惊惧——只剩“哈呀、哈呀”的哀号,神智失措;整个世界极度迷乱,仿佛大地之界本身被翻转了一般。
Verse 20
हा वत्स ! हा कान्त ! शिशो ! प्रयाह्येषोऽस्मि संस्थितः । हा प्रियॆ ! कान्त ! शैलोऽयं पतत्याशु पलायताम् ॥
“哀哉,孩子!哀哉,至爱!小小的——去吧,去吧!我站在这里。哀哉,亲爱的——这座山要崩落了;快快逃离!”
Verse 21
इत्याकुलीकृते लोके संत्रासविमुखे तदा । सुरैः परिवृतः सर्वैराजगाम पितामहः ॥
当世界如此被抛入动乱、为恐惧所淹没之时,毗多摩诃(梵天 Brahmā)在诸天环绕之下,来到那里。
Verse 22
प्रत्युवाच च विश्वेशास्तावुभावतिको पितौ । युद्धं वा विरमत् वेतल्लोकाः स्वास्थ्यं व्रजन्तु च ॥
宇宙之主对那两位怒火炽盛者说道:“愿此战止息,使诸世界复归安宁。”
Verse 23
शृण्वन्तावपि तौ वाक्यं ब्रह्मणोऽव्यक्तजन्मनः । कोपामर्षसमाविष्टौ युयुधाते न तस्थतुः ॥
虽听见梵天——由不显(无相)而生者——之言,那二者仍为忿怒与怨恨所驱使,继续争战,毫不止息。
Verse 24
ततः पितामहो देवस्तं दृष्ट्वा लोकसङ्क्षयम् । तयोश्च हितमन्विच्छन् तिर्यग्भावमपानुदत् ॥
于是,祖父神梵天(Brahmā)见诸世界将趋于毁灭,为了两者的福祉,便消除使他们沦为畜生的状态。
Verse 25
ततस्तौ पूर्वदेहस्थौ प्राह देवः प्रजापतिः । व्युदस्ते तामसे भावे वशिष्ठ०-कौशिकर्षभौ ॥
随后,当他们恢复到先前的身躯时,众生之主、神圣的造物主(生主 Prajāpati,即梵天 Brahmā)对那两位贤者中的“雄牛”——婆悉吒(Vasiṣṭha)与拘悉迦(Kauśika)——说道;他们曾被抛入昏暗(tamas)之境。
Verse 26
जहि वत्स वशिष्ठ त्वं त्वञ्च कौशिक सत्तम । तामसं भावमाश्रित्य ईदृग्युद्धं चिकीर्षितम् ॥
“住手吧,我的孩子——婆悉吒啊;你也一样,拘悉迦中最优秀者!由于依附于昏暗(tamas)的性情,你们竟想发动如此争斗。”
Verse 27
राजसूयविपाकोऽयं हरिश्चन्द्रस्य भूपतेः । युवयोर्विग्रहश्चायं पृथिवीक्षयकारकः ॥
“这乃是为哈利施旃陀罗王所行罗阇苏耶(Rājasūya)大祭的成熟果报;而你们的争执,正是使大地衰耗枯竭之因。”
Verse 28
न चापि कौशिकश्रेष्ठस्तस्य राज्ञोऽपरध्यते । स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः ॥
“而且确实,拘悉迦中最优秀者啊,你并未对那位国王犯下任何过失。婆罗门啊,他正处于能得天界之境,并非处在受害之地。”
Verse 29
तपो विघ्नस्य कर्तारौ कामक्रोधवशं गतौ । परित्यजत भद्रं वो ब्रह्म हि प्रचुरं बलम् ॥
“你们二人因受欲望与嗔怒所制,已成修苦行之障碍的制造者。应当舍弃此事——愿你们得安善——因为婆罗门(梵力、灵性威能)确是充盈的大力。”
Verse 30
एवमुक्तौ ततस्तेन लज्जितौ तावुभावपि । क्षमयामासतुः प्रीत्या परिष्वज्य परस्परम् ॥
他们被他如此训诫后,二人都感到惭愧;继而以慈爱之心彼此宽恕,相互拥抱。
Verse 31
ततः सुरैर्वन्द्यमानो ब्रह्मा लोकं निजं ययौ । वशिष्ठोऽप्यात्मनः स्थानं कौशिकोऽपि स्वामाश्रयम् ॥
随后,梵天(Brahmā)受诸天赞颂,回到自己的世界。婆悉吒(Vasiṣṭha)也回到自己的住处,拘尸迦(Kauśika)亦同样归于自己的依止之所。
Verse 32
एतदाडिबकं युद्धं हरिश्चन्द्रकथां तथा । कथयिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति चैव ये ॥
凡人之中,若有人讲述此“阿底婆迦”(Āḍibaka)之战,并复叙说哈利施旃陀罗(Hariścandra)的事迹——以及那些如法聆听者——
Verse 33
तेषां पापापनॊदन्तु श्रुतं ह्येव करिष्यति । न चैव विघ्नकार्याणि भविष्यन्ति कदाचन ॥
对他们而言,仅仅聆听此事便能除灭罪垢;并且在任何时候,都不会生起造成障碍的业行。
The chapter probes how dharma and satya can coexist with extreme suffering: Hariścandra’s ordeal is presented as morally luminous, while the sages’ lapse into wrath shows how kāma-krodha can distort even ascetic power; Brahmā’s counsel reframes tapas as requiring restraint and non-destructive use of spiritual force.
It shifts from Hariścandra’s personal trials to their wider karmic and cosmic repercussions: Vasiṣṭha’s reaction triggers a chain of curses, the ensuing world-threatening battle necessitates Brahmā’s arbitration, and the king’s trajectory is reaffirmed as svarga-oriented despite humiliation.
This chapter is not within the Devi Māhātmya (Adhyāyas 81–93) and does not foreground Manvantara sequencing; instead it emphasizes the ṛṣi-lineage conflict (Vasiṣṭha vs. Viśvāmitra) and the Hariścandra-upākhyāna’s karmic logic, explicitly labeled as rājasūya-vipāka by Brahmā.