
कुवलयाश्ववध-मदालसामरण (Kuvalayāśvavadha–Madālasāmaraṇa)
Dharma of Giving
本章叙述国王库瓦拉雅湿婆(Kuvalayāśva)因达伊提亚/阿修罗的诡计欺骗而遭致身亡。王后玛达拉萨(Madalasā)悲恸至极,出于对夫君的神圣忠贞与奉献,投身火葬柴堆自焚,以随夫而去,尽显哀情与法义的庄严。
Verse 1
इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीयॆ मदालसापरिणयनं नामैकविंशोऽध्यायः । द्वाविंशोऽध्यायः । पुत्रावूचतुः । ततः काले बहुतिथे गते राजा पुनः सुतम् । प्राह गच्छाशु विप्राणां त्राणाय चर मेदिनीम् ॥
如是,在可敬的《摩尔甘德耶往世书》之“俱伐罗耶湿婆”品中,名为《摩达拉萨之婚》的第二十一章告终。今始第二十二章。“诸子曰:”其后经久时日,国王复对其子言:“速往以护持婆罗门;周行大地。”
Verse 2
अश्वमेनं समारुह्य प्रातः प्रातर्दिने दिने । अबाधा द्विजमुख्यानामन्वेष्टव्या सदैव हि ॥
乘上此马;日日如此,晨复一晨。你当恒常护持,使诸“二生”之最上者——婆罗门圣贤——不受伤害,不遭扰乱。
Verse 3
दुर्वृत्ताः सन्ति शतशो दानवाः पापयोनयः । तेभ्यो न स्याद्यथा बाधा मुनीनां त्वं तथा कुरु ॥
有数百凶恶的檀那婆(Dānava),出自罪业之源。你当行事周全,使诸圣贤不因他们而受丝毫损害。
Verse 4
स यथोक्तस्ततः पित्रा तथा चक्रे नृपात्मजः । परिक्रम्य महीं सर्वां ववन्दे चरणौ पितुः ॥
王子既受父王如是教诲,便一一奉行。巡行遍历全境之后,他俯首礼拜父王足下。
Verse 5
अहन्यहन्यनुप्राप्ते पूर्वाह्ने नृपनन्दनः । ततश्च शेषं दिवसं तया रेमे सुमध्यया ॥
每日及至午前之时,王子便尽其职分;其余时日,则与那位腰肢纤美的女子嬉游为乐。
Verse 6
एकदा तु चारन् सोऽथ ददर्श यमुनातटे । पातालकेतोरनुजं तालकेतुं कृताश्रमम् ॥
一日游行之际,他在阎牟那河岸见到塔拉凯图(Tālaketu)——帕塔拉凯图(Pātālaketu)之弟——已在彼处建立一座阿湿罗摩(修行林)。
Verse 7
मायावी दानवः सोऽथ मुनिरूपं समास्थितः । स प्राह राजपुत्रं तं पूर्ववैरमनुस्मरन् ॥
那达那婆(Dānava)精于幻术(māyā),化作圣仙之形。忆起旧日仇怨,便对王子开口说道。
Verse 8
राजपुत्र ब्रवीमि त्वां तत् कुरुष्व यदीच्छसि । न च ते प्रार्थनाभङ्गः कार्यः सत्यप्रतिश्रव ॥
王子啊,我对你如此说——若你愿意,便去做吧。但你这以真实为誓者,切莫违背他人之所求。
Verse 9
यक्ष्ये यज्ञेन धर्माय कर्तव्याश्च तथेष्टयः । चितयस्तत्र कर्तव्या नास्ति मे दक्षिणा यतः ॥
我将为护持法(dharma)而举行祭祀(yajña),并当依正仪行事。其处须建起支提耶(citayā,火坛/柴坛之构),然我无达克希那(dakṣiṇā,祭司之酬献)。
Verse 10
अतः प्रयच्छ मे वीर हिरण्यार्थं स्वभूषणम् । यदेतत् कण्ठलग्नं ते रक्ष चेमं माश्रमम् ॥
因此,勇士啊,请为得黄金而将你的饰物赐予我——就是那悬于你颈上的这件。并且也请护持我这座林居(āśrama)。
Verse 11
यावदन्तर्जले देवं वरुणं यादसां पतिम् । वैदिकैर्वारुणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः ॥
直至(他)在水中以吠陀的伐楼那真言礼敬伐楼那神——水族众生之主;此等真言为人民滋养与兴盛之因——
Verse 12
अभिष्टूय त्वरायुक्तः समभ्येमीति वादिनम् । तं प्रणम्य ततः प्रादात् स तस्मै कण्ठभूषणम् ॥
赞颂了他之后,又为急迫所驱使,他说道:“我将近前/我将趋近。”随后他向他俯首致敬,并献上一件项链饰物。
Verse 13
प्राह यैनं भवान् यातु निर्व्यलीकेन चेतसा । स्थास्यामि तावदत्रैव तवाश्रमसमीपतः ॥
他说:“愿尊者前行,心无欺诳。我将暂时留在此处,靠近你的隐修院。”
Verse 14
तवादेशान्महाभाग यावदागमनं तव । न ते 'त्र कश्चिदाबाधां करिष्यति मयि स्थिते । विश्रब्धश्चात्वरन् ब्रह्मन् कुरुष्व त्वं मनोगतम् ॥
噫,吉祥者,依你之命,直至你归来,只要我驻守于此,便无人能在此扰害于你。婆罗门啊,怀着信心,勿复迟疑,去做你心中所欲为之事。
Verse 15
पुत्रावूचतुः एकमुक्तस्ततस्तेन स ममज्ज नदीजले । ररक्ष सो 'पि तस्यैव मायाविहितमाश्रमम् ॥
两位儿子如是言毕;随后,一语既出,他便跃入河水之中。他也守护着那座隐修院——乃以幻力所成。
Verse 16
गत्वा जलाशयात् तस्मात् तालकेतुश्च तत्परम् । मदालसायाः प्रत्यक्षमन्येषाञ्चैतदुक्तवान् ॥
于是,塔拉凯图自那水池出来,立刻在玛达拉萨及众人面前陈述了此事。
Verse 17
तालकेतुरुवाच वीरः कुवलयाश्वो 'सौ ममाश्रमसमीपतः । केनापि दुष्टदैत्येन कुर्वन् रक्षां तपस्विनाम् ॥
塔拉凯图说道:“那位英雄俱瓦拉雅湿婆就在我隐修林附近,护持诸苦行者;然而因某个邪恶的阿修罗(daitya)……”
Verse 18
युध्यमानो यथाशक्ति निघ्नन् ब्रह्मद्विषो युधि । मायामाश्रित्य पापेन भिन्नः शूलेन वक्षसी ॥
他竭尽所能奋战,在战场上击倒那些憎恨婆罗门(即婆罗门正法与神圣秩序)之人;然而那罪恶者依凭幻力(māyā),以三叉戟刺穿了他的胸膛。
Verse 19
म्रियमाणेन तेनिदं दत्तं मे कण्ठभूषणम् । प्रापितश्चाग्निसंयोगं स वने शूद्रतापसैः ॥
他临终之际,将这串项饰交给了我。随后在林中,由首陀罗的苦行者使他与火相接(行火葬之仪)。
Verse 20
कृतार्तहरेषाशब्दो वै त्रस्तः साश्रुविलोचनः । नीतः सो 'श्वश्च तेनैव दानवेन दुरात्मना ॥
在惊恐中发出呼号与悲恸的马嘶,泪眼盈眶——他与那匹马被同一个心性邪恶的达那婆(dānava)掳走。
Verse 21
एतन्मया नृशंसनेन दृष्टं दुष्कृतकारिणा । यदत्रानन्तरं कृत्यं क्रियतां तदकाळिकम् ॥
此事乃我亲眼所见——纵然我残酷且作恶多端。此事接下来当行之举,愿即刻施行,勿再迟延。
Verse 22
हृदयाश्वासनञ्चैतद् गृह्यतां कण्ठभूषणम् । नास्माकं हि सुवर्णेन कृत्यमस्ति तपस्विनाम् ॥
“请收下这串项链,以慰藉心灵。因为我们这些苦行者,确实用不着黄金。”
Verse 23
पुत्रावूचतुः इत्युक्त्वोत्सृज्य दत्त्वा भूमौ स जगाम यथागतम् । निपपात जनः सोऽथ शोकार्तो मूर्च्छयातुरः ॥
说罢,那两位王子将其放手,置于地上,便如来时一般离去。随后,那人/众人被悲痛所击,昏厥困顿,倒伏在地。
Verse 24
तत्क्षणात् चेतनां प्राप्य सर्वास्ता नृपयोषितः । राजपत्नीश्च राजा च विलेपुरतिदुःखिताः ॥
就在那一刻,众王室妇女——国王的诸王后以及国王本人——苏醒过来,皆为悲痛所淹没而哀号哭诉。
Verse 25
मदालसा तु द् दृष्ट्वा तदीयं कण्ठभूषणम् । तत्याजाशु प्रियान् प्राणान् श्रुत्वा च निहन्त पतिम् ॥
然而,玛达拉萨一见那串项链,又听闻其夫已被杀害,便立刻舍弃了她所珍爱的生命之息。
Verse 26
ततस्तथा महाक्रन्दः पौराणां भवनेष्वभूत् । यथैव तस्य नृपतेः स्वगेहे समवर्तत ॥
随后,城中百姓的家宅里也响起了巨大的哀哭——正如在国王自家宫中所发生的一般。
Verse 27
राजा च तां मृतां दृष्ट्वा विना भर्त्रा मदालसाम् । प्रत्युवाच जनं सर्वं विमृश्य सुस्थमानसः ॥
国王见到玛达拉萨已死、又失其夫,便以安定之心深思后,向众人作答。
Verse 28
न रोदितव्यं पश्यामि भवतामात्मनस्तथा । सर्वेषामेव संचित्य सम्बन्धानामनित्यताम् ॥
“我看不出你们为何要为自己如此哭泣——若能省思,便知一切关系于众生皆无常。”
Verse 29
किंनु शोचामि तनयं किंनु शोचाम्यहं स्नुषाम् । विमृश्य कृतकृत्यत्वाम्नम्येऽशोच्यावुभावपि ॥
“我究竟该为谁哀恸——为我的儿子,还是为我的儿媳?思惟之后,我向真理致敬:二者皆不应哀悼,因其已成就应作之事。”
Verse 30
मच्छ्रु श्रुपुर्मद्वचनाद्द्विजरक्षणतत्परः । प्राप्तो मे यः सुतो मृत्युं कथं शोच्यः स धीमताम् ॥
“我子遵从我言,专志护持二次生者(婆罗门),遂与死相遇。智者又怎会为他哀哭?”
Verse 31
अवश्यं याति यद्देहं तद्द्विजानां कृते यदि । मम पुत्रेण संत्यक्तं नन्वभ्युदयकारि तत् ॥
“若此身终必离散(败坏),那么我子为二次生者而舍身,岂不正是吉祥与升进之因吗?”
Verse 32
इयञ्च सत्कुलोत्पन्ना भर्तर्येवमनुव्रताम् । कथन्नु शोच्या नारीणां भर्तुरन्यन्न दैवतं ॥
她生于良善之家,因此虔诚奉事其夫。如此之女又何必怜悯——因为对妇人而言,除丈夫之外别无神祇。
Verse 33
अस्माकं बान्धवानाञ्च तथान्येषां दयावताम् । शोच्या ह्येषा भवेदेवं यदि भर्त्रा वियोगिनी ॥
对我们的亲族——以及其他怀有慈悲之人——若她与丈夫分离,她确实会以此方式令人怜悯。
Verse 34
या तु भर्तुर्वधं श्रुत्वा तत्क्षणादेव भामिनी । भर्तारमनुयातेयं न शोच्यातो विपश्चिताम् ॥
然而那位刚烈的女子,听闻其夫被杀,便立刻追随其夫而去——智者不应为她哀悼。
Verse 35
ताः शोच्या या वियोगिन्यो न शोच्या या मृताः सह । भर्त्रा वियोगस्त्वनया नानुभूतः कृतज्ञया ॥
在离别中生活的女子应当怜悯;与丈夫同死的女子则不应怜悯。因为这位知恩的女子并未经历与其夫分离。
Verse 36
दातारं सर्वसौख्यानामिह चामुत्र चोभयोः । लोकयोः का हि भर्तारं नारी मन्येत मानुषम् ॥
(丈夫)是在此世与彼世、于两界之中赐予一切安乐者。哪位女子会把自己的丈夫仅仅视作凡人呢?
Verse 37
नासौ शोच्यो न चैवेयं नाहं तज्जननी न च । त्यजता ब्राह्मणार्त्थाय प्राणान् सर्वे स्म तारिताः ॥
“他不应被哀悼,她亦不应;我也不应被哀悼,我也并非以丧子之悲为母。因他为一位婆罗门舍弃生命,我们众人皆得解脱。”
Verse 38
विप्राणं मम धर्मस्य गतः स हि महामतिः । आनृण्यमर्धभुक्तस्य त्यागाद् देहस्य मे सुतः ॥
“那位大心者已前往,成为婆罗门与我之法(dharma)的依止。我的儿子仅享受了所定寿命的一半,因舍身而得无债之境。”
Verse 39
मातुः सतीत्वं मद्वंशवैमल्यं शौर्यमात्मनः । संग्रामे संत्यजन् प्राणान् नात्यजद् द्विजरक्षणम् ॥
“(他维护了)其母之贞洁、我族之清净,以及自身之勇武。虽战场舍命,仍未舍弃对二次生者(婆罗门)的护持。”
Verse 40
पुत्रावूचतुः ततः कुवलयाश्वस्य माता भर्तुरनन्तरम् । श्रुत्वा पुत्रवधं तादृक् प्राह दृष्ट्वा तु तं पतिम् ॥
“于是两位儿子开口说话。其后,库瓦拉雅湿婆之母在丈夫甫逝之后,听闻其子遭此杀害,见到丈夫时便发言。”
Verse 41
मातोवाच न मे मात्रा न मे स्वस्त्रा प्राप्ता प्रीतिर्नृपेदृशी । श्रुत्वा मुनिपरित्राणे हतं पुत्रं यथा मया ॥
“母亲说道:‘大王啊,我从为人母或为人姊之中,从未得过如此喜悦;唯有听闻我儿为护持一位圣贤而被杀时,我心中生起此等欢悦。’”
Verse 42
शोचतां बान्धवानां ये निःश्वसन्तोऽतिदुःखिताः । म्रियन्ते व्याधिना क्लिष्टास्तेषां माता वृथाप्रजा ॥
那些在亲族哀恸之时仍于苦境中死去的人——长叹不已,极度痛苦,被疾病折磨——对于这等男子,母亲之为母,终成徒然。
Verse 43
संग्रामे युध्यमाना येऽभीता गोद्विजरक्षणे । क्षुण्णाः शस्त्रैर्विपद्यन्ते त एव भुवि मानवाः ॥
凡在战场上无所畏惧,为护持牛群与婆罗门而战,并且倒下——为兵刃所斩——唯有此等人,方是真正立于大地的男子。
Verse 44
अर्थिनां मित्रवर्गस्य विद्विषाञ्च पराङ्मुखः । यो न याति पिता तेन पुत्री माता च वीरसूः ॥
那不肯“出征前行”的父亲——背弃求助者,背离友朋之圈,回避敌对者——于他而言,即便有女儿,亦便有能生英雄之母,也如同失其所用,徒增羞惭而不成其德。
Verse 45
गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा । यदारिविजयी वा स्यात् संग्रामे वा हतः सुतः ॥
我以为,妇人怀胎之艰辛,唯在其子或成为克敌之胜者——或战场殒命之时——方得真实圆满。
Verse 46
पुत्रावूचतुः ततः स राजा संस्कारं पुत्रपत्नीमलम्भयत् । निर्गम्य च बहिः स्नातो ददौ पुत्राय चोदकम् ॥
于是两位儿子开口说话;其后,国王为其子之妻安排诸般仪式。出外沐浴之后,他亦为其子献上水供(udaka)。
Verse 47
तालकेतुश्च निर्गम्य तथैव यमुनाजलात् । राजपुत्रमुवाचेदं प्रणयान्मधुरं वचः ॥
而塔拉凯图亦从阎牟那河的水中现身,出于深情,对王子说出这些甘美之语。
Verse 48
गच्छ भूपालपुत्र ! त्वं कृतार्थोऽहं कृतस्त्वया । कार्यं चिराभिलषितं त्वय्यत्राविचले स्थिते ॥
去吧,王子啊。因你我已得圆满;你在此坚定伫立之时,那久所希求之事已然成就。
Verse 49
वारुणं यज्ञकार्यञ्च जलेशस्य महात्मनः । तन्मया साधितं सर्वं यन्ममासीदभीप्सितम् ॥
与伐楼那相关的祭祀职责——即那位水之大主的仪轨——已由我圆满完成;我所愿求的一切皆已成就。
Verse 50
प्रणिपत्य स तं प्रायाद्राजपुत्रः पुरं पितुः । समारुह्य तमेवाश्वं सुपर्णानिलविक्रमम् ॥
王子向他顶礼后,便骑上那匹同一骏马,步伐迅疾如迦楼罗与疾风,启程前往父王之城。
The chapter tests the limits of dharmic trust—truthfulness, charity, and protection of ascetics—when confronted by māyā (deceptive strategy). It then reframes grief through anityatā (impermanence) and argues that death accepted for dvija-rakṣaṇa is ethically meritorious and therefore not an object of lament for the wise.
It does not directly enumerate Manvantaras or Manu-lineages; instead, it advances a dynastic-ethical (vaṃśa/rājadhrama) strand by presenting the royal household’s response to death in the context of protecting Vedic society, reinforcing Purāṇic ideals of kingship and merit.
This Adhyāya lies outside the Devī Māhātmya (Adhyāyas 81–93) and contains no stuti, śākta theology, or Devī battle narrative. Its primary contribution is to the Kuvalayāśva–Madālasā lineage-episode, emphasizing rājadhrama, satya, and the moral hazards posed by daitya-māyā.