
Tīrtha-māhātmya and Rudra’s Samanvaya Teaching (Maṅkaṇaka Episode)
本章承接诸仙向罗摩诃尔沙那询问著名圣地之事,开启“圣地功德”(tīrtha-māhātmya)的叙述:列举重要朝圣中心,并称赞沐浴、持诵(japa)、火供(homa)、祭祖仪式(śrāddha)与布施(dāna)的净化力,能使家族世代蒙益。先赞颂普拉雅伽(Prayāga),继而转说伽耶(Gayā)为诸祖灵(Pitṛ)所爱之秘境,行供团(piṇḍadāna)可度脱先祖并助成解脱(mokṣa),强调有能力的后裔应当前往。随后扩展列名诸地:Prabhāsa、Tryambaka、Someshvara、Vijaya、Ekāmra、Virajā、Puruṣottama、Gokarṇa与Uttara-Gokarṇa、Kubjāmra、Kokāmukha、Śālagrāma、Aśvatīrtha(Hayāśiras)、Puṣkara,并分别联系其果报,如同住(sālokya)、同形(sārūpya)、合一(sāyujya)、梵天界(Brahmaloka)、毗湿奴界(Viṣṇuloka)。叙事继而至七萨拉斯瓦塔(Saptasārasvata):曼迦那迦(Maṅkaṇaka)苦行与自矜引来鲁陀罗(Rudra)示现以纠正;鲁陀罗与天后(Devī)同现可怖的宇宙形相,并宣说关于自然/幻力(prakṛti/māyā)、灵我(puruṣa)、自在主(īśvara)与时间(kāla)的合一义,指出毗湿奴–梵天–鲁陀罗三相同根于不坏的梵(Brahman)。章末确认以奉爱瑜伽(bhakti-yoga)证悟此真理,而圣地仍为净化之所,为后续将地理、仪轨与吠檀多融会的篇章作铺垫。
Verse 1
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिशो ऽध्यायः ऋषय ऊचुः तीर्थानि यानि लोके ऽस्मिन् विश्रुतानि माहन्ति च / तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम्
如是,于《圣龟摩往世书》六千颂《集成》之后分中,第三十三章开始。诸仙人曰:“噢,罗摩哈沙那,请今为我等宣说此世间闻名而极受敬仰之诸圣地(tīrtha)。”
Verse 2
रोमहर्षण उवाच शृणुध्वं कथयिष्ये ऽहं तीर्थानि विविधानि च / कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः
罗摩诃尔沙那说道:“诸位请听。我将宣说种种圣地渡口(tīrtha)——这些在诸《往世书》中由阐明梵(Brahman,至上真理)的牟尼圣贤所传授。”
Verse 3
यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् / एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम्
诸位最胜牟尼:凡于何处行沐浴净身、持诵(japa)、火供(homa)、以及施行祭祖供养(śrāddha)与布施等法事——即便仅作其中一项——亦能净化家族,及至第七代。
Verse 4
पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः / प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम्
普罗耶伽(Prayāga)——以梵天、至上主(Parameṣṭhin)之圣渡(tīrtha)而闻名——绵延五由旬。今当宣说其圣威与功德(māhātmya)。
Verse 5
अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् / ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम्
“此外,还有一处库鲁之地最胜圣渡(tīrtha),连诸天亦敬礼;为诸仙人(ṛṣi)精舍所依止,能涤除一切罪垢。”
Verse 6
तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः / ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम्
在彼处沐浴后,心地清净、远离矫饰与嫉妒之人,若行布施哪怕些许,也能净化两系家族——出生之族与婚姻之族。
Verse 7
गयातीर्थं परं गुह्यं पितॄणां चाति वल्लभम् / कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः
伽耶圣地(Gayā-tīrtha)至为神圣,幽玄深秘,尤为祖灵皮特利(Pitṛ)所钟爱。若在彼处奉献祭团(piṇḍa),此人便不再复生轮回。
Verse 8
सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः / तारिताः पितरस्तेन यास्यन्ति परमां गतिम्
凡人只要曾至伽耶一次,并于彼处奉献祭团(piṇḍa)——由此功德,诸祖灵皮特利得以度脱,趋入至上境界。
Verse 9
तत्र लोकहितार्थाय रुद्रेण परमात्मना / शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत्
于彼处,为饶益诸世间,鲁陀罗——至上我(Paramātman)——在石板上安置其足迹。就在那一处,应当祭慰祖灵皮特利。
Verse 10
गयाभिगमनं कर्तुं यः शक्तो नाभिगच्छति / शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः
若有人有力行赴伽耶朝圣却不前往——其祖灵皮特利必为之哀伤;他其余一切劳作皆成徒然。
Verse 11
गायन्ति पितरो गाथाः कीर्तयन्ति महर्षयः / गयांयास्यतियः कश्चित् सो ऽस्मान् संतारयिष्यति
诸祖灵皮特利吟唱赞歌,诸大圣仙亦宣说: “无论谁将前往伽耶——他必使我们得以渡越解脱(脱离祖灵受缚之境)。”
Verse 12
यदि स्यात् पातकोपेतः स्वधर्मरतिवर्जितः / गयां यास्यति वंश्यो यः सो ऽस्मान् संतारयिष्यति
即使后裔罪业深重,已失其本分之法(dharma)的欢喜;若他前往伽耶(Gayā),亦能度脱我们诸祖先,越过苦海。
Verse 13
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः / तेषां तु समवेतानां यद्येको ऽपि गयां व्रजेत्
当愿求多子——品行端正、具足善德;因为他们纵然齐聚,只要其中一人前往伽耶(Gayā),在彼处所行祭仪便能成就家族为祖先所立之愿。
Verse 14
तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः / प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः
因此,当尽一切努力,尤其是婆罗门;既至伽耶(Gayā),内心摄持安定,当依正仪奉献祭团(piṇḍa)。
Verse 15
धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः / कुलान्युभयतः सप्त समुद्धृत्याप्नुयात् परम्
在伽耶(Gayā)奉献祭团(piṇḍa)之人,实为有福的凡夫;他们提升并救拔父系与母系两边各七代宗族,终得至于至上之境。
Verse 16
अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् / प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः
又有一处最胜圣地,被称为成就者(siddha)之所居;其名闻于世曰“普罗婆娑”(Prabhāsa),彼处吉祥的主宰婆伐(Bhava,湿婆Śiva)安住。
Verse 17
तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् / कृत्वा लोकमवाप्नोति ब्रह्मणो ऽक्षय्यमुत्तमम्
在那里,行圣浴、修苦行、作祖先施食的śrāddha,并恭敬供养婆罗门者,得证至上不坏的梵(Brahman)之界。
Verse 18
तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् / पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत्
有一处名为“特赖扬巴卡”(Traiyambaka)的圣地,为诸天所礼敬。若在彼处礼拜鲁陀罗(Rudra),便得与“光明赞”(Jyotiṣṭoma)苏摩祭同等之功德。
Verse 19
सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् / ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम्
若如法礼拜摩诃提婆——金眼之主、卡帕尔丁(结发者)——继而恭敬供养婆罗门,必定获得“伽那帕提亚”之位,成为湿婆神圣眷属(伽那)的一员。
Verse 20
सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः / सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम्
娑摩伊湿伐罗(Someshvara)是鲁陀罗——至上主——所属的最胜圣地;其地清净,能除一切疾苦,并成为得鲁陀罗“同界”(sālokya,居于同一神界)之因。
Verse 21
तीर्थानां परमं तीर्थं विजयं नाम शोभनम् / तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम्
在一切圣地之中,最无上的圣地是庄严殊胜、名为“胜利”(Vijaya)的蒂尔塔。其处安立大自在天(Maheśa)之林伽,亦以“胜利”之名闻于世。
Verse 22
षण्मासान् नियताहारो ब्रह्मचारी समाहितः / उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम्
在彼处住满六个月,节制饮食,安住于梵行(brahmacarya),内心摄持寂定——诸位最胜婆罗门将证得至上境界。
Verse 23
अन्यच्च तीर्थप्रवरं पूर्वदेशे सुशोभनम् / एकाम्रं देवदेवस्य गाणपत्यफलप्रदम्
又在东方之地,尚有一处最胜而庄严的圣渡处——“一芒果林”Ekāmra,隶属于诸神之神(Īśvara),能赐予伽那钵底派(奉伽内沙之道)的果报。
Verse 24
दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् / सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात्
在此处,若将吉祥之地哪怕一小块,作为恒久之施布施给湿婆的奉献者——国王将成转轮圣王;求解脱者则得证解脱(mokṣa)。
Verse 25
महानदीजलं पुण्यं सर्वपापविनाशनम् / ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः
大河之水至为神圣,能灭除一切罪垢。于日月食之时在其中行沐浴净礼,便能解脱诸般重罪。
Verse 26
अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता / तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते
又有一条名为毗罗阇(Virajā)之河,闻名三界。噢婆罗门啊,凡在她的水中沐浴之人,将在梵天界(Brahmaloka)受尊崇而显扬。
Verse 27
तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् / तत्र नारायणः श्रीमानास्ते परमपूरुषः
另有一处属于那罗延那(Nārāyaṇa)的圣地(tīrtha),名为“普鲁绍塔玛”(Puruṣottama)。在彼处,光辉的那罗延那以至上之人、最高人格而安住。
Verse 28
पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः / ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात्
礼敬至上的毗湿奴(Viṣṇu),并在彼处沐浴后,最殊胜的两次生者(dvija)再供养礼敬婆罗门,必得往生毗湿奴之界(Viṣṇuloka)。
Verse 29
तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् / सर्वपापहरं शंभोर्निवासः परमेष्ठिनः
诸圣地之中,至上的圣地名闻为“果迦尔那”(Gokarṇa)——能灭除一切罪垢,乃是商婆(Śambhu,湿婆)这位至高主宰的居处。
Verse 30
दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् / ईप्सितांल्लभते कामान् रुद्रस्य दयितो भवेत्
瞻礼天主至上的“果迦尔内湿伐罗”(Gokarṇeśvara)林伽者,得遂所愿诸欲,并成为鲁陀罗(Rudra,湿婆)所钟爱之人。
Verse 31
उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः / महादेवस्यार्चयित्वा शिवसायुज्यमाप्नुयात्
同样,在“北果迦尔那”(Uttara-Gokarṇa)有持三叉戟之主的林伽。于彼处礼拜摩诃提婆(Mahādeva),便得“萨优吉亚”(sāyujya)——与湿婆圆满合一、同住同体。
Verse 32
तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः / तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः
在那里,大神摩诃提婆以“斯塔努”(Sthāṇu)之名著称。凡人一旦瞻见祂,当下便从一切罪业中解脱。
Verse 33
अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः / संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते
又有一处无与伦比的圣地,属于大魂毗湿奴,名为“库布迦摩罗”(Kubjāmra)。若在彼处如法礼敬“普鲁沙·毗湿奴”,便得尊荣,并在“白洲”(Śvetadvīpa)获至崇高境位。
Verse 34
यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा / कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः
此处乃主那罗延亲自与鲁陀罗——三城毁灭者——一同“搅动并整肃”达克沙之祭,随后离开那场祭祀之地。
Verse 35
समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् / पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः
四周绵延一由旬之地,乃为众多悉地者与圣仙群所礼敬的圣域。此为毗湿奴的清净圣所;至上之人——普鲁绍塔玛(Puruṣottama)——安住于彼。
Verse 36
अन्यत् कोकामुखं विष्णोस्तीर्थमद्भुतकर्मणः / मृतो ऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात्
又有毗湿奴的一处圣渡,名“科迦穆卡”(Kokāmukha),以神奇威力著称。若有人于彼处舍身,便脱离罪垢,并得“同形解脱”(sārūpya-mukti),形相与毗湿奴相似。
Verse 37
शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् / प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति
娑罗伽罗摩(Śālagrāma)乃至上圣渡,能增益毗湿奴之欢悦。若有人于彼处舍离生命之气,便得瞻见赫利希凯沙(Hṛṣīkeśa),诸根之主。
Verse 38
अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् / आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम्
此处名闻为阿湿瓦提尔塔(Aśvatīrtha),乃成就者(悉达)所居之极净圣所。彼处那罗延(Nārāyaṇa)亲自恒常安住,以马首之相——海亚希罗(Hayāśiras)示现。
Verse 39
तीर्थं त्रैलोक्यविख्यातं ब्रह्मणः परमेष्ठिनः / पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम्
补湿迦罗(Puṣkara)乃三界闻名之圣渡,属于梵天·帕拉梅什提(Brahmā Paramēṣṭhin),众生之至上主。此地能灭尽诸罪;凡于彼处命终者,得往梵天界(Brahmaloka)。
Verse 40
मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः / पूयते पातकैः सर्वैः शक्रेण सह मोदते
噢,最胜之二生者!若有人以真诚之心忆念补湿迦罗(Puṣkara),便从一切罪垢中得净,并与释迦罗(Śakra,即因陀罗)同享欢喜。
Verse 41
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः / उपासते सिद्धसङ्घा ब्रह्मणं पद्मसंभवम्
彼处,诸天与乾闼婆、夜叉、那伽及罗刹同在,诸悉达众亦齐集,礼敬供奉莲华所生的梵天——造化之主。
Verse 42
तत्र स्त्रात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् / पूजयित्वा द्विजवरान् ब्रह्माणं संप्रपष्यति
于彼处沐浴,则身心清净;继而礼敬梵天(Brahmā)——众生之至上主宰,并恭敬最胜婆罗门,便得亲见梵天。
Verse 43
तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् / सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात्
至彼处而亲近诸天之主——普鲁呼多(Puruhūta)、无垢者——凡人便光辉端严、形貌殊胜,并能成就一切所愿。
Verse 44
सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् / पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत्
在至上圣地“七萨拉斯瓦塔圣渡”(Saptasārasvata Tīrtha)——连梵天等诸神亦常来礼事之处——若于彼处礼拜鲁陀罗(Rudra),便得与马祭(Aśvamedha)同等之功德。
Verse 45
यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् / आराधयामास हरं पञ्चक्षरपरायणः
于彼处,曼迦那迦(Maṅkaṇaka)归依鲁陀罗——至上自在主(Parameśvara)——以一心虔敬礼事哈罗(Hara),全然依止五字真言。
Verse 46
नमः शिवायेति मुनिः जपन् पञ्चाक्षरं परम् / आराधयामास शिवं तपसा गोवृषध्वजम्
圣者持诵至上五字真言“南无湿婆耶”(namaḥ śivāya),安住于念诵(japa),以苦行礼拜湿婆(Śiva)——其旗帜以公牛为徽。
Verse 47
प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा / ननर्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम्
当时,牟尼曼迦那迦以苦行之热焰炽然如火;得知鲁陀罗已至,便在喜悦的洪流中起舞。
Verse 48
तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया / दृष्ट्वापि देवमीशानं नृत्यति स्म पुनः पुनः
于是,圣尊鲁陀罗对他说:“你为何起舞?即便已瞻见主宰伊舍那,你仍一再舞动不止。”
Verse 49
सो ऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये / स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत्
见他因傲慢而自满,圣尊伊舍为息灭其狂心,裂开自身之躯,向他示现一堆灰烬。
Verse 50
पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम / माहात्म्यमेतत् तपसस्त्वादृशो ऽन्यो ऽपि विद्यते
“婆罗门中之最啊,观此由我自身所生的灰烬之堆。此即苦行之大威德;确有如你一般具此灵力者。”
Verse 51
यत् सगर्वं हि भवता नर्तितं मुनिपुङ्गव / न युक्तं तापसस्यैतत् त्वत्तोप्यत्राधिको ह्यहम्
“诸牟尼之最啊,你在此以傲慢而舞,并不相称于苦行者;在此事上,我确实胜过你。”
Verse 52
इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् / आस्थाय परमं भावं ननर्त जगतो हरः
如是对最胜牟尼言毕,鲁陀罗——遍观一切者——即入至上神圣境界,以哈罗之身,作为宇宙之主而起舞。
Verse 53
सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् / दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः
他化现千首、千眼、千足;獠牙外露,口相狰狞;以火焰为鬘,威怖可畏,令人不敢直视。
Verse 54
सो ऽन्वपश्यदशेषस्य पार्श्वे तस्य त्रिशूलिनः / विशाललोचनमेकां देवीं चारुविलासिनीम् / सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम्
随后他在那持三叉戟、即一切之主的身侧,看见唯一的女神:广目端丽,姿态婉妙;光辉如一万日轮,面容安宁,乃吉祥慈惠的湿婆女神(Śivā)。
Verse 55
सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तीममितद्युतिम् / दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः / ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी
见宇宙之主毗湿维湿伐罗立于其前,光明无量而含微笑,牟尼之王内心震惧,心神战栗,身亦颤动。自持其志,他俯首礼敬鲁陀罗,并开始诵持《鲁陀罗章》(Rudrādhyāya)圣赞。
Verse 56
प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः / पूर्ववेषं स जग्राह देवी चान्तर्हिताभवत्
蒙悦纳后,至福之主伊沙——三目特里扬巴卡,慈爱护念诸 भक्त——复现其先前之相;而女神亦隐没不见。
Verse 57
आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः / न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम्
神中之神——亲自的湿婆——拥抱那俯首礼拜的虔信者,说道:“孩子,莫要畏惧。告诉我——你愿我赐你何物?”
Verse 58
प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् / विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः
圣者俯首叩拜吉利沙——哈拉、诛灭特里普拉者——随后心生欢喜、欲求请问,便恭敬地陈述所求。
Verse 59
नमो ऽस्तु ते महादेव महेश्वर नमो ऽस्तु ते / किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम्
礼敬于你,摩诃提婆;礼敬于你,摩诃伊湿伐罗。此尊薄伽梵之相为何物——威严可畏、令人战栗——其面向遍及一切方所?
Verse 60
का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता / अन्तर्हितेव सहसा सर्वमिच्छामि वेदितुम्
又那位光辉灿然、侍立在薄伽梵身侧者是谁?她忽然如被遮隐般消失无踪——这一切我都愿知晓。
Verse 61
इत्युक्ते व्याजहारमं तथा मङ्कणकं हरः / महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः
闻此言,哈拉——大自在天、焚灭特里普拉者——便对曼卡那迦开示,宣说其自性之瑜伽,并同说天女(提毗)。
Verse 62
अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः / दाहकः सर्वपापानां कालः कालकरो हरः
我乃千眼者;为一切众生之自性,面向十方。我焚尽诸罪;我即时间,亦为造就时间者,并为诃罗(Hara),除去者。
Verse 63
मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् / सो ऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः
唯由我推动,此整个宇宙——有情与无情——皆得运转。彼即内在主宰(Antaryāmin),彼即普鲁沙;诚然,我即是那位普鲁绍塔玛(Puruṣottama),至上之人。
Verse 64
तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका / प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी
彼之至上摩耶,即由三德(guṇa)构成的原质(Prakṛti),被诸牟尼宣说为永恒的圣力(Śakti),乃宇宙出生之胎藏。
Verse 65
स एष मायया विश्वं व्यामोहयति विश्ववित् / नारायणः परो ऽव्यक्तो मायारूप इति श्रुतिः
彼——遍知宇宙者——以其摩耶令此世间迷惑。那罗延那(Nārāyaṇa)为至上者、为不显者(Avyakta);圣典(Śruti)宣示:彼具摩耶之性,为摩耶之主与其力。
Verse 66
एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् / योजयामि प्रकृत्याहं पुरुषं पञ्चविंशकम्
如是,我恒常于一切时支撑此整个世界;并藉由原质(Prakṛti),我使第二十五原理——普鲁沙(Puruṣa)——相应而运作。
Verse 67
तथा वै संगतो देवः कूटस्थः सर्वगो ऽमलः / सृजत्यशेषमेवेदं स्वमूर्तेः प्रकृतेरजः
如是,主宰虽与显现相应,仍为不变之“住于本体者”(kūṭastha),遍一切处而无垢;且虽无生,仍从自身之形相——即普拉克里蒂(Prakṛti,自然、本原质)——无余地化生此整个宇宙。
Verse 68
स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः / तवैतत् कथितं सम्यक् स्त्रष्ट्वत्वं परमात्मनः
正是那位神祇——薄伽梵梵天(Brahmā),诸世界之祖父(Pitāmaha),以整个宇宙为其形相者——被你如实宣说为至上我(Paramātman)之创造之力。
Verse 69
एको ऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः / समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः
“唯我是一切吉祥之主(Bhagavān)——即是迦罗(Kāla,时间)本身:无始、遍一切处、并成就毁灭之归寂。安住于至上境界,智者宣说我即鲁陀罗(Rudra)。”
Verse 70
मम वै सापरा शक्तिर्देवी विद्येति विश्रुता / दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः
诚然,我更高的神力,世所共知名为“毗提耶”(Vidyā,圣智)之女神。你如今确已见到她;因此,我即是那圣智之身(Vidyā-deha)。
Verse 71
एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः / विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः
如是,这些本原之理(tattva)被宣示:普拉达那(Pradhāna)、补鲁沙(Puruṣa)与自在主(Īśvara)。而圣传(śruti)亦言及毗湿奴(Viṣṇu)、梵天(Brahmā)、薄伽梵鲁陀罗(Rudra),以及迦罗(Kāla,时间)。
Verse 72
त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् / तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः
此三者无始无终,唯安住于梵(Brahman)之中。圣典《闻传》(Śruti)宣说:它与“彼”同一体性——“彼”即不显(Avyakta),“彼”即不坏不灭(Akṣara)。
Verse 73
आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् / आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते
至上实相安立于自我(Ātman)的喜乐之中;唯是纯粹觉知(cin-mātra),为最高境地。它是如虚空般遍满的梵(Brahman),无分无裂——除“彼”之外,别无他物存在。
Verse 74
एवं विज्ञाय भवता भक्तियोगाश्रयेण तु / संपूज्यो वन्दनीयो ऽहं ततस्तं पश्य शाश्वतम्
如是,你既依止奉爱瑜伽(bhakti-yoga)而了悟此理,当礼敬供养于我,并向我顶礼;随后,便得瞻见那永恒者。
Verse 75
एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः / तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः
圣尊哈罗(Hara)言尽于此,便从眼前隐没。就在那处,牟尼仍以奉爱之瑜伽继续礼敬供奉鲁陀罗(Rudra)。
Verse 76
एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् / संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः
此处圣渡(tīrtha)清净无比、无与伦比,为诸大梵仙(Brahmarṣi)所常来奉事。博学的婆罗门若如法亲近、恭敬修持,便能解脱一切罪垢。
The chapter praises sites such as Prayāga and Gayā (ancestral deliverance through piṇḍadāna), Prabhāsa/Tryambaka/Someshvara/Vijaya/Ekāmra (Śaiva merit and states like Gaṇapatya affiliation and Rudra-sālokya), Puruṣottama and other Viṣṇu-tīrthas like Kokāmukha and Śālagrāma (Viṣṇuloka, sārūpya), and Puṣkara (Brahmaloka), presenting a spectrum of bhukti–mukti results.
It places Viṣṇu, Rudra/Śiva, and Brahmā tīrthas in one salvific map and culminates in Rudra’s teaching that the triad and kāla rest in one imperishable Brahman, while also acknowledging Devī as Vidyā-Śakti—thus aligning bhakti, ritual, and Vedānta.
Rudra describes the supreme as partless, all-pervading pure consciousness (Brahman) and frames the manifest universe as moved through māyā/prakṛti; liberation is oriented toward realizing/“beholding” the Eternal through refuge in bhakti-yoga, implying non-dual grounding with devotional access.
It integrates both: tīrtha acts (bathing, śrāddha, dāna) are praised for purification and lineage welfare, while the Maṅkaṇaka episode explicitly elevates inner transformation—humility, devotion, and knowledge of tattvas—as essential to final realization.