Adhyaya 73
Anushanga PadaAdhyaya 73126 Verses

Adhyaya 73

Jayantī–Kāvyā (Śukra) Saṃvāda: Varadāna and the Ten-Year Concealment

本章由苏多(Sūta)叙述承接赞颂之后的余波:在猛烈的礼拜之后,与伊沙那/尼罗罗希多(Īśāna/Nīlalohita)同一的神祇显现赐临,旋即隐没。随后情节转向阇延蒂(Jayantī)与迦毗耶(Kāvyā,婆伽婆导师,即阿修罗之师舒克罗Śukra)之间推动故事的对话。迦毗耶询问她苦行之力与所愿;因她长久的虔敬、谦卑、自制与深情而欢喜,遂许以难得之赐福(varadāna)。阇延蒂被称为摩诃因陀利(Māhendrī),请求与迦毗耶秘密相处十年,并以幻力(māyā)使二人对一切众生皆不可见。其结果关涉神权与政势:底提(Diti)之子——代提耶/阿修罗——遍寻其师迦毗耶而不得;连天神之师布里哈斯帕提(Bṛhaspati)也知阇延蒂以所赐之福“拘留”迦毗耶十年,从而暂时改变天神与阿修罗之间的力量均衡。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे स्तवसमाप्तिर्नाम द्विसप्ततितमो ऽध्यायः // ७२// सूत उवाच एवमाराध्य देवेशमीशानं नीललोहितम् / प्रह्वो ऽतिप्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत्

如是,在《圣梵卵大摩诃往世书》中,由风神(Vāyu)所宣说的中分第三引论品,“赞颂终结”之第七十二章圆满。苏多曰:如是礼敬诸天之主、伊沙那·尼罗罗希多之后,普拉赫瓦极其恭敬,合掌而对白言。

Verse 2

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः / निकामं दर्शनं दत्त्वा तत्रैवान्तरधाद्धरः

他以手触及迦毗耶之身而心生欢喜;赐予所愿之圣见后,诃利即于彼处隐没。

Verse 3

ततः सो ऽतर्हिते तास्मिन्देवे सानुचरे तदा / तिष्ठन्तीं प्राजलिर्भूत्वा जयन्तीमिदमब्रवीत्

随后,那位天神与随从隐去;他合掌而立,对站着的阇耶难提如此说道。

Verse 4

कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता / सहता तपसा युक्तं किमर्थं मां जिगीष्सि

吉祥的美人啊,你属谁,或你是谁?我忧苦时你亦忧苦。既具苦行与忍耐,为何还想胜过我?

Verse 5

अनया सततं भक्त्या प्रश्रयेण दमेन च / स्नेहेन चैव सुश्रोणि प्रीतो ऽस्मि वरवर्णिनि

纤腰的佳人、容色殊胜者啊:因你恒常的奉爱、谦恭、克己与深情,我心甚悦。

Verse 6

किमिच्छसि वरारोहे कस्ते कामः समृद्ध्यताम् / तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभः

尊贵的佳人啊,你想要什么?你哪一愿望当得圆满?纵然极难得,今日我也为你成就。

Verse 7

एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि / चिकीर्षितं मे ब्रह्मिष्ठ त्वं हि वेत्थ यथातथम्

她如此说道并对他说:“你当以苦行而知此事。噢,最安住于梵者!我欲成就之事,你如实尽知。”

Verse 8

एवमुक्तो ऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा / माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता

他听罢以天眼观之,说道:“噢,姿容殊胜者!你是摩诃因陀梨,为了我的利益而来到此处。”

Verse 9

मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि / अदृश्यं सर्वभूतैस्तु संप्रयोगमिहेच्छसि

噢,腰肢婀娜的佳人!你愿与我在此十年相合,并对一切众生隐而不见。

Verse 10

देवीन्द्रनीलवर्णाभेवरारोहे सुलोचने / इमं वृणीष्व कामं त्वं मत्तो वै वल्गुभाषिणि

噢,身姿高贵、明眸善睐、光彩如天帝蓝宝者!噢,言辞柔美者!从我这里择取此愿、此所求为赐福吧。

Verse 11

एवं भवतु गच्छावो गृहान्मत्तेभगामिनि / ततः स्वगृहमागम्य जयत्या सहितः प्रभुः

“就如此吧;来,我们回家。”噢,步态如醉象者!随后主尊与阇耶蒂一同回到自己的居所。

Verse 12

स तया चावसद्देव्या दश वर्षाणि भार्गवः / अदृश्यः सर्वभूतानां मायया संवृतस्तदा

婆伽婆与那位女神同住十年;其时为幻力(摩耶)所覆,遂对一切众生隐而不见。

Verse 13

कृतार्थमामतं ज्ञातवा काव्यं सर्वे दितेः सुताः / अभिजग्सुर्गृहं तस्य मुदितास्तं दिदृक्षवः

得知迦维耶已功成,底提之诸子皆欢喜;欲见其人,便前往他的居所。

Verse 14

गता यदा न पश्यन्ति जयत्या संवृतं गुरुम् / लक्षमं तस्य तद् बुद्ध्वा प्रतिजग्मुर्यथागतम्

他们到了却不见被阇耶恩提遮蔽的导师;知其不现,便原路返回。

Verse 15

बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं वरेण ह / प्रीत्यर्थे दश वर्षाणि जयन्त्या हितकाम्यया

布里哈斯帕提得知迦维耶因赐愿之力而被拘阻;为令求善的阇耶恩提欢喜,便(在那里)住了十年。

Verse 16

बुद्ध्वा तदन्तरं सो ऽथ देवानां मन्त्रचोदितः / काव्यस्य रूपमास्थाय सो ऽसुरान्समभाषत

他洞悉其间隙,受诸天真言所驱;遂取迦维耶之形,与阿修罗众言说。

Verse 17

ततः सो ऽभ्यागतान्दृष्ट्वा बृहस्पतिरुवाच तान् / स्वागतं मम याज्यानां संप्राप्तो ऽस्मि हिताय च

随后他见众人来至,便由布里哈斯帕提说道:“欢迎你们,我所当供奉者;我亦为你们的利益而来。”

Verse 18

अहं वो ऽध्यापयिष्यामि प्राप्ता विद्या मया हि याः / ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे

“我将把我所获得的诸般学识教给你们。”于是他们心生欢喜,为求学而前来依止。

Verse 19

पूर्णे काव्यस्तदा तस्मिन्समये दशवार्षिके / समयान्ते देवयाजी सद्यो जातमतिस्तदा

当那十年期限圆满之时,至期终,德瓦耶吉的心智顿时觉醒。

Verse 20

बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे / शुक्र उवाच देवि गच्छाम्यहं द्रष्टुं तव याज्याञ्छुचिस्मिते

随后他起意察看诸位当受供奉者。舒克罗说道:“ देवी啊,清净含笑者,我将前去见你之应供者。”

Verse 21

विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने / एवमुक्ताब्रवीद्देवी भज भक्तां महाव्रत / एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते

善女啊,目光游移,长眸映现三色光辉!被如此言及,女神答道:“持大誓者,当敬奉诸 भक्त;婆罗门啊,此乃贤善之人的法度,我不毁损你的法。”

Verse 22

सूत उवाच ततो गत्वा सुरान्दृष्ट्वा देवाचार्येण धीमता

苏多说道——随后他前往,见到诸天,并与睿智的天师(诸神之师)同在。

Verse 23

वञ्चितान्काव्यरूपेण वचसा पुनरब्रवीत् / काव्यं मामनुजानीध्वमेष ह्याङ्गिरसो मुनिः

他以诗辞般的话语欺诳了他们,又说道:“请准我以‘迦毗耶’之名行事;此人乃安吉罗萨圣仙。”

Verse 24

वञ्चिता बत यूयं वै मयि सक्ते तु दानवाः / श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः

他说:“唉,诸丹那婆啊,你们因执著于我而受骗了。”狄提之子闻言,顿时惊惶失措。

Verse 25

संप्रैक्षन्तावुभौ तत्र स्थिरासीनौ शुचिस्मितौ / संप्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन

二人于彼处安坐不动,含清净微笑相互凝视;众人尽皆迷惘伫立,无所措手。

Verse 26

ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् / आचार्यो यो ह्ययं काव्यो देवायार्यो ऽयमङ्गिराः

众人迷乱之际,迦毗耶又说道:“此人即名‘迦毗耶’之阿阇梨;对诸天而言,他乃圣贵的安吉罗。”

Verse 27

अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् / एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च

“你们都随我而行,舍弃这位布里哈斯帕提。”话音既落,众人便细细端详二者。

Verse 28

तदासुरा विशेष तु न व्यजानंस्तयोर्द्वयोः / बृहस्पतिरुवाचैनामं भ्रातो ऽयमङ्गिराः

那时阿修罗们分辨不出二者的差别。布里哈斯帕提对他们说:“诸位兄弟,此人乃安吉罗。”

Verse 29

काव्यो ऽहं वो गुरुर्दैत्या मद्रूपो ऽयं बृहस्पतिः / संमोहयति रूपेण मामकेनैष वो ऽसुराः

“诸位代提耶啊,我乃迦毗耶(舒克罗),是你们的师尊;这布里哈斯帕提披着我的形相。诸位阿修罗,他以我的形貌迷惑你们。”

Verse 30

श्रुत्वा तस्य वचस्ते वै संमन्त्र्याथ वचो ऽब्रुवन् / अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः

听了他的话,众人商议后说道:“正是这位主宰,十年来不断教诲并约束我们。”

Verse 31

एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजाः / ततस्तेदानवाः सर्वे प्रणिपत्याभिवाद्य च

“此人正是我们的师尊;这位二次生者意欲潜入其中。”于是众达那婆尽皆俯伏致敬而行礼。

Verse 32

वचनं जगृहुस्तस्य विद्याभ्यासेन मोहिताः / ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः

他们因修习诸艺而迷惑,便接受了他的言辞。于是众阿修罗怒目赤红,对他说道。

Verse 33

अयं गुरुर्हितो ऽस्माकं गच्छ त्वं नासि नो गुरुः / भार्गवो ऽगिरसो वायं भवत्वेषैव नो गुरुः

这位导师才是为我等谋利者;你走吧,你不是我们的师尊。此婆伽婆(Bhārgava),安吉罗萨后裔,就让他作我们的师尊。

Verse 34

स्थिता वयं निदेशे ऽस्य गच्छ त्वं साधु मा चिरम् / एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम्

我们遵从他的命令而立;你且善自离去,莫要久留。说罢,诸天众皆归依布里哈斯帕提(Bṛhaspati)。

Verse 35

यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् / चुकोप भार्गवस्ते षामवलेपेन वै तदा

当他们不肯领受他所说的那大善之教时,婆伽婆(Bhārgava)因他们的傲慢而震怒。

Verse 36

बोधितापि मया यस्मान्न मां भजत दानवाः / तस्मात्प्रणष्टसंज्ञा वै पराभवमवाप्स्यथ

我虽已告诫,诸达那婆(dānava)仍不敬奉于我;因此你们必将失却明觉,遭受败亡。

Verse 37

इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् / शप्तांस्तानसुराञ्ज्ञात्वा काव्येन तु बृहस्पतिः

说罢此言,迦毗耶(舒克罗阿阇梨)便如来时一般离去。知晓那些阿修罗已受诅咒,布里哈斯帕提便思量迦毗耶之事。

Verse 38

कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत / बुद्ध्वासुरांस्तदा ब्रष्टान्कृतार्थोंऽतर्द्धिमागमत्

于是他目的已遂,心生欢喜,复归本相。知晓阿修罗此时已堕落失道,事既成便隐没不见。

Verse 39

ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा / अहो धिग्वञ्चिताः स्नेहात्परस्परमथाब्रुवन्

他一消失,那些达那婆便惊惶迷乱,彼此说道:“唉!可耻啊,我们因情执而受骗了。”

Verse 40

धर्मतो ऽविमुखाश्चैव कारिता वेधसा वयम् / दग्धाश्चैवोपधायोगात्स्वेस्वे कार्ये तु मायया

造物主(韦陀诃斯)使我们不背离正法;然而因诡计之合,我们在各自所作之事中被幻力(摩耶)所焚灼。

Verse 41

ततो ऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः / प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः

随后阿修罗们惊惧不已,急忙前往诸天;以普罗诃罗陀为先导,又再度追随迦毗耶(舒克罗阿阇梨)。

Verse 42

ततः काव्यं समासाद्य ह्यभितस्थु रवाङ्मुखाः / तानागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह

随后,他们来到卡维亚(苏克拉仙人)面前,垂头肃立。卡维亚见他们归来,便对他的弟子们说道。

Verse 43

मया संबोधिताः काले यतो मां नाभ्यनन्दथ / ततस्तेनावलेपेन गता यूयं पराभवम्

我曾在适当时机告诫你们,但你们却未曾礼敬于我。正是因为那种傲慢,你们才遭致了失败。

Verse 44

प्रह्लादस्तमथोवाच मानस्त्वं त्यज भार्गव / स्वान्याज्यान्भजमानांश्च भक्तांश्चैव विशेषतः

普拉赫拉德随后对他说道:“噢,巴尔加瓦(Bhrigu之子),请息怒。接纳崇拜您的弟子吧,尤其是您的信徒们。

Verse 45

त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः / भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा

当您不在时,那位众神之师迷惑了我们。您应当运用您的远见卓识洞察此事,拯救身为信徒的我们。

Verse 46

यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन / अपध्यातास्त्वया ह्यद्य प्रवेक्ष्यामोरसातलम्

Bhrigu之子啊,如果您不对我们施恩,今日被您唾弃,我们将堕入拉萨塔拉(Rasatala,地下界)。

Verse 47

सूत उवाच ज्ञात्वा काव्यो यथातत्त्वं कारुण्येन महीयसा / एवं शुक्रो ऽनुनीतः संस्ततः कोपं न्यवर्त्तयत्

苏多说道:迦毗耶(即圣师舒克罗)如实了知真相,以广大悲悯;于是舒克罗被安抚并受赞颂,便止息了忿怒。

Verse 48

उवाचेदं न भेतव्यं गन्तव्यं न रसातलम् / अवश्यंभावीह्यर्थो ऽयं प्राप्तो वो मयि जाग्रति

他说:不必畏惧,你们不必前往罗娑多罗(下界)。此事本为必然;在我警醒守护之时,它已临到你们。

Verse 49

न शक्यमन्यथाकर्त्तुं दिष्टं हि बलवत्तरम् / संज्ञा प्रनष्टा या चेयं कामं तां प्रतिलप्स्यथ

此事无法另作他法,因为天命(定数)更为强大。那已失去的“想”(觉知),你们必将再度获得。

Verse 50

प्राप्तः पर्यायकालो वा इति ब्रह्माभ्यभाषत / मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम्

梵天说道:“你们轮替之期(更迭之时)已至。”并且因我的恩赐,你们曾享受充满威力的三界。

Verse 51

युगाख्या दश संपूर्णा देवानाक्रम्य मूर्द्धनि / तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत

凌驾于诸天之首之上,被称为“劫”的十段时期已圆满;正是如此长的时间,梵天宣定其王权(统治期)。

Verse 52

सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति / लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः

在萨伐尔尼迦摩奴劫中,你的王权必将再度归来;你的孙裔将再为婆利,成为诸世界之主。

Verse 53

एवं कालमयं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् / तथाहृतेषु लोकेषु न शोको न किलाभवत्

如此,关于你孙裔的、由时序所定之言,乃梵天亲自宣说;当诸世界被收摄之时,竟无一丝忧伤。

Verse 54

यस्मात्प्रवृत्तयश्चास्य न कामैरभिसंधिताः / तस्मादजेन प्रीतेन दत्तं सावर्णिके ऽन्तरे

由于他的作为并非为欲望所系缚,因此欢喜的阿阇(梵天)在萨伐尔尼迦之际赐下此恩。

Verse 55

देवराज्यं बलेर्भाव्यमिति मामीश्वरो ऽब्रवीत् / तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति

主对我说:“天界王权当归于婆利。”因此他对众生隐而不现,守候时机而住。

Verse 56

प्रीतेन चामरत्वं वै दत्तं तुभ्यं स्वयंभुवा / तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहसाकुलः

欢喜的自生者亦赐你不死之身;因此你虽无所贪求,却在等待轮次之时忽然心绪纷扰。

Verse 57

न च शक्यं मया तुभ्यं पुर स्ताद्वै विसर्पितुम् / ब्रह्मणा प्रतिषिद्धो ऽस्मि भविष्यं जानता प्रभो

主啊,我无法在您面前向前行进;知晓未来的梵天已禁止我如此。

Verse 58

इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः / दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः

这两位弟子与布里哈斯帕提同等;即便你们与诸天同怒,他们也将支撑并阻挡你们众人。

Verse 59

सूत उवाच एवमुक्तास्तु दैतेया काव्येनाक्लिष्टकर्मणा / ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा

苏多说道:勤行不倦的迦毗耶如此言毕,诸代提耶;于是以普罗诃罗陀为首者与那二人一同前往。

Verse 60

अवश्यभाव्यमर्थं तं श्रुत्वा दैतेयदानवाः / सहसा शंसमानास्ते जयं काव्येन भाषितम्

听闻那必然发生之事,代提耶与达那婆众立刻称颂迦毗耶所宣说的“胜利”。

Verse 61

दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् / अथ देवासुरान्दृष्ट्वा संग्रामे समुपस्थितान्

于是众人披甲执兵,继而呼唤并挑战诸天;随后见天神与阿修罗已齐集战场……

Verse 62

ततः संवृतसन्नाहा देवास्तान्समयोधयन् / देवासुरे ततस्तस्मिन्वर्त्तमाने शतं समाः / अजयन्तासुरा देवान्नग्रा देवा अमन्त्रयन्

随后,诸天披甲整备,与他们激战。天神与阿修罗之战持续百年。最终阿修罗战胜诸天;诸天陷入困厄,无计可施。

Verse 63

देवा ऊचुः शण्डामर्कप्रभावेण जिताः स्मस्त्वसुरैर्वयम् / तस्माद्यज्ञं समुद्दिश्य कार्यं चात्महितं च यत्

诸天说道:“因商陀与阿摩罗迦之力,我们被阿修罗所胜。故当依止祭祀(yajña),行一切有益于自身之事。”

Verse 64

यज्ञेनोपाह्वयिष्यामस्ततो जेष्यामहे ऽसुरान् / अथोपामन्न्रयन्देवाः शण्डामकारै तु तावुभौ

“我们将以祭祀召请神圣之力,继而战胜阿修罗。”说罢,诸天便召来商陀与阿摩罗迦二人,恭敬相请。

Verse 65

यज्ञे चाहूय तौ प्रोक्तौ त्यजन्तामसुरा द्विजौ

在祭祀中召来二人,诸天说道:“二位婆罗门(再生者)啊,请舍离阿修罗一方。”

Verse 66

ग्रहं तु वां ग्रहीष्यामो ह्यनुजित्य तु दानवान् / एवं तत्यजतुस्तौ तु षण्डामकारै तदा सुरान्

“待我们战胜达那婆(魔族)之后,必接纳你们,并赐予相称的尊位。”闻此,商陀与阿摩罗迦当时便离弃诸天。

Verse 67

ततो देवा जयं प्राप्ता दानवाश्च पराभवम् / देवासुरान्पराभाव्य शण्डामर्कावुपागमन्

于是诸天得胜,达那婆众遭败。战胜诸阿修罗后,他们前往觐见商陀与阿摩迦。

Verse 68

काव्यशापभिभूताश्च अनाधाराश्च ते पुनः / बाध्यमानास्तदा देवैर्विविशुस्ते रसातलम्

他们为迦毗耶之诅咒所压,复又无所依凭。被诸天逼迫之时,便遁入罗娑多罗。

Verse 69

एवं निरुद्यमास्ते वै कृता शक्रेण दानवाः / ततः प्रभृति शापेन भृगुनैमित्तिकेन च

如是,释迦罗(因陀罗)使达那婆众失却作为之力。自此以后,由婆利古为缘之诅咒,其势遂然。

Verse 70

यज्ञे पुनः पुनर्विष्णुर्यज्ञे ऽथ शिथिले प्रभुः / कर्तुं धर्मव्यवस्थान मधर्मस्य प्रणाशनम्

于祭祀(yajña)之中,毗湿奴屡屡显现;当祭祀衰微之时,至尊为建立法度、毁灭非法而来。

Verse 71

प्रह्नादस्य निदेशे तु ये ऽसुरा न व्यवस्थिताः / मनुष्यवध्यांस्तान्सर्वान्ब्रह्मा व्याहरत प्रभुः

凡不遵从普罗诃罗陀之命的阿修罗,主梵天皆宣告其为“可为人类所诛”者。

Verse 72

धर्मान्नारायणस्तस्मात्संभूतश्चाक्षुषे ऽन्तरे / यज्ञं प्रवर्त्तयामास वैन्यो वैवस्वते ऽन्तरे

因此,纳罗延由“法”而生,于恰克舒沙劫期显现;而在毗婆斯瓦特劫期,维尼亚开启并弘行神圣祭祀(yajña)。

Verse 73

प्रादुर्भावे तु वैन्यस्य ब्रह्मैवासीत्पुरोहितः / चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्वथ

当维尼亚显现之时,梵天亲自为其祭司(purohita);而在名为第四“瑜伽纪”的时代,诸天陷入困厄之际。

Verse 74

संभुतः स समुद्रान्तर्हिरण्यकशिपोर्वधे / द्वितीयो नरसिंहो ऽभूद्रौद्रः सुतपुरस्सरः

他在大海之中出生,为诛灭希兰尼亚迦希布;他是第二位那罗辛哈,威怒如雷,且为诸子之先。

Verse 75

यजमानं तु दैत्येन्द्रमदित्याः कुलनन्दनः / द्विजो भूत्वा शुभे काले बलिं वैरोचनं जगौ

在那位作为祭主的阿修罗之王面前,阿底提族之喜(毗湿奴)于吉时化作婆罗门(两次生者),前往维罗遮那之子巴利处。

Verse 76

त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् / दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः

主说道:“大王啊,你是三界之王,一切皆依你而立;因此,请赐我三步之地。”

Verse 77

ददामीत्येव तं राजा बलिर्वैरोचनो ऽब्रवीत् / वामनं तं च विज्ञाय ततो ऽदान्मुदितः स्वयम्

毗卢遮那之子巴利王说道:“我愿施与。”认出那位侏儒化身婆摩那后,他欢喜地亲自布施。

Verse 78

स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः / त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः

诸位最胜婆罗门啊!那位婆摩那主宰以三步遍覆天界、虚空与大地,包罗此一切世界。

Verse 79

अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा / प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः

那位大名声者、众生之灵,以自身光辉胜过太阳,照耀一切方位及诸隅。

Verse 80

शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् / आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्द्दनः

大臂的阎那尔达那照耀诸界而愈显辉煌;夺去阿修罗之荣华,并摄持三界。

Verse 81

स पुत्रपौत्रानसुरान्पातालतलमानयन् / नमुचिः शंबरश्चैव प्रह्रादश्चैव विष्णुना

在毗湿奴之力下,诸阿修罗连同子孙被带往地下的波多罗;那牟支、商婆罗与普罗诃罗陀亦在其中。

Verse 82

क्रूरा हता विनिर्दूता दिशः संप्रतिपेदिरे / महाभूतानि भूतात्मा सविशेषाणि माधवः

当残暴者被诛灭并驱逐后,诸方归于宁静;作为万有之灵的摩陀婆,显现具诸差别的大元素。

Verse 83

बलिं चं सबलं विप्रास्तत्राद्भुतमदर्शयत् / तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति

婆罗门们在那里奇妙地显现了巴利及其军势;在他的身躯中,整个世界观见自身的我灵。

Verse 84

न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना / तद्वै रूपमुपेन्द्रस्य देवादानवमानवाः

诸世界中,没有任何不为那位大我所遍满;这正是优朋陀罗之形相——诸天、阿修罗与人类啊。

Verse 85

दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोविमोहिताः / बलिः सितो महापाशैः सबन्धुः ससुत्दृद्गणः

见此情景,众人皆为毗湿奴的神辉所惑而昏眩;巴利与亲族及诸子一同,被巨大的绳索之缚所系。

Verse 86

विरोचनकुलं सर्वं पाताले सन्निवेशितम् / ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने

毗罗遮那的全族被安置于地下界(波多罗);随后,一切天众的王权与荣华都授予了伟大的因陀罗。

Verse 87

मानुषेषु महाबाहुः प्रादुरास जनार्द्दनः / एतास्तिस्रः समृतास्तस्य दिव्याः संभूतयः शुभाः

在世人之中,臂力宏大的阇那尔达那显现于世;他的这三种神圣吉祥的化现,被传统所称述。

Verse 88

मानुष्यः सप्त यास्तस्य साग्रगास्ता निबोधत / त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह

当知他在人间的七种主要人身化现;在特雷塔纪元的第十次,达塔特雷亚降生。

Verse 89

नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुः सरः / पञ्चमः पञ्चदश्यां तु त्रेतायां संबभूव ह

当正法湮没之时,第四种形态被称为马尔坎德耶为首;而在特雷塔纪元第十五次,出现了第五种化身。

Verse 90

मान्धाता चक्रवर्त्तित्वे तस्योतथ्यः पुरस्सरः / एकोनविंशयां त्रेतायां सर्वक्षत्रान्तकृद्विभुः

以转轮王曼陀诃多之相时,乌塔提耶被称为其先导;在特雷塔纪元第十九次,那位至尊显现为“终灭诸刹帝利者”。

Verse 91

जामदग्न्यस्तदा षष्ठे विश्पामित्रपुरस्सरः / चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा

其后第六种形态为阇摩达格尼之子(帕罗修罗摩),以毗湿瓦密多为先导;至第二十四次纪元,罗摩出现,以婆悉吒为国师祭司。

Verse 92

सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः / अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात्

为成就对罗波那之事,第七次化身中,陀沙罗陀之子降生。于兜婆罗时代,毗湿奴显为第八形;至第二十八次,则由帕罗沙罗而出。

Verse 93

वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरस्सरः / तथैव नवमे विष्णुरदित्याः कश्यपात्मजः

随后,吠陀毗耶娑降生,与阇都迦尔尼耶并为先导。同样在第九次化身中,毗湿奴由阿底提怀胎,作为迦叶波之子而显现。

Verse 94

देवक्यां वसुदेवात्तु जातो गार्ग्यपुरस्सरः / अप्रमेयो नियोगश्च यतकामवरो वशी

在提婆姬腹中,由婆苏提婆而生,他如迦尔吉耶般居于前导。他不可量度;其降世出于神圣使命;随愿赐福,能摄伏一切。

Verse 95

क्रीडते भगवांल्लोके बालः क्रीडनकेरिव / न प्रमातुं महाबाहुं शक्यो ऽसौ मधुसूदनः

世尊在世间嬉戏,如孩童把玩玩具一般。那位臂力宏伟的摩杜苏达那,任何人都无法度量或尽知其深。

Verse 96

परं ह्यवरमेतस्माद्विश्वरूपान्न विद्यते / अष्टाविंशतिके तद्वद्द्वापरस्याथ संक्षये

在此宇宙之相(毗湿瓦鲁帕)之外,无所谓更高或更低。至第二十八次(化身序列)亦复如是;随后兜婆罗时代走向终尽。

Verse 97

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः / कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् / माहयन्सर्वभूतानि योगात्मा योगमायया

当正法衰灭之时,主宰毗湿奴便在弗里什尼族中降生。为建立法的秩序、毁灭阿修罗,具瑜伽本体者以瑜伽幻力使一切众生得以光耀。

Verse 98

प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम्

他进入人类之胎,隐密地行走于大地之上。

Verse 99

विहारार्थं मनुष्येषु सांदीपनिपुरस्सरः / यत्र कंसं च शाल्वं च द्विविदं च महासुरम्

为在人间行其神圣戏游,他前往桑迪帕尼之城;那里有康萨、沙尔瓦,以及名为德维维达的大阿修罗。

Verse 100

अरिष्ठं वृषभं चैव पूतनां केशिनं हयम् / नागं कुवलयापीडं मल्लं राजगृहाधिपम्

他也降伏了名为阿里什塔的公牛、普坦那、名为凯希的马、象库瓦拉雅毗陀、摔跤勇士,以及王舍城之主。

Verse 101

दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् / छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणा

这位大能者诛灭了寄居人身的达伊提亚;并以奇绝之业斩断了班那阿修罗的千臂。

Verse 102

नरकश्च हतः संख्ये यवनश्च महाबलः / हृतानि च महीपानां सर्वरत्नानि तेजसा

在战阵中,Naraka与大力的Yavana被诛;凭其威光,诸王的一切珍宝尽被夺取。

Verse 103

कुरुवीराश्च निहताः पार्थिवा ये रसातले / एते लोकहितार्थाय प्रादुर्भावा महात्मनः

居于罗萨塔拉的库鲁勇士诸王亦被诛灭;这些大圣者为利益世间而示现。

Verse 104

अस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति / कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान्

当此劫将尽、唯余黄昏之际,名为毗湿奴耶舍的勇猛帕罗沙利耶——迦尔基将出现。

Verse 105

दशमो भाव्यसंभूतो याज्ञवल्क्यपुरस्सरः / अनुकर्षन्स वै सेनां हस्त्यश्वरथसंकुलाम्

他将是未来出现的第十化身;以耶若那伐尔迦为前导,率领充满战象、战马与战车的大军前行。

Verse 106

प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः / नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित्

他将被持兵器的无数婆罗门(多至十万)所环绕;而那些并非甚为守法、甚至偶尔憎恶正法者,也(夹杂其中)。

Verse 107

उदीच्यान्मध्यदेशांश्च तथा विन्ध्या परान्तिकान् / तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह

他征服了北方诸国与中土之民,以及温提耶山脉边陲之地;同样也制伏了南方诸族、达罗毗荼人,并连同僧伽罗人一起。

Verse 108

गान्धारान्पारदांश्चैव पह्लवान्पवनाञ्छकान् / तुबराञ्छबरांश्चैव पुलिन्दान्बरदान् वसान्

他又制伏健陀罗人、帕罗陀人、帕赫拉瓦人、帕瓦那人、释迦诸族;并及图婆罗、恰婆罗、普林陀、婆罗陀与婆娑等众。

Verse 109

लंपाकानाङ्घ्रकान्पुण्ड्रान्किरातांश्चैव स प्रभुः / प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्बली

那位主宰亦降伏楞婆迦、安伽罗、奔荼罗与吉罗多诸族;其轮既转,威力炽盛,成为能终结弥勒叉之强者。

Verse 110

अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति / मानवः स तु संजज्ञे देवसेनस्य धीमतः

他将对一切众生隐而不见,遍行大地;而他确已在人间,生于智者提婆军(Devasena)之家。

Verse 111

पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् / गोत्रेण वै चन्द्रमसः पूर्णे कलियुगे ऽभवत्

在前世,他乃具毗湿奴之性、勇力无比者,名为“普罗弥底”(Pramiti);至卡利纪元圆满之时,他在月族(Candramasa)氏族中再度出现。

Verse 112

इत्येतास्तस्य देवस्य दक्षसंभूतयः स्म-ताः / तन्तं कालं च कायं च तत्तदुद्दिश्य कारणम्

如是,彼神由达克沙所生的诸种出生已被记述;指明“线索”、时间与形体,分别说明其相应之因。

Verse 113

अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते / पञ्चविंशे स्थितः कल्पे पञ्चविंशत्स वै समाः

他以自身一分之力,于三界中投赴彼彼诸胎生;安住于第二十五劫,确然停留二十五年。

Verse 114

विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः / कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा

他遍处歼灭一切众生,尤以人类为甚;以残酷之业使大地仅余种子般的残存。

Verse 115

शान्तयित्वा तु वृषलान्प्रायशस्तान धार्मिकान् / ततः स वै तदा कल्किश्चरितार्थः ससैनिकः

然则在安抚那些多仍守持法的“弗里沙拉”之后;彼时迦尔吉与其军旅同在,遂得遂愿。

Verse 116

कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् / अकस्मात्कुपितान्योन्यं भविष्यन्ति च मोहिताः

凡被其业行所杀的诸悉地者,将复自现;忽然迷乱,彼此相怒而起。

Verse 117

क्षपयित्वा तु तान्सर्वान्भाविनार्थेन चोदितः / गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः

在消灭他们所有人之后,受未来目的所驱使,他将与随从一起,在恒河与亚穆纳河之间获得坚定的修持之定。

Verse 118

ततो व्यतीते कल्पे तु समाप्ते सहसैनिके / नृपेष्वथ विनिष्टेषु तदा त्वप्रग्रहाः प्रजाः

随后,当那一劫过去并连同庞大军队一同终结,诸王灭亡之时,众生便将失去约束与统摄。

Verse 119

रक्षणे विनिपृत्ते तु हत्वा चान्योन्यमाहवे / परस्परत्दृतस्वाश्च निरानन्दाः सुदुःखिताः

当护持之道断绝时,他们在战斗中互相残杀,又彼此夺取财物;无有喜乐,唯余深重痛苦。

Verse 120

पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः / प्रनष्टश्रुतिधर्माश्चनष्टधर्माश्रमास्तथा

他们将舍弃古老的城邑与村落;众人皆同而无所占有。依《闻传》(Śruti)之法将失落,法之四住(āśrama)制度亦将毁坏。

Verse 121

ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः / सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः

林居之人将身形矮小、寿命短促;他们依止河流与山岳,以叶、根茎与果实为食而度日。

Verse 122

चीरपत्राजिनघराः संकरं घोरमास्थिताः / अल्पायुषो नष्टवार्ता बह्वाबाधाः सुदुःखिताः

他们披着破布、树叶与鹿皮,依附于可怖的杂乱之法。寿命短促,善行之闻湮没,诸多灾患缠身,极其痛苦。

Verse 123

एवं काष्ठामनुप्राप्ताः कलिसंध्यांशके तदा / प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु

如此,当到达迦梨之暮(迦梨黄昏)的那一分时,众生将与迦梨时代一同走向衰亡。

Verse 124

क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः / प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा

当彼迦梨时代衰尽,而克利多时代再度开启时,人们将出于本性——别无他途——依正法与公正而行。

Verse 125

इत्येतत्कीर्त्तितं सर्वं देवासुरविचेष्टितम् / यदुवंशप्रसंगेन महद्वो वैष्मवं यशः

至此,天神与阿修罗的一切作为皆已叙述;并借由夜度族系之缘起,为诸位宣扬了伟大的毗湿奴派荣耀。

Verse 126

तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा

现在我将讲述图尔瓦苏,以及普鲁、德鲁希尤与阿努的事迹。

Frequently Asked Questions

Jayantī, identified as Māhendrī, receives a boon from Kāvyā (Śukra) and uses it to remain with him for ten years while both are concealed from all beings by māyā, disrupting the Asuras’ access to their preceptor.

Kāvyā is a Bhārgava authority and the Asura-guru; his temporary withdrawal affects the Daityas (Diti’s sons) and is noticed by Bṛhaspati, highlighting how guru-lineage power mediates cosmic politics beyond mere battlefield conflict.

No—based on the sampled verses, the content centers on Jayantī–Kāvyā and Deva–Asura preceptor dynamics rather than Lalitopakhyana’s Śākta theology (e.g., Lalitā, Bhāṇḍāsura) or specific vidyā/yantra exegesis.