
सगरस्यौर्वाश्रमगमनम् (Sagara’s Journey to Aurva’s Hermitage)
本章以国王萨伽罗与婆罗伽婆圣者奥尔瓦的王者—苦行者对话为中心。萨伽罗自述:因先前受授阿斯特罗与沙斯特罗之学,故能安定邦国、精于武备,并明言奥尔瓦是其上师、恩主与唯一归依。叙事继而转入对苦行力(tapas-śakti)的证明:道场的德性与能量之域使自然仇怨平息,猛兽与猎物无惧共处,暴烈之心亦被止息。此种“苦行之力的生态”显示,凝聚的tapas能重整一方世界,暗示正统王权与成功征服乃源自圣仙认可之力,而非单凭蛮力。在族系逻辑中,萨伽罗趋赴奥尔瓦象征以苦行者的印可维系王统延续,契合《往世书》所言:秩序由自律的灵性威能所护持。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरस्यौर्वाश्रमगमनं नाम पञ्चशत्तमो ऽध्यायः // ५०// सगर उवाच कुशलं मम सर्वत्र महर्षे नात्र संशयः / यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः
如是,在《圣梵卵大摩诃补罗那》中,风神所宣说之中篇、第三引言品,有第五十章,名为“萨伽罗往诣欧尔瓦仙庵”。萨伽罗曰:“大圣者啊,我于一切处皆安泰,毫无疑虑;婆伽婆族中最胜者啊,正因你常念我之福祉,并赐予寂静安宁。”
Verse 2
यस्तथा शिक्षितः पूर्वमस्त्रे शस्त्रे च सांप्रतम् / सो ऽहं कथमशक्तः स्यां सकलारिविनिग्रहे
既然我昔日已如是受教于神兵与武艺,如今我怎会无力制伏一切仇敌?
Verse 3
त्वं मे गुरुः सुहृद्दैवं बन्धुर्मित्रं च केवलम् / न ह्यन्यमभिजानामि त्वामृते पितरं च मे
你是我的导师、如神的挚友、亲族与唯一的朋友;除你与我父亲之外,我不认识任何他人。
Verse 4
त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया / विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव
凭你所传授的神兵,我征服了诸王;只要忆念它便涌现的力量,正是你苦行之威德。
Verse 5
तपसा त्वं जगत्सर्वं पुनासि परिपासि च / स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः
以苦行之力,你净化并护持一切世界;你亦能创造与毁灭,毫无疑问。
Verse 6
महाननन्यसामान्यप्रभावस्तपसश्च ते / इह तस्यैकदेशो ऽपि दृश्यते विस्मयप्रदः
你苦行的威力宏大无比、无可比拟;在此即便显现其一隅,也足以令人惊叹。
Verse 7
पश्यसिंहासने बाल्यादुपेत्य मृगपोतकः / पिबत्यंभः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने
婆罗门啊,请看:在你的苦行林中,一只幼鹿自幼走近宝座,毫无畏惧地缓缓饮水。
Verse 8
धयत्यत्रातिविस्रंभात् कृशापि हरिणी स्तनम् / करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः
在此处,由于极大的信任,即使瘦弱的母鹿也安然哺乳;而鲁鲁鹿把脸颊在鹿角尖端上摩挠止痒。
Verse 9
नवप्रसूतां हरिणीं हत्वा वृत्त्यै वनान्तरे / व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून्
即便为在林中求生而杀死新产的母鹿,在你苦行的住处,那同一只母虎却抚养着那些小鹿。
Verse 10
गजं द्रुतमनुद्रुत्य सिंहो यस्मादिदं वनम् / प्रविष्टो ऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः
狮子追逐疾奔的大象而进入此林;但因畏惧于你,追者与被追者竟同在一处停住。
Verse 11
नकुलस्त्वाशुमार्जारमयूरशशपन्नगाः / वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः
此处有獴、猫、孔雀、野兔与蛇类;亦有狼、野猪、虎、沙罗婆、熊与猿猴。
Verse 12
सृगाला गवयागावो हरिणा महिषास्तथा / वने ऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः
在这片森林里,豺、野牛、牛、鹿与水牛都舍弃了天生的仇怨,而归于和睦友爱。
Verse 13
एवंविधा तपःशक्तिर्लोकविस्मयदायिनी / न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा
如此的苦行威力能令世间惊叹;婆罗门啊,除你之外,在大地上极其罕有,处处不可得见。
Verse 14
अहं तु त्वत्प्रसादेन विजित्य वसुधामि माम् / रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः
婆罗门圣仙啊,承蒙你的恩泽,我征服大地,并连同降伏诸敌,得以重获我自主的王权。
Verse 15
वश्यामात्यस्त्रिवर्गे ऽपि यथायोग्यकृतादरः / त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम्
我的大臣皆顺从;于法、利、欲三者亦各尽其宜而敬重;并循你所指示之道,我正当地治理了国土。
Verse 16
एवं प्रवर्त्तमानस्य मम राज्ये ऽवतिष्ठतः / भवद्दिदृक्षा संजाता सापेक्षा भृगुपुङ्गव
噫,婆利古族之翘楚!当我如此安住国政、运转王业之时,渴望得见你之心油然而生,至今仍怀期待。
Verse 17
किं त्वद्य मयि पर्याप्तमनपत्यतयैव मे / पितृपिण्डप्रदानेन सह संरक्षणं भुवः
然而今日,我又有何足恃?因我无子嗣,既要为祖先奉献食团(品达),又要守护大地,如何能两全?
Verse 18
तदिदं दुःशमत्यर्थमनिवार्यं मनोगतम् / नानयो ऽपहर्त्तां लोकंऽस्मिन् ममेति त्वामुपागतः
这是我心中生起的极其难忍、无法遏止的念头。在此世间,‘这是我的’这一权利无人能夺;因此我前来投奔于你。
Verse 19
इत्युक्तः सगरेणाथ स्थित्वा सो ऽतर्मनाः क्षणम् / उवाच भगवानौर्वः सनिदेशमिदं वचः
萨伽罗如此说后,他片刻内省而立。随后圣者奥尔瓦以教诲之意说出如下言辞。
Verse 20
नियम्य सह भार्याभ्यां किञ्चित्कालमिहावस / अवाप्स्यति ततो ऽभीष्टं भवान्नात्र विचारमा
你当与两位王后一同守持戒律,在此住些时日。随后你必得所愿;对此不必疑虑。
Verse 21
स च तत्रावसत्प्रीतस्तच्छुश्रूषापरायमः / पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा
他欢喜地住在那里,专心侍奉那位圣者。那位秉持正法的国王与两位王后同住,怀着虔敬,久居其处。
Verse 22
राजपत्न्यौ च ते तस्य सर्वकालमतन्द्रिते / मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः
那两位王后也时时不懈,以谦恭、善行与虔敬,使那位牟尼的欢喜日益增长。
Verse 23
भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः / राजपत्न्यौ समाहूय इदं वचनम ब्रवीत्
大圣仙因二人以虔敬与侍奉而欢喜,遂召来两位王后,说出如下圣言。
Verse 24
भवत्यौ वरमस्मत्तो व्रियतां काममीप्सितम् / दास्यामि तं न संदेहो यद्यपि स्यात्सुदुर्ल्लभम्
你们二位可从我这里选择所愿之恩赐;纵然极其难得,我也必定赐予,毫无疑虑。
Verse 25
ततः प्रणम्यशिरसा ते ऽप्युभे तं महामुनिम् / ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम्
于是二人俯首礼拜那位大圣仙,恭敬地说道:“世尊啊,我们愿得圣子。”
Verse 26
ततस्ते भगवानाह भवतीभ्यां मया पुनः / राज्ञश्चप्रियकामेन वरो दत्तो ऽयमीप्सितः
随后那位如同世尊的仙人说道:“依你们二位之愿,并随国王所珍爱的心愿,此所求之福我已赐下。”
Verse 27
पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः / भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम
二位大福德者,由我恩赐,你们必定得子;此外还有一事——请聆听我的话语。
Verse 28
पुत्रो भविष्यत्येकस्यामेकः सो ऽनतिधार्मिकः / तथापि तस्य कल्पान्तं संभूतिश्च भविष्यति
在其中一位王后处将生一子;他并非极其守法行德。然至劫末(kalpa 终尽),他亦将有吉祥的出现与诞生。
Verse 29
षष्टिः पुत्रसहस्राणामपरस्यां च जायते / अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव
而另一位王后将生六万王子;他们全都不得成就所愿,不久便会灭亡。
Verse 30
एवंविधगुणेपेतो वरौ दत्तौ मया युवाम् / अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम्
我已将具此等德性的良缘赐予你们二人。如今她所希求者,任其随心明言宣告。
Verse 31
एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्द्धनम् / वरयामास तनयं पुत्रानन्यास्तथा परा
圣者如此言毕,毗达婆之女便择取那位能兴盛家系的儿子;而另一位亦如是选择了其余诸子。
Verse 32
इति दत्त्वा वरं राज्ञे सगराय महामुनिः / सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति
于是,大圣者赐福于萨伽罗王;并允其偕同王后,遣送其归向王城。
Verse 33
मुनिना समनुज्ञातः कृत कृत्यो महीपतिः / रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम्
得圣仙允可后,国王自觉诸事已毕,携所爱登车疾驰,启程归向王城。
Verse 34
स प्रविश्य पुरीं रम्यां त्दृष्टपुष्टजनावृताम् / आनन्दितः पौरजनै रेमे परमया मुदा
他进入那秀丽王城,四周尽是富足强健的民众;受城民欢悦所感,他以至高喜乐而安住。
Verse 35
एतस्मिन्नेव काले तु राजपत्न्यावुभे नृप / राज्ञे प्रावोचतां गर्भं मुदा परमया युते
就在那时,国王啊,两位王后满怀至乐,向君王禀告自己已怀有身孕。
Verse 36
ववृधे च तयोर्गर्भः शुक्लपक्षे यथोडुराट् / सह संतोषसंपत्त्या पित्रोः पौरजनस्य च
她们二人的胎儿如白半月之月渐渐增长;父母与城民的满足与福泽亦随之增盛。
Verse 37
संपूर्णे तु ततः काले मुहूर्ते केशिनीशुभे / असूयताग्निगर्भाभं कुमारममितद्युतिम्
待时日圆满,于凯希尼之吉祥时刻,她诞下一位如火胎般辉耀、光明无量的王子。
Verse 38
जातकर्मादिकं तस्य कृत्वा चैव यथाविधि / असमञ्चस इत्येव नाम तस्या करोन्नृपः
国王依仪轨为他举行诞生礼等诸般圣礼后,便为其取名为“阿萨曼恰萨”。
Verse 39
सुमतिश्चापि तत्काले गर्भालाबमसूयत / संप्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः
当时,苏玛蒂也对“伽尔婆拉婆”心生嫉恨;见那新生婴儿竟被遗弃,国王心中悲恻不安。
Verse 40
तज्ज्ञात्वा भगवानौर्वस्तत्रागच्छद्यदृच्छया / सम्यक् संभावितो राज्ञा तमुवाच त्वरान्वितः
得知此事后,圣者奥尔瓦仿佛偶然来到那里;国王恭敬礼遇,他便急切地对国王说道。
Verse 41
गर्भालाबुरयं राजन्न त्यक्तुं भवतार्हति / पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव
大王啊,此“伽尔婆拉婆”不可被你遗弃;因为他将成为你六万子嗣的种子之源。
Verse 42
तस्मात्तत्सकलीकृत्य घृतकुंभेषु यत्नतः / निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक्
因此,应将其分作若干部分,小心置入盛酥油的罐中,加盖封好,并分别守护保存。
Verse 43
सम्यगेवं कृते राजन्भवतो मत्प्रसादतः / यथोक्तसंख्या पत्राणां भविष्यति न संशयः
大王,若如此如法而行,承我加持,叶片的数目必如所说,毫无疑虑。
Verse 44
काले पूर्णे ततः कुम्भान्भित्त्वा निर्यान्ति ते पृथक् / एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप
待时日圆满,他们将破开陶罐,各自分离而出;如此,大王,你将得六万子嗣。
Verse 45
इत्युक्त्वा भगवानौर्वस्तत्रैवान्तरधाद्विभुः / राजा च तत्तथा चक्रे यथौर्वेण समीरितम्
说罢,圣者奥尔瓦当场隐没无踪;国王也依奥尔瓦所言,如法照做。
Verse 46
ततः संवत्सरे पूर्णे घृतकुंभात्क्रमेण ते / भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम्
随后一年圆满,他们依次破开盛酥油的罐子;日复一日,众人忽然再度出生。
Verse 47
एवं क्रमेण संजातास्तनयास्ते महीपते / ववृधुः संघशो राजन्षष्टिसाहस्रसंख्याया
大地之主啊,如此这些儿子依次出生;王啊,他们成群成长,数目达六万。
Verse 48
अपृथग्धर्मचरणा महाबलपराक्रमाः / बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः
他们在奉行正法上毫无分歧,具大力与大勇;尤其变得难以征服,心性残酷。
Verse 49
स नातिप्रीतिमांस्तेषु राजा मतिमतां वरः / केशिनीतनयं त्वेकं बहुमान सुतं प्रियम्
那位王者,智者中之最,并不十分喜爱他们;唯独敬重凯西妮之子,把他视为心爱的儿子。
Verse 50
विवाहं विधिवत्तस्मै कारयामास पार्थिवः / सचाप्यानन्दयामास स्वगुणैः सुहृदो ऽखिलान्
那位君王依仪轨为他主持婚礼;而他也以自身德行使一切亲友欢喜。
Verse 51
एवं प्रवर्त मानस्य केशिनीतनयस्य तु / अजायत सुतः श्रीमानंशुमानिति विश्रुतः
就这样,凯西妮之子行事如常时,诞生了一位光辉的儿子,世人称其为“安舒曼”。
Verse 52
स बाल्य एव मतिमानुदारैः स्वगुणैर्भृशम् / प्रीणयामास सुत्दृदः स्वपितामहमेव च
他自幼聪慧,以高尚的德行大大取悦了父亲,也同样取悦了祖父。
Verse 53
एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रो ऽसमञ्जसः / आविष्टो नष्टचेष्टो ऽभूत्स पिशाचेन केन चित्
就在这时,国王之子阿萨曼迦萨被某个毗舍遮附体,举止尽失,行动全无。
Verse 54
स तु कश्चिदभूद्वैश्यः पूर्वजन्मनि धर्मवित् / कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान्
他在前世曾是通晓法度的吠舍,在某位国王的领地里富有财宝与粮谷。
Verse 55
स कदाचिदरण्येषु विचरन्निधिमुत्तमम् / दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः
有一次他在林中游行,见到一处上妙宝藏;被商贾之贪欲所淹没,便着手欲取。
Verse 56
ततस्तद्रक्षको ऽभ्येत्य पिशाचः प्राह तं तदा / क्षुधितो ऽहं चिरादस्मिन्निवसन्निधिपालकः
随后那宝藏的守护毗舍遮走近说道:“我久居此处,为此宝藏之守者;我饥饿已久。”
Verse 57
तस्मात्तत्परिहाराय मम दत्त्वा गवामिषम् / कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया
因此,为了免除此祸患,给我牛肉;并依我之命,随你所愿取走此宝藏。
Verse 58
सतस्मै तत्परिश्रुत्य दास्यामीति गवामिषम् / आदत्त च निधिं तं तु पिशाचेनानुमोदितः
他听罢便许诺:“我将给你牛肉”;在毗舍遮的允可下,他取走了那笔宝藏。
Verse 59
न प्रादाच्च ततो मौढ्यात्तस्मै यत्तत्प्रतिश्रुतम् / प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप
但因愚昧,他没有交付所许之物;大王啊,他不信违诺不施所招致的忿怒。
Verse 60
तमेवं सुचिरं कालं प्रतीक्ष्याशनकाङ्क्षया / अपनीतधनः सो ऽपि ममार व्यथितः क्षुधा
他怀着求食之望久候多时;财物被夺后,他也因饥饿痛苦而死。
Verse 61
वैश्यो ऽपि बालो मरणं संप्राप्य सगरस्य तु / बभूव काले केशिन्यां तनयो ऽन्वयवर्द्धनः
那吠舍童子亦死去;时至之际,他由凯希尼所生,成为娑伽罗之子,能增盛宗系者。
Verse 62
अशरीरः पिशाचे ऽपि पूर्ववैरमनुस्मरन् / वायुभूतो ऽविशद्देहं राजपुत्रस्य भूपते
大王啊,那无形的毗舍遮忆起旧怨,化作风息,侵入王子之身。
Verse 63
तेनाविष्टस्ततः सो ऽपि क्रूरचित्तो ऽभवत्तदा / मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः
他被那股力量附身,变得心肠狠毒。失去理智后,他一次次被那股力量强行控制。
Verse 64
असमञ्जसत्वं नगरे चक्रे सो ऽपि नृशंसवत् / बालांश्च यूनः स्थविरान्योषितश्च सदा खलः
他在城中像暴徒一样胡作非为。那个恶棍总是折磨儿童、青年、老人和妇女。
Verse 65
हत्वाहत्वा प्रचिक्षेप सरय्वामतिनिर्दयः / ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम्
那个极其残忍的人将他们一一杀害,抛入萨拉尤河中。全城百姓目睹了他的卑劣行径……
Verse 66
बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञापन् / राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः
他们屡受欺凌,便去向国王禀报。国王听闻此事,费尽周折将他召来。
Verse 67
वारयामास बहुधा दुःखेन महतान्वितः / बहुशः प्रतिषिद्धो ऽपि पित्रा तेन महात्मना
怀着巨大的悲痛,国王想方设法阻止他。尽管那位伟大的父亲再三禁止……
Verse 68
जले तप्ते च संतप्ताः संबभूवुर्यथा यवाः / नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः
如同大麦在沸水中被灼烫一般,他们也被苦恼所焚。那时国王亦不能使他从罪恶中回转。
Verse 69
लोकापवादभीरुत्वाद्विषयानत्यजत्तदा
因畏惧世人讥毁,他当时并未舍弃诸欲之境。
The core event is King Sagara’s engagement with Sage Aurva at his hermitage; Sagara foregrounds Aurva’s role as guru and source of power, while the hermitage itself becomes evidence of Aurva’s tapas through the pacification of natural hostilities.
It signifies a localized suspension of ordinary dharmic-physical behavior caused by tapas-shakti—an ascetic “field effect” that reorders prakritic impulses, serving as a cosmological proof that spiritual discipline can stabilize and harmonize the manifested world.
Vamsha/Vamshanucharita is the strongest alignment: the chapter encodes dynastic legitimacy and royal success as dependent on rishi-authorization and tapas-derived power, even though it implicitly rests on the cosmological assumption that tapas can modulate creation’s operational laws.