
Gokarṇotpattiḥ, Śivārcanaphalaṃ ca (Śukodara-śukopākhyāna-sahitam)
Ethical-Discourse / Tīrtha-Māhātmya / Ritual-Practice
ヴァラーハはプリティヴィーに語りかけ、マトゥラーにおける古い物語を述べる。商人ヴァスカルナと妻スシーラーは子に恵まれず、サラスヴァティーの合流地で他の母たちを見た後、いっそう嘆き悲しむ。慈悲深い聖仙は、名高い聖所ゴーカルナにて、沐浴・灯明・供物・讃歌・ジャパによるシヴァ礼拝を行い、厳正な作法と節制を守るよう教える。長く修行を続けた結果、夫妻はゴーカルナと名づける子を授かり、諸サンスカーラと布施を順に行う。成長したゴーカルナは、井戸や池、休息所、さらにパンチャーヤタナの寺園を築き、公共の営みを生きられた景観の守護として実践する。のちに交易の途上で語る鸚鵡シュコーダラに出会い、客人の法(アティティ・ダルマ)と呪いの由来を聞き、サラスヴァティー—ヤムナー合流地のティールタ功徳と、ゴーカルネーシュヴァラを拝する救済力が説かれる。
Verse 1
श्रीवराह उवाच ॥ पुनरन्यत् प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥ मथुरायां पुरा वृत्तं गोकर्णस्य महात्मनः ॥ वसुकर्णः पिता तस्य वैश्यो धनसमृद्धिमान्
シュリー・ヴァラーハは言われた。「さらに別のことを語ろう。聞きなさい、ヴァスンダラーよ。昔、マトゥラーにおいて、大徳ゴーカルナに関わる出来事があった。彼の父はヴァスカルナという富裕なヴァイシャであった。」
Verse 2
तस्य भार्या सुशीला तु नाम्ना गुणसमन्विता ॥ भर्त्तुः प्रियकरी साध्वी न प्रसूता वयोऽधिका
その妻はスシーラーと名づけられ、徳を備え、夫に喜ばれ、貞淑な行いの人であった。だが子を授からぬまま、年齢はすでに高かった。
Verse 3
विललाप च सुश्रोणि चैकान्ते दीनमानसा ॥ सरस्वतीसङ्गमेऽथ स्त्रियो दृष्ट्वा प्रजावतिः
そしてその美しい腰つきの女は、ひとり密かに嘆き、心は沈んでいた。やがてサラスヴァティーの合流の地で、子を持つ女たちを見て、
Verse 4
वृक्षमूले तु तत्रैव मुनिरेकोऽपि समास्थितः ॥ तस्याः विलपितं श्रुत्वा शनैः सकरुणं हृदि
そこでは木の根元に、ただ一人の牟尼が座していた。彼女の嘆きを聞くと、その胸には次第に憐れみが満ちていった。
Verse 5
इति तस्य वचः श्रुत्वा सा स्त्री ऋषिमथाब्रवीत् ॥ सापत्यास्तु स्त्रियो दृष्ट्वा क्रीडन्त्यो बालकैः सह
その言葉を聞いて、女は牟尼に語りかけた。子を持つ女たちが幼子とともに戯れているのを見て、
Verse 6
मम तन्नास्ति हि मुने दुर्भगायाः प्रजासुखम् ॥ उवाच मुनिशार्दूलस्तां स्त्रियं पुत्रगर्द्धिनीम्
「わたしには、牟尼よ、子を得る幸せがありません。なんと不運なことでしょう。」すると、賢者の中の虎たる牟尼は、子を切望するその女に語りかけた。
Verse 7
देवतायाः प्रसादेन तव पुत्रो भविष्यति ॥ शिवस्यायतनं पुण्यं गोकर्णेति च विश्रुतम्
「神の御加護により、汝には男児が授かるであろう。ゴーカルナと名高い、シヴァの聖なる霊廟がある。」
Verse 8
जातहार्दः प्रियं चेष्टं शनैः स्त्रियमथाब्रवीत् ॥ का त्वं कस्यासि सुभगे किमर्थं रोदिषि स्वयम्
慈しみが胸に生じ、親切にふるまいつつ、彼は女に静かに語った。「そなたは誰だ、幸いなる者よ。誰の者か。なぜ独りで泣いているのか。」
Verse 9
तमाराध्य देवेशं पत्या सह यशस्विनी ॥ स्नानदीपोपहारेण स्तोत्रैर्नानाविधैर्जपैः ॥
かの名高き女は夫とともに神々の主を歓喜させ、沐浴の儀、灯明や諸供物の奉献、さらに讃歌と種々の誦持(ジャパ)によって礼拝した。
Verse 10
स तद्वचनमाकर्ण्य प्रीतियुक्तं सुसंयुतम् ॥ जगादोच्चैः प्रियां देवि भद्रं जातो मनोरथः ॥
その言葉がよく整い、善意に満ちているのを聞くと、彼は愛する人に向かって高らかに言った。「おお、淑女よ、吉祥あれ。望みの願いは成就した。」
Verse 11
ममाप्येतन्मतं देवि यदुक्तमृषिणा ततः ॥ इति प्रियां समाभाष्य प्रियया च तथाऽकरोत् ॥
「淑女よ、これもまた私の考えである。聖仙(リシ)が語ったとおりだ。」そう愛する人に告げ、彼は愛する人とともにそのとおりに行った。
Verse 12
सरस्वत्याः संगमे तौ स्नात्वा गोकर्णमर्चतुः ॥ पुष्पदीपोपहारं तु चक्राते तौ दिने दिने ॥
二人はサラスヴァティーの合流点で沐浴し、ゴーカルナにて礼拝した。そして日ごとに花と灯明の供養を行った。
Verse 13
एवं तयोर् दशाब्दानि गतानि सुतहेतवे ॥ ततः प्रसन्नो भगवान् उमापति रुवाच ह ॥
このようにして子を得るために二人の十年が過ぎた。すると満悦した福徳の主、ウマーの夫(ウマーパティ)は語った。
Verse 14
भविष्यति युवां पुत्रो रूपवान् गुणसंयुतः ॥ सस्यसन्ततिवद्दृश्यः सन्तानो यस्य वै बहु ॥
汝ら二人には、容姿端麗にして徳を具えた一子が生まれる。その子孫は、作物の連なりのごとく豊かに増えるであろう。
Verse 15
देवतानां प्रसादेन तदुक्तस्य भविष्यति ॥ इत्युक्तौ तौ तु देवेन स्नानं कृत्वा सरस्वतीम् ॥
諸神の加護により、語られたことは成就する。神にそう告げられると、二人はサラスヴァティーで沐浴した。
Verse 16
प्रभाते देवदेवाय ददौ द्रव्यमनन्तकम् ॥ ब्राह्मणेभ्यो ददौ भोज्यं वस्त्राय बहुदक्षिणम् ॥
夜明けに、彼は神々の神に無量の供物を捧げ、またバラモンたちに食物を施し、衣と豊かなダクシナーを与えた。
Verse 17
ततस्तस्यां सुशीलायां गर्भाधानमविन्दत ॥ ततः प्रववृधे गर्भः शुक्लपक्षे यथा शशी ॥ सुषुवे दशमे मासि पुत्रं बालं शशिप्रभम् ॥
それから、その貞淑な女に懐妊が起こった。胎児は白分の月のように次第に育ち、十か月目に、月光のごとく輝く男児を産んだ。
Verse 18
गोसहस्रं तदा दत्त्वा ससुवर्णं सवस्त्रकम् ॥ बहुशः सर्ववर्णेभ्यः पुत्रजन्ममहोत्सवे ॥
ついで、子の誕生を祝う大祭において、彼は黄金と衣を添えて千頭の牛を施し、あらゆる身分の人々にたびたび布施を分かち与えた。
Verse 19
एवमन्नप्राशनं च चूडोपनयनं तथा ॥ अतःपरं च गोदानं वैवाहिकमनुत्तमम् ॥
かくして初食の儀(annaprāśana)、剃髪と入門の儀(cūḍā・upanayana)が執り行われ、その後、牛の施与(godāna)と無上の婚礼儀礼(vaivāhika)が行われた。
Verse 20
दानं तु ददतस्तस्य देवतां पूजयिष्यतः ॥ कृतानि बहुमुख्यानि मङ्गलानि यथाविधि ॥
彼が布施を行い、神格を礼拝しようとするその折、定められた作法に従って、多くの主要な吉祥の儀礼が執り行われた。
Verse 21
ततः प्रविष्टे तारुण्ये त्वप्रजं वीक्ष्य पुत्रकम् ॥ पुनर्विवाहयामास भार्याणां च चतुष्टयम् ॥
それから青春に至り、子が子孫を得ていないのを見て、彼は再び婚姻を取り計らい、四人の妻を加えた。
Verse 22
वयोरूपगुणोपेतास्तस्य भार्याः सुलोचनाः ॥ अप्रजा एव ताः सर्वा नाभवत्पुत्रिणी क्वचित् ॥
その妻たち—美しい眼をもつ者たち—は年頃も容姿も徳も備えていたが、皆ことごとく子を得ず、誰一人として母となることはなかった。
Verse 23
प्रपामालाश्च नित्यन्नं भोजनं वर्त्तनानि च ॥ अनित्यतां ततो मत्वा चञ्चला स्थिरजीवितम् ॥
また(彼は)公共の水場のための花輪、日々の食、食事と諸々の備えを施し、ついに無常を悟った—命は移ろいやすく、真に久住しない—(ゆえに相応に行じた)。
Verse 24
विनियोगः कृतस्तेन सर्वदा सर्वकर्मसु ॥ गोकर्णस्य समीपे तु पश्चिमे चक्रपाणिनः ॥
彼は常にあらゆる事業において、一定の配当・手配を定めた――ゴーカルナの近く、チャクラパーニ(輪を持つ御方)の西にて。
Verse 25
प्रासादं कारयामास पञ्चायतनकं हरेः ॥ आरामस्तत्र विस्तीर्णः पुष्पजात्यस्तथैव च ॥
彼はハリ(Hari)のために、パンチャーヤタナ(pañcāyatana)の形式に整えた殿堂宮を建立させ、さらにそこに広大な園を設け、種々の花々も植えさせた。
Verse 26
तेनैव धर्म आरब्धः प्रजार्थो देवसेवनम् ॥ वापीकूपतडागानि देवतायतनानि च ॥
彼はこのようにしてダルマを起こした――民のために神に奉仕すること:階段井戸、井戸、池、そして諸神の社殿である。
Verse 27
आम्रजम्बीरनारङ्गं बीजपूरः सदाडिमः ॥ प्राकारं कारयामास परिखामण्डलीयकम् ॥
彼はまた、マンゴー、シトロン、オレンジ、ビージャプーラ(bījapūra)、ザクロを植えさせ、さらに周囲をめぐる囲いの壁と、その外側の環状の濠を築かせた。
Verse 28
स्नानं पूजादिकं तद्वन्मार्जनं दीपकर्म च ॥ कुर्वन्ति देवतागारे ताः सर्वाः शुभलोचनाः ॥
沐浴の儀、礼拝など、また清掃と灯明をともして守る務め――これらすべてを、吉祥なる眼差しをもつ彼女たちは神の御殿(寺院)において行った。
Verse 29
पतिव्रता महाभागाश्चतुरो भगिनीर्यथा ॥ नित्यकालं पतेर्वाक्ये स्थिताः कुर्वन्त्यहर्निशम्
大いなる福徳を備えた四人の姉妹のように、夫に貞節を尽くし、常に夫の言葉に心を留め、昼夜を分かたず行じていた。
Verse 30
मालाकारस्तथा नित्यं विटपांश्च प्रसिंचति ॥ पालयामास विधिवद्विधिदृष्टेन कर्मणा
また庭師も同様に、常に枝々に水を注ぎ、定められた法にかなう務めによって、しかるべく守り養った。
Verse 31
जाताः सुपुष्पवन्तश्च द्रुमाः फलसमन्विताः ॥ नित्यकालं त्वरयन्तः फलानां सुमहोत्सवम्
樹々は美しい花を豊かに咲かせ、果実を備え、まるで絶えず結実の大いなる祭りを早めているかのようであった。
Verse 32
दीयते भुज्यते सर्वैर्यथा शक्रस्तथा सदा ॥ एवं तु वसतस्तस्य मथुरायां स्थितस्य च
それは常に、シャクラ(インドラ)の場合のように、万人に施され、また皆に食されていた。かくして彼がそこに住み、マトゥラーに安住している間…
Verse 33
धनस्य संक्षयो जातः प्रत्यहं ददतः सतः ॥ शेषमात्रे धने तस्य चिन्ताभून्महती तदा
日々施しを続けたために財は減り、わずかな残りとなったとき、彼のうちに大いなる憂いがその時生じた。
Verse 34
मातापित्रोः कुटुम्बस्य भरणीयस्य भोजनम् ॥ कथं ब्रूहि करिष्यामि महाकष्टं तु सोऽब्रवीत्
「母と父、そして養うべき家族のための食は――どうすればよいのか、教えてくれ。私はいかにしてそれを成し遂げようか。」彼は大いなる苦悩のうちにそう語った。
Verse 35
इति निश्चित्य मनसा वणिग्भावं हृदि स्थिरम् ॥ कृत्वा सार्थमुपामन्त्र्य निर्गतः पूर्वमण्डलम्
かく心に決し、商人となる堅固な志を胸に定めて、彼は隊商を整え、人々に別れを告げ、東方の地へと旅立った。
Verse 36
तत्र क्रीत्वा सुपण्यानि उत्तरापथगानि च ॥ यातायातं ततः कृत्वा लाभालाभविचक्षणः
そこで彼は貴重な品々を買い求め、北方の交易路に属する品も手に入れた。かくして往来の旅を重ね、利と損とを見分ける者となった。
Verse 37
मणिरत्नं ह्यश्वरत्नं पट्टरत्नं समर्थकम् ॥ गृहीत्वा तु समागच्छन्मथुरायां गृहं प्रति
宝珠・宝石、名馬、そして用に堪える高価な織物を携え、彼は帰途につき、マトゥラーの我が家へと戻った。
Verse 38
एकदा सार्थसम्भारो विश्रान्तुमुपचक्रमे ॥ सानौ पर्वतसामीप्ये प्रभूतयवसोदके
ある時、隊商の荷と備えは休息に入った――山の傍らの斜面近く、飼葉となる草と水とが豊かにある場所で。
Verse 39
नद्यास्तीरे सुप्रदेशे आवासांश्च प्रचक्रिरे ॥ निवेश्य भाण्डं तत्रैव अश्वानां यवसादिकम् ॥
川のほとりの佳き地に宿営を整え、そこに荷を据え置き、馬のための飼葉などもまた用意した。
Verse 40
समादिश्येतिकृत्यं च भृत्यैः कतिपयैर्वृतः ॥ समारुरोह तं शैलं बहुकन्दरशोभितम् ॥
必要な務めを従者に命じ、わずかな召使を伴って、数多の洞窟に飾られたその山に登った。
Verse 41
क्रीडार्थं विहरंस्तत्र सोऽपश्यत् स्थानमुत्तमम् ॥ प्रसन्नसलिलोपेतं नारङ्गैस्तु विभूषितम् ॥
遊興のためにそこを逍遥していると、澄みわたり静かな水をたたえ、橙の木々に飾られた最上の場所を見いだした。
Verse 42
फलवन्तश्च वृक्षाश्च पुष्पाणि सुरभीणि च ॥ पाषाणसन्धौ तत्रस्थैर्मालाकारैस्तु रोपितम् ॥
実を結ぶ樹々と芳香ある花々があり、岩の裂け目には、そこに住む花鬘(けまん)作りの者たちが植えたものがあった。
Verse 43
तत्रारुह्य दरीद्वारं यावद्दृष्टिर्निपात्यते ॥ तावदभ्यागतादीनि स्वागतादि शृणोति च ॥
そこへ登って谷の入口に至り、視線の届くかぎりの方から、「客が来た」「ようこそ」などの迎えの言葉が聞こえてきた。
Verse 44
श्रुत्वापि शब्दप्रभवं किमेतदिति निश्चयम् ॥ करिष्यंस्तत्र चैकान्ते दृष्टः पञ्जरगः शुकः ॥
彼は音の出どころを聞き知りながらも、「これは何であろうか」と決し、ひそかな場所で探り調べていると、籠に入れられた鸚鵡を見た。
Verse 45
तेनोक्तं भो इहागच्छ आतिथ्यं करवाणि ते ॥ पाद्यं गृहाण भोः पान्थ आसनं ते इदं शुभम् ॥
鸚鵡は言った。「旦那さま、こちらへおいでください——もてなしをいたしましょう。旅人よ、足を洗う水をお受け取りください。さらに、この吉祥なる座をあなたに。」
Verse 46
आगत्य पितरौ मह्यं विशेषं तौ करिष्यतः ॥ अतिथेरागतस्येह पूजाया विमुखो भवेत् ॥
「もし私が客人を迎えれば、我が二人の祖霊はここに来て、特別の功徳を授けてくださる。だが、ここへ来た客人を敬うことを拒む者は過ちを負う。」
Verse 47
गृहस्थस्तस्य पितरो वसन्ति नरके ध्रुवम् ॥ पूजिते पूजिताः स्वर्गे मोदन्ते कालमक्षयम् ॥
「その家長の祖霊は、客人を敬わぬなら必ず地獄に住する。だが客人が敬われるとき、祖霊もまた天において敬われ、尽きることなき時を喜ぶ。」
Verse 48
अतिथिर्यस्य भग्नाशो गृहात्प्रव्रजते यदि ॥ आत्मनो दुष्कृतं तस्मै दत्त्वा तत्सुकृतं हरेत् ॥
「もし客人が望みを砕かれて人の家を去るなら、その主人は自らの悪業を客人に与え、代わりに客人の功徳を奪い取る。」
Verse 49
तस्मात्सर्वप्रयत्नेन पूज्यो वै गृहमेधिना ।। काले प्राप्तस्त्वकाले वा यथा विष्णुस्तथैव सः
ゆえに家住の者は、時にかなって来ようと時ならず来ようと、あらゆる努力をもって客人を礼拝すべきである。彼はまさにヴィシュヌそのものと見なされるべきだからである。
Verse 50
एवंविधाः शुभा वाचो वैश्यो धर्मोपदेशकात् ।। श्रुत्वा शुकात्स सर्वस्मै गोकर्णो मुदितोऽब्रवीत्
このような吉祥なる言葉をシュカから聞き、ヴァイシャのゴーカルナは喜びに満ちて、その場の一同に向かって語り始めた。
Verse 51
ऋषिः कस्त्वं पुराणज्ञः किं वा देवोऽथ गुह्यकः ।। तव प्रसन्नरूपस्य यस्येयं वागमानुषी
「あなたは何者なのか――リシか、プラーナに通じた者か、神か、あるいはグヒヤカであろうか。あなたの姿は安らかで、その言葉は人の常を超えているように思われる。」
Verse 52
कस्त्वं कथय मे सत्यं उत्साहश्चातिथिप्रियः ।। धन्यः स मानुषो यस्य नित्यं सन्निहितो भवान्
「あなたは誰なのか。真実を私に語ってほしい。あなたは精励にして客を敬うことを好む。常にあなたが傍らに在す人は、まことに幸いである。」
Verse 53
इत्युक्तः स शुकः सर्वं शशंसात्मपुराकृतम् ।। शृणु रौद्रं यथा पूर्वे मया कृतमबुद्धिना
こう問われると、シュカはかつて自らがなした一切を語り明かした。「分別を欠いて、以前に私が行ってしまった恐るべき行いを聞いてほしい。」
Verse 54
शुकस्य विप्रियं यादृङ् महर्षेस्तु तपस्यतः ।। सुमेरोरुत्तरे पार्श्वे महर्षिगणसेविते
シュカ(Śuka)が苦行(タパス)に励む大いなるリシに不快を与える過ちをいかにして犯したか——須弥山(スメール)北面、諸仙の群れが常に集う地において——
Verse 55
ऋषयस्तत्र चाजग्मुरसितो देवलस्तदा ।। मार्कण्डेयो भरद्वाजो यवक्रीतस्ततो भृगुः
そのとき、リシたちがそこへ来た。アシタ(Asita)、当時のデーヴァラ(Devala)、マールカンデーヤ(Mārkaṇḍeya)、バラドヴァージャ(Bharadvāja)、ヤヴァクリータ(Yavakrīta)、そしてブリグ(Bhṛgu)——
Verse 56
अङ्गिरास्तैत्तिरी रैभ्यः काण्वो मेधातिथिः कृतः ।। तन्तुः सुतन्तुरादित्यो वसुमानेकतो द्वितः
アンギラス(Aṅgiras)、タイッティリー(Taittirī)、ライビヤ(Raibhya)、カーンヴァ(Kāṇva)、メーダーティティ(Medhātithi)、クリタ(Kṛta);タンツ(Tantu)、スータンツ(Sutantu)、アーディティヤ(Āditya)、ヴァスーマン(Vasumān)、エーカタ(Ekata)、ドヴィタ(Dvita)——
Verse 57
वामदेवश्चाश्वशिरास्त्रिशीर्षो गौतमोदरः ।। अन्ये च सिद्धा देवाश्च पन्नगा गुह्यकास्तथा
ヴァーマデーヴァ(Vāmadeva)、アシュヴァシラス(Aśvaśiras)、トリシールシャ(Triśīrṣa)、ガウタモーダラ(Gautamodara)。さらに他にも、シッダ(Siddha)、デーヴァ(Deva)、パンナガ(Pannaga:蛇族の霊類)、そしてグヒヤカ(Guhyaka)もいた——
Verse 58
शुकं सम्मुखयामासुः पप्रच्छुर्द्धर्मसंहिताम् ।। अहं तु वामदेवस्य शिष्यो नाम्ना शुकोदरः
彼らはシュカ(Śuka)を前に進ませ、ダルマの綱要について問いただした。すると言った。「我はヴァーマデーヴァ(Vāmadeva)の弟子、名をシュコーダラ(Śukodara)という。」
Verse 59
भ्रष्टः श्रद्धान्वितो बाल्यात्सुनीत्यामग्रतश्चरन् ॥ ऊहापोहकरं प्रश्नं वारंवारं च पृष्टवान् ॥
過ちがありながらも、幼少より信を具え、長老の前で正しい行いを守って歩みつつ、論争と反論を招く問いを幾度も繰り返し尋ねた。
Verse 60
अन्यायवादिनं मां च गुरुर्नित्यं निषेधति ॥ गुरूणामग्रतो वाक्यं कथायां वदतां सह ॥
師は、私が不当な論争に傾く者であるとして、長老たちが語り合っている場で、その前に言葉を差し挟むことを常に戒めた。
Verse 61
पूर्वपक्षाश्च सिद्धान्ताः परस्परजिगीषवः ॥ अन्तरे चान्तराक्षेपं पुनर्नैवमवोचथाः ॥
前論(反対説)と定説(結論)は互いに打ち負かそうとして、その間に割り込みの反駁を差し挟み、幾度となく秩序立てて語らなかった。
Verse 62
एवं निषेधितश्चाहं गुरुणा मुनिसत्तमैः ॥ न कृतं यन्मया वाक्यं तेनाहं शपितस्तदा ॥
このように、牟尼の中の最勝者たる師に制止されながらも、私はその教えに従わなかった。ゆえにその時、私は呪詛を受けた。
Verse 63
शुकेन कोपाच्छापो मे दत्तोऽयं जल्पको बटुः ॥ यथानामा त्वयं पक्षी शुको भवति नान्यथा ॥
怒りにより、シュカは私にこの呪いを与えた。「おしゃべりな少年よ—汝の名はシュカであるゆえ、汝は鳥となり、鸚鵡となる。ほかではない。」
Verse 64
मुनयस्तं महात्मानं शुकं तत्त्वार्थवित्तमम् ॥ नान्यथा नान्यथा चोक्तं कदाचित्त्संभविष्यति ॥
聖仙たちは、真実とその意義を知る大魂のシュカ(Śuka)について言った。「決して他のようにはならない。語られたことが、いかなる時にも別様になることはない。」
Verse 65
आगामिकाले दास्यामि वरमस्मै शुकाय भो ॥ युष्माकमुपरोधेन यथारूपो विहङ्गमः ॥
「来たるべき時に、私はこのシュカ(Śuka)に恩寵の賜物を与えよう、尊き方々よ。あなたがたの願いにより、彼はそのような姿の鳥となる。」
Verse 66
अयं भविष्यति सदा सद्भावहितभावनः ॥ पुराणतत्त्ववेत्ता च सर्वशास्त्रार्थपारगः ॥
彼は常に、善き者たちの福祉にかなう意向を養う者となる。さらにプラーナ(Purāṇa)の真理を知り、あらゆるシャーストラ(śāstra)の義を究めた者となる。
Verse 67
मथुरायां मृतः पश्चाद्ब्रह्मलोकं गमिष्यति ॥ एवं शापं वरं गृहीत्वा तस्माद्दीनो ह्यहं द्रुतम् ॥
マトゥラー(Mathurā)で死したのち、彼はブラフマローカ(Brahmaloka)へ赴く。かくして呪いと恩寵の双方を受け取ったゆえに、私はたちまち沈痛となった。
Verse 68
मथुरामथुरोच्चारं कुर्वन्नित्यमतन्द्रितः ॥ नित्योद्विग्नश्च मे गात्रे हिमाद्रौ तु गुहां वसन् ॥
私は怠ることなく常に「マトゥラー、マトゥラー」と唱え続けた。だがヒマラヤ(Himādri)の山中の洞窟に住む間、我が身は絶えず動揺していた。
Verse 69
प्राप्तोऽहं शबरेणैव येनाहं पञ्जरे धृतः ॥ शबरस्तु सभार्यो वै क्रीडते स मया सह ॥
まことに私はシャバラに捕らえられ、彼によって籠の中に閉じ込められていた。そのシャバラは妻とともに、そこで私と戯れている。
Verse 70
मुनेः प्रसादान्मे ज्ञानं न जहाति कदाचन ॥ भुज्यते ह्यवशेनैव कृतं येन यथा च यत् ॥
聖仙の恩寵により、智慧はいついかなる時も私を離れない。なぜなら、なされたことは—誰が、いかなる仕方で、何であれ—たとえ抗えずとも必ずその果を味わうからである。
Verse 71
स्वस्थो भव महाभाग मा स्म शोके मनः कृथाः ॥ इत्युक्तः स तु गोकर्णस्तदा तेन शुकेन च ॥
「大いなる幸いの人よ、安らかであれ。悲しみに心を向けてはならぬ。」その時、ゴーカルナはそのシュカにこう告げられた。
Verse 72
तस्य तद्वचनं हृद्यं शुकमोक्षप्रदायकम् ॥ या सा मुक्तिप्रदा रम्या मधुरा पापनाशिनी ॥
その言葉は心に甘美で、シュカに解脱を授けるものであった。すなわち解放を与える言葉は、麗しく、甘く、罪を滅する。
Verse 73
मथुरावासिनं श्रुत्वा गोकर्णं स शुकस्तदा ॥ पुत्रं संस्थाप्य चात्मानं गोकर्णस्य यथेप्सितम् ॥
ゴーカルナがマトゥラーの住人であると聞くや、シュカはその時、子と自らをしかるべく定め整え、ゴーカルナの望むとおりに進んだ。
Verse 74
एवं च वदतस्तस्य शबरी शयनोत्थिता ॥ दर्पान्निर्गत्य तु बहिर्ददर्शासनसंस्थितम् ॥
彼がそのように語っているあいだに、シャバリーは寝床から起き上がり、内から外へ出て、外の座に着いている来客を見た。
Verse 75
भृत्यैः परिवृतं चारुदर्शनीयस्वरूपकम् ॥ निरीक्ष्य बहुशस्तत्र शुको वचनमब्रवीत् ॥
従者に囲まれ、麗しく拝するに足る姿を備えていた。そこを幾度も見やったのち、シュカは次の言葉を述べた。
Verse 76
प्रियातिथिं च संप्राप्तं मातः पूज्यतमं शुचिम् ॥ कुरु पूजां यथार्हं च गोकर्णस्य वरातिथेः ॥
母上、愛すべき客が到来しました。最も敬うべき清浄なる方です。優れた客であるゴーカルナに、ふさわしい供養と歓待をなさってください。
Verse 77
शुकस्य वचनाद्यावत्पूजार्थमुपकल्पितम् ॥ न ददाति ततस्तत्र वनाच्छबर आगतः ॥
シュカの言葉により供養の支度が整えられたが、彼女はそれを差し出さなかった。そのとき、森からシャバラがそこへやって来た。
Verse 78
तस्याग्रे तु पुनस्तेन शुकेनातिथिपूजनम् ॥ शंसितं स तथेत्युक्त्वा कृत्वा पूजां प्रणम्य च ॥
そして彼の前で、シュカは再び客人供養を命じた。彼は「そのとおりに」と答え、供養を行って礼拝し、恭しく頭を垂れた。
Verse 79
फलानि मांसयुक्तानि मधुनि सुरभीणि च॥ सम्पाद्य संविदं कृत्वा वद किंकरवाणि ते॥
「肉を添えた果実と芳香ある蜜とを調え、また約定を結んだ。告げよ、汝のために我はいかなる奉仕をなすべきか。」
Verse 80
इत्युक्तः शबरेणाथ गोकर्णो वाक्यमब्रवीत्॥ अन्यत्किंचिदथो देयं यदि किंचिद्ददासि च॥
シャバラにこう言われて、ゴーカルナは言った。「何かを施すというなら、ほかのものも併せて与えよ。」
Verse 81
शुकोऽयं पञ्जरश्चैष पुत्रार्थं मे प्रदीयताम्॥ मथुरायां गमिष्यामि कृतार्थः पितुरन्तिके॥
「この鸚鵡とこの籠とを、子を得るために我に与えよ。我は目的を成就してマトゥラーへ赴き、父の御前に至ろう。」
Verse 82
सरस्वत्याः फले चैव दत्ते दास्यामि ते शुकम्॥ शबरेणैवमुक्तस्तु गोकर्णः प्रत्यभाषत॥
「もしサラスヴァティーの『果』が授けられるなら、汝に鸚鵡を与えよう。」シャバラがこう言うと、ゴーカルナは答えた。
Verse 83
सरस्वत्याः सङ्गमे च यत्फलं लभते नरः॥ स्नानेन किं फलं तस्य यदि जानासि तद्वद॥
「サラスヴァティーの合流の地において、人はどのような果報を得るのか。そこで沐浴する果報はいかなるものか。知るならば、それを告げよ。」
Verse 84
शबर उवाच॥ शुकेनानेन मे सर्वं मथुरायाश्च यत्फलम्॥
シャバラは言った。「この鸚鵡によって、わたしはマトゥラーに属するあらゆる功徳とともに、全き果報を得る。」
Verse 85
यत्फलं सङ्गमस्योक्तं शृणुयाद्द्वादशीव्रतम्॥ वियोनिस्थो राक्षसो वा तिर्यग्योनिं गतस्य वा॥
「サンガマの果報として説かれたものを聞け。ドヴァーダシーの誓戒の修行をただ聞くだけでも、異様な生にあるラークシャサであれ、畜生の胎に堕した者であれ、その功徳の範囲に含まれる。」
Verse 86
यमुद्दिश्य व्रतं कुर्यात्स गच्छेत्परमां गतिम्॥ सङ्गमस्य फलं तस्य दृष्ट्वा गोकर्णमीश्वरम्॥
「誰を念じ、そのために誓戒を行うなら、その者は最高の境地に至る。これがサンガマの果報である――尊き主ゴーカルナ(Gokarṇa)を拝見すること。」
Verse 87
नासौ यमपुरं याति विष्णुलोकं च गच्छति॥ एवं मया श्रुतं तस्य सङ्गमस्य महाफलम्॥
「彼はヤマの都へは行かず、むしろヴィシュヌの世界へ赴く。かくのごとく、あの合流地の大いなる果報を私は聞き伝えた。」
Verse 88
इत्युक्ता सा च सुश्रोणी प्रणिपत्य प्रसाद्य तम्॥ भर्त्रे सा कथयामास यदुक्तं मुनिना प्रियम्॥
かく教えられると、その麗しい腰の女はひれ伏して彼の歓心を求め、ついで聖仙が語った愛すべき言葉を夫に告げた。
Verse 89
जातकर्म तथा चैव नामकर्म चकार च ॥ गोकार्णं नाम तस्यैव पिता चक्रे निरूप्य च
彼は誕生の儀礼と、また命名の儀礼を執り行った。父はしかるべく熟慮して、彼に「ゴーカルナ」という名を授けた。
Verse 90
प्रावर्तनं च कूपेषु येन सिञ्चेत्प्रवाटिकाम् ॥ पुष्पाणि च विचिन्वन्ति सर्वास्ता वरयोषितः
また、井戸から水を汲み上げて小さな菜園を潤すための装置があり、かの優れた女性たちは皆、花を摘み集めている。
Verse 91
क्रीत्वा क्रेयानि वस्तूनि लाभालाभं विचार्य च ॥ उत्तरापथदेशात्तु सार्थं सबहुविस्तरम्
交易に適した品々を買い求め、利得と損失を考え合わせたのち、(彼らは)ウッタラーパタ地方から、きわめて大規模な隊商とともに来た。
Verse 92
फलानीमानि स्वादूनि मधुमांसोदकानि च ॥ यथेष्टं यावतीच्छा च तावद्गृह्णन्त्विमे नराः
「ここに甘い果実があり、また蜜と肉と水もある。望むだけ—各々の願いに従って—これらの男たちはその分だけ取るがよい。」
Verse 93
तपश्चचार विपुलं शुको व्याससुतो महान् ॥ श्रोतुकामाः पुराणानि सेतिहासानि नैगमाः
ヴィヤーサの偉大なる子シュカは、豊かな苦行を修した。そこには、プラーナ、イティハーサ、そしてナイガマ(聖典の教え)を聴聞したいと願う者たちがいた。
Verse 94
इत्युक्तमात्रे वचने तत्रैवाहं शुकोदरः ॥ शुकत्वं तत्क्षणात्प्राप्तः क्षमस्वेत्यूचु तेजसा
その言葉が語られるや否や、まさにその場でこの我—シュコーダラ—は瞬時に鸚鵡の身を得た。そして彼らは霊的な威光の力によって、「お赦しください(我らを)」と言った。
Verse 95
तस्यां वसाम्यहं भद्र वाणिज्यार्थमिहागतः ॥ पुनरिच्छामहे तत्र भाण्डं गृह्य यथासुखम्
「善き御方よ、私はそこに住んでおります。商いのためにここへ参りました。品物を携え、安らかに、再びそこへ戻りたいのです。」
Verse 96
इत्युक्तमात्रे वचने शबरो वाक्यमब्रवीत् ॥ अस्माकं यमुनास्नानं सङ्गमे यमुनाम्भसः
その言葉が語られるや、シャバラは答えた。「我らにとってはヤムナーでの沐浴、すなわちヤムナーの水の合流の地である。」
The chapter foregrounds two linked ethical instructions: (1) disciplined worship and charitable conduct as socially stabilizing practices (saṃskāra, dāna, and sustained shrine service), and (2) atithi-dharma, where honoring guests is presented as a moral duty whose neglect is framed as transferring one’s merit away while accruing demerit. The narrative uses the parrot’s didactic speech to codify hospitality as an everyday ethic, while Gokarṇa’s construction of water and garden infrastructure models dharma as care for communal habitats.
The text specifies a long-duration observance of ten years (daśābdāni) of daily offerings (dinedine). It also uses lunar imagery to describe pregnancy growth “like the moon in the śukla-pakṣa” (waxing fortnight) and states birth in the tenth month (daśame māsi). A “dvādaśī-vrata” is referenced in connection with saṅgama-phala, indicating a tithi-based vow, though detailed calendrics are not expanded here.
Within the Varāha–Pṛthivī pedagogical frame, terrestrial balance is indirectly advanced through dharmic public works: digging/maintaining wells (kūpa), ponds (taḍāga), stepwells/tanks (vāpī), building irrigation flow systems (prāvartana) for watering gardens, and cultivating orchards and groves. These actions present a model where religious merit is intertwined with sustaining water access, managed landscapes, and communal infrastructure—an early textual articulation of stewardship over inhabited ecologies.
The narrative references merchant (vaiśya) household culture (Vasukarṇa and Suśīlā) and later introduces a learned parrot identity, Śukodara, described as a disciple of Vāmadeva. A cluster of sages is named in the curse-origin account, including Asita, Devala, Mārkaṇḍeya, Bharadvāja, Yavakrīta, Bhṛgu, Aṅgiras, Taittirī, Raibhya, Kāṇva, Medhātithi, and others, situating the episode within a recognizable purāṇic-ṛṣi network rather than a royal genealogy.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.