Adhyaya 338
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 338

Adhyaya 338

Īśvaraは、Devikā川の岸辺にある尊崇すべきリンガ「Jāleśvara」を説く。これはナーガの乙女たちに礼拝され、光輝に満ち、ただ想起するだけでさえ重罪ブラフマハティヤー(brahmahatyā)を滅すると語られる。Devīは、その名の由来と、この聖地に結ばれる功徳を問う。 Īśvaraは古いイティハーサを語る。賢者ĀpastambaがPrabhāsaで苦行に励んでいたとき、漁民が大網を投じ、知らずに水中で禅定する賢者を引き上げてしまう。彼らは深く悔い、赦しを乞う。Āpastambaは慈悲と、苦しむ衆生を利する倫理を思惟し、自らの功徳が他者を益し、彼らの過ちが自分に帰するよう願う。王Nābhāgaが大臣と祭司を伴って来訪し、賢者の「価値」を金銭で償おうとするが、賢者は世俗の尺度を退ける。賢者Lomashaは、相応の代価は牛であると勧め、Āpastambaはこれを受け、牛の神聖、浄化のpañcagavya、そして牛を護り日々敬う宗教的義務を讃える。漁民が牛を捧げると、賢者は彼らが水から引き上げた魚とともに天界へ昇るよう祝福し、意図と福利の大切さを示す。Nābhāgaは聖者との交わりの価値を称え、王の驕りを戒める教えを受け、稀なる恩寵としてダルマの智慧を求める。 最後にĪśvaraは、このリンガが賢者によって建立され、賢者が網(jāla)に落ちたことから「Jāleśvara」と名づけられたと結ぶ。章末には巡礼の作法として、Jāleśvaraでの沐浴と礼拝、māhātmyaの聴聞、供養が説かれ、特にCaitra月白分第十三日(Śukla Trayodaśī)のpiṇḍa-dānaと、ヴェーダに通じたブラーフマナへのgo-dānaが大いなる功徳とされる。

Shlokas

Verse 1

ईश्वर उवाच । ततो गच्छेन्महादेवि देविकातटसंस्थितम् । जालेश्वरेति विख्यातं सुरासुरनमस्कृतम्

イーシュヴァラは言った。「それより後、偉大なる女神よ、デーヴィカー河の岸にある聖地へ赴くがよい。そこはジャーレーシュヴァラと名高く、神々とアスラのいずれにも礼拝される。」

Verse 2

मन्वन्तरे चाक्षुषे च सम्प्राप्ते द्वापरे युगे । नाम्ना जालेश्वरं लिंगं देविकातटसंस्थितम्

チャークシュシャ・マンヴァンタラにおいて、ドヴァーパラ・ユガが到来した時、デーヴィカー河畔に「ジャーレーシュヴァラ」と名づけられたリンガが स्थापितされていた。

Verse 3

पूज्यते नागकन्याभिर्न तत्पश्यंति मानवाः । महा तेजोमणिमयं चंद्रबिंबसमप्रभम् । स्मरणात्तस्य देवस्य ब्रह्महत्या प्रणश्यति

それはナーガの娘たちにより礼拝されるが、人間には見ることができない。大いなる光輝の宝珠のごとく成り、満月の円盤のように照り映える。その神をただ想念するだけで、ブラフマハティヤー(婆羅門殺し)の罪は滅する。

Verse 4

देव्युवाच । कथं जालेश्वरं नाम कस्मिन्काले बभूव तत्

女神は言われた。「いかにして『ジャーレーシュヴァラ』と名づけられ、またそれはいつ現れたのですか。」

Verse 5

साधुभिः सह संवासात्के गुणाः परिकीर्त्तिताः । के लोकाः कानि पुण्यानि तत्सर्वं शंस मे प्रभो

主よ、聖者たちと共に住むことから、いかなる徳が称えられるのでしょうか。いかなる世界に到り、いかなる功徳を得るのでしょうか。そのすべてをお告げください。

Verse 6

ईश्वर उवाच । अत्रैवोदाहरंतीममितिहासं पुरातनम् । नाभागस्य च संवादमापस्तंबतपोनिधेः

イーシュヴァラは言われた。「まさにここで、古の聖なる物語を引こう。すなわち、ナーバーガと、苦行の宝蔵アーパスタンバとの対話である。」

Verse 7

महर्षिरात्मवान्पूर्वमापस्तंबो द्विजाग्रणीः । उपावसन्सदा रम्भो बभूव भगवांस्तदा

昔、大聖仙アーパスタンバは、自制に満ち、二度生まれの中でも最勝であり、常に断食(ウパヴァーサ)に専心していた。その時、彼はその修行によって光り輝き、尊崇される存在となった。

Verse 8

नित्यं क्रोधं च लोभं च मोहं द्रोहं विसृज्य सः । देविकासरितो मध्ये विवेश सलिलाशये

日々、怒りと貪りと迷いと害意とを捨て去り、彼はデーヴィカー河のただ中にある水の住処へと入った。

Verse 9

क्षेत्रे प्राभासिके रम्ये सम्यग्ज्ञात्वा शिवप्रिये । तत्रास्य वसतः कालः समतीतो महांस्तदा

シヴァに愛される麗しきプラーバーサの聖域を正しく悟り、彼はそこに住して、やがて非常に長い時が過ぎた。

Verse 10

परेण ध्यानयोगेन स्थाणुभूतस्य तिष्ठतः । ततः कदाचिदागत्य तं देशं मत्स्यजीविनः

至上の禅定のヨーガに没入し、柱のごとく不動に立っていたそのとき、ある折に漁師たちがその地へやって来た。

Verse 11

प्रसार्य सुमहज्जालं सर्वे चाकर्षयन्बलात् । अथ तं च महामत्स्यं निषादा बलदर्पिताः

彼らは甚だ大きな網を広げ、皆で力任せに引き寄せた。すると力を誇るニシャーダたちは、大魚をも引き上げた。

Verse 12

तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनंदनम् । तं दृष्ट्वा तपसा दीप्तं कैवर्त्ता भयविह्वलाः । शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन्

彼らはその水より「梵の子」すなわち婆羅門の聖仙を引き上げた。苦行の光に燃え立つ彼を見て、漁師たちは恐れおののき、頭を垂れて礼拝し、声高にこう言った。

Verse 13

निषादा ऊचुः । अज्ञानात्कृतपापानामस्माकं क्षन्तुमर्हसि । किं वा कार्यं प्रियं तेऽद्य तदाज्ञापय सुव्रत

ニシャーダたちは言った。「無知ゆえに罪を犯した私たちをお赦しください。今日、あなたに喜ばれる奉仕は何をいたしましょうか。高貴なる誓願を保つお方よ、どうかお命じください。」

Verse 14

स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम् । कृपया परयाविष्टो दाशान्प्रोवाच दुःखितः

その牟尼は、魚が大いに殺されているのを見て、深い慈悲に満たされ、悲しみに沈みつつ漁夫たちに語りかけた。

Verse 15

केन मे स्यादुपायो हि सर्वे स्वार्थे बत स्थिताः । ज्ञानिनामपि यच्चेतः केवलात्महिते रतम्

「私にいかなる手立てがあろうか。ああ――人は皆、自利に固くとらわれている。賢者の心でさえ、ただ己の安楽のみを喜ぶのだ。」

Verse 16

ज्ञानिनोपि यदा स्वार्थमाश्रित्य ध्यानमास्थिताः । दुःखार्त्तानीह सत्त्वानि क्व यास्यंति सुखं ततः

「もし賢者でさえ自利に執して禅定に入るなら、この世で苦しむ衆生は、いったいどこに安楽を見いだすのか。」

Verse 17

योऽभिवांछति भोक्तुं वै दुःखान्येकांततो जनः । पापात्पापतरं तं हि प्रवदंति मुमुक्षवः

「ただ苦しみだけを真に『味わおう』と望む者――そのような者を、解脱を求める人々は、罪そのものよりもなお罪深いと言う。」

Verse 18

को नु मे स्यादुपायो हि येनाहं दुःखितात्मवान् । अंतः प्रविष्टः सत्त्वानां भवेयं सर्वदुःखभुक्

「悲しみに沈むこの心のまま、いかなる方法によって、我は一切の衆生の内に入り、あらゆる苦しみを共に受け得ようか。」

Verse 19

यन्ममास्ति शुभं किचित्तदेनानुपगच्छतु । यत्कृतं दुष्कृतं तैश्च तदशेषमुपेतु माम्

「我にあるわずかな功徳は彼らに及べ。彼らのなした悪業は、余すところなくすべて我に帰せよ。」

Verse 20

दृष्ट्वांधान्कृपणान्व्यंगाननाथान्रोगिणस्तथा । दया न जायते यस्य स रक्ष इति मे मतिः

「盲なる者、貧しき者、身の不自由な者、みなしご、病める者を見て、なお慈悲の起こらぬ者は、我が見解では羅刹である。」

Verse 21

प्राणसंशयमापन्नान्प्राणिनो भयविह्वलान् । यो न रक्षति शक्तोपि स तत्पापं समश्नुते

「命の危難に陥り、恐れに震える衆生を、力ありながら護らぬ者は、その罪を自ら受ける。」

Verse 22

आहुर्जनानामार्त्तानां सुखं यदुपजायते । तस्य स्वर्गोऽपवर्गो वा कलां नार्हति षोडशीम्

「人は言う。苦しむ者が救いを得て生ずる喜びは、天界の福であれ解脱であれ、その十六分の一にも及ばない。」

Verse 23

तस्मान्नैतानहं दीनांस्त्यक्त्वा मीनान्सुदुःखितान् । पदमात्रं तु यास्यामि किं पुनस्त्रिदशालयम्

ゆえに、甚だしく苦しむこの哀れな魚たちを、わたしは見捨てない。たとえ一歩たりとも進まぬ—ましてや神々の住まいへなど。

Verse 24

ईश्वर उवाच । निशम्यैतदृषेर्वाक्यं दाशास्ते जातसंभ्रमाः । यथावृत्तं तु तत्सर्वं नाभागाय न्यवेदयन्

イーシュヴァラは言った。仙人の言葉を聞くや、漁師たちは動揺し、起こったことのすべてを、そのままナーバーガに報告した。

Verse 25

नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम् । त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः

それを聞いたナーバーガもまた、ブラフマーの御子にまみえんと急ぎ向かった。大臣たちと王家の祭司を伴い、速やかにその地へ赴いた。

Verse 26

स सम्यक्पूजयित्वा तं देवकल्पमुनिं नृपः । प्रोवाच भगवन्ब्रूहि किं करोमि तवाज्ञया

王は神々のごとく輝くその牟尼を正しく供養し、こう申し上げた。「おお聖なる御方よ、仰せください—御命令に従い、わたしは何をなすべきでしょうか。」

Verse 27

आपस्तंब उवाच । श्रमेण महताविष्टाः कैवर्त्ता दुःखजीविनः । मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप

アーパスタンバは言った。「大いなる労苦に悩まされ、苦しみの生を営む漁師たちは、『わたしの代価をお支払いください』と言っている。王よ、もしそれが相応しいとお考えなら、その支払いをお与えください。」

Verse 28

नाभाग उवाच । सहस्राणां शतं मूल्यं निषादेभ्यो ददाम्यहम् । निग्रहाख्यस्य भगवन्यथाह ब्रह्मनंदनः

ナーバーガは言った。「福徳なる御方よ、ニシャーダたちに十万の報いを与えよう。ブラフマーの御子が『ニグラハ』と呼ばれる者について説いたとおりに。」

Verse 29

आपस्तंब उवाच । नाहं शतसहस्रैश्च नियम्यः पार्थिव त्वया । सदृशं दीयतां मूल्यममात्यैः सह चिंतय

アーパスタンバは言った。「王よ、たとえ十万をもってしても、私は『買い取られる』者ではない。ふさわしい報いを与えよ。大臣たちと共に熟慮せよ。」

Verse 30

नाभाग उवाच । कोटिः प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम । यद्येतदपि ते मूल्यं ततो भूयः प्रदीयते

ナーバーガは言った。「二度生まれの最勝者よ、ニシャーダたちへの報いとして一コーティを与えよ。もしこれでもなお相応の価でないなら、さらに増して与えよう。」

Verse 31

आपस्तंब उवाच । नार्हं मूल्यं च मे कोटिरधिकं वापि पार्थिव । सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिंतय

アーパスタンバは言った。「王よ、一コーティであれ、それ以上であれ、私にふさわしい『値』ではない。相応の報いを与えよ。バラモンたちと共に議せよ。」

Verse 32

नाभाग उवाच । अर्द्धराज्यं समस्तं वा निषादेभ्यः प्रदीयताम् । एतन्मूल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज

ナーバーガは言った。「ニシャーダたちに我が国の半分、あるいは全領土を与えよ。私はこれを相応の報いと思う。あるいは、バラモンよ、他にふさわしいものがあると考えるか。」

Verse 33

आपस्तंब उवाच । अर्धराज्यसमस्तं वा नाहमर्हामि पार्थिव । सदृशं दीयतां मूल्यमृषिभिः सह चिंतय

アーパスタンバは言った。「王よ、私は国の半分も全ても受けるに値しない。ふさわしい供養(捧げ物)を与えよ—リシたちと共に熟慮せよ。」

Verse 34

महर्षेस्तद्वचः श्रुत्वा नाभागः स विषादवान् । चिन्तयामास दुःखार्तः सामात्यः सपुरोहितः

大聖仙のその言葉を聞くと、ナバーガは沈み込んだ。悲嘆に責められ、彼は大臣たちと王家の祭司(プーロヒタ)と共に思案し始めた。

Verse 35

ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः । नाभागमब्रवीन्मा भैस्तोषयिष्यामि तं मुनिम्

そのとき、偉大な苦行者ローマシャ仙がそこに現れた。彼はナバーガに言った。「恐れるな。私はあの牟尼を満足させよう。」

Verse 36

नाभाग उवाच । ब्रूहि मूल्यं महाभाग मुनेरस्य महात्मनः । परित्रायस्व मामस्मात्सज्ञातिकुलबांधवम्

ナバーガは言った。「幸いなる方よ、この大いなる魂の牟尼に捧げるべき『代価』、すなわち相応の供養を教えてください。この危難から、私を—親族、家系、縁者と共に—お救いください。」

Verse 37

निर्दहेद्भगवान्रुद्रस्त्रैलोक्यं सचराचरम् । किं पुनर्मानुषं हीनमत्यंतवि षयात्मकम्

世尊ルドラは、動くものも動かぬものも含めて三界を焼き尽くし得る。ましてや、か弱く卑小で、感官の対象にすっかり縛られた人間など、いかに容易いことか。

Verse 39

लोमश उवाच । त्वमीड्यो हि महाराज जगत्पूज्यो द्विजोत्तमः । गावश्च दिव्यास्तस्माद्गौर्मूल्यमम्यै प्रदीयताम्

ローマシャは言った。「大王よ、あなたはまことに讃嘆に値し、二度生まれし者の中の最勝にして、世に敬われる。牛は神聖なるものゆえ、相応の供物として彼に一頭の牛を施しなさい。」

Verse 40

उत्तिष्ठोत्तिष्ठ भगवन्क्रीत एव न संशयः । एतद्योग्यतमं मूल्यं भवतो मुनिसत्तम

「起きよ、起きよ、尊き御方よ——疑いなく、あなたは如法に『買われた』、すなわち満足された。これはあなたに最もふさわしい供養である、最上の聖仙よ。」

Verse 41

आपस्तंब उवाच । उत्तिष्ठाम्येष सुप्रीतः सम्यक्क्रीतोऽस्मि पार्थिव । गोभ्यो मूल्यं न पश्यामि पवित्रं परमं भुवि

アーパスタンバは言った。「我は起き上がる——大王よ、まことに満悦である。我は正しく満たされた。地上において、牛に勝る『代価』は見いだせぬ。牛こそこの世の最上の浄めである。」

Verse 42

गावः प्रदक्षिणीकार्याः पूजनीयाश्च नित्यशः । मंगलायतनं देव्यः सृष्टा ह्येताः स्वयंभुवा

牛は右繞(プラダクシナー)して巡り、日々礼拝すべきである。これらの神聖なるものは吉祥の住処であり、まことに自生者(ブラフマー)によって創られた。

Verse 43

अग्न्यगाराणि विप्राणां देवतायतनानि च । यद्गोमयेन शुद्ध्यंति किंभूतमधिकं ततः

もし婆羅門の火室(アグニヤーガーラ)や、さらには神々の聖所までもが牛糞によって清められるのなら、これ以上に崇高なものがどこにあろうか。

Verse 44

गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च । गवां पंच पवित्राणि पुनंति सकलं जगत्

牛の尿、牛糞、乳、凝乳(ダディ)、そしてギー—牛の五つの清浄なるものは、全世界を浄める。

Verse 45

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च । गावो मे ह्रदये चैव गवां मध्ये वसाम्यहम

牛は常に我が前にあり、牛はまた我が後ろにもある。牛は我が心の中にあり、我は牛の中に住まう。

Verse 46

एवं जपन्नरो मंत्रं त्रिसंध्यं नियतः शुचिः । मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति

かくして、戒めを守り清浄なる人が、この真言を三つのサンディヤ(暁・正午・黄昏)に唱えるなら、あらゆる罪より解き放たれ、天界へ赴く。

Verse 47

तृणाहारपरा गावः कर्त्तव्या भक्तितोऽन्वहम् । अकृत्वा स्वयमाहारं कुर्वन्प्राप्नोति दुर्गतिम्

草を食とする牛は、日々信愛をもって養い仕えるべきである。しかるに自らの食を先にし、牛の毎日の飼い草を与えぬ者は不幸に堕ちる。

Verse 48

तेनाग्नयो हुताः सम्यक्पितरश्चापि तर्पिताः । देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्

その行いによって、聖なる火には正しく供物が捧げられ、祖霊は満たされ、神々も礼拝される—人が牛に日々の分(糧と奉仕)を施すとき。

Verse 49

मन्त्रः । सौरभेयी जगत्पूज्या देवी विष्णुपदे स्थिता । सर्वमेव मया दत्तं प्रतीच्छतु सुतोषिता

真言:「おおサウラベイーよ、全世界に礼拝される女神、ヴィシュヌの御境に住まう御方よ――満ち足りて、わたしが捧げたすべてをお受け取りください。」

Verse 50

रक्षणाद्बालपुत्राणां गवां कण्डूयनात्तथा । क्षीणार्तरक्षणाच्चैव नरः स्वर्गे महीयते

子牛を守り、牛の痒みを掻いて世話をし、弱り苦しむものを護るなら、その人は天界において尊ばれる。

Verse 51

आदिर्गावो हि मर्त्यस्य मध्ये चांते प्रकीर्तिताः । रक्षंति तास्तु देवानां क्षीराज्यममृतं सदा

牛は、死すべき人の生の初めにも中ほどにも終わりにもあると称えられる。牛は乳とギーによって、甘露にも似た精髄をもって、常に神々を養う。

Verse 52

तस्माद्गावः प्रदातव्याः पूजनीयाश्च नित्यशः । स्वर्गस्य संगमा ह्येताः सोपानमिव निर्मिताः

ゆえに牛は布施として施し、日々礼拝して敬うべきである。まことに牛は天界との合流の場であり、上へと導く階段のごとく造られている。

Verse 53

एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्त मम् । प्रणिपत्य महात्मानमापस्तंबमथाब्रुवन्

牛のこの上ない偉大さを聞くと、ニシャーダたちは大心のアーパスタンバにひれ伏して礼拝し、そして言葉を述べた。

Verse 54

निषादा ऊचुः । संभाषो दर्शनं स्पर्शः कीर्तनं स्मरणं तथा । पावनानि किलैतानि साधूनामिति च श्रुतम्

ニシャーダたちは言った。「語らい、拝見し、触れ、讃歌(キールタナ)を唱え、想念すること——これらは聖者に関して浄めとなると、私たちは聞いております。」

Verse 55

संभाषो दर्शनं चैव सहास्माभिः कृतं त्वया । कुरुष्वानुग्रहं तस्माद्गौरेषा प्रतिगृह्यताम्

「あなたは私たちに語らいと御姿の拝見をお授けくださいました。ゆえにご慈悲を——この牝牛をお受け取りください。」

Verse 56

आपस्तंब उवाच । एता वः प्रतिगृह्णामि गां यूयं मुक्तकिल्विषाः । निषादा गच्छत स्वर्गं सह मत्स्यैर्जलोद्धृतैः

アーパスタンバは言った。「この牝牛を汝らから受け取ろう。汝らは今、罪過より解き放たれた。おおニシャーダよ、水より救い上げられた魚たちと共に天界へ往け。」

Verse 57

प्राणिनां प्रीतिमुत्पाद्य निन्दिते नापि कर्मणा । नरकं यदि पश्यामि वत्स्यामि स्वर्ग एव तत्

「たとえ非難される行いによってであっても、生きとし生けるものに歓喜を生じさせるなら、もし地獄を目にしても、私はそこに天界のごとく住まうであろう。」

Verse 58

यन्मया सुकृतं किञ्चिन्मनोवाक्कायकर्मभिः । कृतं स्यात्तेन दुःखार्ताः सर्वे यांतु शुभां गतिम्

「我が心と言葉と身の行いによってなした、いかなる小さき善であれ——その功徳により、苦しみに悩むすべての者が吉祥なる行き先に至らんことを。」

Verse 59

ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः । निषादास्तेन वाक्येन सह मत्स्यैर्दिवं गताः

その後、清らかな魂を具えた大聖仙の恩寵により、ニシャーダたちはその言葉の力によって、魚たちとともに天界へと昇った。

Verse 60

तान्दृष्ट्वा व्रजतः स्वर्गं समत्स्यान्मत्स्यजीविनः । सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत्

魚とともに天界へと旅立つ漁民たちを見て、王は大臣や従者を伴い、驚嘆して次のように語った。

Verse 61

सेव्याः श्रेयोऽर्थिभिः सन्तः पुण्यतीर्थे जलोपमाः । क्षणो पासनमप्यत्र न येषां निष्फलं भवेत्

「最高の善を求める者は、聖なる人々に仕えるべきである。この聖なるティールタにおいて彼らは命を与える水のごとし。ここでのひとときの奉仕すら、決して無駄にはならない。」

Verse 62

सद्भिः सह सदासीत सद्भिः कुर्वीत सत्कथाम् । सतां व्रतेन वर्तेत नासद्भिः किञ्चिदाचरेत्

「常に善き人々と共に住み、善き人々とともに高貴な法の語らいをなせ。賢徳の者の誓戒と規律に従って生き、悪しき者と共に何事も行うな。」

Verse 63

सतां समागमादेते समत्स्या मत्स्यजीविनः । त्रिविष्टपमनुप्राप्ता नराः पुण्यकृतो यथा

「善き人々との交わりによって、この漁民たちは魚とともにトリヴィシュタパ(天界)に到った。功徳を積んだ人々が至るのと同じである。」

Verse 64

आपस्तंबो मुनिस्तत्र लोमशश्च महामनाः । वरैस्तं विविधैरिष्टैश्छंदयामासतुर्नृपम्

その地で、牟尼アーパスタンバと大心のローマシャは、王の心にかなうさまざまな恩寵(ヴァラ)を授けて、王を歓喜させた。

Verse 65

ततः स वरयामास धर्मबुद्धिं सुदुर्लभाम् । तथेति चोक्त्वा तौ प्रीत्या तं नृपं वै शशंसतुः

ついで王は、きわめて得がたい恩寵――ダルマへと傾く心――を選んだ。二人の聖仙は「そのとおり成れ」と告げ、喜んでその王を讃えた。

Verse 66

अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरा मतिः । धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम्

ああ、王の中の最勝者よ、汝はまことに福徳ある者だ。汝の心がダルマに帰依しているからである。ダルマは人にとって得がたく、とりわけ大地を治める者にはなおさら難しい。

Verse 67

यदि राजा मदाविष्टः स्वधर्मं न परि त्यजेत् । ततो जगति कस्तस्मात्पुमानभ्यधिको भवेत्

もし王が、権勢に酔いながらも自らの正しき務め(自分のダルマ)を捨てぬなら、この世で誰がその王に勝るであろうか。

Verse 68

ध्रुवं जन्म सदा राज्ञां मोहश्चापि सदा ध्रुवः । मोहाद्ध्रुवश्च नरको राज्यं निन्दन्त्यतो बुधाः

王たちにとって、王権に生まれることは確かであり、迷妄もまた常に確かに伴う。迷妄より地獄は必定の帰結となるゆえ、賢者は王位(それが束縛を生むとき)を戒めて非難する。

Verse 69

राज्यं हि बहु मन्यंते नरा विषयलोलुपाः । मनीषिणस्तु पश्यन्ति तदेव नरकोपमम्

感官の対象に貪り執着する人々は王権を大いに尊ぶ。だが識者は、その王権そのものを地獄にも似たものと観る。

Verse 70

तस्माल्लोकद्वयध्वंसी न कर्त्तव्यो मदस्त्वया । यदीच्छसि महाराज शाश्वतीं गतिमात्मनः

ゆえに、二つの世界を滅ぼす慢心に溺れてはならぬ。もし自らの永遠の行き処を望むなら、偉大なる王よ、驕りを捨てよ。

Verse 71

ईश्वर उवाच । इत्युक्त्वा तौ महात्मानौ जग्मतुः स्वं स्वमाश्रमम् । नाभागोऽपि वरं लब्ध्वा प्रहृष्टः प्राविशत्पुरम्

イーシュヴァラは語った。かく告げ終えると、二人の大いなる魂はそれぞれ自らのアーシュラマへ帰って行った。ナーバーガもまた恩寵を得て、歓喜して都に入った。

Verse 72

एतत्ते कथितं देवि प्रभावं देविकोद्भवम् । ऋषिणा स्थापितश्चापि भवो जाले श्वरस्तदा

女神よ、これが汝に語られた—デーヴィカーより湧き出た霊妙なる威力である。さらにその地で、バヴァ(シヴァ)は聖仙により「ジャーレーシュヴァラ」として安置された。

Verse 73

जाले निपतितो यस्माद्दाशानामृषिसत्तमः । जालेश्वरेति नामासौ विख्यातः पृथिवीतले

漁夫の網に最勝の聖仙が落ちたがゆえに、彼は地上において「ジャーレーシュヴァラ」との名で広く知られるようになった。

Verse 74

तत्र स्नात्वा महादेवि जालेश्वरसमर्चनात् । आपस्तंबश्च नाभागो निषादा मत्स्यजीविनः

その地で、ああ大女神よ、沐浴し、ジャーレーシュヴァラ(Jāleśvara)を正しく供養したことにより、アーパスタンバ(Āpastamba)とナーバーガ(Nābhāga)、さらに漁を生業とするニシャーダ(Niṣāda)たちも吉祥の果報を得た。

Verse 75

मत्स्यैः सह गताः स्वर्गं देविकायाः प्रभावतः । चैत्रस्यैव तु मासस्य शुक्लपक्षे त्रयोदशीम्

デーヴィカー(Devikā)の聖なる威力により、彼らは魚たちとともに天界へ赴いた。この功徳は、チャイトラ月(Caitra)の白分(シュクラ・パクシャ)の十三日(トラヨーダシー)に結びつく。

Verse 76

दद्यात्पिण्डं पितृभ्यो यस्तस्यांतो नैव विद्यते । गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे । श्रोतव्यं चैव माहात्म्यं द्रष्टव्यो जालकेश्वरः

そこで祖霊にピンダ供(piṇḍa)を捧げる者は、尽きることなき功徳を得る。さらに、ヴェーダに通暁したブラーフマナ(brāhmaṇa)へ牛施(go-dāna)を行うべきである。聖地のマーハートミャ(māhātmya)を聴聞し、ジャーラケーシュヴァラ(Jālakeśvara)のダルシャナ(darśana)を得るべきである。