Adhyaya 14
Vayaviya SamhitaUttara BhagaAdhyaya 1439 Verses

मन्त्रसिद्ध्यर्थं गुरुपूजा–आज्ञा–पौरश्चर्यविधिः / Guru-Authorization, Offerings, and Puraścaraṇa for Mantra-Siddhi

第14章は、マントラ成就(mantra-siddhi)を得るための技術的なシヴァ派(Śaiva)の作法を説く。イーシュヴァラは、許可(ājñā)なく、正しい儀礼行(kriyā)なく、信(śraddhā)なく、特に意図したダクシナー/供養(dakṣiṇā)を欠いて行うジャパ(japa)は、無果(niṣphala)になると告げる。続いて弟子が、真理を知る(tattvavedit)徳と観修の規律を備えた師(guru/ācārya)に近づく方法を示し、心の清浄(bhāvaśuddhi)と、言葉・心・身体・財による多面的奉仕を強調する。師への礼拝(guru-pūjā)を継続し、力に応じて惜しみなく布施すること、また金銭の欺き(vittaśāṭhya)を厳しく戒める。師が満足すると、弟子は沐浴(snāna)し、マントラで浄めた水や吉祥の品で清め、相応に荘厳して、清浄な聖地(河岸・海辺・牛舎・寺院・清らかな家)と、欠点なき吉時(tithi・nakṣatra・yoga)に儀礼を行う。師は正しい音調で「至上のマントラ」を授け、ājñāを与える。マントラと命を受けた弟子は、puraścaraṇaの体系に従い、定められた回数目標と節制ある生活(自制・食の規律)をもって日々ジャパを修する。結びに、puraścaraṇaを成就し日々のジャパを保つ者はシッダ(siddha)となり成就を授け得るとし、その根は内なるシヴァと師の憶念にあると説く。

Shlokas

Verse 1

ईश्वर उवाच । आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने । आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् । आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् । एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम्

イーシュヴァラは言った。「麗しき面貌の者よ、師(グル)の許可なく、定められた行法なく、信(シュラッダー)なく行うジャパは、たとえ常に誦しても実りを結ばない。また師命を果たすための儀礼であっても、相応のダクシナー(供養)がなければ無果である。だが許可が成り、行法が成り、信が成るとき、マントラは我が自性そのものとなる。さらにそのようにダクシナーを伴えば、マントラ成就は大いなる果をもたらす。」

Verse 3

उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् । जापितं सद्गुणोपेतं ध्यानयोगपरायणम् । तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः । वाचा च मनसा चैव कायेन द्रविणेन च

真理(タットヴァ)を知る成就の婆羅門アーチャーリヤたる師に近づき、弟子は努めて師を歓ばせるべきである。師はジャパに確立し、善き徳を具え、禅定のヨーガに専心する。意の清浄をもって、言葉により、心により、身の奉仕により、また財物の供養によって、精励して師を満足させよ。

Verse 5

आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः । हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च । भूषणानि च वासांसि धान्यानि च धनानि च । एतानि गुरवे दद्याद्भक्त्या च विभवे सति

絶えず真摯に努めて、二度生まれの者(ドヴィジャ)の信者は、アーチャーリヤ(霊的導師)を敬い供養すべきである。力の及ぶときは、信愛(バクティ)をもって、象・馬・車、宝玉、田畑と家屋、装身具と衣、穀物と財宝などを師(グル)に捧げよ。

Verse 7

वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः । पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् । एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् । आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु

真の成就(シッディ)を自らに求める者は、財に関して欺きをなしてはならない。その後、自身を所持の品々とともにグル(師)に捧げ、力を偽らず、規定にかなって師を礼拝供養する。かくして順次に、師よりマントラと解脱の智慧とを受けるべきである。

Verse 9

एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् । शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् । स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै । जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च

かくして師は満足し、一年にわたり奉仕し、礼拝に励み、仕えに専心し、我慢なく、沐浴して清浄で、斎戒を守る弟子を見て、浄化のために沐浴させた。満たされた儀礼の壺(プールナ・クンバ)よりのギーと、マントラで清められ、吉祥の聖なる物を混ぜた水とを用いてである。

Verse 11

अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः । पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च । समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा । शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ

香を塗り、花鬘を掛け、清らかな衣と装身具をまとって端正に身を飾り、吉祥の儀礼プンヤーハを誦させ、バラモンたちをしかるべく供養せよ。ついで海辺、河畔、牛舎、あるいは寺院—または家であっても清浄な場所—において、成就をもたらす時とティティ(月日)に、霊的成就のためシヴァの礼拝を開始すべきである。

Verse 13

नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते । अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि । स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः । उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम्

星宿と吉祥のヨーガが相応しく、あらゆる瑕疵を離れるとき、まず恩寵を授け、そののち規定の作法に従って、わがこの智を授けるべきである。正しい抑揚をもって、独り静まる処にて、心をことのほか澄み安らかにし、正しく誦すべし。かく誦し、また誦せしめたのち、師と弟子の二者に属する最上の真言を伝授すべきである。

Verse 15

शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति । एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् । एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः । संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम्

「シヴァたれ、吉祥たれ、輝かしきものたれ、愛しきものたれ」—かく唱えて、師は真言を授け、さらにその権威ある教令を与えるべきである。師より真言と命を得た修行者は、心を統一し、荘厳なるサンカルパ(誓願)を立て、定められたプラシャラナ(puraścaraṇa)の行を先として、日々ジャパを修すべし。このように師の導きのもと規矩正しくジャパを行えば、パシュ(束縛された魂)は、清浄と解脱を授ける主宰パティたるシヴァへと導かれる。

Verse 17

यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् । अनन्यस्तत्परो भूत्वा स याति परमां गतिम् । जपेदक्षरलक्षं वै चतुर्गुणितमादरात् । नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः

命あるかぎり、日々(シヴァの)マントラを千八回ジャパすべし。心を一つにしてただ主シヴァに帰依する者は、最高の境地に至る。また敬虔に、マントラの音節を十万(ラク)満たし、それを四倍に成就すべし。夜のみ食し、節制を守る者は、プラシャラナ(puraścaraṇa)—マントラ修習の完全なる前行—を正しく果たした者と記憶される。

Verse 19

यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः । तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् । स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् । त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः

プラシャラナ(puraścaraṇa)を成就してのち、再び常にマントラをジャパする者となれば、世に比類なき者である。彼はシッダ(成就者)となり、さらに他者にシッディを授ける者ともなる。沐浴して清浄の地に坐し、心を澄明に定めて、汝は胸中に我を観想せよ。次いで、さらに観想して、自らのグル(師)を念ぜよ。

Verse 21

उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः । विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः । मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः । आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च

北または東に面し、沈黙(マウナ)を守って一心にして、内なる「焼却」や「灌流」などにより五大を浄めるべし。マントラ・ニヤーサ(mantra-nyāsa)等の作法を行い、聖なる身を成就させたのち、礼拝において一つとなる二つの神聖なる形相(礼拝者と主)を観想し、同時にプラーナとアパーナ(生命の気流)を調御せよ。

Verse 23

विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् । बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् । उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् । अधमं वाचिकं प्राहुरागमार्थविशारदाः

聖なる知識の座、自らの姿、聖仙、韻律、そして主宰神を思い起こし、その種子音、力、真言の言葉とともに、五文字の真言(パンチャークシャリー)を唱えるべきである。最高の唱え方は心の中での念誦であり、中位は囁き、そして下位は声に出して唱えることである。アーガマの真意に精通した者たちはそのように説いている。

Verse 25

उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् । अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः । यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः । मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः

彼らは順序に従って、最高の唱え方はルドラを本尊とし、中位はヴィシュヌを本尊とし、下位はブラフマーを本尊とするものであると説いている。高低や抑揚のある声を用い、音節や言葉を明瞭に、あるいは不明瞭に声に出して唱えるとき、これは「ヴァーチカ・ジャパ(口唱念誦)」として記憶される。

Verse 27

जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा । अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते । धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् । शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः

舌のわずかな動きだけでかすかに唱え、他人には聞こえず、自らにも微かにしか聞こえないジャパは、ウパーンシュ(upāṃśu・囁きのジャパ)と呼ばれる。だが心中において、音節の連なりを文字ごと・語ごとに繰り返し追い、音と意味の双方を観想するなら、それはマーナサ・ジャパ(mānasa japa・心念の反復)と宣言される。

Verse 29

वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते । साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः । प्राणायामसमायुक्तस्सगर्भो जप उच्यते । आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते

ジャパにおいて、声に出すヴァーチカ(vācika)は一と数えられ、囁きのウパーンシュ(upāṃśu)は百と説かれ、心念のマーナサ(mānasa)は千と宣言される。プラーナーヤーマとともに行うジャパはサガルバ(sa-garbha、真言を内に保持するもの)と呼ばれ、百を超えて勝れる。また、ジャパの初めと終わりに行うアガルバ(a-garbha)のプラーナーヤーマも称賛される。

Verse 31

चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् । मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् । पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् । अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते

四十の定まった回数で息(プラーナ)を調えたのち、(主を)憶念すべきである。真言の義を知る賢者は、たとえ力が十分でなくとも、己の分に応じて真言を反復せよ。プラーナーヤーマは五回・三回、あるいは一回でも行ってよい。アガルバ(agarbha・真言なし)であれサガルバ(sagarbha・真言あり)であれ、この文脈ではサガルバがとりわけ推奨される。

Verse 33

सगर्भादपि साहस्रं सध्यानो जप उच्यते । एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः । अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् । रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम्

内なる没入(真言を内に保持すること)をもって千回反復しても、それは禅観を伴うジャパであると言われる。これら五種のうち、力に応じて一つを行うべきである。ジャパの数え方はこう説かれる――指で数えるのは一つの基準、線を引いて数えるのは八倍、プトラジーヴァ(putrajīva)の珠で数えるのはそれよりさらに十多い。

Verse 35

शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् । स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते । पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते । कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत्

法螺の宝珠の数珠なら百と宣言され、珊瑚なら千と言われる。水晶(スファティカ)なら一万、真珠(マウクティカ)なら一ラク(十万)と称される。蓮の種(パドマークシャ)なら十ラク、黄金なら一クロール(一千万)と説かれる。だがクシャ草で結び、ルドラークシャの珠を用いる数珠では、功徳は無量に増大する――一切衆生の主宰パティたるシヴァの恩寵によって。

Verse 37

त्रिंशदक्षैः कृता माला धनदा जपकर्मणि । सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् । पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति । अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा

三十珠のマーラーは、ジャパに用いれば財を授ける。二十七珠は滋養と繁栄を与え、二十五珠は解脱(モークシャ)を授ける。だが十五珠のマーラーは、アビチャーラ(害をなす強制の呪法)の果をもたらす。

Verse 39

अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् । मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका । अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा । शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा

親指は解脱を授けるもの、示指は怨敵を滅するものと知るべし。中指は財を与え、薬指はまことに安寧をもたらす。この修法において、百八珠のマーラーは最上中の最上、百珠は優品、五十珠は中品とされる。

Verse 41

चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता । इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् । कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना । अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह

五十四珠のマーラーは、心に最も愛される最勝と説かれる。そのマーラーでジャパを行い、みだりに人に見せてはならない。小指は「クシャリニー」(功徳を漏らすもの)と呼ばれ、ジャパにはふさわしくない。ゆえに、親指で、他の指とともに(小指を除いて)真言を数えて唱えるべし。

Verse 43

अंगुष्ठेन विना जप्यं कृतं तदफलं यतः । गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः । पुण्यारण्ये तथारामे सहस्रगुणमुच्यते । अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम्

親指を用いて数えずに行うジャパは、果を結ばない。家でのジャパは平常の果、牛舎では百倍と知られる。聖なる森、また霊苑では千倍と説かれる。功徳ある山では一万倍、川の岸辺、あるいは川の水中では十万倍と宣言される。

Verse 45

कोटिं देवालये प्राहुरनन्तं मम सन्निधौ । सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च । विप्राणां च गवां चैव सन्निधौ शस्यते जपः । तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम्

寺院(デーヴァーラヤ)においてはジャパの功徳は一倶胝(クロール)倍となり、我が近くにおいては無量であると説かれる。太陽、火、グル、月、灯明、水の前、またブラーフマナと牛の前で行うジャパは称賛される。(いくつかの下位の目的では)東面はヴァシュヤ(服従させる法)、南面はアビチャーリカ(害をなす呪法)のためとされる。

Verse 47

पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् । सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ । अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् । उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः

西の方角は繁栄を授け、北の方角は安寧を授けると知るべきである。太陽、火、ブラーフマナ、諸デーヴァ、そして師(グル)の御前において、また他の者が近くにいて何かしていても、背を向けて真言のジャパを捨ててはならない。頭を覆い、上衣をまとい、姿勢を謙虚にし、髪をほどき、喉を覆ってジャパを行え。

Verse 49

अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् । क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे । दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि । आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह

身と行いが不浄な者は、嘆き泣きしながら、いかなる時もジャパをしてはならない。ジャパの最中は、怒り・酔い・くしゃみを避け、また唾を吐くこと、あくび、さらに犬や卑しい者どもの姿や交わりも避けよ。もしそれらが起こったなら、アーチャマナ(浄めのための儀礼的な啜水)を行い、そして「汝と共にある我がシャクティ」とともに、我を念じて再び続けよ。

Verse 51

ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् । अनासनः शयाने वा गच्छन्नुत्थित एव वा । रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे । प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा

聖なる光(灯火など)を見つめるか、あるいはプラーナの制御を修すべきである。適切な座を得ずしてジャパしてはならず、横になっても、歩きながらも、ただ立ったままでも行ってはならない。路上や不吉な場所、闇のただ中でジャパしてはならない。足を伸ばしても、またクックターサナ(鶏の坐法)に坐してもジャパしてはならない。

Verse 53

यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा । शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् । किमत्र बहुनोक्तेन समासेन वचः शृणु । सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते

乗り物に座していようと、床に臥していようと、あるいは不安の思いに心乱されていようと——力があるなら、これらの行をすべて完全に修すべきである。力が及ばぬなら、せめて自らの分に応じてジャパ(真言の反復)を行え。多言は要らぬ、要約して聞け:正しい行いを守り、清浄なるジャパを修し、禅定して観ずる者は、吉祥を得る。

Verse 55

आचारः परमो धर्म आचारः परमं धनं । आचारः परमा विद्या आचारः परमा गतिः । आचारहीनः पुरुषो लोके भवति निंदितः । परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत्

正しい行い(アーチャーラ)は最上のダルマ、正しい行いは最大の財である。正しい行いは至高の智であり、正しい行いは最高の到達である。行いを欠く人はこの世で非難され、来世においても安楽を得ない。ゆえに正しい行いに確立せよ。

Verse 57

यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः । तस्य तेन समाचारः सदाचारो न चेतरः । सद्भिराचरितत्वाच्च सदाचारः स उच्यते । सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम्

ヴェーダと、ヴェーダの聖仙たちが説いたシャーストラにより、人それぞれに定められた務めがある。その定めに即して行うことのみが真のサダाचार(sadācāra)—正しき善き行い—であり、他ではない。善人が実践するゆえにサダाचारと呼ばれる。またそのサダाचारの根本原因は、アースティキヤ(āstikya)—ヴェーダとシャーストラの権威、そしてそれらの内なる意味である主(シヴァ、パティ)への信—であると説かれる。

Verse 59

आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः । न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् । यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि । तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते

もし人がアースティカ(āstika)であり、不注意などがあってもサダाचार(sadācāra)から離れないなら、その人は常に汚れない。ゆえにアースティカター(āstikatā)—真の信念—に帰依すべきである。この世で楽と苦が善業と悪業から生じるように、彼岸においてもそれらは必ず存在する—この確定した理解をアースティキヤ(āstikya)という。

Verse 61

रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये । न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः । सदाचारविहीनस्य पतितस्यान्त्यजस्य च । पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे

愛しき者よ、さらに別の秘奥を語ろう—この教えは厳重に秘して守るべきである。誰彼かまわず語ってはならぬ。無信の者(ナースティカ)にも、獣のごとく生きる者にも、また正しい行いを欠く者、堕落した者、賤民にも語るべきではない。カリの世において、五音の真言(ナマハ・シヴァーヤ)より勝る帰依と救済はない。

Verse 63

गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः । अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः । अनाचारवतां पुंसामविशुद्धषडध्वनाम् । अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः

歩いていようと立っていようと、また自らの意のままに行為していようと—不浄であろうと清浄であろうと—この真言は決して無果とはならない。たとえ非行の者で、六道(ṣaḍadhvā)が未だ浄められておらず、しかも師(グル)から正式に授けられていなくとも、この真言はなお無駄にならない。

Verse 65

अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च । निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः । सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् । सिध्यत्येव न संदेहो नापरस्य तु कस्यचित्

最も卑しい者であっても、愚か者、迷える者、堕ちた者であっても—いや、恥を知らぬ卑賤の者であっても—この真言は決して無果ではない。いかなる境地にある者であれ、もし我に対する至上の帰依(バクティ)を具えるなら、必ず成就する—疑いはない。だがそれ以外の者には成就しない。

Verse 67

न लग्नतिथिनक्षत्रवारयोगादयः प्रिये । अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः । न कदाचिन्न कस्यापि रिपुरेष महामनुः । सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति

愛しき者よ、この事においてはラグナ、ティティ、ナクシャトラ、曜日、ヨーガ等を詮索する必要はない。この大真言は常にその七つの考慮に縛られない。いかなる時も誰の敵ともならない。すでに完全に成就していようと、成就していようと、なお成就すべきであろうと、必ず成功をもたらす。

Verse 69

सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते । असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः । असाधितस्साधितो वा सिध्यत्वेन न संशयः । श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ

成就した師より授けられた真言は「完全に成就した」と称される。たとえ未成就の者から授けられても、その本性により成就し得るのみである。未だ修されずとも、すでに修されても、成就へ導くことに疑いはない—とりわけ我に、真言に、師に対して篤い信を具える者において。

Verse 71

तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् १ धिकारतः । आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः । मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति । सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत

ゆえに賢き求道者は、欠陥を伴うものや自らの資格にそぐわぬ他の真言を捨て、最高の智、すなわち現前する五字真言(パンチャークシャリー)そのものに帰依すべきである。他の真言が成就していても、この真言はそれによって成就しない。だがこの大真言が成就すれば、他の真言もまた成就する。

Verse 73

यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि । मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः । ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि । अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात्

おおマヘーシュヴァリーよ、たとえ諸神を得たとしても、我は諸神によっては得られない。だが我が得られるとき、彼らすべても得られる。これらの真言についても規則は同じである。他の真言に属するいかなる欠陥も、この真言には生じない。なぜならこの真言は、カースト等の条件に依らず実践されるべきものだからである。

Verse 75

तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु । सहसा विनियुंजीत तस्मादेष महाबलः । उपमन्युरुवाच । एवं साक्षान्महादेव्यै महादेवेन शूलिना । हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा

それでも、ヨーギーは些細な果報のために、これを性急に用いてはならない。ゆえにこの修法/真言は大いなる力を具える。ウパマニュは言った――かくして三叉戟を執るマハーデーヴァは、諸世界の利益のため、マハーデーヴィーに直々に、五音(パンチャークシャラ)真言の正しい作法を、行ずべきとおりに説き示した。

Verse 77

य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः । सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम्

この教えを信愛をもって唱える者、あるいは心を一つにして聴聞する者は、あらゆる罪より解き放たれ、至上の境地—解脱を授ける主シヴァとの合一—に至る。

Frequently Asked Questions

It diagnoses why mantra-japa becomes fruitless—lack of guru authorization (ājñā), lack of proper procedure and faith, and omission of the intended dakṣiṇā—and then supplies the corrective sequence culminating in puraścaraṇa.

They function as both ethical purification and transmission-alignment: honoring the guru stabilizes humility and receptivity, while dakṣiṇā concretizes sincerity and non-exploitative participation in the mantra lineage, enabling siddhi rather than mere repetition.

The chapter privileges śuci (pure) and sacralized settings—riverbank, seashore, cowshed, temple, or a clean home—performed at siddhi-supporting tithis and auspicious nakṣatra-yogas free from defects, emphasizing deśa–kāla śuddhi.