
यमकिङ्करसंवादः (Yamakiṅkara-saṃvādaḥ)
Future Manvantaras
本章は、閻魔の使者ヤマキンカラ(Yamakiṅkara)と、ナラカ(地獄)で罰を受ける魂との対話を語る。衆生は業(カルマ)に従って報いを受け、刑罰の後には善悪の行いに応じて再び生を受ける。地獄の苦患を目の当たりにした王は深い慈悲に動かされ、業の法の厳正さを悟り、ダルマに帰依し悔い改めて善を積むことを諭す。
Verse 1
इति श्रीमार्कण्डेयपुराणे जडोपाख्याने यमकिङ्करसंबादो नाम चतुर्दशोऽध्यायः । पञ्चदशोऽध्यायः यमकिङ्कर उवाच । पतितात् प्रतिगृह्यार्थं खरयोनिṃ व्रजेद् द्विजः । नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥
かくして『聖マールカṇḍेय・プラーナ』のジャḍोपाख्यānaにおける第十四章「ヤマの使者たちの対話」は終わる。第十五章が始まる。ヤマの使者は言った。堕落者(patita)から財を受け取るバラモンは、驢馬の胎に入る。だが堕落者のために祭式(yajña)を執行する者は、地獄を出たのち虫となる。
Verse 2
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः । तज्जायां मनसावाञ्छन् तद्द्रव्यञ्चाप्यसंशयम् ॥
師に対して欺きや背信をなすバラモンは犬となる。心において師の妻を—また師の財をも—貪り求める者も、疑いなく同様に堕する。
Verse 3
गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः । मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥
祖先を辱める者は驢馬となる。また母と父を罵る者は、九官鳥(śārikā)として生まれる。
Verse 4
भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते । तामेव पीडयित्वा तु कच्छपत्वं प्रपद्यते ॥
兄弟の妻を辱める者は鳩の境涯に至り、さらにその女性を害し圧迫する者は亀の境涯に至る。
Verse 5
भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते । सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥
夫のために定められた piṇḍa(葬送・儀礼の供物)を食し、しかるべき分(自分の分または儀礼に定められた分)を受けない者、その迷妄の人は死後、猿として生まれる。
Verse 6
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः । असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥
託された預り物を盗む者は、地獄を出たのち虫として生まれる。嫉妬深い者は、地獄を出たのち羅刹(rākṣasa)となる。
Verse 7
विश्वासहन्ता च नरो मीनयोनौ प्रजायते । धान्यं यवांस्तिलान् माषान् कुलत्थान् सर्षपांश्चणान् ॥
信義を破る男は魚の胎内に生まれる。さらに穀物—大麦、胡麻、黒豆(black-gram)、馬豆(horse-gram)、芥子、ひよこ豆—を盗む者の報いは、次の偈に続いて説かれる。
Verse 8
कलायान् कलमान् मुद्गान् गोधूमानतसीस्तथा । शस्यान्यन्यानि वा हृत्वा मोहाज्जन्तुरचेतनः ॥
迷妄によって、豆(えんどう)、米(籾稲)、緑豆、麦、亜麻(flax)その他の作物を盗む者は、無分別の生類となる(具体の獣形は次の偈に示される)。
Verse 9
सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः । परदाराभिमर्षात्तु वृको घोरोऽभिजायते ॥
彼は大きな口をもつ鼠として生まれ、姿は褐色である。だが他人の妻を犯したゆえに、再生において恐るべき狼として生まれる。
Verse 10
श्वा शृगालो वको गृध्रो व्याडः कङ्कस्तथा क्रमात् । भ्रातृभार्यां च दुर्बुद्धिर्यो धर्षयति पापकृत् ॥
順次に、彼は犬、ジャッカル、鷺、禿鷲、蛇、そしてカンカ鳥となる。邪悪な心の悪行者で、兄弟の妻を犯す者は、このような生に堕ちる。
Verse 11
पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः । सखिभार्यां गुरोर्भार्यां राजभार्यां च पापकृत् ॥
その罪人は—地獄から再び堕ち戻って—雄のカッコウの身となる。友の妻、師の妻、あるいは王の妻を犯す者は、このような生を得る。
Verse 12
प्रधर्षयित्वा कामात्मा शूकरो जायते नरः । यज्ञ-दान-विवाहानां विघ्रकर्त्ता भवेत् कृमिः ॥
欲に駆られて(女を)犯した男は、猪として生まれる。祭祀(供犠)・施与・婚姻を妨げる者は、虫となる。
Verse 13
पुनर्दात् च कन्यायाः कृमिरेवोपजायते । देवता-पितृ-विप्राणामदत्वा योऽन्नमश्नुते ॥
また「処女を再び与える者」(すなわち kanyā-dāna〈処女施与〉の正しい規則を破る者)は、まことに虫として生まれる。神々・祖霊・バラモンに先に供えずに食を口にする者は(非難を受ける—文はこの行の先へ続く)。
Verse 14
प्रमुक्तो नरकात् सोऽपि वायसः सम्प्रजायते । ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ॥
彼もまた、地獄から解き放たれると烏として生まれる。すなわち、父に等しく敬うべき兄を侮る者である。
Verse 15
नरकात् सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते । शूद्रश्च ब्राह्मणारिं गत्वा कृमियोनौ प्रजायते ॥
地獄より再び堕して、彼もまたクラウンチャ鳥の胎に生まれる。さらに、バラモンの女に近づくシュードラは、虫の胎に生まれる。
Verse 16
तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् । शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते ॥
彼女に子をもうけさせたのち、彼は木の中の虫となる。さらに、猪、虫、マドグ(列挙に見える水生の生き物/鳥の一種)、そしてまたチャンダーラとしても生まれる。
Verse 17
अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः । कृतघ्रः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥
恩知らず—人のうち最も卑しき者—は、地獄から解き放たれると、虫、昆虫、蛾(翼ある虫)、そしてまた蠍として生まれる。
Verse 18
मत्स्यस्तु वायसः कूर्मः पुक्कसो जायते ततः । अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः ॥
その後、彼は魚、烏、亀、そしてプッカサとして生まれる。武器を持たぬ人を殺した者は、驢馬として生まれる。
Verse 19
कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते । भोजनं चोरयित्वा तु मक्षिका जायते नरः ॥
女を殺す者と子を殺す者とは、虫として生まれる。さらに食物を盗んだ男は、蠅として生まれる。
Verse 20
तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् । हत्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः ॥
この事においても、食物についての区別がまさにある—聞け。炊いた飯/調理した食を盗んだ者は、地獄より堕して猫となる。
Verse 21
तिलपिण्याकसम्मिश्रमन्नं हृत्वा तु मूषिकः । घृतं हृत्वा च नकुलः काको मद्गुरजामिषम् ॥
胡麻餅を混ぜた食を盗む者は鼠となる。ギー(精製バター)を盗む者はマングースとなる。madguの肉を盗む者は烏となる。
Verse 22
मत्स्यमांसापहृत् काकः श्येनो मार्गामिषापहृत् । वीची काकस्त्वपहृते लवणे दधनि कृमिः ॥
魚肉を盗む者は烏となり、獣肉(狩猟の肉)を盗む者は鷹となる。塩を盗む者はvīcīkāka(烏の一種)となり、凝乳(カード)を盗む者は虫となる。
Verse 23
चोरयित्वा पयश्चापि बलाका सम्प्रजायते । यस्तु चोरयते तैलं तैलपायी स जायते ॥
乳を盗む者は鷺(balākā)として生まれる。油を盗む者は「tailapāyī」すなわち油を飲む者として生まれる。
Verse 24
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः । चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥
蜜を盗む者は、来世に虻などの刺し噛む虫として再生し、菓子を盗む者は蟻として生まれる。だが niṣpāva(豆類の一種)を盗む者は、家に棲む生き物である gṛhagolaka(家屋の害虫・害獣)として生まれる。
Verse 25
आसवं चोरयित्वा तु तित्तिरित्वमवाप्नुयात् । अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥
āsava(醗酵酒)を盗めば、山鶉(partridge)の身となる。だが鉄を盗む罪人は、烏として生まれる。
Verse 26
हृते कांस्ये च हारीतः कपोतो रूप्यभाजने । हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥
青銅を盗めば、緑色で鸚鵡に似た鳥 hārīta として生まれる。銀の器を盗めば、鳩として生まれる。金の器具を盗めば、虫の胎、すなわち虫類として生まれる。
Verse 27
पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति । कोषकारश्च कौषेयॆ हृते वस्त्रेऽभिजायते ॥
patrorṇa(葉の繊維・植物繊維の布)を盗む者は、krakara という鳥となる。さらに絹衣を盗むなら、koṣakāra、すなわち蚕として生まれる。
Verse 28
दुकूले शार्ङ्गकः पापो हृते चैवांशुके शुकः । तथैवाजाविकं हृत्वा वस्त्रं क्षौमं च जायते ॥
上質の布 dukūla を盗めば、罪ある者は śārṅgaka という鳥として生まれる。軽衣 aṃśuka を盗めば、鸚鵡として生まれる。同様に、羊毛布 ājāvika を盗めば、kṣauma(亜麻布)に結びつく境遇として生を受ける。
Verse 29
कार्पासिके हृते क्रौञ्चो वल्कहर्ता बकस्तथा । मयूरो वर्णकान् हृत्वा शाकपत्रं च जायते ॥
木綿の布を盗む者は、来世にクラウンチャ(鶴・鷺に似た鳥)として生まれる。樹皮衣(ヴァルカ)を盗む者は、バカ(鷺)となる。染料・顔料を盗めば孔雀となり、葉菜を盗む者はシャーカパトラと呼ばれる生類となる。
Verse 30
जीवज्जीवकतां याति रक्तवस्त्रापहृन्नरः । छुच्छुन्दरीः शुभान् गन्धान् वासो हृत्वा शशो भवेत् ॥
赤い衣を盗む男は、ジーヴァज्जīヴァカ(ある種の鳥)となる。上等の香料・香水と衣服を盗む者は、チュッチュンダリー(トガリネズミ/野鼠)となる。衣を盗めば、野兎となる。
Verse 31
षण्डः फलापहरणात् काष्ठस्य घुणकीटकः । पुष्पापहृद् दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥
果実を盗めば、シャṇḍハ(宦官・不能者)となる。木材を盗めば、グフṇキータ(木を穿つ虫)となる。花を盗む者は貧しくなり、乗り物を盗む男は足萎え(びっこ)となる。
Verse 32
शाकहर्ता च हारीतस्तोयहर्ता च चातकः । भूर्हर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ॥
野菜を盗む者はハーリタ(緑の鳥)となり、水を盗む者はチャータカ(雨鳥)となる。だが土地を盗む者は、ラウラヴァ等の恐るべき地獄に赴いたのち、甚だしい苦を受ける。
Verse 33
तृण-गुल्म-लता-वल्ली-त्वक्सारतरुतां क्रमात् । प्राप्य क्षीणाल्पपापस्तु नरो भवति वै ततः ॥
草、低木、蔓草、藤、樹皮繊維の植物、そして樹木という諸状態を順次に経て、微細な罪が尽きた者は、まことに再び人間となる。
Verse 34
कृमिः कीटः पतङ्गोऽथ पक्षी तोयचरो मृगः । गोत्वं प्राप्य च चण्डालपुक्कसादि जुगुप्सितम् ॥
彼は虫となり、昆虫となり、やがて蛾となる。さらに鳥となり、水の生きものとなり、獣となる。牛としての生を得たのち、チャンダーラやプッカサなど、蔑まれる集団の中に生まれる。
Verse 35
पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः । मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥
彼は足なえとなり、盲となり、聾となる。さらに癩病に冒され、肺病に苦しめられる。また口の病、目の病、肛門の病にも悩まされる。
Verse 36
अपस्मारी च भवति शूद्रत्वं च स गच्छति । एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ॥
彼は癲癇(アパスマーラ)に罹り、シュードラの身分へと堕ちる。まさにこの順序は、牛と黄金を盗む者にも見られる。
Verse 37
विद्यापहारीणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः । जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन् ॥
知を盗む者、師への報謝(グル・ダクシナー)を失わせる者、そして他人の妻を他者の手に渡して占有させる男—これらは苛烈なる罪である。
Verse 38
प्राप्नोति षण्डतां मूढो यातनाभ्यः परिच्युतः । यः करोति नरो होममसमिद्धे विभावसौ ॥
迷える者が、火(ヴィバーヴァス)を正しく燃え立たせぬまま護摩を行うなら、しかるべき刑罰・苦患から外れ落ちたのち、不能(シャンḍハター)に至る。
Verse 39
सोऽजीर्णव्याधिदुःखार्तो मन्दाग्निः संप्रजायते । परनिन्दा कृतघ्रत्वं परमार्मावघट्टनम् ॥
彼は消化不良・病・苦痛に悩まされ、消化の火(アグニ)が弱まる。さらに他者への中傷、恩知らず、そして他者の最も痛む急所を傷つけることが生じる。
Verse 40
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् । परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥
粗暴さ、無慈悲、他人の妻との交わり、他人の財の盗み、不浄、そして神々を罵ること—これらはすべて非難される。
Verse 41
निकृत्या कञ्चनं नृणां कार्पण्यं च नृणां वधः । यानि च प्रतिषिद्धानि तत्प्रवृत्तिश्च सन्तता ॥
人々から黄金をだまし取ること、吝嗇、殺人、そして禁じられたあらゆる行為—それらに絶えず従事することも含め—は重大な過失として知られるべきである。
Verse 42
उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु । दया भूतेषु संवादः परलोकप्रतिक्रिया ॥
地獄から解き放たれた者の識別のしるしを知るべきである。すなわち、衆生への慈悲、和やかな言葉と交わり、そして来世を正しく顧みること(この生を超える結果を自覚して行うこと)。
Verse 43
सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् । गुरु देवर्षि सिद्धर्षिपूजनं साधुसङ्गमः ॥
真実であること。衆生の福利のために語られる言葉。ヴェーダを権威ある根拠として認めること。師(グル)と、天界の聖仙デーヴァリシ(devarṣi)、成就した聖仙シッダリシ(siddharṣi)を礼拝し敬うこと。さらに徳ある人々と交わること。
Verse 44
सत्क्रियाभ्यासनं मैत्रीमिति बुध्यते पण्डितः । अन्यानि चैव सद्धर्मङ्क्रियाभूतानि यानि च ॥
学識ある人は、善き行いの実践と親愛の情によって知られ、また善きダルマを成すと認められる他の諸行為によっても知られる。
Verse 45
स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् । एतदुद्देशतो राजन् भवतः कथितं मया ॥
王よ、罪なきにもかかわらず天界より堕ちた人々の徴(しるし)については、これだけを我は汝に簡略に説き示した。
Verse 46
स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा । तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना । त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम् ॥
功徳ある者も罪ある者も、ともに自らの業の果を受け味わう者である。さあ、他所へ行こう。汝はいまやすべてを見た。まことに汝はナラカ(地獄)を見たのだ。さあ、別の場所へ進もう。
Verse 47
पुत्र उवाच ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः । ततश्च सर्वैरुत्कृष्टं यातनास्थायिभिर्नृभिः ॥
子は言った。「そのとき王は彼を前に立たせて出立し、すると苦責を受けていた者たち皆が大声で叫び声を上げた。」
Verse 48
प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् । त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः ॥
「王よ、どうか御慈悲を——ほんのしばし留まってください。あなたの身に触れる風が、私たちの心を喜ばせるのです。」
Verse 49
परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः । अपहन्ति नरव्याघ्र यदां कुरु महीपते ॥
おお人中の虎よ、大地の主よ。あなたがここにとどまっておられるかぎり、灼けつく痛みとあらゆる苦悩の責めは、われらの四肢を去る。
Verse 50
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः । पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥
彼らの言葉を聞いて、王はヤマの従者に問うた。「私がここにとどまっているのに、彼らにはいかにしてこの歓喜が起こるのか。」
Verse 51
किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् । आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय ॥
「人界において、いかなる大いなる功徳を私が行ったために、この喜びをもたらす果が生じたのか。それを告げよ。」
Verse 52
यमपुरुष उवाच पितृदेवातिथिप्रैष्य-शिष्टेनान्नेन ते तनुः । पुष्टिमभ्यागता यस्मात्तद्गतं च मनो यतः ॥
ヤマプルシャは言った。「汝の身体は、しかるべき時にまず祖霊、神々、客人、僕・扶養される者、そして尊ぶべき者へと供えられた食によって養われた。ゆえに心もまた、その功徳へと向けられたのである。」
Verse 53
ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः । पापकर्मकृतो राजन् यातना न प्रबाधते ॥
それゆえ、王よ、汝の身に触れる風は歓喜を与えるものとなり、またその影響を受けるかぎり、罪をなす者でさえ苦痛の責めに圧されない。
Verse 54
अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः । ततस्त्वद्दर्शनाद्यामी यन्त्रशस्त्राग्निवायसाः ॥
「汝は規定に従い、アシュヴァメーダをはじめ諸々の供犠を正しく修した。ゆえに、ただ汝を見ただけで、ヤマの界の責め具・武器・火・苦しみを起こす風は制止される。」
Verse 55
पीडनच्छेददाहादिमहादुःखस्य हेतवः । मृदुत्वमागता राजन् तेजसापहता स्तव ॥
「大いなる苦しみの因—圧し潰し、切断、焼灼など—は、王よ、汝の光輝(テージャス)に押し退けられて和らいだ。」
Verse 56
राजोवाच न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः । यदार्तजन्तुनिर्वाणदानोत्थमिति मे मतिः ॥
王は言った。「人は天界においても、またブラフマローカにおいても得がたい幸福がある。それは苦しむ衆生に安堵と解放を施すことから生ずる幸福である—これが我が確信である。」
Verse 57
यदि मत्सन्निधावेतान् यातना न प्रबाधते । ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः ॥
「もし我が在ることによって、これらの者に責め苦が及ばぬのなら—麗しき面の者よ—我はここに柱のごとく不動に留まろう。」
Verse 58
यमपुरुष उवाच एहि राजन् प्रगच्छामो निजपुण्यसमर्जितान् । भुङ्क्ष्व भोगानपास्येह यातनाः पापकर्मणाम् ॥
ヤマの使者は言った。「来たれ、王よ。自らの功徳によって得た享楽へと進もう。ここでは、罪業をなした者たちの責め苦を見よ。」
Verse 59
राजोवाच तस्मान्न तावद्यास्यामि यावदेतॆ सुदुःखिताः । मत्सन्निधानात् सुखिनो भवन्ति नरकौकसः ॥
王は言った。「ゆえに、私の臨在によってこの極めて惨めな地獄の住人たちが安らぎを得るかぎり、私は去らない。」
Verse 60
धिक् तस्य जीवनं पुंसः शरणार्थिनमातुरम् । यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् ॥
「苦しむ者が庇護を求めて来るのに助けぬ人の命は恥である——たとえ敵方に属していようとも、まことに。」
Verse 61
यज्ञदानतपांसीह परत्र च न भूतये । भवन्ति तस्य यस्यार्तपरित्राणे न मानसम् ॥
「苦しむ者を守ろうと心を定めぬ人にとって、祭祀・布施・苦行は、この世においても来世においても、福祉へと導かない。」
Verse 62
नरस्य यस्य कठिनं मनो बालातुरादिषु । वृद्धेषु च न तं मन्ये मानुषं राक्षसो हि सः ॥
「子どもや病人など、また老人に対して心が冷酷な者を、私は人間とは見なさない。まことに彼は羅刹(ラークシャサ)である。」
Verse 63
एतेषां सन्निकर्षात् तु यद्यग्निपरितापजम् । तथोग्रगन्धजं वापि दुःखं नरकसम्भवम् ॥
「しかし、これらの者に近づくことによって、火の灼熱に焼かれて生じる痛み、あるいは恐るべき悪臭から生じる痛みが起こるなら、それもまた地獄に由来する苦しみである。」
Verse 64
क्षुत्पिपासाभवं दुःखं यच्च मूर्च्छाप्रदं महत् । एतेषां त्राणदानन्तु मन्ये स्वर्गसुखात् परम् ॥
飢えと渇きより生ずる苦しみ、また失神を招くほどの大いなる責め苦——これらに悩まされる衆生を救済することを、我は天界の歓楽にも勝るものと見なす。
Verse 65
प्राप्स्यन्त्यर्ता यदि सुखं बहवो दुःखिते मयि । किं नु प्राप्तं मया न स्यात् तस्मात् त्वं व्रज माचिरम् ॥
もし我が苦しみに留まるあいだに、多くの悩める衆生が安楽を得るなら、真実において我に得られぬものがあろうか。ゆえに汝らは行け—遅れるな。
Verse 66
यमपुरुष उवाच एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ । अवश्यं अस्माद् गन्तव्यं तस्मात् पार्थिव गम्यताम् ॥
ヤマの従者が言った。「ここにダルマとシャクラ(インドラ)が、汝を導くために来られた。ここより汝は必ず去らねばならぬ。ゆえに王よ、そのとおりにせよ—行け。」
Verse 67
धर्म उवाच नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः । विमानमेतदारुह्य मा विलम्बस्व गम्यताम् ॥
ダルマは言った。「汝は正しく我を敬い奉ったゆえ、我は汝を天界へ導こう。この天の車(ヴィマーナ)に乗れ。遅れるな—出立しよう。」
Verse 68
राजोवाच नरके मानवाः धर्म पीड्यन्तेऽत्र सहस्रशः । त्राहीति चार्ताः क्रन्दन्ति मामतो न व्रजाम्यहम् ॥
王は言った。「この地獄において、ダルマよ、人々はここで幾千と責め苦を受けている。苦しむ者らは『救ってくれ!』と叫ぶ。ゆえに我はここを去らぬ。」
Verse 69
इन्द्र उवाच कर्मणा नरकप्राप्तिरेतेषां पापकर्मिणाम् । स्वर्गस्त्वयापि गन्तव्यो नृप पुण्येन कर्मणा ॥
インドラは言った。「彼ら悪しき者どもは、自らの業によって地獄に至った。しかるに王よ、汝は功徳ある行いにより天界へ赴くべきである。」
Verse 70
राजोवाच यदि जानासि धर्म त्वं त्वं वा शक्र शचीपते । मम यावत् प्रमाणन्तु शुभं तद् वक्तुमर्हथः ॥
王は言った。「もし知っているなら、ダルマよ—あるいはシャチーの主たるシャクラよ—どうか我が吉祥なる功徳の量を告げてほしい。」
Verse 71
धर्म उवाच अब्बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः । यथा वा वर्षता धारा गङ्गायां सिकता यथा ॥
ダルマは言った。「大海の水滴のごとく、天空の星々のごとく、降り注ぐ雨の流れのごとく、ガンガーの砂粒のごとく—(そのように)…。」
Verse 72
असंख्येया महाराज यथा बिन्द्वादयो ह्यपाम् । तथा तवापि पुण्यस्य संख्या नैवोपपद्यते ॥
大王よ、水滴などが数え尽くせぬように、汝の功徳の数もまた、まったく定めることも算えることもできない。
Verse 73
अनुकम्पामिमामद्य नारकेष्विह कुर्वतः । तदेव शतसाहस्रं संख्यामुपगतं तव ॥
今日ここで、地獄にある者たちの中にあってこの慈悲を行じたことにより、その功徳は十万の数に達した(すなわち十万倍に増大した)。
Verse 74
तद्गच्छ त्वं नृपश्रेष्ठ तद्भाक्तुममरालयम् । एतेऽपि पापं नरके क्षपयन्तु स्वकर्मजम् ॥
ゆえに、王の中の最勝者よ、不死なる者たちの天上の住処へ赴き、それを享受せよ。これら他の者どもは地獄において、自らの業より生じた罪を尽くし終えるがよい。
Verse 75
राजोवाच कथं स्पृहां करिष्यन्ति मत्सम्पर्केषु मानवाः । यदि सत्सन्निधावेṣामुत्कर्षो नोपजायते ॥
王は言った。「人々は私と交わることで、いかにして善への憧れを育てようか。徳ある者の前にあってさえ、その向上が起こらぬというのに。」
Verse 76
तस्माद्यत् सुकृतं किञ्चिन्ममास्ति त्रिदशाधिप । तेन मुच्यन्तु नरकात् पापिनो यातनां गताः ॥
「ゆえに、三十神の主(インドラ)よ、私にあるいかほどかの小さき善業によって、苦罰に堕ちた罪人たちを地獄より解き放ちたまえ。」
Verse 77
इन्द्र उवाच एवमूर्ध्वतरं स्थानं त्वयावाप्तं महीपते । एतांश्च नरकात् पश्य विमुक्तान् पापकॄणः ॥
インドラは言った。「かくして、地の主よ、汝はさらに高き位を得た。見よ、これらの罪人は—地獄より解放された。」
Verse 78
पुत्र उवाच ततोऽपतत् पुष्पवृष्टिस्तस्योपरि महीपतेः । विमानञ्चाधिरोप्यैनं स्वर्लोकमनयद्धरिः ॥
子は言った。「そのとき、あの王の上に花の雨が降り注いだ。ハリは彼を天の車に乗せ、スヴァルガへと導いた。」
Verse 79
अहञ्चान्ये च ये तत्र यातनाभ्यः परिच्युताः । स्वकर्मफलनिर्दिष्टं ततो जात्यन्तरं गताः ॥
そして私と、そこでその責め苦から離れ得た他の者たちは、やがて自らの業(カルマ)の果により定められたとおり、別の生へと赴いた。
Verse 80
एवमेतॆ समाख्याता नरका द्विजसत्तम । येन येन च पापेन यां यां योनिमुपैति वै ॥
かくして、ああ二度生まれのうち最勝の者よ、これらの地獄は説き明かされた——また、いかなる罪がいかなる胎(再生の形)へと導くかも、まことに示された。
Verse 81
तत् तत् सर्वं समाख्यातं यथा दृष्टं मया पुरा । पुरानुभवजं ज्ञानमवाप्यावितथं तव । अतः परं महाभाग किमन्यत् कथयामि ते ॥
それらすべては、私が以前に見たとおりに説き明かした。先の経験から生じた知を得て——汝にとって真実なるものとして——この上、幸いなる者よ、さらに何を語れようか。
It analyzes proportional karmic causality: how particular violations—ritual deceit, betrayal, sexual misconduct, theft (itemized by commodity), and disrespect to elders—produce determinate naraka experiences and corresponding rebirth-forms, while compassion and dharmic intention can counteract suffering.
This Adhyāya is not structured as a Manvantara transition; instead it functions as an ethical-eschatological module within the broader Purāṇic frame, supplying a detailed karma–yoni taxonomy and a paradigmatic episode of merit-transfer through compassion.
It does not belong to the Devī Māhātmya (Adhyāyas 81–93) and contains no śākta stuti or Devī-centered battle narrative; its focus is dharmaśāstric ethics, naraka cosmology, and the salvific potency of puṇya expressed through compassion.