Sukta 8.13
स प्रथमे व्योमनि देवानां सदने वृधः । सुपारः सुश्रवस्तमः समप्सुजित् ॥
स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः । सु॒पा॒रः सु॒श्रव॑स्तम॒: सम॑प्सु॒जित् ॥
sá prathamé vyòmani devā́nāṃ sádane vṛdháḥ | supāráḥ suśrávastamaḥ sám apsujít ||
He, the increaser, is in the first wideness, in the seat of the gods; a good-farer across, most rich in true hearing and fame, a conqueror even in the waters (the subconscient depths).
सः । प्र॒थ॒मे । विऽओ॑मनि । दे॒वाना॑म् । सद॑ने । वृ॒धः । सु॒ऽपा॒रः । सु॒श्रवः॑ऽतमः । सम् । अ॒प्सु॒ऽजित् ॥सः । प्रथमे । विओमनि । देवानाम् । सदने । वृधः । सुपारः । सुश्रवःतमः । सम् । अप्सुजित् ॥saḥ | prathame | vi-omani | devānām | sadane | vṛdhaḥ | su-pāraḥ | suśravaḥ-tamaḥ | sam | apsu-jit