Sukta 8.13
इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् । विदे वृधस्य दक्षसो महान्हि षः ॥
इन्द्र॑: सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म् । वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥
índraḥ sutéṣu sómeṣu krátum punīta ukthyàm | vidé vṛdhásya dákṣaso mahā́n hí ṣáḥ ||
Indra, in the pressed Somes, purifies and clarifies the will-force that is fit for the hymn; for he knows—he is great—by the skill and power of the increaser.
इन्द्रः॑ । सु॒तेषु॑ । सोमे॑षु । क्रतु॑म् । पु॒नी॒ते॒ । उ॒क्थ्य॑म् । वि॒दे । वृ॒धस्य॑ । दक्ष॑सः । म॒हान् । हि । सः ॥इन्द्रः । सुतेषु । सोमेषु । क्रतुम् । पुनीते । उक्थ्यम् । विदे । वृधस्य । दक्षसः । महान् । हि । सः ॥indraḥ | suteṣu | someṣu | kratum | punīte | ukthyam | vide | vṛdhasya | dakṣasaḥ | mahān | hi | saḥ