Sukta 8.13
तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् । भवा नः सुम्ने अन्तमः सखा वृधे ॥
तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा॑य शु॒ष्मिण॑म् । भवा॑ नः सु॒म्ने अन्त॑म॒: सखा॑ वृ॒धे ॥
tám ahvé vā́jasātaye índraṃ bhárāya śuṣmíṇam | bhávā naḥ sumné ántamaḥ sákhā vṛdhé ||
Him I call—Indra, the mighty—for the winning of plenitude of force, for the bearing of our load: become for us the nearest friend in the happiness of thy grace, the increaser of our growth.
तम् । अ॒ह्वे॒ । वाज॑ऽसातये । इन्द्र॑म् । भरा॑य । शु॒ष्मिण॑म् । भव॑ । नः॒ । सु॒म्ने । अन्त॑मः । सखा॑ । वृ॒धे ॥तम् । अह्वे । वाजसातये । इन्द्रम् । भराय । शुष्मिणम् । भव । नः । सुम्ने । अन्तमः । सखा । वृधे ॥tam | ahve | vāja-sātaye | indram | bharāya | śuṣmiṇam | bhava | naḥ | sumne | antamaḥ | sakhā | vṛdhe