Sukta 7.21
देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि । इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥
दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि । इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥
devāś cit te asuryā́ya pū́rve ’nu kṣatrā́ya mamire sahā́ṃsi | índro maghā́ni dayate viṣáhya índraṃ vā́jasya johuvanta sātáu ||
Even the ancient gods, for thy lordly might, measured out strengths in accord with thy sovereign power. Indra grants the bounties that are hard to overcome; in the winning of plenitude of force they call Indra again and again.
दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि । इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥देवाः । चित् । ते । असुर्याय । पूर्वे । अनु । क्षत्राय । ममिरे । सहांसि । इन्द्रः । मघानि । दयते । विसह्य । इन्द्रम् । वाजस्य । जोहुवन्त । सातौ ॥devāḥ | cit | te | asuryāya | pūrve | anu | kṣatrāya | mamire | sahāṃsi | indraḥ | maghāni | dayate | vi-sahya | indram | vājasya | johuvanta | sātau