Sukta 7.21
कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः । अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥
की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरे॑: । अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥
kī́riś cid dhi tvām ávase juhā́veśā́nam indra sáubhagasya bhū́reḥ | ávo babhūtha śatamūte asmē abhikṣattús tvā́vato varūtā́ ||
For even the singer indeed calls thee for help, O Indra, the Master, for abundant felicity. Thou hast become our aid, O hundred-helped; a protecting guard to him who presses forward under thy power.
की॒रिः । चि॒त् । हि । त्वाम् । अव॑से । जु॒हाव॑ । ईशा॑नम् । इ॒न्द्र॒ । सौभ॑गस्य । भूरेः॑ । अवः॑ । ब॒भू॒थ॒ । श॒त॒म्ऽऊ॒ते॒ । अ॒स्मे इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । व॒रू॒ता ॥कीरिः । चित् । हि । त्वाम् । अवसे । जुहाव । ईशानम् । इन्द्र । सौभगस्य । भूरेः । अवः । बभूथ । शतम्ऊते । अस्मे इति । अभिक्षत्तुः । त्वावतः । वरूता ॥kīriḥ | cit | hi | tvām | avase | juhāva | īśānam | indra | saubhagasya | bhūreḥ | avaḥ | babhūtha | śatam-ūte | asme iti | abhi-kṣattuḥ | tvāvataḥ | varūtā