Sukta 7.21
अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि । स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥
अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि । स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥
abhí krátvendra bhū́r ádha jmánn á te vivyag mahimā́naṃ rájāṃsi | svénā hí vṛtráṃ śávasā jaghántha ná śátrur ántaṃ vividád yudhā́ te ||
By your will, O Indra, you became vast; then your greatness spread through the worlds. For by your own force you slew Vṛtra; no enemy has found the limit of your battle.
अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि । स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥अभि । क्रत्वा । इन्द्र । भूः । अध । ज्मन् । न । ते । विव्यक् । महिमानम् । रजांसि । स्वेन । हि । वृत्रम् । शवसा । जघन्थ । न । शत्रुः । अन्तम् । विविदत् । युधा । ते ॥abhi | kratvā | indra | bhūḥ | adha | jman | na | te | vivyak | mahimānam | rajāṃsi | svena | hi | vṛtram | śavasā | jaghantha | na | śatruḥ | antam | vividat | yudhā | te