Sukta 3.39
दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना । भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना । भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥
diváś cidā́ pū́rvyā́ jā́yamānā ví jā́gṛvir vidáthe śasyámānā | bhadrā́ vástrāṇy arjúnā vásānā sā́yám asmē saná-jā́ pitryā́ dhī́ḥ ||
Even from the heaven she is born, ancient yet ever-new; wakeful she widens in the session of seeking when she is voiced. Wearing auspicious bright raiment, this ancestral-born Insight—age-old in the fathers—becomes ours here.
दि॒वः । चि॒त् । आ । पू॒र्व्या । जाय॑माना । वि । जागृ॑विः । वि॒दथे॑ शस्यमा॑ना । भ॒द्रा । व॒स्त्रा॒णि । अर्जु॑ना । वसा॑ना । सा । इ॒यम् । अ॒स्मे इति॑ । स॒न॒ऽजा । पित्र्या॑ । धीः ॥दिवः । चित् । आ । पूर्व्या । जायमाना । वि । जागृविः । विदथे शस्यमाना । भद्रा । वस्त्राणि । अर्जुना । वसाना । सा । इयम् । अस्मे इति । सनजा । पित्र्या । धीः ॥divaḥ | cit | ā | pūrvyā | jāyamānā | vi | jāgṛviḥ | vidatheśasyamānā | bhadrā | vastrāṇi | arjunā | vasānā | sā | iyam | asme iti | sana-jā | pitryā | dhīḥ