Sukta 3.39
यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् । वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् । वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥
yamā́ cid átrā yama-sū́r asūta jihvā́yā ágraṁ pátadā́ hy ásthāt | vapū́ṃṣi jātā́ mithunā́ sacete tamó-hanā́ tápuso budhná étā ||
Even here, where the constraining twin-force was born, the tongue’s foremost point sprang forth and took its stand. The forms that are born as a paired power come to mutual union—these are the slayers of darkness, rooted in the deep foundation of Tapas (concentrated heat of will).
य॒मा । चि॒त् । अत्र॑ । यम॒ऽसूः । अ॒सू॒त॒ । जि॒ह्वाया॑ । अग्र॑म् । पत॑त् । आ । हि । अस्था॑त् । वपूं॑षि । जा॒ता । मि॒थु॒ना । स॒चे॒ते॒ इति॑ । त॒मः॒ऽहना॑ । तपु॑षः । बु॒ध्ने । आऽइ॑ता ॥यमा । चित् । अत्र । यमसूः । असूत । जिह्वाया । अग्रम् । पतत् । आ । हि । अस्थात् । वपूंषि । जाता । मिथुना । सचेते इति । तमःहना । तपुषः । बुध्ने । आइता ॥yamā | cit | atra | yama-sūḥ | asūta | jihvāyā | agram | patat | ā | hi | asthāt | vapūṃṣi | jātā | mithunā | saceteiti | tamaḥ-hanā | tapuṣaḥ | budhne | āitā