Sukta 3.39
इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति । या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य ॥
इन्द्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति । या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥
índraṁ matír hṛdá ā vacyámānā́cchā́ pátiṁ stóma-taṣṭā jigāti | yā́ jā́gṛvir vidáthe śasyámānéndra yát te jā́yate viddhí tásya ||
To Indra the fashioned hymn-thought, uttered from the heart, goes straight—toward the Lord. She, wakeful and luminous in the session of seeking, is proclaimed: O Indra, whatever is being born in thee (as response and power), know that as thine own manifestation within us.
इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ । या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥इन्द्रम् । मतिः । हृदः । आ । वच्यमाना । अच्छ । पतिम् । स्तोमतष्टा । जिगाति । या । जागृविः । विदथे । शस्यमाना । इन्द्र । यत् । ते । जायते । विद्धि । तस्य ॥indram | matiḥ | hṛdaḥ | ā | vacyamānā | accha | patim | stoma-taṣṭā | jigāti | yā | jāgṛviḥ | vidathe | śasyamānā | indra | yat | te | jāyate | viddhi | tasya