Sukta 10.21
त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव । कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥
त्वे ध॒र्माण॑ आसते जु॒हूभि॑: सिञ्च॒तीरि॑व । कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥
tvé dharmā́ṇā āsate juhū́bhiḥ siñcatī́r iva | kṛṣṇā́ rūpā́ṇy árjunā ví vo made víśvā ádhi śríyo dhiṣe vívakṣase ||
In you the laws of the working take their seat, as if poured by the ladles. You set in order the dark and the bright forms; in our rapture you dispose all the splendours upon their foundation, seeking to manifest them.
त्वे इति॑ । ध॒र्माणः॑ । आ॒स॒ते॒ । जु॒हूभिः॑ । सि॒ञ्च॒तीःऽइ॑व । कृ॒ष्णा । रू॒पाणि॑ । अर्जु॑ना । वि । वः॒ । मदे॑ । विश्वाः॑ । अधि॑ । श्रियः॑ । धि॒षे॒ । विव॑क्षसे ॥त्वे इति । धर्माणः । आसते । जुहूभिः । सिञ्चतीःइव । कृष्णा । रूपाणि । अर्जुना । वि । वः । मदे । विश्वाः । अधि । श्रियः । धिषे । विवक्षसे ॥tve iti | dharmāṇaḥ | āsate | juhūbhiḥ | siñcatīḥ-iva | kṛṣṇā | rūpāṇi | arjunā | vi | vaḥ | made | viśvāḥ | adhi | śriyaḥ | dhiṣe | vivakṣase