Sukta 10.21
त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः । वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥
त्वामु॒ ते स्वा॒भुव॑: शु॒म्भन्त्यश्व॑राधसः । वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥
tvā́m u te svābhúvaḥ śúmbhanty áśvarādhasaḥ | véti tvā́m upasécanī ví vo made ṛ́jītir agne ā́hutir vívakṣase ||
You indeed the self-becoming powers adorn, O Agni, rich in the swiftness of energy. Toward you goes the pouring approach; in our rapture the straight-going offering seeks to express itself to you.
त्वाम् । ऊँ॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः । वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥त्वाम् । ऊँ इति । ते । सुआभुवः । शुम्भन्ति । अश्वराधसः । वेति । त्वाम् । उपसेचनी । वि । वः । मदे । ऋजीतिः । अग्ने । आहुतिः । विवक्षसे ॥tvām | oṃ iti | te | su-ābhuvaḥ | śumbhanti | aśva-rādhasaḥ | veti | tvām | upa-secanī | vi | vaḥ | made | ṛjītiḥ | agne | āhutiḥ | vivakṣase