
सुकेशि-वरप्राप्तिः द्वादश-धर्म-वर्णनं सप्तद्वीप-प्रमाणं रौरवादि-नरक-निरूपणम् (Sukeśi-Varaprāptiḥ Dvādaśa-Dharma-Varṇanaṃ Saptadvīpa-Pramāṇaṃ Rauravādi-Naraka-Nirūpaṇam)
Cosmography of Seven Dvipas
Adhyāya 10 unfolds within the Pulastya–Nārada dialogue-frame: Nārada asks when, where, and why the rākṣasa Sukesha was cast down from the sky by Sūrya. Pulastya narrates Sukesha’s lineage (son of Vidyutkeśin) and his acquisition of an aerial city and near-invulnerability through Śaṅkara’s favor—an early marker of the Purāṇa’s syncretic theology, where Shaiva grace structures an asura’s worldly power. In the Māgadha forest Sukesha approaches perfected ṛṣis and inquires into “śreyas” and the defining marks of dharma. The sages respond with a typology of dharmas across twelve yonis (devas, daityas, siddhas, gandharvas, vidyādharas, kiṃpuruṣas, pitṛs, humans, rākṣasas, piśācas, etc.), integrating ritual action, svādhyāya, and bhakti to Viṣṇu, Hara, Bhāskara, and Devī. The chapter then pivots to cosmographic measurement: the seven dvīpas and encircling oceans in doubling proportions, culminating in Puṣkara-dvīpa and its raudra character. This topographical-cosmological mapping leads into a catalogue of twenty-one hells (beginning with Raurava), establishing a moral geography that links conduct (dharma/adharma) to post-mortem destinations.
Verse 1
इति श्रीवामनपुराणे दशमो ऽध्यायः नारद उवाच यदेतद् भवता प्रोक्तं सुकेशिनकरो ऽम्बरात् पातितो भुवि सूर्योण तत्कदा कुत्र कुत्र च
至此,《圣·婆摩那往世书》第十章终。那罗陀说道:“你所陈述者——苏利耶(日神)被苏计辛之手自空中击落于大地——此事发生于何时,又发生在何处(或何等处所)?”
Verse 2
सुकेशीति च कश्चासौ केन दत्तः पुरो ऽस्य च किमर्थं पातितो भूम्यामाकाशाद् भास्करेण हि
“那么,这位名为苏凯辛(Sukeśin)者究竟是谁?他的城邑(pura)由谁赐予?又因何缘故,婆斯迦罗(Bhāskara,太阳神)被从天空抛落到大地?”
Verse 3
पुलस्त्य उवाच/ शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् यथोक्तवान् स्वयंभूर्मां कथ्यमानां मयानघ
普拉斯提耶(Pulastya)说道:“无垢者啊,请专心聆听这则古老的传说。我将如同自生者斯瓦扬布(Svayambhū,梵天 Brahmā)昔日对我所说那样,为你叙述。”
Verse 4
आसीन्निशाचरपतिर्विद्युत्केशीति विश्रुतः तस्य पुत्रो गुणज्येष्ठः सुकेशिरभवत्ततः
曾有一位夜行者(罗刹、魔类)之主,名闻遐迩,号为维迪尤特凯沙(Vidyutkeśa)。其子德行最胜,继而诞生,名为苏凯辛(Sukeśin)。
Verse 5
तस्य तुष्टस्तथेशानः पुरमाकाशचारिणम् प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम्
因对他欢喜,伊沙那(Īśāna,湿婆 Śiva)赐予他一座能行于虚空的城邑,并赐福使其不可征服,甚至为敌所不能杀。
Verse 6
स चापि शङ्करात् प्राप्य वरं गगनगं पुरम् रेमे निशाचरैः सार्द्धू सदा धर्मपथि स्थितः
而他亦从商羯罗(Śaṅkara,湿婆 Śiva)得到了“行于天际之城”的恩赐,便与诸夜行者同享欢悦,却始终安住于达摩之道。
Verse 7
स कदाचिद् गतो ऽरण्यं मागधं राक्षसेश्वरः तत्राश्रमांस्तु ददृशो ऋषीणां भावितात्मनाम्
有一次,罗刹之主前往摩揭陀森林;在那里,他看见诸仙人(ṛṣi)之精舍(āśrama),其自性已由修行而陶冶成熟。
Verse 8
महर्षिन् स तदा दृष्ट्वा प्रणिपत्याभिवाद्य च/ प्रत्युवाच ऋषीन् सर्वान् कृतासनपरिग्रहः
当时,他见到诸大圣仙,便俯伏顶礼并致敬问安;继而就座,向一切仙人作答而陈述。
Verse 9
सुकेशिरुवाच प्रष्टुमिच्छामि भवतः संशयो ऽयं हृदि स्थितः कथयन्तु भवन्तो मे न चौवाज्ञापयाम्यहम्
苏给施(Sukeśi)说道:“我愿请问诸位;此疑久系我心。愿诸尊为我开示——我绝无不敬之意。”
Verse 10
किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तमाः केन पूज्यस्तथा सत्सु केनासौ सुखमेधते
“来世之中,究竟何者为至善?此世之中,又何者为至善?噫,诸最胜二生者(dvija)!凭何而于善人中受敬奉?又凭何而于安乐中兴盛?”
Verse 11
पुलस्त्य उवाच/ इत्थं सुकेशिवचनं निशम्य परमर्षयः प्रोचुर्विमृस्य श्रेयोर्ऽथमिह लोके परत्र च
普罗萨底耶(Pulastya)说道:“如是听闻苏给施之言,诸大圣仙沉思审察后,宣说关于至善之道——此世与彼世皆然。”
Verse 12
ऋष ऊचुः श्रूयतां कथयिष्यामस्तव राक्षसपुङ्गव यद्धि श्रेयो भवेद् वीर इह चामुत्र चाव्ययम्
The sages said: “Listen; we shall tell you, O foremost of the Rākṣasas, what indeed constitutes the highest good, O hero—(that good) which is imperishable both here and in the hereafter.”
Verse 13
श्रेयो धर्मः परे लोके इह च क्षणदाचर तस्मिन् समाश्रितः सत्सु पूज्यस्तेन सुखी भवेत्
Dharma is the highest good in the next world, and even here it should be practiced promptly. One who takes refuge in that (dharma), among the virtuous, becomes worthy of honor; by that he becomes happy.
Verse 14
सुकेशिरुवाच किंलक्षणो भवेद् धर्मः किमाचरणसत्क्रियः यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम्
Sukeśī said: What are the characteristics of dharma? What conduct and proper observances constitute it? That by taking refuge in which the gods and others do not fall into distress—please declare that.
Verse 15
ऋषय ऊचुः देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृता
The Ṛṣis said: The supreme dharma of the gods is always the performance of acts beginning with sacrifice (yajña). (It also consists in) self-study and mastery/knowing of the Veda, and delight in the worship of Viṣṇu—so it is remembered.
Verse 16
दैत्यानां बाहुशलित्वं मात्सर्यं युद्धसत्क्रिया वेदनं नीतिशास्त्राणां हरभक्तिरुदाहृता
For the Daityas, strength of arms, jealousy, and proper conduct in battle are stated (as their traits); knowledge of polity/treatises on statecraft, and devotion to Hara (Śiva), are also declared.
Verse 17
सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा
为悉达(Siddha)所宣说之法,是无上之瑜伽修持与戒律;亦包括自修诵习(svādhyāya)与对梵(Brahman)的证知;并有依此二者而坚固不移的奉爱(bhakti)。
Verse 18
उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वेदिता सरस्वत्यां स्थिरा भक्तिर्गान्धर्वो धर्म उच्यते
当知至上的礼拜为其特征;他们通晓舞蹈与诸乐器;对辩才天女萨拉斯瓦蒂(Sarasvatī)之奉爱恒定不移——此即所谓乾闼婆(Gandharva)之法。
Verse 19
विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः विद्याधराणां धर्मो ऽयं भवान्यां भक्तिरेव च
无比的持明者(Vidyādhara)之位、辨别之智(vijñāna)与坚毅果决之志——此即持明众之法;并且亦当具对婆伐尼(Bhavānī,女神)之奉爱。
Verse 20
गन्धर्वविद्यावेदित्वं भक्तिर्भानौ तथा स्थिरा कौशल्यं सर्वशिल्पानां धर्मः किंपुरुषः स्मृतः
通晓乾闼婆之学、对婆努(Bhānu,日神)之奉爱坚定不移,并精通一切技艺——此被忆念为金普鲁沙(Kiṃpuruṣa)之标志性法则。
Verse 21
ब्रह्मचर्यममानित्वं योगाभ्यासरतिर्दृढा सर्वत्र कामचारितवं धर्मो ऽयं पैतृकः स्मृतः
梵行(brahmacarya)、无我慢之谦卑(amānitva)、对瑜伽修习之坚固乐行,以及遍处随意往来之能力——此被忆念为派特利迦(Paitṛka,祖灵之类)之法。
Verse 22
ब्रह्मचर्यं यताशित्वं जप्यं ज्ञानं च राक्षस नियमाद्धर्मवेदित्वमार्थो धर्मः प्रचक्ष्यते
梵行(持戒清净)、节制饮食、诵持圣咒(japa)与智慧——噢,罗刹啊——凭借这些约束,便成为通达法(dharma)之人。所谓目的(artha)被宣示为:法。
Verse 23
स्वाध्यायं ब्रह्मचर्यं च दानं यजनमेव च अकार्पण्यमनायासं दयाहिंसा क्षमा दमः
自习圣典(svādhyāya)、梵行、布施与祭祀(yajña);不吝啬,勤行而不勉强,慈悲,不害(ahiṃsā),忍耐与自制(dama)。
Verse 24
जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरच्युते शङ्करे भास्करे देव्यां धर्मो ऽयं मानवः स्मृतः
制伏诸根、清净、吉祥之行,以及对阿周陀(Acyuta,毗湿奴)的虔敬;并敬奉商羯罗(Śaṅkara,湿婆)、婆斯迦罗(Bhāskara,太阳神)与女神(Devī)——此被忆念为人类之法(dharma)。
Verse 25
धनाधिपत्यं भोगानि स्वाध्यायं शकरर्चनम् अहङ्कारमशौण्डीर्यं धर्मो ऽयं गुह्यकेष्विति
对财富的主宰、享受诸乐(bhoga)、吠陀自习(svādhyāya)与礼敬商羯罗(Śaṅkara,湿婆);我慢(ahaṅkāra)以及不作夸耀的逞强——此被称为古希亚迦(Guhyaka)之法(dharma)。
Verse 26
परदारावमर्शित्वं पारक्येर्ऽथे च लोलुपा स्वाध्यायं त्र्यम्बके भक्तिर्धर्मो ऽयं राक्षसः स्मृतः
侵犯他人之妻、贪求他人之财、吠陀自习(svādhyāya)以及对三目主(Tryambaka,湿婆)的虔敬——此被忆念为罗刹(Rākṣasa)之法(dharma)。
Verse 27
अविवेकमथाज्ञानं शौचहानिरसत्यता पिशाचानामयं धर्मः सदा चामिषगृध्नुता
缺乏辨别、无明、失去清净、虚妄不实——此乃毗舍遮(Piśāca)之法(其特性之律);并且恒常贪求血肉。
Verse 28
योनयो द्वादशैवैतास्तासु धर्माश्च राक्षस ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः
此等确为十二种“生类/胎藏”(yoni,出生方式与种类)。在其中,噢罗刹啊,梵天所宣说之诸法皆具功德;其数亦为十二,并赐予相应之趣(gati,归趣与去处)。
Verse 29
सुकेशिरुवाच भवद्भिरुक्ता ये धर्माः शाश्वता द्वादशाव्ययाः तत्र ये मानवा धर्मास्तान् भूयो वक्तुमर्हथ
苏给施(Sukeśi)说道:诸位所说之法恒常不变——共十二种,且不毁坏。其中,愿诸位再为我详说那些属于人类之法。
Verse 30
ऋषय ऊचुः शृणुष्व मनुजादीनां धर्मास्तु क्षणदाचर ये वसन्ति महीपृष्ठे नरा द्वीपेषु सप्तसु
诸仙(Ṛṣi)曰:汝当谛听,噢夜行者(kṣaṇadācara)!当说人类等之法——即居于大地表面、七洲(dvīpa)之中的众人之法。
Verse 31
योजनानां प्रमाणेणन पञ्चाशत्कोटिरायता जलोपरि महीयं हि नौरिवास्ते सरिज्जले
以由旬(yojana)计量,大地延展至五十俱胝(koṭi)由旬。此地依止于水上,宛如一叶舟漂泊在河流之水势之中。
Verse 32
तस्योपरि च देवेशो ब्रह्म शौलेन्द्रमुत्तमम् कर्णिकाकारमत्युच्चं स्थापयामास सत्त्म
在其上,诸天之主梵天(Brahmā)安立至上之座,极其高峻,形如“karṇikā”(莲花花心、莲房)。
Verse 33
तस्येमां निर्ममे पुण्यां प्रजां देवश्चतुर्दिशम् स्थानानि द्वीपसंज्ञानि कृतवांश्च प्रजापतिः
由此安排,天神在四方创造了这吉祥的众生;而生主(Prajāpati)亦造作诸住处,名为“dvīpa”(岛状大陆、区域)。
Verse 34
तत्र मध्ये च कृतवाञ्जम्बूद्वीपमिति श्रुतम् तल्लक्षं योजनानां च प्रमाणेन निगद्यते
其中中央据说安立着阎浮提(Jambūdvīpa)。其尺度依标准度量而说,为十万由旬(yojana)。
Verse 35
ततो जलनिधी रौद्रो बाह्यतो द्विगुणः स्थितः तस्यापि द्विगुणः प्लक्षो बाह्यतः संप्रतिष्ठितः
其外有猛烈之大海,周匝而住,广度为其两倍。再外又安立朴叉洲(Plakṣa-dvīpa),亦为前者两倍。
Verse 36
ततस्त्विक्षुरसोदश्च बाह्यतो वलयासृतिः द्विगुणः शाल्मलिद्वीपो द्विगुणो ऽस्य महोदधेः
其后外侧为甘蔗汁之海,在外缘环绕成带。舍摩梨洲(Śālmalī-dvīpa)广度为两倍,而其大海又再加倍。
Verse 37
सुरोदो द्विगुणस्तस्य तस्माच्च द्विगुणः कुशः घृतोदो द्विगुणश्चैव कुशद्वीपात् प्रकीर्तितः
苏罗(surā,酒)之海为前一海的两倍。由此,俱舍洲(Kuśa-dvīpa)被称为其两倍之广;而酥油(ghṛta)之海亦宣说为俱舍洲的两倍。
Verse 38
घृतोदाद् द्विगुणः प्रोक्तः क्रौञ्चद्वीपो निशाचर ततो ऽपि द्विगुणः प्रोक्तः समुद्रो दधिसंज्ञितः
噫,尼沙遮罗(Niśācara)啊,鸠槃遮洲(Krauñca-dvīpa)被说为酥油之海的两倍。其外又有名为“达提”(Dadhi,凝乳/酸奶)之海,宣称亦为两倍之广。
Verse 39
समुद्राद् द्विगुणः शाकः शाकाद् दुग्धाब्धिरुत्तमः द्विगुणः संस्थितो यत्र शेषपर्यङ्कगो हरिः एते च द्विगुणाः सर्वे परस्परमपि स्थिताः
较彼海而言,娑迦洲(Śāka-dvīpa)为其两倍;而在娑迦之外,有最胜之乳海。于彼境界,哈利(Hari)安住其间,卧于舍沙(Śeṣa)之床。此诸界相互次第安置,皆以彼此倍增而成。
Verse 40
चत्वारिंशदिमाः कोट्यो लक्षाश्च नवतिः स्मृताः योजनानां राक्षसेन्द्र पञ्च चाति सुवुस्तृताः जम्बूद्वीपात् समारभ्य यावत्क्षीराब्धिरन्ततः
自阎浮洲(Jambūdvīpa)起,直至终末之乳海(Kṣīrābdhi),其广度被记为四十俱胝(koṭi)与九十洛叉(lakṣa)由旬(yojana),并另加五由旬——极其广大,罗刹之主啊。
Verse 41
तस्माच्च पुष्करद्वीपः स्वादूदस्तदनन्तरम् कोट्यश्चतस्रो लक्षाणां द्विपञ्चाशच्च राक्षस
其外复有补湿迦罗洲(Puṣkaradvīpa),其后紧接甘水海(Svādūdaka,甜水之海)。其广度为四俱胝(koṭi)与五十二洛叉(lakṣa)由旬,罗刹啊。
Verse 42
पुष्करद्वीपमानो ऽयं तावदेव तथोदधिः लक्षमण्डकटाहेन समन्तादिभिपूरितम्
这就是普什迦罗洲(Puṣkaradvīpa)的尺度;环绕其外之海亦同等广大——四周充盈,宛如以“十万(lakṣa)”之量注入一口巨大的“曼达迦锅釜(maṇḍaka-cauldron)”而满溢。
Verse 43
एवं द्वीपास्त्विमे सप्त पृथग्धर्माः पृथक्क्रियाः गदिष्यामस्तव वयं शृमुष्व त्वं निशाचर
如是,这七大洲各有不同的法(dharma,职责)与不同的行(kriyā,仪轨)。我们将为你宣说——听着吧,夜行者(niśācara)。
Verse 44
प्लक्षादिषु नरा वीर ये वसन्ति सनातनाः शाकान्तेषु न तेष्वस्ति युगावस्था कथञ्चन
勇士啊,居于普拉克沙(Plakṣa)等诸洲,直至娑迦洲(Śāka-dvīpa)的常住之人,于彼处绝无诸劫(yuga)之相,丝毫不现。
Verse 45
मोदन्ते देववत्तेषां धर्मो दिव्य उदाहृतः कल्पान्ते प्रलयस्तेषां निगद्येत महाभुज
他们如诸天般欢悦;其法(dharma)被宣称为神圣。至一劫(kalpa)之终,其溶解毁归(pralaya)被说必然发生,噢大臂者。
Verse 46
ये जनाः पुष्करद्वीपे वसन्ते रौद्रदर्शने पैशाचमाश्रिता धर्मं कर्मान्ते ते विनाशिनः
居于普什迦罗洲者——形貌可怖——依止于近似毗舍遮(piśāca,秽恶鬼类)之法与行,至其业(karma)之终、果报成熟时,必归于毁灭。
Verse 47
सुकेशिरुवाच किमर्थं पुष्कद्वीपो भवद्भिः समुदाहृतः दुर्दर्शः शौचरहितो घोरः कर्मान्तनाशकृत्
苏克希说道:“你们为何提到普什迦洲(Puṣkadvīpa)——其景难以直视,缺乏清净,令人怖畏,并在业报终尽之际招致毁灭?”
Verse 48
तस्मिन् निशाचर द्वीपे नरकाः सन्ति दारुणाः रौरवाद्यास्ततो रौद्रः पुष्करो घोरदर्शनः
在那夜行者(niśācara)之岛上,有诸多惨烈的地狱——以“劳罗婆”(Raurava)为首。因此普什迦罗被称为“劳陀罗”(Raudra,凶烈),其相可怖,令人不敢直视。
Verse 49
सुकेशिरुवाच कियन्त्येतानि रौद्राणि नरकाणि तपोधनः कियन्मात्राणि मार्गेण का च तेषु स्वरूपता
苏克舍因说道:“噢,具足苦行之财的圣者(tapodhana),这些可怖的地狱共有多少?沿途其延展范围如何?其形相与性质又是怎样?”
Verse 50
ऋषय ऊचुः शृणुष्व राक्षसश्रेष्ठ प्रमाणं लक्षणं तथा सर्वेषां रौरवादीनां संख्या या त्वेकविंशतिः
诸仙贤说道:“听着,噢,罗刹中之最胜者,当知其尺度与特征。一切地狱自‘劳罗婆’(Raurava)起,总数为二十一。”
Verse 51
द्वे सहस्रे योजनानां ज्वलिताङ्गारविस्तृते रौरवो नाम नरकः प्रथमः परिकीर्त्तितः
其广延二千由旬,遍布炽燃之余烬;名为“劳罗婆”(Raurava)的地狱被宣说为第一。
Verse 52
तप्तताम्रमयी भूमिरधस्ताद्वाह्नितापिता द्वितीयो द्विगुस्तस्मान्महारौरव उच्यते
其下为炽热铜所成之地,受火焚灼。第二地狱较前者严酷加倍,名为“摩诃劳罗婆”(Mahāraurava)。
Verse 53
ततो ऽपि द्विःस्थितश्चान्यस्तमिस्रो नरकः स्मृतः अन्धतामिस्रको नाम चतुर्थो द्विगुमः परः
更在其后,另有一狱,严酷亦加倍,称为“昏暗狱”(Tamisra)。再者,第四狱更增二倍之烈,名为“盲昏暗狱”(Andhatāmisra)。
Verse 54
ततस्तु कालचक्रेति पञ्चमः परिगीयते अप्रतिष्ठं च नरकं घटीयन्त्रं च सप्तमम्
继而,第五狱被歌咏为“迦罗轮”(Kāla-cakra,“时间之轮”)。又有名为“无立处狱”(Apratiṣṭha)的地狱,第七则称“伽提机轮狱”(Ghaṭī-yantra)。
Verse 55
असिपत्रवनं चान्यत्सहस्राणि द्विसप्ततिः योजनानां परिख्यातमष्टमं नरकोत्तमम्
又有一狱名“阿西帕特罗婆那”(Asipatravana),以广达七万二千由旬而著称;被宣示为第八狱,乃诸狱之要者。
Verse 56
नमकं तप्तकुम्भं च दशमं कूटशाल्मलिः करपत्रस्तथैवोक्तस्तथान्यः श्वानभोजनः
(又有地狱)名为“那摩迦”(Namaka)与“炽锅狱”(Taptakumbha);第十狱为“库塔沙尔摩梨”(Kūṭaśālmali)。亦提及“迦罗帕特罗”(Karapatra),另有“犬食狱”(Śvānabhojana)。
Verse 57
संदंशो लोहपिण्डश्च करम्भसिकता तथा घोरा क्षारनदी चान्या तथान्यः कृमिभोजनः तथाष्टादशमी प्रोक्ता घोरा वैतरणी नदी
(亦有诸地狱)名为Saṃdaṃśa与Lohapiṇḍa,以及Karambhasikatā;另有可怖者为Kṣāranadī(腐蚀之河),又有Kṛmibhojana。如此,第十八处被宣说为可畏的Vaitaraṇī之河。
Verse 58
तथापरः शोणितपूयभोजनः क्षुराग्रधारो निशितश्च चक्रकः संशोषणो नाम तथाप्यनन्तः प्रोक्तास्तवैते नरकाः सुकेशिन्
“并且还有其他地狱:Śoṇitapūyabhojana(‘食血与脓’)、Kṣurāgradhāra(‘刃锋如剃刀之流’)、Niśita-cakraka(‘利轮/利盘之处’)。又有Saṃśoṣaṇa,以及Ananta。苏克西(Sukeśī)啊,这些地狱已如是向你宣说。”
The sages define dharma through multiple, co-valid modalities—yajña and svādhyāya alongside bhakti—explicitly naming devotion to Viṣṇu (Acyuta/Hari) and to Śiva (Śaṅkara/Tryambaka), and also including Bhāskara and Devī. Sukesha’s power itself is grounded in Śaṅkara’s boon, while the ethical taxonomy treats multi-deity devotion as a legitimate component of right conduct, reflecting the Purāṇa’s syncretic theology rather than sectarian exclusivity.
The chapter gives a concentric cosmography of the seven dvīpas—Jambū, Plakṣa, Śālmali, Kuśa, Krauñca, Śāka, and Puṣkara—each paired with surrounding oceans whose dimensions are described in doubling proportions, extending outward up to the Kṣīrābdhi (Milk Ocean) where Hari is depicted resting on Śeṣa. Puṣkara-dvīpa is singled out for its raudra character and proximity to naraka-imagery, linking cosmic space to moral consequence.
As an extension of moral geography, the sages enumerate a set of twenty-one narakas beginning with Raurava (and Mahāraurava), followed by Tāmisra and Andhatāmisra, and further punitive realms such as Kāla-cakra, Asipatravana, Taptakumbha, Kūṭaśālmali, Śvānabhojana, Kṣāra-nadī, Kṛmibhojana, and the Vaitaraṇī river, among others. The list functions as a consequence-map: adharmic conduct is spatially encoded into specific post-mortem destinations.