
伊湿伐罗讲述普拉婆娑附近一处著名圣地(tīrtha),尤以其西部地带最为殊胜,因众多大圣仙在此修行而闻名。经文列举安吉罗萨、乔达摩、阿迦斯提耶、毗湿瓦密多罗、婆悉吒与阿伦达蒂、婆利古、迦叶、那罗陀、帕尔瓦塔等诸ṛṣi,他们以严峻苦行、摄心制欲与专注禅定,志在证得永恒的梵天世界。 其后发生大旱与饥馑。乌帕里恰罗王献上谷粮与珍宝,辩称婆罗门受施乃无可指摘的生计;诸圣仙却坚拒不受,指出王赐之物潜藏伦理之险,贪欲更会令灵性堕落。多位ṛṣi阐明教义,抨击积聚(sañcaya)与渴爱(tṛṣṇā),赞叹知足与不受不当资助。 国王使者又在乌冬婆罗树旁散布“金胎”宝藏,圣仙仍再度拒绝并离去。众人抵达一座莲华遍满的大湖,沐浴后采集莲茎(bīsa)充饥。游行苦行者舜诺穆卡夺取莲茎以引发法义问答;圣仙相互立誓/诅咒,界定盗者的道德败坏。舜诺穆卡随即显现为普兰达罗(因陀罗),称赞他们无贪之德乃不坏世界之根本。 诸圣仙遂请求设立此地仪轨:凡来此者若守净戒,三夜断食,沐浴,向祖先行tarpaṇa并修作śrāddha,即得等同一切圣地之功德,免堕下趣,并得与天众同游之福。
Verse 1
ईश्वर उवाच । ततो गच्छेन्महादेवि तीर्थं त्रैलोक्यविश्रुतम् । तस्यैव पश्चिमे भागे ऋषीणां पुण्यकर्मणाम्
自在天(Īśvara)说道:“随后,噢大女神,应前往一处名闻三界的圣渡口(tīrtha)。在其西侧,有诸行清净功业之仙圣(ṛṣi)之所……”
Verse 2
तस्मिंस्त्रिनेत्रा मत्स्याश्च दृश्यंतेऽद्यापि भामिनि । अंगिरा गौतमोऽगस्त्यः सुमतिः सुसखिस्तथा
在那片圣洁之地,噢爱姬,直至今日仍可见额具“三眼”之鱼。彼处亦有仙圣阿ṅgiras、Gautama、Agastya、Sumati与Susakhi等居止。
Verse 3
विश्वामित्रः स्थूलशिराः संवर्त्तः प्रतिमर्द्दनः । रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः
毗湿瓦密多罗(Viśvāmitra)、粗首(Sthūlaśiras)、三伐尔塔(Saṃvarta)、摧敌(Pratimardana)、赖毗耶(Raibhya),以及布里哈斯帕提(Bṛhaspati)——并同赤瓦那(Cyavana)、迦叶波(Kaśyapa)与婆利古(Bhṛgu)——皆在彼处。
Verse 4
दुर्वासा जामदग्न्यश्च मार्कंडेयोऽथ गालवः । उशनाऽथ भरद्वाजो यवक्रीतस्त्रितस्तथा
杜尔婆娑(Durvāsas)、阇摩达格尼耶(Jāmadagnya)、摩尔甘ḍेय(Mārkaṇḍeya),继而伽罗婆(Gālava);同样还有乌舍那(Uśanā)、婆罗堕阇(Bharadvāja)、耶婆克利多(Yavakrīta)以及提利多(Trita)也在彼处。
Verse 5
नारदः पर्वतश्चैव वसिष्ठोऽरुंधती तथा
那罗陀与帕尔瓦塔,亦有圣仙婆悉吒——并同阿伦达蒂——也都在彼处。
Verse 6
काण्वोऽथ गौतमो धौम्यः शतानन्दोऽकृतव्रणः । जमदग्निस्तथा रामो बकश्चेत्येवमादयः । कृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः
随后又有迦ṇ婆、瞿昙、陀乌弥耶、舍多难陀与阿克利塔弗拉那;又有阇摩达格尼、罗摩与婆迦等诸圣仙。黑天·岛生者(毗耶娑)亦至,偕其诸子与弟子同来。
Verse 7
एतत्क्षेत्रं समा साद्य प्रभासं मुनिसत्तमाः । तपस्तेपुर्महात्मानो विविधं परमाद्भुतम्
诸最胜牟尼既至此圣域——普罗婆娑——诸大灵者修行种种苦行,其威德奇妙无比。
Verse 8
एवं ते नियतात्मानो दमयुक्तास्तपस्विनः । समाधिना जिगीषन्ते ब्रह्मलोकं सनातनम्
如是诸苦行者自制其心、具足调御,以三摩地求胜过世缚,趋入永恒的梵天界(Brahmaloka)。
Verse 9
अथाभवदनावृष्टिः कदाचिन्महती प्रिये । कृच्छ्रं प्राप्तो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः
其后某时,亲爱的啊,忽有大旱,久无甘霖。于是彼处众生尽陷困厄,为饥饿所逼恼。
Verse 10
ततो निरन्ने लोकेऽस्मिन्नात्मानं ते परीप्सवः । मृतं कुमारमादाय कृच्छ्रं प्राप्तास्तदाऽपचन्
随后,当此世间陷于无粮之境时,那些为保全自身性命的人,抱起一名已死的男童;在极度困厄之中,他们当时竟将其烹煮。
Verse 11
अथोपरिचरस्तत्र क्लिश्यमानान्हि तानृषीन् । दृष्ट्वा राजा वृषादर्भिः प्रोवाचेदं वचस्तदा
于是,乌帕里恰罗王见彼处诸仙人确在受苦,便手持“公牛与达尔婆草”(vṛṣa-darbha)等仪式象征,于彼时说出如下言辞。
Verse 12
राजोवाच । प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिंदिता । तस्मात्प्रतिग्रहं मत्त गृह्णीध्वं मुनिपुंगवाः
国王说道:“婆罗门以受施为无可指摘的生计。是故,诸位最胜牟尼啊,请从我这里受此供施。”
Verse 13
मुद्गान्माषांश्च व्रीहींश्च तथा रत्नानि कांचनम् । युष्माकं संप्रदास्यामि यच्चान्यदपि दुर्ल्लभम् । निवर्त्तध्वमतः सर्वे ह्येतस्मात्पातकात्परम्
“我将赐予你们绿豆、黑豆与稻米,并赐珠宝与黄金——以及一切难得之物。故你们众人当回转;因为此施舍,确是超越此罪的方便之道。”
Verse 14
ऋषय ऊचुः । तज्जानंतः कथं राजन्गृह्णीमस्ते प्रतिग्रहम्
诸仙人说道:“既已知晓那真相,大王啊,我们怎能接受您的赠施?”
Verse 15
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी । दशध्वजि समा वेश्या दशवेश्यासमो नृपः
乘战车的武士,其罪等同十个屠夫;执旗者等同十个战车武士;娼妓等同十个执旗者;而国王等同十个娼妓。
Verse 16
यो राज्ञां प्रतिगृह्णाति ब्राह्मणो लोभमोहितः । तामिस्रादिषु घोरेषु नरकेषु स पच्यते
那被贪欲迷惑而接受诸王馈赠的婆罗门,将在如“黑暗地狱”(Tāmisra)等可怖地狱中受煎熬,如同被烹煮。
Verse 17
तद्गच्छ कुशलं तेऽस्तु सह दानेन पार्थिव । अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः
于是他们说:“去吧——愿你安泰,连同你的布施在内,噢大王。此物当施与他人。”说罢,他们便入林而去。
Verse 18
अथ राज्ञः समादेशात्तत्र गत्वा च मंत्रिणः । ऊदुम्बराणि व्यकिरन्हेमगर्भाणि भूतले
随后奉国王之命,大臣们前往那里,将内藏黄金的优昙婆罗果散撒于地。
Verse 19
अथ तानि व्यचिन्वंश्च ऋषयो वरवर्णिनि । गुरूणीति विदित्वा तु न ग्राह्याण्यंगिराऽब्रवीत्
随后诸仙开始拾取它们,噢肤色皎美者;但当明白这些财物“沉重”——负载着重大过失——时,安吉罗(Aṅgirā)说道:“不可受取。”
Verse 20
अत्रिरुवाच । नास्महेनास्महे मूढ वयमज्ञानबुद्धयः । हैमानीमानि जानीमः प्रतिबुद्धाः स्म जाड्यतः
阿特里说道:“愚人啊,我们并非真正的智者;我们的知见仍在无明之中。我们曾认这些为黄金,如今已从迟钝迷昧中觉醒。”
Verse 21
वसिष्ठ उवाच । धर्मार्थं संचयो यस्य द्रव्याणां स न शस्यते । तपःसंचयनं मन्ये वसिष्ठो धनसंचयम्
婆悉吒说道:“那只以‘为达摩’之名而聚敛财物的人,并非真正可赞。吾婆悉吒以为,积聚苦行之力(tapas)胜过积聚财富。”
Verse 22
त्यजध्वं संचयान्सर्वाञ्जातीनां समुपद्रवान् । न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः
当舍弃一切囤积,因为它会成为各阶层众生的苦患之因。诚然,凡好积聚者,从未见其能常离诸难。
Verse 23
यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम् । तथातथाऽनिशं चास्य ब्रह्मतेजस्तु वर्धते
婆罗门越是拒受不正当的供施,他的灵性光辉——即梵(Brahman)之威光——便越是不断增长。
Verse 24
अकिंचनत्वं राज्यं च तुलया समतोलयम् । अकिंचनत्वमधिकं राज्यादपि न संशयः
我以同一秤衡量无所有(akincana)与王权;而无所有竟胜过王权——毫无疑问。
Verse 25
कश्यप उवाच । अनर्थो ब्राह्मणस्यैष यदर्थनिचयो महान् । अर्थैश्वर्यविमूढोऽपि श्रेयसो भ्रश्यते द्विजः
迦叶仙人说:婆罗门若大量聚敛财宝,实为灾祸。被财富与权势所迷惑,二次出生者便从至善之道上堕落。
Verse 26
अर्थसंपद्विमोहाय बहुशोकाय चैव हि । तस्मादर्थमनर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत्
物质的兴盛确实引人迷惑,并带来诸多忧苦。因此,求至上善者,应当远远舍弃那被称为“财富”而实为不幸之物。
Verse 27
यस्य धर्मार्थमप्यर्थास्तस्यापि न हि दृश्यते । प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम्
即便有人声称财富是为护持法(dharma),也仍难见安稳。与其洗去泥污,不如从远处就不去触碰。
Verse 28
भरद्वाज उवाच । जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः । चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते
婆罗堕阇说:人既衰老,发亦衰老;人既衰老,齿亦衰老。眼与耳也会败坏——唯有渴爱(tṛṣṇā)独不衰减。
Verse 29
सूची सूत्र तथा वस्त्रे समानयति सूचिका । तद्वत्संसारसूत्रस्य तृष्णा सूची विधीयते
正如针将线与布牵合在一起,渴爱(tṛṣṇā)亦被安立为那根针,缝合着轮回(saṃsāra)之线。
Verse 30
यथा शृंगं रुरोः काये वर्द्धमाने हि वर्द्धते । अनंतपारा दुर्वारा तृष्णा दुःखप्रदा सदा । अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्
如鹿角随其身躯增长而增长,贪欲亦随人生而滋长。渴爱无岸,难以制伏,恒常带来苦恼;且多生于非正法(adharma),故当舍离之。
Verse 31
गौतम उवाच । संतुष्टः को न शक्नोति फलैश्चापि हि वर्त्तितुम् । सर्वोऽपींद्रियलोभेन संकटान्यभिगाहते
乔达摩曰:心知足者,谁不能即便以果实为食而安住?然众生因诸根贪欲,皆沉入种种困厄。
Verse 32
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् । उपानद्गूढपादस्य ननु चर्मावृतेव भूः
心满意足者,处处皆得福资与安泰。诚然,足履草鞋而护其足之人,犹如大地尽被皮革所覆。
Verse 33
संतोषामृततृप्तानां यत्सुखं शांतचेतसाम् । कुतस्तद्धनलुब्धानां सुखं चाशांतचेतसाम्
心寂而安、以知足甘露而饱足者所享之乐,岂能同样属于贪恋财物、心不宁静之人?
Verse 34
विश्वामित्र उवाच । कामं कामयमानस्य यदि कामः स सिद्ध्यति । तथैनमपरः कामो भूयो विध्यति बाणवत्
毗湿瓦密多罗曰:纵使渴求欲望者之欲得以成就,另一欲望仍将一次又一次地射中他,如箭矢一般。
Verse 35
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते
对欲乐的贪求,绝不会因沉溺欲乐而止息;如同以供献之物添燃的火焰,只会愈加炽盛。
Verse 36
कामानभिलषन्लोभान्न नरः सुखमेधते । समालभ्य तरुच्छायां भवनं वाञ्छो नरः
人若因贪而不断追逐欲乐,便不能增长安乐;纵已到树荫之下,仍又渴望一所房舍。
Verse 37
चतुःसागरसंयुक्तां यो भुंक्ते पृथिवीमिमाम् । एकस्तु वनवासी च स कृतार्थो न पार्थिवः
纵使国王统御这被四海环绕的大地,真正圆满的并非世间君主;唯有独居林野的行者才是成就者。
Verse 38
जमदग्निरुवाच । प्रतिग्रहसमर्थो यस्तपो वर्द्धयते महान् । न करोति तपस्तस्य जायते च सहस्रधा
阇摩达伽尼说道:能受供养而身为大德,却增长苦行而不受者,其苦行之力(tapas)生起,并千倍增盛。
Verse 39
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् । य एव ददतां लोकास्त एवाप्रतिगृह्णताम्
对于本可受施而止于不受者,施者所能到达的诸天之界,不受者亦同样得至。
Verse 40
अरुंधत्युवाच । बिसतंतुर्यथा नित्यं समंतान्नालसंस्थितः । तृष्णा चैवमनाद्यंता तथा देहाश्रिता सदा
阿伦达蒂说:正如莲丝恒常遍布于莲茎之中,渴爱(tṛṣṇā)亦无始无终,常常依附于此身而不离。
Verse 41
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम्
那渴爱,迷妄之人难以舍离;纵使人身渐老,它亦不衰——此乃断命之疾。能弃除此渴爱者,方得安乐。
Verse 42
चंडोवाच । उग्रात्प्रतिग्रहाद्यस्माद्बिभ्यत्येते महेश्वराः । बलीयांसो दुर्बलवत्तथा चैव बिभेम्यहम्
旃陀说:“由于凶猛而不如法地受取供施,连这些强大的大自在天(摩醯湿伐罗) भक्त 也心生畏惧。虽有力,却如弱者般战栗——我亦因此而惧。”
Verse 43
पशुमुख उवाच । यदाचरंति विद्वांसः सदा धर्मपरायणाः । तदेव विदुषा कार्यमात्मनो हितमिच्छता
帕舒穆卡说:“凡诸智者恒常依止正法(dharma)而行之事,求自身真实利益的明智之人,也当唯行其事。”
Verse 44
ईश्वर उवाच । इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि च । ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः
自在天(Īśvara)说:“如是言毕,诸仙(ṛṣi)皆坚固其誓愿,舍下那些金色之果,往他处而去。”
Verse 45
ततस्ते विचरंतो वै ददृशुः सुमहत्सरः । पद्मिनीभिः समाकीर्णं सर्वतो वरवर्णिनि
随后他们继续行走,便望见一座极其广大的湖泊,四面遍布莲丛,啊,肤色姣美的女士。
Verse 46
तस्मिन्देशे तदा प्राप्तः परिव्राजः शुनोमुखः । तेनैव सहितास्तत्र स्नाताः सर्वे महर्षयः
就在那处,当时游行的苦行者尸奴目迦(Śunomukha)来到;与他同在,诸位大圣贤也都在此沐浴。
Verse 47
तत्रावतारं कृत्वा तैर्गृहीतानि बिसानि तु । निक्षिप्य सरसस्तीरे चक्रुः पुण्यां जलक्रियाम्
他们在此下入水中,采集莲茎(bisāni);把它们放在湖岸上,遂行清净增福的水仪。
Verse 48
अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम् । बिसानि तान्यपश्यंत इदं वचनमब्रुवन्
随后他们从那水中上来,彼此聚集;不见那些莲茎,便说出了这番话。
Verse 49
ऋषय ऊचुः । केन क्षुधाभितप्तानामस्माकं पापकर्मणा । बिसानि तानि सर्वाणि हृतानि च मुनीश्वराः
诸圣贤说道:“是谁——以何等罪业加害于我们这些为饥饿所煎迫者——夺走了所有那些莲茎?噢,牟尼中之尊者!”
Verse 50
ते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः । चक्रुस्ते शपथान्सर्वे यथान्यायं च भामिनि
彼此猜疑之下,那些最尊贵的两次生者相互诘问;并且众人皆依正当法度立下庄严誓愿,噢,热情的女子。
Verse 51
कश्यप उवाच । सर्वभक्षः स भवतु न्यासलोपं करोतु सः । कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः
迦叶波说道:“凡盗取那些莲茎者,愿其成为无所不食之人;愿其犯下侵吞托付之物(nyāsa)之罪;并堕入作伪证之恶业。”
Verse 52
वसिष्ठ उवाच । अनृतौ मैथुनं यातु पर नारीं विशेषतः । अतिथिः स्यात्तथान्योन्यं बिसस्तैन्यं करोति यः
婆悉吒说道:“犯下 bisastainya(如盗莲茎之类的小偷盗)者,将喜好不合时宜的淫欲,尤其染指他人之妻;并将成为不安定的客人,辗转于一家又一家。”
Verse 53
भरद्वाज उवाच । नृशंसो वै स भवतु समृद्ध्या चाप्यहंकृ तः । मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः
婆罗堕阇说道:“犯 bisastainya 者将变得残忍;纵得富足亦生傲慢。我慢炽盛,并且嫉妒、诽谤他人。”
Verse 54
विश्वामित्र उवाच । नित्यं कामरतः सोस्तु दिवा सेवतु मैथुनम् । नीचकर्मरतश्चैव बिसस्तैन्यं करोति यः
毗湿瓦密多说道:“犯 bisastainya 者将恒常沉溺于欲爱;甚至白昼亦追逐淫乐,并且乐于从事卑下之行。”
Verse 55
जमदग्निरुवाच । कन्यां यच्छतु वृद्धाय स भूयाद्वृषलीपतिः । अस्तु वार्द्धुषिको नित्यं बिसस्तैन्यं करोति यः
阇摩达格尼说道:“犯‘比萨斯泰尼亚’之罪者,终将把少女嫁与老翁;他将成为品行卑劣之妇的丈夫,并恒常以放债取息为生。”
Verse 56
गौतम उवाच । स गृह्णात्वविकादानं करोतु हयविक्रयम् । प्रकरोतु गुरोर्निंदां बिसस्तैन्यं करोति यः
乔多摩说道:“犯‘比萨斯泰尼亚’者,取不当取之物,从事贩卖马匹之业,甚至公然诋毁自己的师长。”
Verse 57
अत्रिरुवाच । मातरं पितरं नित्यं दुर्मतिः सोऽवमन्यताम् । शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः
阿特里说道:“犯‘比萨斯泰尼亚’者,心智邪恶,常轻慢父母;又向不具资格之人求问正法。”
Verse 58
अरुन्धत्युवाच । करोतु पत्युः पूर्वं सा भोजनं शयनं तथा । नारी दुष्टसमाचारा बिसस्तैन्यं करोति या
阿伦达蒂说道:“女子若犯‘比萨斯泰尼亚’,其行将败坏:她在丈夫之前先食先卧,失却礼法。”
Verse 59
चण्डोवाच । स्वामिनः प्रतिकूलास्तु धर्मद्वेषं करोतु च । साधुद्वेषपरा चैव बिसस्तैन्यं करोति या
旃陀说道:“女子若犯‘比萨斯泰尼亚’,便与其主(或夫)相违为敌,滋生对正法的憎恨,尤以轻蔑贤善为务。”
Verse 60
पशुमुख उवाच । परस्य प्रेष्यतां यातु सदा जन्मनिजन्मनि । सर्वधर्म क्रियाहीनो बिसस्तैन्यं करोति यः
帕舒穆卡说道:“凡犯 bisastainya(盗取莲茎)者,生生世世为他人之仆役,并失却一切法(dharma)的修持与宗教义务。”
Verse 61
शुनोमुख उवाच । वेदान्स पठतु न्यायाद्गृहस्थः स्यात्प्रियातिथिः । सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः
舒诺穆卡说道:“犯 bisastainya(盗莲茎)者,反而(讽刺地)成为居士,依规诵读吠陀,作宾客所喜爱的主人,并恒常说真实语。”
Verse 62
ऋषय ऊचुः । इष्टमेतद्द्विजातीनां यस्त्वया शपथः कृतः । त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनोमुख
诸仙人说道:“这确是二次出生者所向往的,正如你所立之誓。然而,噢舒诺穆卡,我们众人的莲茎之盗,正是你所为,冒犯了我们所有人。”
Verse 63
शुनोमुख उवाच । मया हृतानि सर्वेषां बिसानीमानि वै द्विजाः । धर्मं वै श्रोतुकामेन जानीध्वं मां पुरंदरम्
舒诺穆卡说道:“诚然,噢二次出生者,这些属于你们众人的莲茎,确是我取走的。你们当知我乃普兰达拉(因陀罗),为求聆听法(dharma)而来。”
Verse 64
अलोभादक्षया लोका जिता वै मुनिसत्तमाः । प्रार्थयध्वं वरं शुभ्रं सर्वमेव ह्यसंशयम्
“以无贪之德,噢最胜的牟尼,便能赢得不坏之诸界。故当祈求一项清净之愿;凡可赐与者,皆必归于汝等,毫无疑虑。”
Verse 65
ऋषय ऊचुः । इहागत्य नरो यस्तु त्रिरात्रोपोषितः शुचिः । कृत्वा स्नानं पितॄंस्तर्प्य श्राद्धं कुर्यात्समाहितः
诸仙人说道:“凡人来到此地,守持清净,三夜斋戒;随后沐浴,向祖灵奉献奠水(tarpaṇa),并以摄心专注举行施罗陀(śrāddha)祭仪。”
Verse 66
सर्वतीर्थोद्भवं तस्य पुण्यं भूयात्पुरंदर । नाधोगतिमवाप्नोति विबुधैस्सह मोदताम् । तथेत्युक्त्वा ततः शक्रस्त त्रैवान्तर्हितोऽभवत्
“噢,普兰达罗啊,愿他所得功德等同于一切圣渡(tīrtha)所生之福。愿他不堕下界,得与诸天同欢。”说罢“如是”,释迦罗(因陀罗)便从彼处隐没。
Verse 255
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितीर्थमाहात्म्य वर्णनं नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः
如是,在神圣《斯堪达摩诃往世书》中,于八万一千颂之《集成》(Saṃhitā)内,第七卷“普拉婆娑分部”(Prabhāsa Khaṇḍa)之第一部分“普拉婆娑圣域功德”(Prabhāsakṣetra Māhātmya)中,题为《阐述Ṛṣitīrtha之伟大》的第二五五章至此圆满。