
伊湿伐罗对天女叙述一段以普什迦罗附近名为“阿湿塔普什迦罗”(Aṣṭapuṣkara)的圣池为中心的地方功德缘起:此处非无纪律者所易得,却被赞为能除罪垢。池畔有名为“罗摩伊湿伐罗”(Rāmeśvara)的林伽,相传由罗摩所建立;仅以虔敬礼拜,即成忏悔赎罪,乃至可解脱如“梵杀罪”(brahmahatyā)等重罪。 天女请求详述罗摩与悉多、罗什曼那如何到来并安立林伽。伊湿伐罗追述罗摩生平背景——为诛灭罗波那而降生,后又因仙人诅咒而入林流放——并说他们旅途中抵达普拉婆娑。休憩之后,罗摩梦见达沙罗陀,遂请问婆罗门;众婆罗门解梦为祖先传讯,劝其于普什迦罗圣渡处行施“施罗陀”(śrāddha)祭祖。罗摩延请具德婆罗门,遣罗什曼那采集果品,悉多则备办供物。 仪式进行时,悉多因见异象:父系祖先仿佛“现身”于婆罗门之中,遂以端庄含蓄而暂退。罗摩因其缺席一时动怒,悉多陈明缘由,此事遂与普什迦罗近旁罗摩伊湿伐罗林伽之建立相连。章末以果报偈称:以信爱(bhakti)供奉得至无上归趣;于“第十二日”(dvādaśī)及与“第四/第六日”(caturthī/ṣaṣṭhī)相关的特定会合日行施罗陀,功德不可量;祖先满足可延续十二年;施赠一马等同阿湿瓦梅陀(Aśvamedha)大祭之福。
Verse 1
ईश्वर उवाच । ततो गच्छेन्महादेवि पुष्करारण्यमुत्तमम् । तस्मादीशानकोणस्थं धनुषां षष्टिभिः स्थितम्
自在天说道:“随后,噢大女神,应前往殊胜的普什迦罗森林。从那里向东北方,约六十弓之距处,即在其地。”
Verse 2
तत्र कुण्डं महादेवि ह्यष्टपुष्करसंज्ञितम् । सर्व पापहरं देवि दुष्प्राप्यमकृतात्मभिः
在那里,噢大女神,有一处圣池,名为“八普什迦罗”(Aṣṭapuṣkara)。女神啊,它能除尽诸罪,然心性不调伏者难以得至。
Verse 3
तत्र कुण्डसमीपे तु पुरा रामेशधीमता । स्थापितं तन्महालिङ्गं रामेश्वर इति स्मृतम्
在那里,靠近圣池之畔,古时智者罗摩舍(Rāmeśa)安立了那尊大林伽;人们以“罗摩湿伐罗”(Rāmeśvara)之名追念它。
Verse 4
तस्य पूजनमात्रेण मुच्यते ब्रह्महत्यया
仅以礼拜那尊(罗摩湿伐罗林伽),便能解脱“梵杀罪”(brahmahatyā)——杀害婆罗门之极重罪业。
Verse 5
श्रीदेव्युवाच । भगवन्विस्तराद्ब्रूहि रामेश्वरसमुद्भवम् । कथं तत्रागमद्रामः ससीतश्च सलक्ष्मणः
女神说道:“世尊啊,请详说罗摩湿伐罗的缘起。罗摩如何来到那里,并与悉多及罗什曼那同行?”
Verse 6
कथं प्रतिष्ठितं लिङ्गं पुष्करे पापतस्करे । एतद्विस्तरतो ब्रूहि फलं माहात्म्यसंयुतम्
那灵伽是如何安立在普什迦罗——“盗取罪业者”之地的?请为我详说,并连同具足圣地威德(摩诃阿特米亚)的功德果报一并宣示。
Verse 7
ईश्वर उवाच । चतुर्विंशयुगे रामो वसिष्ठेन पुरोधसा । पुरा रावणनाशार्थं जज्ञे दशरथात्मजः
自在天(Īśvara)说道:“在第二十四世之时,罗摩——达沙罗陀之子——为灭罗波那而降生,并以婆悉吒为王家祭司。”
Verse 8
ततः कालान्तरे देवि ऋषिशापान्महातपाः । ययौ दाशरथी रामः ससीतः सहलक्ष्मणः
其后,女神啊,过了一段时日,由于一位仙人的诅咒,达沙罗陀之子、伟大苦行者罗摩,携悉多与罗什曼那一同出行。
Verse 9
वनवासाय निष्क्रांतो दिव्यैर्ब्रह्मर्षिभिर्वृतः । ततो यात्राप्रसंगेन प्रभासं क्षेत्रमागतः
他为林居而出发,周围簇拥着光辉的梵仙;随后因朝圣之缘,抵达了圣域普罗婆娑。
Verse 10
तं देशं तु समासाद्य सुश्रांतो निषसाद ह । अस्तं गते ततः सूर्ये पर्णान्यास्तीर्य भूतले
抵达那片地方后,他因极度疲惫而坐下;待日轮西沉,便在地上铺展树叶以作歇息。
Verse 11
सुष्वापाथ निशाशेषे ददृशे पितरं स्वकम् । स्वप्ने दशरथं देवि सौम्यरूपं महाप्रभम्
当夜色将尽之时,他沉睡入梦,见到自己的父王——达沙罗陀——噢女神啊,其形容温和,放射出宏大的光辉。
Verse 12
प्रातरुत्थाय तत्सर्वं ब्राह्मणेभ्यो न्यवेदयत् । यथा दशरथः स्वप्ने दृष्टस्तेन महात्मना
清晨起身后,那位大心者将一切禀告诸婆罗门:他如何在梦中见到了达沙罗陀。
Verse 13
ब्राह्मणा ऊचुः । वृद्धिकामाश्च पितरो वरदास्तव राघव । दर्शनं हि प्रयच्छंति स्वप्नान्ते हि स्ववंशजे
婆罗门们说:“噢罗伽婆啊,你的祖灵(Pitṛ)希求你族系的安乐与增盛,且能赐福;他们确会赐予显见——在梦境将尽之际显现——给生于自家血脉之人。”
Verse 14
एतत्तीर्थं महापुण्यं सुगुप्तं शार्ङ्गधन्वनः । पुष्करेति समाख्यातं श्राद्धमत्र प्रदीयताम्
“此圣渡(tīrtha)功德无量,由执持商伽弓(Śārṅga)的毗湿奴善加守护。此处名闻为‘补湿迦罗(Puṣkara)’,故当在此行施祖祭(Śrāddha)。”
Verse 15
नूनं दशरथो राजा तीर्थे चास्मिन्समीहते । त्वया दत्तं शुभं पिण्डं ततः स दर्शनं गतः
“确然,达沙罗陀王正在此一圣渡求得利益。因你献上吉祥的团食供(piṇḍa),故他得以显现,前来让你得见。”
Verse 16
ईश्वर उवाच । तेषां तद्वचनं श्रुत्वा रामो राजीवलोचनः । निमंत्रयामास तदा श्राद्धार्हान्ब्राह्मणाञ्छुभान्
自在天说道:罗摩莲华眼听闻他们的话后,便邀请吉祥的婆罗门——堪受施敬、适宜于施行施罗陀(Śrāddha)祭仪者。
Verse 17
अब्रवील्लक्ष्मणं पार्श्वे स्थितं विनतकंधरम् । फलार्थं व्रज सौमित्रे श्राद्धार्थं त्वरयाऽन्वितः
他对近旁垂首而立的罗什曼那说道:“噢,娑弥特罗啊,为施罗陀(Śrāddha)之用去取果品——速速前往。”
Verse 18
स तथेति प्रतिज्ञाय जगाम रघुनंदनः । आनयामास शीघ्रं स फलानि विविधानि च
他应诺道“如是”,便前往;那位罗伽族之欢(Raghunandana)很快带回了各色果品。
Verse 19
बिल्वानि च कपित्थानि तिन्दुकानि च भूरिशः । बदराणि करीराणि करमर्दानि च प्रिये
其中多有毕尔瓦果、迦毗他果与丁杜迦果;又有枣果(badara)、迦梨罗果与迦罗摩尔达果,卿所爱者啊。
Verse 20
चिर्भटानि परूषाणि मातुलिंगानि वै तथा । नालिकेराणि शुभ्राणि इंगुदीसंभवानि च
又有奇尔婆吒果与波卢沙果,并有摩都林伽果;亦有洁白椰子,以及生自因古底(iṅgudī)之果。
Verse 21
अथैतानि पपाचाशु सीता जनकनंदिनी । ततस्तु कुतपे काले स्नात्वा वल्कलभृच्छुचिः
随后,阇那迦之女悉多迅速烹煮了这些供品。继而在适当的“库塔帕时”(kutapa-kāla),她沐浴自净,身着树皮衣,准备行仪。
Verse 22
ब्राह्मणानानयामास श्राद्धार्हान्द्विजसत्तमान् । गालवो देवलो रैभ्यो यवक्रीतोऽथ पर्वतः
他请来了最上等的再生者——堪受施罗陀(Śrāddha)供养的婆罗门:伽罗婆(Gālava)、提婆罗(Devala)、赖毗耶(Raibhya)、耶婆克利多(Yavakrīta),以及帕尔瓦塔(Parvata)。
Verse 23
भरद्वाजो वसिष्ठश्च जावालिर्गौतमो भृगुः । एते चान्ये च बहवो ब्राह्मणा वेदपारगाः
婆罗堕阇(Bharadvāja)、婆悉吒(Vasiṣṭha)、阇婆利(Jāvāli)、瞿昙(Gautama)、婆利古(Bhṛgu)等亦在其间;还有许多通达吠陀的婆罗门同在场。
Verse 24
श्राद्धार्थं तस्य संप्राप्ता रामस्याक्लिष्टकर्मणः । एतस्मिन्नेव काले तु रामः सीतामभाषत
他们为罗摩——其行持不倦、无可指摘者——的施罗陀(Śrāddha)而来到此处。就在那时,罗摩对悉多开口说道。
Verse 25
एहि वैदेहि विप्राणां देहि पादावनेजनम् । एतच्छ्रुत्वाऽथ सा सीता प्रविष्टा वृक्षमध्यतः
“来吧,毗提希(Vaidehī),为诸婆罗门奉上洗足之水。”悉多闻言,便走入林木之间。
Verse 26
गुल्मैराच्छाद्य चात्मानं रामस्यादर्शने स्थिता । मुहुर्मुहुर्यदा रामः सीतासीतामभाषत
她藏身于灌木丛中,使自己不在罗摩的视线之内。罗摩一遍又一遍呼唤:“悉多!悉多!”
Verse 27
ज्ञात्वा तां लक्ष्मणो नष्टां कोपाविष्टं च राघवम् । स्वयमेव तदा चक्रे ब्राह्मणार्ह प्रतिक्रियाम्
得知她已失踪,又见罗伽婆被怒火所摄,罗什曼那便亲自依礼行事,完成对婆罗门应尽的供奉与仪轨。
Verse 28
अथ भुक्तेषु विप्रेषु कृत पिंडप्रदानके । आगता जानकी सीता यत्र रामो व्यवस्थितः
随后,婆罗门们用毕斋食,供奉的团食(piṇḍa)亦已圆满,阇那姬·悉多来到罗摩安坐之处。
Verse 29
तां दृष्ट्वा परुषैर्वाक्यैर्भर्त्सयामास राघवः । धिग्धिक्पापे द्विजांस्त्यक्त्वा पितृकृत्यमहोदयम् । क्व गताऽसि च मां हित्वा श्राद्धकाले ह्युपस्थिते
罗伽婆见到她,便以严厉之语斥责道:“呸!你这罪人!竟抛下婆罗门与这为祖灵所行的广大吉祥之业;当施行舍罗陀(śrāddha)之时已至,你却丢下我,去了何处?”
Verse 30
ईश्वर उवाच । तस्य तद्वचनं श्रुत्वा भयभीता च जानकी
主宰(Īśvara)说道:阇那姬听到他那番话,心中惶恐战栗。
Verse 31
कृताञ्जलिपुटा भूत्वा वेपमाना ह्यभाषत । मा कोपं कुरु कल्याण मा मां निर्भर्त्सय प्रभो
她合掌恭敬,浑身战栗而说道:“愿尊者勿怒;愿主宰勿责我。”
Verse 32
शृणु यस्माद्विभोऽन्यत्र गता त्यक्त्वा तवान्तिकम् । दृष्टस्तत्र पिता मेऽद्य तथा चैव पितामहः
“请听我说,伟力者:我离开你身旁去了别处,因为我今日在那里见到了我的父亲,也见到了我的祖父。”
Verse 33
तस्य पूर्वतरश्चापि तथा मातामहादयः । अंगेषु ब्राह्मणेन्द्राणामाक्रान्तास्ते पृथक्पृथक्
他的更早的祖先亦然——祖父辈等诸人——各自分别附入并占据了那些主持仪式的最上婆罗门的肢体。
Verse 34
ततो लज्जा समभवत्तत्र मे रघुनन्दन । पित्रा तत्र महाबाहो मनोज्ञानि शुभानि च
于是,罗睺族之欢喜者啊,我在彼处生起羞惭;而在彼处,臂力雄伟者啊,我父亦备办了悦意而吉祥之事。
Verse 35
तत्र पुष्करसान्निध्ये दक्षिणे धनुषां त्रये । लिंगं प्रतिष्ठयामास रामेश्वरमिति श्रुतम्
在那里,靠近补湿迦罗,于南方三弓之距处,他安立一尊林伽,传闻其名为“罗摩伊湿伐罗”(Rāmeśvara)。
Verse 36
भक्ष्याणि भक्षितान्येव यानि वै गुणवन्ति च । स कथं सुकषायाणि क्षाराणि कटुकानि च । भक्षयिष्यति राजेन्द्र ततो मे दुःखमाविशत्
“他确已食用过滋养而上好的饮食;那么他又怎能再吃那涩味、碱性与辛辣之食呢?”大王啊,因此忧悲侵入我心。
Verse 37
तस्यास्तद्वचनं श्रुत्वा विस्मितो राघवोऽभवत् । विशेषेण ददौ तस्मिञ्छ्राद्धं तीर्थे तु पुष्करे
听闻她的话语,罗伽婆大为惊异。就在那普什迦罗圣渡(Puṣkara tīrtha),他以格外郑重与殊胜之心修行施行了施祖祭(śrāddha)。
Verse 39
यस्तं पूजयते भक्त्या गन्धपुष्पादिभिः क्रमात् । स प्राप्नोति परं स्थानं य्रत्र देवो जनार्दनः
凡以虔敬之心次第供奉彼者——献香、献花及诸供品——必得至上之境,乃主宰阇那尔达那(Janārdana)所居之处。
Verse 40
किमत्र बहुनोक्तेन द्वादश्यां यत्प्रदापयेत् । न तत्र परिसंख्यानं त्रिषु लोकेषु विद्यते
又何必多言?凡于十二日(Dvādaśī)促成布施者,其功德不可计量,即遍三界亦无从衡量。
Verse 41
शुक्रांगारकसंयुक्ता चतुर्थी या भवेत्क्वचित् । षष्ठी वात्र वरारोहे तत्र श्राद्धे महत्फलम्
若某时第四日(Caturthī)恰与星期五与星期二相合,或此处为第六日(Ṣaṣṭhī),美丽者啊——于彼时所修施行的施祖祭(śrāddha)将得广大之果。
Verse 42
यावद्द्वादशवर्षाणि पितरश्च पितामहाः । तर्पिता नान्यमिच्छन्ति पुष्करे स्वकुलोद्भवे
长达十二年之久,父辈与祖辈一旦因供水祭(tarpaṇa)而得满足,便别无所求;若由本族后裔在普什迦罗(Puṣkara)如法奉行。
Verse 43
तत्र यो वाजिनं दद्यात्सम्यग्भक्तिसमन्वितः । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः
凡在彼处以正信虔敬布施一马者,此人将获得与阿湿婆梅陀(Aśvamedha)大祭同等的功德果报。
Verse 44
इति ते कथितं सम्यङ्माहात्म्यं पापनाशनम् । रामेश्वरस्य देवस्य पुष्करस्य च भामिनि
如是,佳丽啊,我已如实为你宣说那能灭罪的圣迹功德(māhātmya):天主罗摩伊湿伐罗(Rāmeśvara)之伟大,以及普什迦罗(Puṣkara)之伟大。
Verse 111
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनामैकादशोत्तरशततमोऽध्यायः
至此,《圣·斯坎达摩诃往世书》八万一千颂总集之中,第七卷普罗婆娑部(Prabhāsa-khaṇḍa),第一普罗婆娑圣域功德篇(Prabhāsa-kṣetra-māhātmya),普什迦罗功德篇(Puṣkara-māhātmya)内,名为《罗摩伊湿伐罗圣域功德之描述》的第一百一十一章圆满结束。