Adhyaya 143
Nagara KhandaTirtha MahatmyaAdhyaya 143

Adhyaya 143

苏多(Sūta)叙述:在“奇多罗座”(Citra-pīṭha)中央安住一尊名为“奇特雷湿伐罗”(Cītreśvara)的神祇,被称为赐予“citra-saukhya”(殊胜安乐、别样福祉)者。本章宣示:瞻礼、供敬并在此神前沐浴,能作为神圣仪轨之补救,涤除与非法欲染相关的重大过失;尤以在“恰伊特罗月白半第十四日”(Caitra-śukla-caturdaśī)礼拜最为殊胜。 随后引入当地的异象:据说因往昔诅咒,奇特兰伽达王(Citrāṅgada)、持戒仙人阇婆梨(Jābāli)以及与此事相关的一位少女,至今仍以醒目、为世人所共见的形态留驻其地。诸仙请求缘起,苏多便讲述:阇婆梨守持梵行(brahmacarya),在“哈塔凯湿伐罗圣域”(Hāṭakeśvara-kṣetra)苦修精进,令诸天不安。因陀罗遣天女蓝婆(Rambhā)与“春神/春季化身”瓦散塔(Vasantā)前去扰乱其梵行;她们到来时,季节景象随之变幻。蓝婆入水沐浴,阇婆梨一见便心神摇动,弃离持咒专注;蓝婆以巧言劝诱,自陈可得,使其一日之间堕入欲法(kāma-dharma)。事后阇婆梨复归清明,行净化之仪;蓝婆亦返诸天,完成所托。全章以苦行之律、诱惑之险与仪式净化相对照,既彰显此圣地(tīrtha)的权威,也含藏对修行者的道德警策。

Shlokas

Verse 1

सूत उवाच । तथान्योऽपि च तत्रास्ति देवश्चित्रेश्वरो द्विजाः । चित्रपीठस्य मध्यस्थश्चित्रसौख्यप्रदो नृणाम्

苏多说道:在那里亦有另一位神祇,噢诸位二次生者——主“奇特雷湿伐罗”(Citreśvara),安立于神圣的“奇特罗毗陀”(Citrapīṭha)中央,赐予众人奇妙之乐。

Verse 2

यं दृष्ट्वा पूजयित्वा च स्नापयित्वाथवा नरः । मुच्यते परदारोत्थैः पातकैश्चोपपातकैः

凡瞻礼彼神、供奉彼神,乃至为其(林伽/圣相)沐浴者,皆得解脱由染指他人妻所生之罪与随罪。

Verse 3

धर्षयित्वा गुरोः पत्नीं कन्यां वा निजवंशजाम् । नीचां वा व्रतयुक्तां वा कामासक्तेन चेतसा

若人心存淫欲,侵犯了上师之妻、本族少女、卑微女子或持戒之女,

Verse 4

चैत्रशुक्लचतुर्दश्यां यस्तं पूजयते नरः । स तत्पापं निहत्याशु स्वर्गलोकं ततो व्रजेत्

凡在制多罗月白半月十四日供奉他的人,能迅速灭除那罪业,随后往生天界。

Verse 5

तथा चित्रांगदस्तत्र जाबालिसहितो नृपः । कुमार्या सहितः सार्द्धं नग्नया तत्समुत्थया । सन्तिष्ठते तदग्रे तु शप्तो जाबालिना पुरा

同样,奇特朗格达王也在那里,与贾巴利仙人在一起;还有一位由此因缘而生的赤身少女,他因昔日被贾巴利诅咒而伫立在神前。

Verse 6

त्रयाणामपि यस्तेषां तस्मिन्नहनि निर्वपेत् । स इष्टां लभते नारीं सिद्धिं च मनसि स्थिताम्

凡在那一天向这三位献祭的人,将获得心仪的女子,并实现心中所怀的愿望。

Verse 7

ऋषय ऊचुः । कस्माज्जाबालिना शप्तः पूर्वं चित्रांगदो युवा । सा च तत्तनया कस्मात्कुमारी वस्त्रवर्जिता

众仙问道:年轻的奇特朗格达昔日为何被贾巴利诅咒?那位少女——他的女儿——又为何一丝不挂?

Verse 8

अद्यापि तिष्ठते तत्र विरुद्धं रूपमाश्रिता । जनहास्य करं नित्यं तस्मात्सूत वदस्व नः

直到今日,她仍留在那里,呈现出不相称的形相,常成为众人讥笑之因。因此,噢苏多啊,请为我们说明缘由。

Verse 9

सूत उवाच । आर्सोत्पूर्वं मुनिर्नाम्ना जाबालिरिति विश्रुतः । कौमारब्रह्मचर्येण येन चीर्णं तपः सदा

苏多说道:往昔有一位牟尼,名闻于世,号为阇婆利(Jābāli);他自幼守持梵行(brahmacarya),恒常修行苦行。

Verse 10

हाटकेश्वरजं क्षेत्रं समासाद्य स सद्द्विजाः । बाल्येऽपि वयसि प्राप्ते समारेभे महत्तपः

他抵达哈塔凯湿伐罗(Hāṭakeśvara)的神圣境域后,那位正直的婆罗门虽仍年少,却开始了宏大而艰苦的苦行。

Verse 11

कृच्छ्रचांद्रायणादीनि पाराकाणि शनैःशनैः । कुर्वता तेन ते देवाः संनीता भयगोचरम्

当他渐次奉行克里恰罗(Kṛcchra)、旃陀罗耶那(Cāndrāyaṇa)等严酷誓戒及其他艰难行持时,诸天被逼入恐惧的境地。

Verse 12

ततः शक्रादयो देवाः संत्रस्ता मेरुमूर्धनि । मिलित्वा चक्रिरे मंत्रं तस्य विघ्नकृते मिथः

于是,释迦罗(Śakra,即因陀罗)与诸天在须弥山顶惊惶不安,聚集一处,彼此商议计策,欲阻挠他的苦行。

Verse 13

यद्यस्य तपसो वृद्धिरेवं यास्यति नित्यशः । च्यावयिष्यति तन्नूनं स्वर्गराज्याच्छतक्रतुम्

若他的苦行之力如此日日增长,必将把释多迦罗都(因陀罗)从天界王权之位上撼落。

Verse 14

तस्माद्गच्छतु रंभाख्या तत्पार्श्वे ऽप्सरसां वरा । ब्रह्मचर्यविघाताय तस्यर्षेर्भावितात्मनः

因此,当令蓝婆(Rambhā)——诸天女中最胜者——前往其侧,扰乱那位心志坚固、已自制的仙人之梵行(brahmacarya)。

Verse 15

ब्रह्मचर्यं तपोमूलं यतः संकीर्तितं द्विजैः । तस्याभावात्परिक्लेशः केवलं न फलं व्रते

因为梵行(brahmacarya)被诸位博学的二生者(dvija)称颂为苦行之根;若失此根,所持之誓唯有劳苦,并无真实果报。

Verse 16

एवं ते निश्चयं कृत्वा समाहूय ततः परम् । रंभामूचुर्महेंद्रेण सर्वे देवास्तदादरात्

他们既如此定议,便召来蓝婆;诸天与大因陀罗同在,皆怀急切而郑重地对她开言。

Verse 17

गच्छ शीघ्रं महाभागे जाबालिर्यत्र तिष्ठति । हाटकेश्वरजे क्षेत्रे तपोविघ्नाय तस्य वै

快去吧,福德之女,往阇婆离(Jābāli)所住之处——在哈塔凯湿伐罗(Hāṭakeśvara)圣域之中——确为阻挠他的苦行。

Verse 18

ते ते भावाः प्रयोक्तव्याः कथास्तास्ता मनोहराः । वर्धयंती तथा चित्ते तस्य कामं निरर्गलम्

当运用那些姿态与情致,以及那般动人言谈,使他的心中欲望增长,毫无拘束。

Verse 19

रंभोवाच । स मुनिर्न विजानाति कामधर्मं सुरेश्वर । अरसज्ञं कथं देव करिष्यामि स्मरान्वितम्

罗摩婆说道:“噢,诸天之主,那位牟尼不知欲爱之法。噢,神明啊,我当如何使一个不识世味的人也被爱欲所撩动?”

Verse 20

इन्द्र उवाच । एष यास्यति मद्वाक्याद्वसंतस्तस्य सन्निधौ । अस्य संदर्शनादेव भविष्यति स सस्मरः

因陀罗说道:“依我之命,春神将至其前。仅凭一见春光,他便会被欲念所撩动。”

Verse 21

तस्माद्गच्छ द्रुतं तत्र सहानेन वरानने । संसिद्धिर्जायते येन देवकृत्यं भवेद्द्रुतम्

因此,速速前往彼处吧,容颜姣好的你,与他同去。如此便得成就,诸神之事亦将迅速完成。

Verse 22

अथ सा तं प्रणम्योच्चैः प्रस्थिता धरणीतलम् । वसंतेन समायुक्ता जाबालिर्यत्र तिष्ठति

于是她向他恭敬顶礼,便踏上大地而行,与春神相伴,前往阇婆离所居之处。

Verse 23

अथाकस्मादशोकस्य संजातः पुष्पसंचयः । तिलकस्य च चूतस्य मंजर्यः समुपस्थिताः

忽然间,阿输迦树上簇簇花团涌现;提拉迦树与芒果树的花蕾也一齐绽出。

Verse 24

शिशिरे च सरोजानि विकासं प्रापुरेव हि । ववौ च सुरभिर्वायुर्दाक्षिणात्यः सुकामदः

即便在寒季,莲花也开敷绽放;又有南方的芬芳微风吹来,悦人诸根,唤起情思。

Verse 25

एतस्मिन्नंतरे प्राप्ता रंभा तत्र वराप्सराः । सलिलाशयतीरस्थो जाबालिर्यत्र तिष्ठति

其间,殊胜天女阿普萨拉——蓝婆(Rambhā)来到那里:正是阇婆利住在水池岸边之处。

Verse 26

अक्षमालाधृतकरो जपन्मंत्रमनेकधा । अभीष्टं श्रद्धया युक्तो विधाय पितृतर्पणम्

他手持念珠(akṣamālā),以多种方式诵持真言;具足信心(śraddhā),先行祖先供水礼(tarpaṇa),复又成办所愿之仪轨。

Verse 27

स्नानार्थं तज्जलं साऽथ प्रविवेश वराप्सराः

随后,那位殊胜天女便入彼水中沐浴。

Verse 28

विवस्त्रां तां समालोक्य सोऽपि यौवनशालिनीम् । याम्यानिलेन च स्पृष्टः कामस्य वशगो ऽभवत्

见她赤身而立,青春灿然,他亦—被南风拂触—坠入欲爱之势。

Verse 29

ततस्तस्याभवत्कंपस्तत्क्षणादेव सन्मुने । अक्षमाला कराग्राच्च पपात धरणीतले

于是就在那一刻,噢可敬的牟尼,他开始战栗;念珠(akṣamālā)从指尖坠落,落在地上。

Verse 30

पुलकः सर्वगात्रेषु संजज्ञेऽतीव दारुणः । अश्रुपाताः पतंति स्म कोष्णाः प्लावितभूतलाः

剧烈的战栗遍满他全身;温热的泪流不断坠下,浸润了脚下大地。

Verse 31

अथ तं क्षुभितं ज्ञात्वा चित्तज्ञा सा वराप्सराः । निर्गत्य सलिलात्तस्माच्चक्रे वस्त्रपरिग्रहम्

随后,那位善解人心的尊贵天女(阿普萨拉)知他内心已动,便从水中走出,取衣披身。

Verse 32

ततस्तस्यांतिके गत्वा प्रणिपत्य कृतादरा । प्रोवाच मधुरं वाक्यं वर्द्धंती तस्य तन्मतम्

随后她走近他,恭敬顶礼,并以柔甜之语轻轻助长他心中已起的情意。

Verse 33

आश्रमे सकलं ब्रह्मन्कच्चित्ते कुशलं मुने । स्वाध्याये तपसि प्राज्ञ शिष्येषु मृगपक्षिषु

“噢婆罗门圣者,你的林居道院中一切安好么?噢牟尼,你心神安宁么?噢智者——你的诵习圣典(svādhyāya)与苦行(tapas)可曾兴盛?你的弟子,以及鹿与群鸟,也都安泰么?”

Verse 34

कुशलं मे वरारोहे सर्वत्रैवाधुना स्थितम् । विशेषेणात्र संप्राप्ता सर्वलक्षणलक्षिता

仙人说道:“噢丰臀的佳人,我一切安好;此时此刻,无论何处,我的安泰皆稳固无虞。更重要的是,你来到此地——具足一切吉祥之相而庄严。”

Verse 35

का त्वं वद महाभागे मम मन्मथवर्धनी । किं देवी वासुरी वा किं पन्नगी किं तु मानुषी

“你是谁?请告诉我,福相的女子——你令我心中爱欲之火更炽。你是天女(devī)吗?还是阿修罗之女?或是龙蛇族的少女(nāgī)?抑或是人间女子?”

Verse 36

निवेदय शरीरे मे किं न पश्यसि वेपथुम् । निरर्गलश्च रोमांचो बाष्पपूरश्च नेत्रजः

“我明白告诉你:你难道看不见我身躯在颤抖吗?不受抑制的战栗使汗毛竖起,而我双眼盈满泪潮。”

Verse 37

रंभोवाच । किं ते गात्रस्वभावोऽयम् किं वान्यो व्याधिसंभवः । कच्चिदेव न ते स्वास्थ्यं प्रपश्यामि शरीरजम्

罗摩婆(Rambhā)说道:“你这般情状,是你身体的常性吗?还是由别的病患所生?我确实看不出你有身躯的康健。”

Verse 38

मुनिरुवाच । न मे गात्रस्वभावो न व्याधिभिश्च सुलोचने । शृणुष्व कारणं कृत्स्नं येनेदृक्संस्थितं वपुः

仙人说道:“噢,明眸佳人,这并非我身体的本来状态,也不是疾病所致。请听我详尽说明,使我之身变成如此的全部缘由。”

Verse 40

तदहं मन्मथाविष्टो दर्शनात्तव शोभने । ब्रह्मचर्यपरोपीत्थं महाव्रतधरोऽपि च

“因此,光辉的佳人啊,只因见到你,我便被曼摩他(爱欲之神)所攫住——纵然我奉持梵行,亦肩负大誓。”

Verse 41

रंभोवाच यद्येवं ब्राह्मणश्रेष्ठ मां भजस्व यथासुखम् । नात्र कश्चिद्भवेद्दोषः पण्यनारी यतोऽस्म्यहम्

兰婆说道:“若真如此,婆罗门中的至上者啊,你便随意享受我吧。此中毫无过失,因为我本性即为娼伎(侍爱之女)。”

Verse 42

साधारणा वयं विप्र यतः सृष्टाः स्वयंभुवा । सर्वेषामेव लोकानां विशेषेण द्विजन्मनाम्

“婆罗门啊,我们为众人所共,因为自生者(梵天)创造我们,是为诸世界之享乐——尤其为二生者而设。”

Verse 43

अहं चापि समालोक्य त्वां मुने मन्मथोपमम् । हता कामशरैस्तीक्ष्णैर्न च गंतुं समुत्सहे

“而我亦然,仙人啊,见你俊美如曼摩他,我被爱欲锋利之箭所伤,已无力再离去。”

Verse 44

मया दृष्टाः सुराः पूर्वं यक्षा विद्याधरास्तथा । सिद्धाश्च किंनरा नागा गुह्यकाः किमु मानुषाः

往昔我曾见过诸天、夜叉与持明者;又见悉地者、紧那罗、那伽与隐秘神众——更何况人类呢?

Verse 45

नेदृग्रूपं वपुस्तेषामेकस्यापि विलोकितम् । मध्ये ब्राह्मणशार्दूल तस्माद्भक्तां भजस्व माम्

在他们之中,我未曾见过哪怕一位具有如此的容色与形体。因此,婆罗门中的猛虎啊,请接纳我——我对你虔诚归依——并与我同享欢悦。

Verse 46

यो नारीं कामसंतप्तां स्वयं प्राप्तां परित्यजेत् । स मूर्खः पच्यते घोरे नरके शाश्वतीः समाः

凡弃绝那自愿前来、被欲火灼烧的女子者——此人愚昧,将在可怖的地狱中受煎熬,历经无尽岁月。

Verse 47

एवमुक्त्वा तया सोऽथ परिष्वक्तो महामुनिः । अनिच्छन्नपि वाक्येन हृदयेन च सस्पृहः

她如此说罢,便拥抱了那位大牟尼。虽口中推辞,然其心中终究生起了渴慕。

Verse 48

ततो लतानि कुंजे तं समानीय मुनीश्वरम् । कामशास्त्रोदितैर्भावै रराम कृत्रिमैर्मुनिम्

随后,她将那位圣贤之主引入藤蔓覆蔽的幽亭,在欲论所教的种种情态中,假作姿态,与牟尼嬉游。

Verse 49

एवं तया समं तत्र स्थितो यावद्दिनक्षयम् । कामधर्मसमासक्तः संत्यक्ताशेषकर्मकः

于是他与她同住于彼处,直至日暮——沉溺于欲爱之“法”,舍弃其余一切职责与行作。

Verse 50

ततो निष्कामतां प्राप्तो लज्जया परिवारितः । विससर्ज च तां रंभां शौचं चक्रे ततः परम्

随后他复得无欲之心,为羞惭所围。遂遣退蓝婆(Rambhā),其后行净化之仪。

Verse 51

सापि तेन विनिर्मुक्ता कृतकृत्या विलासिनी । प्रहृष्टा प्रययौ तत्र यत्र देवाः सवासवाः

她亦由他解脱,那位婀娜的天女——所图已遂——欢喜启程,前往诸天与帝释(因陀罗)聚集之处。

Verse 143

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जाबालिक्षोभणोनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः

至此,《圣·斯坎达摩诃往世书》——八万一千颂之汇编——第六部《那伽罗分卷》之《哈塔凯湿伐罗圣域功德赞》中,名为《搅动迦婆离》的第143章圆满结束。