
本章在宏大的祭祀(yajña)场景中呈现一场礼制与社会秩序的冲突。罗摩沙(Lomaśa)叙述:达克沙(Dakṣa)在迦那迦罗(Kanakhala)开启大祭,广邀诸圣仙(Vasiṣṭha、Agastya、Kaśyapa、Atri、Vāmadeva、Bhṛgu等)与诸天神(梵天Brahmā、毗湿奴Viṣṇu、因陀罗Indra、苏摩Soma、伐楼那Varuṇa、俱毗罗Kubera、摩鲁特Marut、阿耆尼Agni、尼利提Nirṛti),并以工匠神特瓦什特里(Tvaṣṭṛ)所造的华美居所隆重款待。 仪式进行之际,圣者达提奇(Dadhīci)当众指出:若无持弓者毗那迦(Pinākin)——湿婆(Śiva),此祭便失其真正光辉;离开三目主(Tryambaka),所谓吉祥反成不祥。他劝请达克沙邀湿婆并同请达克沙之女达克沙耶尼(Dākṣāyaṇī)。达克沙却拒绝,称毗湿奴为礼仪之根,并贬抑鲁陀罗(Rudra)不配受礼,显露傲慢与排斥乃祭祀之过。达提奇遂离席而去,预告败亡将至。 叙事转至萨蒂(Satī,亦名Dākṣāyaṇī)在天界居处,得知苏摩将赴达克沙之祭,便追问为何自己与湿婆未受邀请。她来到湿婆身旁,见其与众伽那(gaṇa:难丁Nandin、布林吉Bhṛṅgi、摩诃迦罗Mahākāla等)同在,恳求准许前往,虽无请柬。湿婆以社会与礼制之规、以及不请自至之害相劝阻;萨蒂仍坚持。湿婆遂许她率大队伽那随行,同时心中预感她将不再归来,点出亲族义务、祭礼荣誉与神圣尊严之间的张力。
Verse 1
लोमश उवाच । एकदा तु तदा तेन यज्ञः प्रारंभितो महान् । तत्राहूतास्तदा सर्वे दीक्षितेन तपस्विना
罗摩沙说道:有一次,在那时,他开始举行一场宏大的祭祀(yajña);在那里,那位已受灌顶誓戒(dīkṣā)的苦行者邀请众人前来。
Verse 2
ऋषयो विविधास्तत्र वशिष्ठाद्याः समागताः । अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः
众多圣仙(ṛṣi)在彼处云集——以婆悉吒(Vasiṣṭha)为首:阿伽斯提耶(Agastya)、迦叶波(Kaśyapa)、阿底利(Atri)、婆摩提婆(Vāmadeva),以及婆利古(Bhṛgu)也都到来。
Verse 3
दधीचो भगवान्व्यासो भरद्वाजोऽथ गौतमः । एते चान्ये च बहवः समाजग्मुर्महर्षयः
达提奇(Dadhīci)、可敬的毗耶娑(Vyāsa)、婆罗陀婆阇(Bharadvāja),继而乔多摩(Gautama)——这些以及许多其他大圣仙(maharṣi)一同前来会集。
Verse 4
तथा सर्वे सुरगणा लोकपालस्तथाऽपरे विद्याधराश्च गंधर्वाः किंनराप्सरसां गणाः
同样,诸天神众也都到来,并与护世者(Lokapāla)及其他众类同至:持明者(Vidyādhara)、乾闼婆(Gandharva),以及紧那罗(Kiṃnara)与阿普萨拉(Apsaras)的诸群。
Verse 5
सप्तलोकात्समानीतो ब्रह्मा लोकपितामहः । वैकुंठाच्च तथा विष्णुः समानीतो मरवं प्रति
自七界之中,梵天(Brahmā)——诸世界之祖父(Pitāmaha)——被迎请至彼处;同样,毗湿奴(Viṣṇu)也从毗昆吒(Vaikuṇṭha)被迎请而来,趋向摩罗婆(Marava)。
Verse 6
देवेन्द्रो हि समानीत इंद्राण्या सह सुप्रभः । तथा चंद्रो हि रोहिण्या वरुणः प्रिययया सह
光辉灿然的因陀罗与因陀罗尼一同被迎至彼处;同样,月神偕罗希尼而来,伐楼那亦携其挚爱天后同至。
Verse 7
कुबेरः पुष्पकारूढो मृगाऽरूढोऽथ मारुतः । बस्ताऽरूढः पावकश्च प्रेताऽरूढोऽथ निरृति
俱毗罗乘普什帕迦而来;摩鲁多(风神伐由)骑鹿而至。帕瓦迦(火神阿耆尼)骑山羊而来,尼利提则乘一具“普雷塔”幽灵之身而至。
Verse 8
एते सर्वे समायाता यज्ञवाटे द्विजन्मनः । ते सर्वे सत्कृतास्तेन दक्षेण च दुरात्मना
诸神尽皆来到祭坛之域,噢二次生者。虽达刹心怀邪恶,却仍按礼数恭敬款待了他们所有。
Verse 9
भवनानि महार्हाणि सुप्रभाणि महांति च । त्वष्ट्रा कृतानि दिव्यानि कौशल्येन महात्मना
其间有无比珍贵的宫殿,宏阔而辉耀;皆为大心的工巧神特瓦什特里以圆满技艺所造之天界楼阁。
Verse 10
तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः
在那一切圣座与分定之位上,他们各各依礼而安坐,得其相宜与安适。
Verse 11
वर्त्तमाने महायज्ञे तीर्थे कनखले तथा । ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः
当大祭祀正在迦那迦罗(Kanakhala)的圣渡口进行时,他任命以婆利古(Bhṛgu)为首、富于苦行功德的诸圣仙为祭官(ṛtvij)。
Verse 12
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः । भार्यया सहितो विप्रैः कृतस्वत्ययनो भृशम्
随后,达克沙(Dakṣa)依仪受灌顶受戒(dīkṣā),完成吉祥的前行仪式,并偕同其妻,受到婆罗门们隆重礼敬,赐予安泰与护佑的祝福。
Verse 13
रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा । एतस्मिन्नंतरे तत्र दधीचिर्वाक्यमब्रवीत्
那时他以威仪光辉显耀,常有友人环绕。就在此刻,在那里,达提奇(Dadhīci)开口说道。
Verse 14
दधीचिरुवाच । एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव । तथाऽपि यज्ञस्तु न शोभते भृशंपिनाकिना तेन महात्मना विना
达提奇说道:“噢,达克沙啊,诸天主、伟大仙人,乃至护世者(lokapāla)都为你而来齐集;然而若无那位大心的持弓者——持弓名‘毗那迦’的主(Pinākin,湿婆),此祭祀全然不显光辉。”
Verse 15
येनैव सर्वाण्यपि मंगलानि जातानि शंसंति महाविपश्चितः । सोऽसौ न दृष्टोऽत्र पुमान्पुराणो वृषध्वजो नीलकण्ठः कपर्दी
一切吉祥皆由他而生——大智的圣仙们如此称颂——然而此处却不见那位太古之人:以公牛为旗的主(Vṛṣadhvaja)、蓝喉尊者(Nīlakaṇṭha)、结发者卡帕尔迪(Kapardī)——湿婆。
Verse 16
अमंगलान्येव च मंगलानि भवंति येनाधिकृतानि दक्ष । त्रियंबकेनाथ सुमंगलानि भवंति सद्योह्यपमंगलानि
噢,达克沙,即使不祥之事,因祂的安排亦成吉祥;由三目主(Triyambaka)之力,凶兆亦顷刻化为至吉。
Verse 17
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना । त्वरितं चैव शक्रेण विष्णुना प्रभविष्णुना
因此,唯有你——噢,至上座(Parameṣṭhin)——当亲自作召请之仪;并须迅速,与释迦罗(Śakra)及大能的毗湿奴(Viṣṇu)同往。
Verse 18
सर्वैरेव हि गंतव्यं यत्र देवो महेश्वरः
诚然,众人皆当前往主宰摩诃伊湿伐罗(Maheśvara)所在之处。
Verse 19
दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः । तेन सर्वं पवित्रं स्याच्छंभुना योगिना भृशम्
速速前往,将祂与达克沙耶尼(萨蒂)一同迎来此处。由那位瑜伽行者商布(Śambhu)之力,一切都将大为清净。
Verse 20
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् । तस्मात्सर्वप्रयत्नेन समानेयो वृषध्वजः
唯以忆念并称诵其圣名,诸功德便得圆满。故当竭尽一切努力,迎请“牛旗者”弗利沙德瓦迦(Vṛṣadhvaja,即持牛幡之湿婆)至此。
Verse 21
तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः । मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः
听了那番话,心怀恶念者笑着说道:“毗湿奴实为诸天之根本——永恒的达摩安住于彼处。”
Verse 22
यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च । प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः
在他之中,吠陀、祭祀与种种仪轨业行皆得安立——那位毗湿奴,如今已来到此处。
Verse 23
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः । वेदैश्चोपनिषद्भिश्च आगमैर्विविधैः सह
自真谛天(Satyaloka)而来者,是梵天——诸世界之祖父——并携吠陀、奥义书与种种阿伽摩经典同至。
Verse 24
तथा सुरगणैः साकमागतः सुरराट् स्वयम् । तथा यूयं समायाता ऋषयो वीतकल्मषाः
同样,天神之王也亲自到来,偕同诸神众;同样,你们也已抵达——诸位离垢清净的圣仙(ṛṣi)。
Verse 25
येये यज्ञोचिताः शांतास्तेते सर्वे समागताः । वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः
凡堪当祭祀、性情寂静者,皆已在此会集。你们皆通达吠陀与吠陀真义——誓愿坚固不移。
Verse 26
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् । कन्या दत्ता मया विप्रा ब्रह्मणा नोदितेन हि
就在此处,我们又何必还要鲁陀罗呢?噢,婆罗门们,这位少女已由我许配——确是依梵天(Brahmā)的劝示而行。
Verse 27
अकुलीनो ह्यसौ विप्रा नष्टो नष्टप्रियः सदा । भूतप्रेतपिशाचानां पतिरेको दुरत्ययः
“噢,婆罗门们,他并非出自高贵门第——败落不堪,且常恋于已失之物。唯他一人是诸‘部多’、‘普雷塔’与‘毗舍遮’之主——难以战胜。”
Verse 28
आत्मसंभावितो मूढःस्तब्धो मौनी समत्सरः । कर्मण्यस्मिन्नयोग्योऽसौ नानीतो हि मयाऽधुना
“自负、愚迷、顽固、沉默且嫉妒——他不堪此仪式;因此如今我未将他带到此处。”
Verse 29
तस्मात्त्वया न वक्तव्यं पुनरेवं वचोद्विज । सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान्
“因此,噢‘二生者’,你不可再说这等言辞。你们众人当为我成就此大祭——它必得圆满,结出善果。”
Verse 30
एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत्
听闻他这番言语,达提奇(Dadhīci)随即开口答复。
Verse 31
दधीचिरुवाच । सर्वेषामृषिवर्याणां सुराणां भावितात्मनाम् । अनयोऽयं महाञ्जातो विना तेन महात्मना
达提奇说道:“在一切最尊胜的仙圣与心已净化的诸天之中,此大灾厄竟然生起——皆因那位大心者(不在/被阻)。”
Verse 32
विनाशोऽपि महान्सद्योह्यत्रत्यानां भविष्यति । एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः
“确实,巨大的毁灭将迅速降临在此间在场之人。”说罢,达提奇便独自离去。
Verse 33
यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ । मुनौ विनिर्गते दक्षः प्रहसन्निदमब्रवीत्
他从达克沙的祭坛围场匆匆赶回自己的道场。仙人离去后,达克沙含笑说出这些话。
Verse 34
गतः शिवप्रियो वीरो दधीचिर्नाम नामतः । आविष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः
“那位名闻遐迩的勇者达提奇,湿婆所钟爱者,已然离去。(而)这些恶徒——愚钝昏沉,心神被缠缚,沉迷虚妄之言——却仍留在此。”
Verse 35
वेदबाह्य दुराचारास्त्याज्यास्ते ह्यत्र कर्मणि । वेदवादरता यूयं सर्वे विष्णुपुरोगमाः
“凡在吠陀之外而行恶者,当从此仪式中摒除。你们众人则笃信吠陀正论——以毗湿奴为先导的随行者。”
Verse 36
यज्ञं मे सफलं विप्राः कुर्वंतु ह्यचिरादिव । तदा ते देवयजनं चक्रुः सर्वे सहर्षयः
“婆罗门诸位,请速使我的祭祀圆满成就。”于是他们众人连同诸仙圣,一齐举行了对诸天的供奉与礼拜。
Verse 37
एतस्मिन्नंतरे तत्र पर्वते गंधमादने । धारागृहे विमानेन सखीभिः परिवारिता
其间,在甘达摩陀那山上,于“达拉居诃”(“流水之屋”)中,她乘天界飞车而至,侍女同伴环绕左右。
Verse 38
दाक्षायणी महादेवी चकार विविधास्तदा । क्रीडा विमानमध्यस्ता कन्दुकाद्याः सहस्रशः
随后,达克沙耶妮大女神端坐于空中飞车之中,兴起种种嬉戏:抛球等诸般游乐,千般万类。
Verse 39
क्रीडासक्ता तदा देवी ददर्शाथ महासती । यज्ञं प्रयांतं सोमं च रोहिण्या सहितं प्रभुम्
女神沉浸于嬉戏之时,圣洁的摩诃萨蒂忽见苏摩天主正赴祭祀而行,罗希尼随侍其侧。
Verse 40
क्व गमिष्यति चंद्रोऽयं विजये पृच्छ सत्वरम् । तयोक्ता विजया देवी तं पप्रच्छ यथोचितम्
她说道:“这月神要往何处去?维阇耶,速速问他。”受命之后,女神维阇耶便以合宜之礼询问月神。
Verse 41
कथितं तेन तत्सर्वं दक्षस्यैव मखादिकम् । तच्छ्रुत्वा त्वरिता देवी विजया जातसंभ्रमा । कथयामास तत्सर्वं यदुक्तं शशिना भृशम्
他将一切都告诉了她——从达克沙的祭祀等事说起。女神毗阇耶听后,急切而心神激荡,便将月神所言尽数详尽禀告。
Verse 42
विमृश्य कारणं देवी किमाह्वानं करोति न । दक्षः पिता मे माता च विस्मृता मां कुतोऽधुना
女神细思其因,心中自语:“为何不遣人来邀?达克沙是我父,我母亦在——他们竟忘了我吗?此时此刻怎会如此?”
Verse 43
पृच्छामि शंकरं चाद्य कारणं कृतनिश्चया । स्थापयित्वा सखीस्तत्र आगता शंकरं प्रति
她下定决心:“今日我必问圣者商羯罗其缘由。”遂将侍女同伴留在原处,径往商羯罗之前。
Verse 44
ददर्शतं सभामध्ये त्रिलोचनमवस्थितम् । गणैः परिवृतं सर्वैश्चंडमुंडादिभिस्तदा
她看见三目大自在天端坐于会众之中;当时诸众伽那环侍四周,如旃陀、蒙陀等诸神众。
Verse 45
बाणो भृंगिस्तथा नंदी शैलादो हि महातपाः । महाकालो महाचंडो महामुंडो महाशिराः
其间有婆那、婆陵耆与难提,又有大苦行者尸罗陀;并有摩诃迦罗、摩诃旃陀、摩诃蒙陀与摩诃尸罗等。
Verse 46
धूम्राक्षो धूम्रकेतुश्च धूम्रपादस्तथैव च । एते चान्ये च बहवो गणा रुद्रानुवर्तिनः
又有杜姆罗阿克沙(Dhūmrākṣa)、杜姆罗计都(Dhūmraketu)与杜姆罗帕达(Dhūmrapāda)。他们以及许多其他众,皆为追随鲁陀罗(Rudra)的伽那(gaṇa)。
Verse 47
केचिद्भयानका रौद्राः कबंधाश्च तथा परे । विलोचनाश्च केचिच्च वक्षोहीनास्तथा परे
有的可怖而凶猛;有的却是无首之躯。有人目光怪异,又有人竟无胸膛。
Verse 48
एवंभूताश्च शतशः सर्वे ते कृत्तिवाससः । जटाकलापसंभूषाः सर्वे रुद्राक्षभूषणाः
如是者成百上千:皆披兽皮为衣,顶戴纠结发髻(jaṭā)之丛,人人以鲁陀罗叉(rudrākṣa)念珠为庄严。
Verse 49
जितेंद्रिया वीतरागाः सर्वे विषयवैरिणः । एभिः सर्वैः परिवृतः शंकरो लोकशंकरः । दृष्टस्तया उपाविष्ट आसने परामाद्भुते
他们皆能制御诸根,离欲无染,视诸境为敌。被众人环绕之中,她看见商羯罗(Śaṅkara)——赐福于诸世的护佑者——端坐在至为奇妙的宝座之上。
Verse 50
आक्षिप्तचित्ता सहसा जगाम शिवसंनिधिम् । शिवेन स्थापिता स्वांके प्रीतियुक्तेन वल्लभा
她心神忽然被牵动,立刻趋至湿婆(Śiva)座前。湿婆满怀慈爱,将爱侣安置于自己膝上,情意深切。
Verse 51
प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम् । किमागमनकार्यंमे वद शीघ्रं सुमध्यमे
她为爱所感,先以恭敬与礼赞为前导而发言:“请快告诉我,纤腰的佳人啊——你此来所为何事?”
Verse 52
एवमुक्ता तदा तेन उवाचासितलोचना
他如此发问后,那位黑眸的女子当即答道。
Verse 53
सत्युवाच । पितुर्मम महायज्ञे कस्मात्तव न रोचते । गमनं देवदेवश तत्सर्वं कथय प्रभो
萨蒂娅说道:“在我父亲的大祭祀中,为何你不喜前往,诸天之主啊?主宰啊,请将一切都告诉我。”
Verse 54
सुहृदामेष वै धर्मः सुहृद्भिः सह संगतिम् । कुर्वंति यन्महादेव सुहृदां प्रीतिवर्धिनीम्
“这确是朋友之法(dharma),摩诃提婆啊:与友相伴相聚,使善意之人间的情爱日益增长。”
Verse 55
तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः । यज्ञवाटं पितुर्मेऽद्य वचनान्मे सदाशिव
“因此,请你竭尽心力前往——纵然未受邀请——今日就到我父亲的祭场,萨达湿婆啊,依我所请。”
Verse 56
तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः । त्वया भद्रे न गंतव्यं दक्षस्य यजनं प्रति
听罢她的话,他以柔和而真实之语答道:“贤淑尊贵的夫人啊,你不应前往达克沙(Dakṣa)的祭祀(yajña)。”
Verse 57
तस्य ये मानिनः सर्वे ससुरासुकिंनराः । ते स्रेव यजनं प्राप्ताः पितुस्तव न संशयः
“凡他所礼敬者——连同诸天与紧那罗(Kiṃnara)——确已到达你父亲的祭祀;对此毫无疑虑。”
Verse 58
अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम् । अपमानं प्राप्नुवन्ति मरणादधिकं ततः
“哦,秀眉者啊,未受邀请而擅入他人尊贵宅邸者,必招致羞辱——其苦甚于死亡。”
Verse 59
परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत् । तस्मात्त्वाया न गंतव्यं दक्षस्य यजनं शुभे
“即便因陀罗(Indra)进入他人之家,也可能失其尊严而受轻。故此,吉祥者啊,你不应前往达克沙的祭祀。”
Verse 60
एवमुक्ता सती तेन महेशेन महात्मना । उवाच रोषसंयुक्तं वाक्यं वाक्यविदां वरा
大心的摩醯湿伐罗(Maheśa)如此告诫之后,娑底(Satī)——言辞之道最为卓绝者——以满含愤慨之语作答。
Verse 61
यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर । अनाहूतोऽसि तेनाद्य पित्रा मे दृष्टचारिणा । तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः
世间认为祭祀(yajña)是承载真理的神圣行持——而你正是那真理本身,噢主宰,诸天之中最尊胜者。然而今日,我那行径乖僻的父亲竟未曾邀请你。我愿尽知其事:那心怀恶念者究竟意欲何为?
Verse 62
तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम । अनुज्ञां देहि मे नाथ देवदेव जगत्पते
因此,我今日便要前往我父亲的祭场。求你赐我许可,噢主宰——噢诸神之神,噢统御诸界之主。
Verse 63
इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम् । विज्ञाताखिलदृग्द्रष्टा भगवान्भूतभावनः
女神如此启请后,圣尊——鲁陀罗,即湿婆自身——洞知并遍观一切者、令众生生起并护持的主宰,便尽皆了然。
Verse 64
स तामुवाच देवेशो महेशः सर्वसिद्धिदः । गच्छ देवि त्वरायुक्ता वचनान्मम सुव्रते
于是,诸神之主摩诃伊湿(Maheśa)——赐予一切成就者——对她说道:“去吧,女神;速速前往,持善誓者,依我之言而行。”
Verse 65
एतं नंदिनमारुह्य नानाविधगणान्विता । गणाः षष्टिसहस्राणि जग्मूरौद्राः शिवज्ञया
她乘上难陀因(Nandin),并由种种伽那众随侍;六万名如鲁陀罗般威猛的侍从,奉湿婆之命启程而去。
Verse 66
तैर्गणैः संवृता देवी जगाम पितृमंदिरम् । निरीक्ष्य तद्बलं सर्वं महादेवोतिविस्मितः
女神被诸多伽那众环绕,前往父亲的居所。摩诃提婆见她随行之力阵势尽现,心中大为惊异。
Verse 67
भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः । प्रेषयामास चाव्यग्रो महादेवोऽनु पृष्ठतः
摩诃提婆——降伏怨敌者——毫不迟疑,从后遣送珍贵宝饰,奉献给女神,令其随行而至。
Verse 68
देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः । दाक्षायणी पित्रवमानिता सती न यास्यतीति स्वपुरं पुनर्जगौ
当女神已至父家之时,至福的摩诃伊湿罗沉思诸事。断定达叉之女萨蒂因受父辱而不复归来,他便再次返回自己的居所。