Adhyaya 59
Mahesvara KhandaKaumarika KhandaAdhyaya 59

Adhyaya 59

本章开端,圣贤绍那迦(Śaunaka)向苏多(Sūta)询问先前提及的神奇圣洁之力,以及与“悉地林伽”(Siddhaliṅga)相关的人物身份与成就,渴望明白成就如何因恩典而得。苏多(Ugraśravas)答言,将转述他从岛生者(Dvaipāyana,即毗耶娑 Vyāsa)处听闻的传统。 叙事转入史诗场景:般度五子定居因陀罗城(Indraprastha)后,在会堂议论之时,迦托特迦(Ghaṭotkaca)来至。诸兄弟与婆苏提婆(Vāsudeva)迎接他;坚战(Yudhiṣṭhira)问其安泰、治境与其母近况。迦托特迦禀告自己维持秩序,并遵母命修持对祖灵(Pitṛs,先祖)的虔敬,以护持家族荣誉。 坚战继而向奎师那(Kṛṣṇa)请教,为迦托特迦择配。奎师那指出在普罗迦焦提沙城(Prāgjyotiṣapura)有一位强悍的候选新娘——阿修罗摩罗(daitya Mura,亦与那罗迦 Naraka 相连)之女,并追述往昔冲突:女神迦摩迦耶(Kāmakhyā)出面制止杀戮,赐予她武勇之福,并宣示宿命盟约:她将成为迦托特迦之妻。女子自定条件:唯有在挑战中胜过她者方可娶她,许多求婚者因此丧命。众人议论:坚战忧其凶险,毗摩(Bhīma)强调刹帝利之勇与必行艰难之事,阿周那(Arjuna)支持神谕,奎师那亦赞同并催促速行。迦托特迦谦恭受命,誓守祖先与家门之荣;得奎师那赐福与谋略扶持,遂循天路飞往普罗迦焦提沙。

Shlokas

Verse 1

शौनक उवाच । अत्यद्भुतमिदं सूत गुप्तक्षेत्रस्य पावनम् । महन्माहात्म्यमतुलं कीर्तितं हर्षवर्धनम्

绍那迦说道:此事极其奇妙啊,苏多——隐秘圣域(Guptakṣetra)那净化之大威德。宏大无比、无可比拟的圣迹功德(māhātmya)已被宣说,增长欢喜。

Verse 2

पुनर्यत्सिद्धलिंगस्य पूर्वं माहात्म्यकीर्तने । इत्युक्तं यत्प्रसादेन सिद्धमातुस्तु सेत्स्यति

又复——先前在宣说悉地林伽(Siddhaliṅga)之圣迹功德(māhātmya)时所言:凭借彼之恩典,悉地母(Siddhamātā,尊贵圣母)必将圆满成就。

Verse 3

विजयोनाम पुण्यात्मा साहाय्याच्चंडिलस्य च । को न्वसौ चंडिलोनाम विजयोनाम कस्तथा

名为毗阇耶者,乃具福德之人,曾为旃提罗(Caṇḍila)之助缘。那名为旃提罗者究竟是谁?而那位正直有德、名为毗阇耶者又是谁,竟作了他的帮手?

Verse 4

कथं च प्राप्तवान्सिद्धिं सिद्धमातुः प्रसादतः । एतदाचक्ष्व तत्त्वेन श्रोतुं कौतूहलं हि नः

他又是如何蒙悉达母(Siddhamātā)之恩而成就灵验(悉地)的?请如实告知,因为我们渴望聆听。

Verse 5

सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत् । उग्रश्रवा उवाच । साधु पृष्टमिदं विप्रा दूरांतरितमप्युत

听闻贤善之人的行传,谁能不生欢喜与好奇?乌格罗施罗瓦说道:诸婆罗门,问得好——虽此事已远在久昔。

Verse 6

श्रुता द्वैपायनमुखात्कथां वक्ष्यामि चात्र वः । पुरा द्रुपदराजस्य पुत्रीमासाद्य पांडवाः

我将在此为诸位讲述一则我亲从德外帕亚那(Dvaipāyana)口中听来的故事。久远以前,般度五子赢得了德鲁帕达王之女。

Verse 7

धृतराष्ट्रमते पश्चादिंद्रप्रस्थं न्यवेशयन् । रक्षिता वासुदेवेन कदाचित्तत्र पांडवाः

后来依照持国王(Dhṛtarāṣṭra)的裁断,他们在因陀罗城(Indraprastha)安居。其间有一次,般度五子蒙婆苏提婆(Vāsudeva)护佑。

Verse 8

उपविष्टाः सभामध्ये कथाश्चक्रुः पृथग्विधाः । देवर्षिपितृभूतानां राज्ञां चापि प्रकीर्तने

他们端坐于议事殿中,展开种种谈论——称述天界圣仙、祖灵(Pitṛ)、诸灵众,以及诸王的事迹。

Verse 9

क्रियमाणेऽथ तत्रागाद्भीमपुत्रो घटोत्कचः । तं दृष्ट्वा भ्रातरः पंच वासुदेवश्च वीर्यवान्

当时事正进行之际,毗摩之子伽托特迦恰来到那里。众人见到他,五位兄弟以及威武的婆苏提婆也一同起身以示敬意。

Verse 10

उत्थाय सहसा पीठादालिलिंगुर्मुदा युताः । स च तान्प्रणतः प्रह्वो ववंदे भीमनंदनः

众人立刻从座位上起身,欢喜地拥抱他。毗摩之子也谦恭俯首,向他们致敬礼拜。

Verse 11

साशिषं च ततो राज्ञा स्वोत्संग उपवेशितः । आघ्राय स्नेहतो मूर्ध्नि प्रोक्तश्च जनसंसदि

随后国王为他祝福,让他坐在自己膝上。国王满怀慈爱地亲嗅其顶,继而在众会之中向他发言。

Verse 12

युधिष्ठिर उवाच । कुत आगम्यते पुत्र क्व चायं विहृतस्त्वया । कालः क्वचित्सुखं राज्यं कुरुषे मातुलं तव

由提施提罗说道:“孩子,你从何处而来,又曾游行于何方?你可曾得片刻安乐,并善尽职责,辅佐你母舅之国吗?”

Verse 13

कश्चिद्देवेषु विप्रेषु गोषु साधुषु सर्वदा । हैडंबे नापकुरुषे प्रियमेतद्धरेश्च नः

愿无人永远加害诸天、婆罗门、牛群与诸位善士(萨度)。此乃海檀婆所珍爱,亦为我等之主——法王(Dharmarāja)所珍爱。

Verse 14

हेडंबस्य वनं सर्वं तस्य ये सैन्यराक्षसाः । पाल्यमानास्त्वया साधो वर्धंते जनक्षेमकाः

赫丹巴的整片森林,以及充作他军旅的诸罗刹——蒙你护持,善者啊——皆得兴盛,成为为民带来安泰之者。

Verse 15

कच्चिन्नंदति ते माता भृशं नः प्रियकारिणी । कन्यैव या पुरा भीमं त्यक्त्वा मानं पतिं श्रिता

你的母亲如今可真在欢喜么——那位曾大大为我们行善者——她昔日尚为处女时,弃绝毗摩,而择取一位堪受敬荣的夫君?

Verse 16

इति पृष्टो धर्मराज्ञा स्मयन्हैडंबिरब्रवीत् । हते तस्मिन्दुराचारे मातुलेऽस्मि नियोजितः

达摩王如此问时,海丹毗含笑答道:“那恶行的舅父既被诛杀之后,我便被任命来掌理其事。”

Verse 17

तद्राज्यं शासने स्थाप्य दुष्टान्निघ्नंश्चराम्यहम् । माता कुशलिनी देवी तपो दिव्यमुपाश्रिता

我既将那国度安置于正法之治,便四处巡行,镇伏恶徒。我的母亲——那位高贵的夫人——安然无恙,已归依于神圣的苦行。

Verse 18

मामुवाच सदा पुत्र पितॄणां भक्तिकृद्भव । सोऽहं मातुर्वचः श्रुत्वा मेरुपादात्समागतः

她常对我说:“孩子啊,当以虔敬奉事诸 Pitṛ——祖灵先祖。”因此我听从母命,自须弥山脚来到此处。

Verse 19

प्रणामायैव भवतां भक्तिप्रह्वेण चेतसा । आत्मानं च महत्यर्थे कस्मिंश्चित्तु नियोजितम् । भवद्भिरहमिच्छामि फलं यस्मादिदं महत्

我以虔敬俯伏之心向诸位顶礼。我愿知:你们投身于这宏大事业之中,由此生起的伟大果报究竟为何?

Verse 20

यदाज्ञापालनं पुत्रः पितॄणां सर्वदा चरेत् । अथोर्द्ध्वलोकान्स जयेदिह जायेत कीर्तिमान्

若为人子恒常遵行并圆满祖先之命令,则能胜得诸上界;而在此世亦以名声显扬而立。

Verse 21

सूत उवाच । इत्युक्तवंतं तं राजा परिरभ्य पुनःपुनः । उवाच धर्मराट् पुत्रमानंदाश्रुः सगद्गदम्

苏多说道:他如此说罢,国王一次又一次地拥抱他。随后,达摩罗阇对儿子开口,因欢喜与甘露般的泪水而哽咽失声。

Verse 22

त्वमेव नो भक्तिकारी सहायश्चापि वर्तसे

唯有你替我们显发虔敬之行,你亦是我们所依的助伴。

Verse 23

एतदर्थं च हैडंबे पुत्रानिच्छंति साधवः । इहामुत्र तारयंते तादृशाश्चापि पुत्रकाः

正因如此,嗨ḍamba啊,贤善之人渴望得子:如此之子能为救度者,使人于此世与彼世皆得解脱。

Verse 24

अवश्यं यादृशी माता तादृशस्तनयो भवेत् । माता च ते भक्तिमती दृढं नस्त्वं च तादृशः

诚然,母亲如何,儿子亦如何。你的母亲信奉虔敬、坚固不移,因此你也必定具备同样的本性。

Verse 25

अहो सुदुष्करं देवी कुरुते मे प्रिया वधूः । या भर्तृश्रियमुल्लंघ्य तप एव समाश्रिता

唉!我所钟爱的妻子,那位高贵的夫人,正在行一件极其艰难之事:她越过丈夫财富所带来的荣华与安逸,唯独归依苦行。

Verse 26

नूनं कामेन भोगैर्वा कृत्यं वध्वा न मे मनाक् । या पुत्रसुखमन्वीक्ष्य परलोकार्थमाश्रिता

确然,我的妻子对欲望与享乐毫不挂怀,连一丝也无。纵然见到得子之乐,她仍执取为来世福祉而行的道路。

Verse 27

दुष्कुलीनापि या भक्ता सूतेऽपत्यं च भक्तिमत् । कुलीनमेव तन्मन्ये ममेदं मतमुत्तमम्

即便女子出身卑微,若她虔敬,并生下同样虔敬的子嗣,我也认为那一族才是真正的高贵——此乃我至高的信念。

Verse 28

एवं बहूनि वाक्यानि तानि तानि वदन्नृपः । धर्मराजः समाभाष्य केशवं वाक्यमब्रवीत्

说了许多这样的话之后,国王达摩罗阇对克舍婆开口,又继续说道。

Verse 29

पुंडरीकाक्ष जानासि यथा भीमादभूदयम् । जातमात्रस्तु यश्चासीद्यौवनस्थो महाबलः

噢,莲华眼者,你知此人如何由毗摩而生——方才出生之际,便已具青年之相,且具大力。

Verse 30

अष्टानां देवयोनीनां यतो जन्म च यौवनम् । सद्य एव भवेत्तस्मात्सद्योऽस्यासीच्च यौवनम्

由于在八种天界胎藏之中,出生与青春皆即刻显现;因此在他身上,青春亦当下具足。

Verse 31

तदस्योचितदारार्थे सदा चिंतास्ति कृष्ण मे । उचितं बत हैडंबेः क्व कलत्रं करोम्यहम्

因此,噢克里希纳,我常为给他寻得相称之妻而忧虑。诚然,为海檀婆,我到哪里才能得一位合宜的新娘呢?

Verse 32

तद्भवान्कृष्णसर्वज्ञ त्रिलोकीमपि वेत्सि च । हैडंबेरुचिता दारान्वक्तुमर्हसि यादव

因此,噢克里希纳,全知者,亦洞悉三界者,噢雅达婆,请为我指示:谁堪为海檀婆之配偶?

Verse 33

सूत उवाच । एवमुक्तो धर्मराज्ञा क्षणं ध्यात्वा जनार्दनः । धर्मराजमिदं वाक्यं पदांतरितमब्रवीत्

苏多曰:达摩罗阇如是发问,阇那尔达那沉思片刻,继而以周详之辞答复达摩罗阇。

Verse 34

अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम् । सांप्रतं संस्थिता रम्ये प्राग्ज्योतिषपुरे वरे

大王啊,我将告知:有一位吉祥而相称的佳偶适合于他。如今她安住在美丽而殊胜的普罗伽焦提沙城(Prāgjyotiṣa)。

Verse 35

सा च पुत्री मुरोः पार्थ दैत्यस्याद्भुतकर्मणः । योऽसौ नरकदैत्यस्य प्राणतुल्यः सखाऽभवत्

而她乃是牟罗(Mura)之女,噢帕尔塔(Pārtha)——那位行事奇绝的达那婆(Dānava),曾成为那罗迦(Naraka)魔王视若性命的挚友。

Verse 36

स च मे निहतो घोरः पाशदुर्गसमन्वितः । नरकश्च दुराचारस्त्वमेतद्वेत्सि सर्वशः

那可怖之徒虽凭绳索之缚与坚固堡垒自恃,仍被我所诛;而那罗迦亦是恶行之辈——此事你尽皆明了。

Verse 37

ततो हते मुरौ दैत्ये मया तस्य सुताव्रजत् । योद्धुं मामतिवीर्यत्वाद्घोरा कामकटंकटा

我诛杀魔族牟罗之后,他的女儿因自恃非凡神勇而出阵与我交战——那可怖的迦摩迦坦迦塔(Kāmakaṭaṅkaṭā)。

Verse 38

तां ततोऽहं महायुद्धे खड्गखेटकधारिणीम् । अयोधयं महाबाणैः सुशार्ङ्गधनुषश्च्युतैः

于是,在那场大战中,我与她交锋——她执剑持盾——我以从我那殊胜的娑楞伽弓(Śārṅga)射出的强劲神箭迎战。

Verse 39

खड्गेन चिच्छेद बाणान्मम सा च मुरोः सुता । समागम्य च खड्गेन गरुडं मूर्ध्न्यताडयत्

穆拉之女挥剑斩断我的箭矢;随即近身,以此剑猛击迦楼罗之首。

Verse 40

स च मोहसमाविष्टो गरुडोऽभूदचेतनः । ततस्तस्या वधार्थाय मया चक्रं समुद्यतम्

迦楼罗陷入迷乱,失去了知觉。于是,为了斩杀她,我举起了神轮。

Verse 41

चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे । कामाख्या नाम मां देवी पुरः स्थित्वा वचोऽब्रवीत्

见我在战场上举起神轮,名为卡玛克雅(Kāmākhyā)的女神立于我面前,说道:

Verse 42

नैनां हंतुं भवानर्हो रक्षैतां पुरुषोत्तम । अजेयत्वं मया ह्यस्या दत्तं खड्गं च खेटकम्

“你不应杀她,普鲁索塔玛(Puruṣottama)啊;保护她吧。因我已赐予她无敌之身,以及宝剑与盾牌。”

Verse 43

बुद्धिरप्रतिमा चापि शक्तिश्च परमा रणे । ततस्त्वया त्रिरात्रेऽपि न जितासीन्मुरोः सुता

“她的智慧无双,战力至高无上。因此,即便历经三夜,你也未能征服穆拉之女。”

Verse 44

एवमुक्ते तदा देवीं वचनं चाहमब्रवम् । अयमेष निवृत्तोऽस्मि वारयैनां च त्वं शुभे

她如此说罢,我便对女神说道:“我在此退出战斗。噢吉祥者,你也请约束她。”

Verse 45

ततश्चालिंग्य तां भक्तां कामाख्या वाक्यमब्रवीत् । भद्रे रणान्निवर्तस्व नायं हंतुं कथंचन

随后,迦摩迦耶拥抱那位虔敬的女子,说道:“贤淑的女士啊,回转离开战场吧;此人无论如何都不可被杀。”

Verse 46

शक्यः केनापि समरे माधवो रणदुर्जयः । नाभूदस्ति भविष्यो वा य एनं संयुगे जयेत्

战场上不可战胜的摩陀婆,任何人都无法在交锋中胜过他。过去没有,现在没有,将来也不会有能在战斗中击败他的人。

Verse 47

अपि वा त्र्यंबकः पुत्रि नैनं शक्तः कुतोऽन्यकः । तस्मादेनं नमस्कृत्य भाविनं श्वशुरं शुभे

即便三眼者特里央婆迦(湿婆),女儿啊,也不能制服他——更何况他人?因此,吉祥者啊,当向他顶礼,因为他将成为你未来的公公。

Verse 48

रणादस्मान्निवर्तस्व तवोचितमिदं स्फुटम् । अस्य भ्रातुर्हि भीमस्य स्नुषा त्वं च भविष्यसि

从这场战斗中退回吧——这才分明是与你相称之事。因为你将成为他兄弟毗摩的儿媳。

Verse 49

तस्मात्त्वं श्वशुरं भद्रे सम्मानय जनार्दनम् । न च शोकस्त्वया कार्यः पितरं प्रति पंडिते

因此,贤淑的女子啊,当尊敬阇那尔达那(Janārdana)为你的公公,如同父亲一般。智者啊,你不应因你的父亲而悲伤。

Verse 50

जातस्य हि ध्रुवो मृत्युर्ध्रुव जन्म मृतस्य च । बहवश्चाऽस्य वेत्तारो वद केनापि वार्यते

凡已出生者,死亡必定到来;凡已死去者,再生亦必定到来。许多人知此真理——告诉我,谁能阻止它呢?

Verse 51

ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यविद्यान्पुरुषान्नृपांश्च । कान्मृत्युरेको न पतेत काले परावरज्ञोऽत्र न मुह्यते क्वचित्

诸仙圣(ṛṣi)、诸天、伟大的阿修罗、通达三部吠陀之学者、世人以及诸王——时辰一到,独一的死亡岂有不降临者?洞悉高下、明了真实次第的人,在此世从不迷惑。

Verse 52

श्लाघ्य एव हि ते मृत्युः पितुरस्माज्जनार्दृनात् । सर्वपातकनिर्मुक्तो गतोऽसौ धाम वैष्णवम्

确然,你父亲死于此阇那尔达那(Janārdana)之手,实为可赞:脱离一切罪垢,他已往生至毗湿奴信众之圣境(Vaiṣṇava 之居处)。

Verse 53

एवं कामाख्यया प्रोक्ता सा च कामकटंकटा । त्यक्त्वा क्रोधं च संवृत्य गात्राणि प्रणता च माम्

我以“迦摩迦耶”(Kāmākhyā)之名如此告诫她时,她——迦摩迦坦迦塔(Kāmakaṭaṃkaṭā)——便舍弃忿怒,摄心自持,收敛身形,恭敬地向我顶礼。

Verse 54

तामहं साशिषं चापि प्रावोचं भरतर्षभ । अस्मिन्नेव पुरे तिष्ठ भगदत्तप्रपूजिता

噢,婆罗多族中的雄牛啊!我遂以祝福告之曰:“就住在此城中,受婆伽达多之供奉礼敬。”

Verse 55

मया देव्या पृथिव्या च भगदत्तः कृतो नृपः । स ते पूजां बहुविधां करिष्यति स्वसुर्यथा

由我与大地女神共同成就,婆伽达多被立为王;他将以种种供养礼拜于你,如同敬奉自己的岳父一般。

Verse 56

वसंती चात्र तं वीरं हैडिंबं पतिमाप्स्यसि । एवमाश्वास्य तां देवीं मौर्वीं चाहं व्यसर्जयम्

“居于此处,你将得那位英雄海底姆婆为夫。”如此安慰了女神摩尔毗后,我便遣她离去。

Verse 57

सा स्थिता च पुरे तत्र गतोऽहं शक्रसद्म च । ततो द्वारवतीं प्राप्य त्वया सह समागतः

她便留在那座城中,而我前往释迦罗(因陀罗)之居所;随后抵达堕罗伐底,便与你相会。

Verse 58

एवमेषोचिता दारा हैडंबेर्विद्यते शुभा । कामाख्ये च रणे घोरा या विद्युदिव भासते

于是,这位吉祥的女子成为海底姆婆相称的妻室——在迦摩佉耶的惨烈战场上威怖无比,光耀如电。

Verse 59

न च रूपं वर्णितं मे श्वशुरस्योचितं यतः । साधोर्हि नैतदुचितं सर्वस्त्रीणां प्रवर्णनम्

我未曾描绘她的容色,因为那样的凝视更适合岳父;诚然,德行之士不应细述一切女子的形貌。

Verse 60

पुनरेकश्च समयः कृतस्तं शृणु यस्तया । यो मां निरुत्तरां प्रश्ने कृत्वैव विजयेत्पुमान्

再听她所立的另一条条件:凡能以一问使我无言以对而胜过我的男子,便为胜者。

Verse 61

यो मे प्रतिबलश्चापि स मे भर्ता भविष्यति । एवं च समयं श्रुत्वा बहवो दैत्यराक्षसाः

“凡与我力等者,便当为我夫。”闻此约定,众多达那婆与罗刹纷纷前来应试。

Verse 62

तस्या जयार्थमगमंस्तेऽपि जित्वा हतास्तया । यो य एनां गतः पूर्वं न स भूयो न्यवर्तत

他们为求战胜她而出征,然而纵使胜过他人,终仍被她所诛。凡先前前去挑战她的人,无一再返。

Verse 63

वह्नेरिव प्रभां दीप्तां पतंगानां समुच्चयः । एवमेतादृशीं मौर्वीं जेतुमुत्सहते यदि

犹如飞蛾群妄想征服烈火炽燃之光辉;同样,若有人自恃能战胜这可畏的摩尔维(Maurvī),那便是狂妄之勇。

Verse 64

घटोत्कचो महावीर्यो भार्यास्य नियतं भवेत्

大勇的伽托特迦迦,必定会成为她的夫君。

Verse 65

युधिष्ठिर उवाच । अलं सर्वगुणैस्तस्या यस्यास्त्वेको गुणो महान् । क्रियते किं हि क्षीरेण यदि तद्विषमिश्रितम्

玉提湿提罗说道:“她纵有诸多德行,若一过甚大,又有何用?牛乳若掺入毒药,还能成就什么?”

Verse 66

प्राणाधिकं भैमसेनिं कथं केवलसाहसात् । क्षिपेयं तव वाक्यानां शुद्धानां चाथ कोविदम्

我怎能仅凭鲁莽之勇,就弃舍比生命更珍贵的毗摩塞那?又怎能摒却你那清净而睿智的言语?

Verse 67

अन्या अपि स्त्रियः संति देशे देशे जनार्दन । बह्व्यस्तासां वरां कांचिद्योषितं वक्तुमर्हसि

噢,阇那尔达那,在诸多国土亦有别的女子;在她们之中,你应当指名一位上妙的少女。

Verse 68

भीम उवाच । सम्यगुक्तं केशवेन वाक्यं बह्वर्थमुत्तमम् । राज्ञा पुनः स्नेहवशाद्यदुक्तं तन्न भाति मे

毗摩说道:“计舍婆所言甚是,其语上妙而义蕴深广;但国王因情爱而说的话,我并不称心。”

Verse 69

कार्ये दुःसाध्य एव स्यात्क्षत्रियस्य पराक्रमः । करींद्रस्येव यूथेषु गजानां न मृगेषु च

刹帝利的勇武应当用于难以成就之事——如象王立于象群之中,而非在鹿群之间。

Verse 70

आत्मा प्रख्यातिमानेयः सर्वथा वीरपुंगवैः । सा च ख्यातिः कथं जायेद्दुःसाध्यकरणादृते

诸位高贵的勇士当以真实的声名来尊敬自身;而不成就艰难之事,这样的声名又从何而生?

Verse 71

न ह्यात्मवशगं पार्थ हैडंबेरस्य रक्षणम् । येन दत्तस्त्वयं धात्रा स एनं पालयिष्यति

噢,帕尔塔,海达姆贝拉的护持并不由个人所能掌控;那位将他赐予你的造化主(Dhātṛ),必将护佑他。

Verse 72

सर्वथोच्चपदारोहे यत्नः कार्यो विजानता । तन्न सिध्यति चेद्दैवान्नासौ दोषो विजानतः

求登至高之位,明达之人当竭尽一切努力;若因天命而未成,智者并无过失。

Verse 73

यथा देवव्रतस्त्वेको जह्रे काशिसुताः पुरा । तथैक एव हैडंबिर्मौर्वीं प्राप्नोतु मा चिरम्

正如往昔提婆弗罗多独自掳走迦尸王之女,愿海达姆毗亦能独自迅速得获摩尔维,莫使久延。

Verse 74

अर्जुन उवाच । केवलं पौरुषपरं भीमेनोक्तमिदं वचः । अबलं दैवहेतुत्वात्प्रबलं प्रतिभाति मे

阿周那说道:“毗摩所言此语,似乎只凭人力;然而既以命运为因,在我看来,原本显得软弱的也呈现为强大。”

Verse 75

न मृषा हि वचो ब्रूते कामाख्या या पुराऽब्रवीत् । भीमसेनसुतः पाणिं तव भद्रे ग्रहीष्यति

“迦摩迦耶(Kāmākhyā)从不妄语——她先前曾宣告:‘贤淑的夫人啊,毗摩塞那之子将执你之手,与汝成婚。’”

Verse 76

अनेन हेतुना यातु शीघ्रं तत्र घटोत्कचः । इति मे रोचते कृष्ण तव किं ब्रूहि रोचते

“因此,让伽托乌迦叉(Ghaṭotkaca)立刻前往那里。此事令我欢喜,噢克里希纳——请告诉我,什么令你欢喜?”

Verse 77

कृष्ण उवाच । रोचते मे वचस्तुभ्यं भीमस्य च महात्मनः । न हि तुल्यो भैमसेनेर्बुद्धौ वीर्ये च कश्चन

克里希纳说道:“你与大心的毗摩之言令我欢喜。因为在谋略与勇力上,无人能与毗摩塞那相比。”

Verse 78

अंतरात्मा च मे वेत्ति प्राप्तामेव मुरोः सुताम् । तच्छीघ्रं यातु हैडंबिस्त्वं च किं पुत्र मन्यसे

“而我内在之心也知:摩罗之女已如同到手。故当令海檀毗(Haiḍambī)速速前往。你也一样,我的孩子——你意下如何?”

Verse 79

घटोत्कच उवाच । न हि न्याय्याः स्वका वक्तुं पूज्यानामग्रतो गुणाः । प्रवृत्ता एव भासंते सद्गुणाश्च रवेः कराः

伽陀迦遮说道:“在应受尊敬者面前,自夸其德并不相宜。真正的德行自会显耀,如同太阳的光芒。”

Verse 80

सर्वथा तत्करिष्यामि पितरो येन मेऽमलाः । लज्जिष्यंति न संसत्सु मया पुत्रेण पांडवाः

“无论如何,我都要行那使我清净的父辈——般度五子——不因我这儿子而在众会中蒙羞之事。”

Verse 81

एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान् । जयाशीर्भिश्च पितृभिर्वर्द्धितो गंतुमैच्छत

说罢,那位臂力无双者起身向他们顶礼;又蒙父辈赐予胜利的祝福而心力增长,便欲启程。

Verse 82

तं गतुकाममाहेदमभिनंद्य जनार्दनः । कथाकथनकाले मां स्मरेथास्त्वं जयावहम्

见他急欲启行,阎那尔达那称赞他说:“当你讲述此事之时,当忆念我——赐胜者。”

Verse 83

यथा बुद्धिं सुदुर्भेद्यां वर्धयामि बलं च ते । इत्युक्त्वालिंग्य तं कृष्णो व्यससर्जत साशिषम्

说着:“愿我使你的智慧坚固难破,也愿我增长你的力量。”克里希纳拥抱了他,赐福后便让他离去。

Verse 84

ततो हिडंबातनयो महौजाः सूर्याक्षकालाक्षमहोदरानुगः । वियत्पथं प्राप्य जगाम तत्पुरं प्राग्ज्योतिषं नाम दिनव्यपाये

随后,希ḍimbā之子威力无比,偕同苏利亚克沙(Sūryākṣa)、卡拉克沙(Kālākṣa)与摩诃乌达罗(Mahodara),循天际之路而行,于日暮时分抵达名为“普罗伽乔提沙”(Prāgjyotiṣa)的城。