Adhyaya 52
Mahesvara KhandaKaumarika KhandaAdhyaya 52

Adhyaya 52

本章以对话展开:阿周那请那罗陀说明科提提尔塔(Koṭitīrtha)的起源与建成缘由,并解释为何其功德果报被广为宣说。那罗陀叙述一段宇宙—仪轨的缘起:梵天自梵天界(Brahma-loka)被迎请而来,忆念无量无数的圣渡处(tīrtha);凭借忆念之力,天界、地界与地下界(Pātāla)的诸提尔塔及其相应的林伽(liṅga)悉皆现前。梵天沐浴礼拜后,以意念化现一座圣湖(sarovara),并颁令:一切提尔塔皆住于此湖;在此处礼拜一尊林伽,即等同礼拜一切林伽。 功德宣说(phalaśruti)进一步指出:于科提提尔塔行沐浴(snāna),得遍历诸提尔塔与诸河之果报,亦含恒河(Gaṅgā);行祖先祭(śrāddha)与施食团(piṇḍadāna),令先祖得无尽满足;礼敬科提伊湿伐罗(Koṭīśvara),获如礼拜“亿(koṭi)”林伽之功德。叙事又以圣仙为证,定位其神圣:阿特里在科提提尔塔之南建立阿特里伊湿伐罗并开凿水池;婆罗陀婆阇安置婆罗陀婆阇伊湿伐罗,修苦行并行祭祀(yajña);乔达摩为求与阿诃利耶(Ahalyā)相合而严修苦行,继而阿诃利耶化现阿诃利耶圣池(Ahalyā-saras);于彼沐浴行礼并礼敬乔达摩伊湿伐罗(Gautameśvara),可至梵天界。 本章亦明示布施伦理:以信心供养一位婆罗门,被说为能令“一亿(koṭi)”满足;在此圣地施与,福德倍增;然许诺布施而不履行者,遭严厉谴责并招致重果。又指出功德加倍之时节——摩伽月(Māgha)、太阳入摩羯(Makara)、处女宫转节(Kanyā-saṅkrānti)与迦尔提迦月(Kārtika)——其仪轨收益甚高,乃至等同亿次大祭(koṭi-yajña)。末了赞叹与此地相关的临终、火葬与遗骨入水之功德,非言辞所能尽述,以彰显科提提尔塔在圣地谱系中的殊胜地位。

Shlokas

Verse 1

अर्जुन उवाच । कोटितीर्थं कथं जातं केन वा निर्मितं मुने । कस्माद्वा कोटितीर्थानां फलमत्रोच्यते मुने

阿周那说道:“噢牟尼圣者,俱底圣渡(Koṭitīrtha)如何产生,又是谁所建立?为何诸俱底圣渡之果报功德,偏在此处特别宣说,噢牟尼?”

Verse 2

नारद उवाच । यदा मे स्थापितं स्थानं प्रसाद्याथ मया प्रभुः । ब्रह्मलोकात्समानीतः साक्षाद्ब्रह्मा पितामहः

那罗陀说道:“当我的住处已被安立,而主因我而垂恩欢喜之时,梵天——那位祖父(Pitāmaha)——便从梵天界(Brahmaloka)被迎请至此。”

Verse 3

ततो मध्याह्नसमये स्नानार्थे भगवान्विधिः । सस्मार कोटितीर्थानां स्मृतान्यत्रागतानि च

随后在正午时分,尊贵的造化主(梵天)欲行沐浴;他于心中忆念诸“俱胝圣渡”(Koṭitīrtha),于是那些被忆念的圣地渡口(tīrtha)便来到此处。

Verse 4

स्वर्गात्त्रिदशलक्षाणि सप्ततिश्च महीतलात् । पातालाद्विंशलक्षाणि स्मृतान्यभ्यागतानि च

自天界而来三十“拉克”;自人间大地而来七十;自地下界波多罗(Pātāla)而来二十“拉克”——凡被忆念的诸圣渡(tīrtha)皆现前而聚集。

Verse 5

अनेन प्रविभागेन लिंगान्यपि कुरूद्वह । आयातानि यथा पूजां विदधाति पितामहः

同样依此分布,噢库鲁族中的佼佼者,诸林伽(liṅga,湿婆圣相)亦来到此处;而祖父梵天(Pitāmaha)依正法如仪礼拜供养。

Verse 6

ततोऽभिषेचनं कृत्वा लिंगान्यभ्यर्च्य पद्मभूः । मध्याह्नकृत्यं संसाध्य मम प्रेम्णा वरं ददौ

随后莲华生者(Padmabhū,梵天)行灌顶沐礼(abhiṣeka),并如法礼敬诸林伽;完成正午仪轨后,因慈爱而赐我一愿。

Verse 7

ततो भगवता ह्यत्र मनसा निर्मितं सरः । भगवानर्चितस्तीर्थैरिदमूचे प्रजापतिः

随后,世尊仅以意念便在此处化现一方圣湖;而后,受诸圣渡处(tīrtha)礼敬的主宰——生主(Prajāpati)梵天(Brahmā)说道:

Verse 8

किं कुर्म भगवन्धातरादेशं देहि नः प्रभो । तेषां तद्वचनं श्रुत्वा ब्रह्मा प्राह प्रजापतिः

“我们当作何行,噢至福的造化主(Dhātā)?主啊,请赐予我们你的命令。”听闻他们的话,生主梵天(Brahmā)答道。

Verse 9

एतस्मिन्सरसि स्थेयं तीर्थैः सर्वैरथात्र च । एकस्मिंश्च तथा लिंगे सर्वलिंगैर्ममार्चनात्

“在此圣湖之中,你们一切圣渡处(tīrtha)当住于此处。并且于一尊林伽(liṅga)之内,应当礼拜于我,如同由一切林伽共同供奉一般。”

Verse 10

कोटीनामेव तीर्थानां लिंगानां स्नानपूजया । दानेन च फलं त्वत्र यदि सत्यं वचो मम

“在此处,确然以沐浴与供奉,并以布施,其所得功德等同于亿万圣渡处(tīrtha)与林伽(liṅga)之果报——若我之言真实不虚。”

Verse 11

यः श्राद्धं कुरुते चात्र पिंडदानं यथाविधि । पितॄणामक्षया तृप्तिर्जायते नात्र संशयः

凡在此处修行施罗陀(śrāddha),并依正法仪轨奉献团食供(piṇḍa-dāna)者,必令诸祖灵(Pitṛ)得无尽满足——于此毫无疑惑。

Verse 12

स्नात्वा योऽभ्यर्चयेद्देवं कोटीश्वरमनन्यधीः । कोटिलिंगार्चनफलं व्यक्तं तस्योपजायते

沐浴之后,若有人以不二之心礼敬主科蒂伊湿伐罗(Koṭīśvara),便能明明白白获得礼拜一俱胝(koṭi)林伽之功德果报。

Verse 13

त्रैलोक्ये यानि तीर्थानि गंगाद्याः सरितस्तथा । तेषां स फलमाप्नोति कोटितीर्थावगाहनात्

三界之中一切圣地渡口,以及以恒河为首的诸圣河,其全部功德之果,只需在科蒂提尔塔(Koṭitīrtha)沐浴便可获得。

Verse 14

एवं दत्त्वा वरं ब्रह्मा ब्रह्मलोकं ययौ प्रभुः । कोटितीर्थं च संजातं ततः प्रभृति विश्रुतम्

如是赐下恩许之后,主梵天(Brahmā)返回梵天界(Brahmaloka);自那时起,此地便广为传扬,名为“科蒂提尔塔”(Koṭitīrtha)。

Verse 15

अस्य तीरे पुरा पार्थ ब्रह्माद्यैर्देवसत्तमैः । यज्ञान्बहुविधान्कृत्वा ततः सिद्धिं परां ययुः

往昔啊,帕尔塔(Pārtha),在此圣地之岸,梵天与诸天中最殊胜者曾举行种种祭祀(yajña),随后证得至上的成就。

Verse 16

वसिष्ठाद्यैर्मुनिवरैस्तपश्चीर्णं पुरानघ । मनसोऽभीप्सितान्कामान्प्रापुरन्ये तपोधनाः

无垢者啊,古时婆悉吒(Vasiṣṭha)等上首牟尼曾在此修行苦行(tapas);其余诸多具足苦行之力的行者,也得到了心中所愿。

Verse 17

अत्र तीर्थे पुरा पार्थ अत्रिणा विहितं तपः । कोटितीर्थाद्दक्षिणतः स्थापितं लिंगमुत्तमम्

在此圣地(tīrtha)久远以前,哦帕尔塔,圣者阿特里曾修苦行;并在科蒂提尔塔之南安立了一尊最上灵伽。

Verse 18

अत्रीश्वराभिसंज्ञं तु महापापहरं परम् । स्थापयित्वा च तल्लिंगमग्रे चक्रे सरोवरम्

此灵伽名为“阿特里伊湿伐罗”(Atrīśvara),至高无上,能除大罪。安立此灵伽后,他又在其前造作一方圣湖。

Verse 19

तत्र स्नात्वा च यो मर्त्यः श्राद्धं कुर्यात्प्रयत्नतः । अत्रीश्वरं समभ्यर्च्य रुद्रलोके वसेच्चिरम्

在那里,凡人沐浴之后,若殷勤行施“室罗陀”(śrāddha)并如法礼敬阿特里伊湿伐罗,便将久住于鲁陀罗之界。

Verse 20

भरद्वाजेन मुनिना कोटितीर्थे सरोवरे । तपश्चीर्णं महाबाहो यज्ञाश्च विहिताः किल

哦大臂者,在科蒂提尔塔之湖,牟尼婆罗陀婆阇确曾修行苦行;并且据说,诸般祭祀(yajña)亦在彼处举行。

Verse 21

भरद्वाजेश्वरं लिंगं स्थापितं सुमनोहरम् । तत्र कृत्वा सरो रम्यं परां मुदमवाप्तवान्

他安立了名为“婆罗陀婆阇伊湿伐罗”(Bharadvājeśvara)的灵伽,秀美而摄心。并在彼处造作一方清丽之湖,遂得至上欢喜。

Verse 22

तत्र स्नात्वा नरो भक्त्या श्राद्धं कुर्याद्विधानतः । भरद्वाजेश्वरं पूज्य शिवलोके महीयते

在彼处,行者以虔敬沐浴,当依仪轨行施祖祭(śrāddha);复礼敬婆罗陀婆阇伊湿伐罗(Bharadvājeśvara),便在湿婆之界受尊崇。

Verse 23

ततश्च कोटितीर्थेऽस्मिन्गौतमो भगवानृषिः । अतप्यत तपो घोरमहल्यासंगमाशया

其后,于此俱底圣渡(Koṭitīrtha),可敬的圣仙乔多摩(Gautama)为求与阿诃利耶(Ahalyā)重聚,修行严酷苦行。

Verse 24

तं कामं प्राप्तवान्धीमान्परां मुदमुपागतः । अहल्यया समायोगमेतत्तीर्थप्रभावतः

那位智者遂得所愿,入于至上欢喜——凭此圣渡之威力,与阿诃利耶(Ahalyā)得以合一。

Verse 25

अस्मिन्क्षेत्रे महालिंगं गौतमेश्वरसंज्ञितम् । स्थापयामास भगवानहल्यासरसस्तटे

于此圣域,可敬者在阿诃利耶(Ahalyā)之湖畔,建立一尊大灵伽,名为乔多摩伊湿伐罗(Gautameśvara)。

Verse 26

अर्जुन उवाच । अहल्यया कदा ब्रह्मन्खानितं वै महत्सरः । तन्मम ब्रूहि सकलमहल्यासरःकारणम्

阿周那说道:“婆罗门啊(Brāhmaṇa),阿诃利耶(Ahalyā)究竟何时开凿了那座大湖?请为我详尽宣说阿诃利耶之湖的全部因缘与来由。”

Verse 27

नारद उवाच । अहल्या शापमापन्ना गौतमात्किल फाल्गुन । पुरा चेंद्रसमायोगे परं दुःखमुपागता

那罗陀说道:“噢,法尔古那,据说阿诃利耶遭到乔达摩的诅咒;往昔因与因陀罗相遇,她陷入极深的忧苦。”

Verse 28

ततो दुःखार्तः स मुनिः कोटितीर्थेऽकरोत्तपः । तपसा तेन वै पार्थाहल्यया सह संगतः

随后,那位因悲苦而煎熬的圣仙在拘底圣渡(Koṭitīrtha)修行苦行;凭借那苦行之力,噢,帕尔塔,他与阿诃利耶再度团聚。

Verse 29

ततः साध्वी परं हृष्टा अत्र क्षेत्रे सरोवरम् । चकार सुमहत्पुण्यं तीर्थोदैः परिपूरितम्

于是,那位贞善的女子欢喜无量,在此圣地造就了一座宏大而清净的圣湖,盈满诸圣渡(tīrtha)之水。

Verse 30

अहल्यासरसि स्नानं पिंडदानं समाचरेत् । गौतमेशं च संपूज्य ब्रह्मलोकं स गच्छति

当于阿诃利耶之湖沐浴,并如法行施食团(piṇḍa)之供;复至诚礼敬乔达摩主(Gautameśa),其人便得往生梵天界。

Verse 31

कोटितीर्थे नरश्रेष्ठ अनेके मुनयोऽमलाः । तपस्तप्त्वा सुघोरं च परां सिद्धिमपागताः

噢,人中至胜者,在拘底圣渡有许多无垢圣仙修行极其严峻的苦行;由此而得,皆证得至上的成就(悉地)。

Verse 32

राजभिर्बहुभिः पूर्वं तपो दानं तथाध्वराः । अस्मिंस्तीर्थे सुविहिताः परां सिद्धिमुपागताः

往昔,众多国王在此圣地(tīrtha)善修苦行、布施与祭祀(yajña),由此功德而证得至上的圆满成就。

Verse 33

अस्य तीरे द्विजं चैकं मृष्टान्नैर्यश्च तर्पयेत् । तेन श्रद्धासहायेन कोटिर्भवति तर्पिता

凡在此圣岸,以精美净食供养、令一位婆罗门满足者——以信心为助——其功德等同于令一亿(koṭi)众生得饱足。

Verse 34

अस्य तीरे नरः पार्थ रत्नानि विविधानि च । गोभूमितिलधान्यानि वासांसि विविधानि च

噢,帕尔塔啊,在此岸,人可奉献种种珍宝,并施与牛、土地、芝麻、谷粮,以及各类衣服。

Verse 35

श्रद्धया परया पार्थ द्विजेभ्यः संप्रयच्छति । शतकोटिगुणं पुण्यं कोटितीर्थप्रभावतः । कोटितीर्थे प्रतिश्रुत्य द्विजेभ्यो न प्रयच्छति

噢,帕尔塔啊,若有人以至上信心在此布施婆罗门,凭借拘胝圣渡(Koṭitīrtha)之威德,其福德增至百拘胝倍;但若在拘胝圣渡许诺而后不施与婆罗门者,必招重罪。

Verse 36

नरके पातयित्वा च कुलमेकोत्तरं शतम् । आत्मानं पातयेत्पश्चाद्दारुणं रौरवं महत्

此人使自己的族系——一百零一代——堕入地狱;其后他自身亦坠入可怖而巨大的罗柔婆(Raurava)地狱。

Verse 37

माघमासे तु संप्राप्ते प्रातःकाले तथाऽमले । यः स्नाति मकरादित्ये तस्य पुण्यं शृणुष्व मे

当摩伽月到来,在清净的黎明时分——凡于太阳行至摩羯(Makara,摩羯座)之际沐浴者,请听我说他所得的功德。

Verse 38

सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । सर्वदानव्रतैर्यच्च कोटि तीर्थे दिनेदिने

一切圣地(tīrtha)之功德,一切祭祀(yajña)之果报,以及一切布施与誓戒所生之福——在俱胝圣渡(Koṭitīrtha)日日皆可得。

Verse 39

तत्पुण्यं लभते मर्त्यो नात्र कार्या विचारणा । कन्यागते सवितरि यः श्राद्धं कुरुते नरः

凡人即得此等功德——于此无需疑虑。太阳入处女(Kanyā)之时,若有人在此行施罗陀(śrāddha,祖先祭仪),必得大果。

Verse 40

पितरस्तस्य तुष्यंति गयाश्राद्धशतैर्न तु । कार्तिके मासि संप्राप्ते स्नानादि कुरुते यदि

其祖灵皆得欢喜满足——确然胜过在伽耶行百次施罗陀。又若迦尔蒂迦月到来,于此修沐浴等诸行持,其果报广大无量。

Verse 41

तदक्षयफलं सर्वं ब्रह्मणो वचनं यथा । इष्ट्वात्र यज्ञमेकं तु कोटियज्ञफलं लभेत्

此等一切功德皆不可坏——正如梵天(Brahmā)之言不虚不失。若在此仅行一次祭祀,亦得千万次祭祀之果。

Verse 42

कन्यां ब्राह्मेण विधिना दत्त्वा कोटिगुणं फलम् । सर्वदानं कोटिगुणं कोटितीर्थे भवेद्यतः

依婆罗门(Brāhma)仪轨嫁送处女者,所得福果增至千万倍。诚然,在俱胝圣渡(Koṭitīrtha),一切布施之行皆成千万倍之功德。

Verse 43

कोटि तीर्थे त्यजेत्प्राणान्हृदि कृत्वा तु माधवम् । तस्य पार्थ चिरं स्वर्गे ह्यक्षया शाश्वती गतिः

若有人在俱胝圣渡(Koṭitīrtha)舍身,心中安住摩达婆(Mādhava),则啊,帕尔塔(Pārtha),此人将久居天界——得不坏、恒常之归趣。

Verse 44

कोटितीर्थे तीर्थवरे देहत्यागं करोति यः । तस्य पूजां प्रकुर्वंति ब्रह्माद्या देवतागणाः

凡在俱胝圣渡(Koṭitīrtha)——诸圣渡中最胜者——舍离此身者,梵天(Brahmā)及诸天众亲自为其作礼供养。

Verse 45

अस्य तीरे देहदाहो यस्य कस्य प्रजायते । अस्थिक्षेपो यस्य भवेन्महीसागरसंगमे

在此岸边,不论何人,若于此行火葬之礼——并在陆地与大海交汇处行撒骨(asthi-kṣepa)之仪——

Verse 46

तत्फलं गदितुं पार्थ वागीशोऽपि न वै क्षमः । एतज्ज्ञात्वा परं पार्थ कोटितीर्थं प्रसेवते

啊,帕尔塔(Pārtha),即便司语之主(Vāgīśa)也不能尽述其果报。既知如此,故啊,帕尔塔,当依止并奉事俱胝圣渡(Koṭitīrtha)。

Verse 47

दिनेदिने फलं तस्य कापिलं गोसहस्रकम् । स्वर्गे मर्त्ये च पाताले तस्मादेतत्सुदुर्लभम्

日复一日,其所得之果报,等同于布施一千头迦毗罗色(黄褐色)之牛。于天界、人间与地下诸界皆然;因此,此圣地(tīrtha)之功德极其难得。

Verse 52

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कोटितीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः

至此,《圣·斯坎达大往世书》八万一千颂之《集》(Saṃhitā)中,第一《摩醯湿伐罗分部》(Māheśvarakhaṇḍa)之《鸠摩利迦分章》(Kaumārikākhaṇḍa)里,名为《科蒂圣渡(Koṭitīrtha)功德伟大之述》的第五十二章圆满结束。