Adhyaya 24
Mahesvara KhandaKaumarika KhandaAdhyaya 24

Adhyaya 24

本章以那罗陀(Nārada)转述其先前与喜马拉雅(Himālaya)的对话为引:未来女神右手上举(uttāna)被解读为恒常的「无畏印」(abhaya),长久赐予众生安护与无惧。那罗陀指出,尚有一项重大的天界使命未竟——为成就宇宙之大业,须促成湿婆(Śiva)与喜马拉雅所生的天女帕尔瓦蒂(Pārvatī)再度结合。 因那罗陀的启发,因陀罗(Indra)召来爱神迦摩(Kāma,亦名曼摩他 Manmatha)。迦摩提出合乎戒行的疑虑:在吠檀多与苦行传统中,欲望常被斥为遮蔽真知之幕、为智者不息之敌。因陀罗则以「欲」之功用作答,分辨迦摩的三种形态(tāmasa、rājasa、sāttvika),并申明「欲求之意」(kāmanā)是世间成就的根基,而受调御的欲望亦能服务于更高的目的。 迦摩偕同春神伐散多(Vasanta)与罗蒂(Rati)前往湿婆的修林(āśrama),见湿婆深住三摩地(samādhi),遂以细微扰动(借蜂鸣为由)试图侵入。湿婆觉察无形之临在,回身追寻,放出第三眼之火,将迦摩焚为灰烬。烈焰过盛几欲焚尽宇宙,湿婆遂将其分配于诸处(明月、花卉、音乐、蜜蜂、杜鹃与诸般乐受),解释众生心中为何仍有相思之「火」。罗蒂悲恸哀号;湿婆慈言安慰,宣示迦摩在有身之境仍具作用,并预言将来复归:当毗湿奴(Viṣṇu)降生为婆苏提婆(Vāsudeva)之子时,迦摩将成为其后裔(普拉丢摩那 Pradyumna 之系),罗蒂亦将重得夫妇之位。

Shlokas

Verse 1

नारद उवाच । एवं श्रुत्वा सभार्यः स प्रमोदप्लुतमानसः । प्रणम्य मामिति प्राह यद्येवं पुण्यवानहम्

那罗陀说:听到这些,他与妻子一同,心中喜悦洋溢。向我顶礼后他说:“若我确是具福德者(puṇyavān)……”

Verse 2

पुनः किंचित्प्रवक्ष्यामि पुत्र्या मे दक्षिणः करः । उत्तानः कारणं किं तच्छ्रोतुमिच्छामि नारद

“我再说几句:我女儿的右手向上举起——这其中缘由为何?我愿听闻,哦那罗陀。”

Verse 3

इति पृष्टोऽस्मि शैलेन प्रावोचं कारणं तदा । सर्वदैव करो ह्यस्याः सर्वेषां प्राणिनां प्रति

当雪山(喜马拉雅)如此问我时,我便说明其因:她的手恒常伸向一切有情众生。

Verse 4

अभयस्य प्रदाताऽसावुत्तानस्तु करस्ततः । एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर

因此,那高举之手乃赐予“无畏”者。噢承载大地之山,她是世间之主——牛印者弗利沙昂迦(湿婆)的圣妃。

Verse 5

जननी सर्वलोकस्य भाविनी भूतभाविनी । तद्यथा शीघ्रमेवैषा योगं यातु पिनाकिना

她是一切世界之母,成就吉祥者,亦为万有众生之慈惠力量。因此,愿她迅速与持弓者毗那迦因(湿婆,执毗那迦弓者)证得瑜伽合一。

Verse 6

त्वया विधेयं विधिवत्तथा शैलेन्द्रसत्तम । अस्त्यत्र सुमहतकार्यं देवानां हिमभूधर

你当依仪轨如法而行,噢诸山之王中最胜者。因为在此有天众须成就的一件极大事业,噢雪岭。

Verse 7

इति प्रोच्य तमापृच्छ्य प्रावोचं वासवाय तत् । मम भूयस्तु कर्तव्यं तन्मया कृतमेव हि

我如此说罢,向他辞别,便将此事告知婆娑婆(因陀罗)。至于我还应再做之事——确已由我完成。

Verse 8

किं तु पंचशरः प्रेर्यः कार्यशेषेऽत्र वासव । इत्यादिश्य गतश्चाहं तारकं प्रति फाल्गुन

“然而此事尚余之部分,须促动五箭神般遮娑罗(伽摩),噢婆娑婆。”如是嘱咐后,我继续前行,趋向塔罗迦,噢法尔古那。

Verse 9

कलिप्रियत्वात्तस्यैनमर्थं कथयितुं स्फुटम् । हिमाद्रिरपि मे वाक्यप्रेरितः पार्वतीं प्रति

因他喜好纷争(迦梨),故难以将此意旨明白告之。又喜马德里(喜马拉雅)亦为我言所促,转而致力于帕尔瓦蒂。

Verse 10

भवस्याराधनां कर्तुं ससखीमादिशत्तदा । सा तं परिचचारेशं तस्या दृष्ट्वा सुशीलताम्

于是他吩咐她——连同侍友——修行对婆婆(湿婆)的供养礼敬。她恭谨事奉那位主宰;主见其品行端雅、德性淑善,(遂引向神圣的允诺)。

Verse 11

पुष्पतोयफलाद्यानि नियुक्ता पार्वती व्यधात् । महेन्द्रोपि च मद्वाक्यात्स्मरं सस्मार भारत

奉命而行,帕尔瓦蒂备办花、净水、果品等供物。摩诃因陀罗(因陀罗)亦因我之言,忆念并召请斯摩罗(伽摩天),噢婆罗多。

Verse 12

स च तत्स्मरणं ज्ञात्वा वसंतरतिसंयुतः । चूतांकुरास्त्रःऋ सहसा प्रादुरासीन्मनोभवः

伽摩提婆知晓自己被忆念,便立刻显现——与春神(Vasanta)及罗蒂同来——以芒果花芽为兵器,乃由心而生的欲望之主。

Verse 13

तमाह च वचो धीमान्स्मरन्निव च तं स्पृशन् । उपदेशेन बहुना किं त्वां प्रति रतिप्रिय

于是智者对他说,仿佛在提醒,又轻轻触及他:“罗蒂所钟爱者啊,何须对你多作教诲?”

Verse 14

चित्ते वससि तेन त्वं वेत्सि भूतमनोगतम् । तथापि त्वां वदिष्यामि स्वकार्यपरतां स्मरन्

你居于人心之中,因此知晓已发生之事与将起之意。即便如此,我仍要对你言说,念及你对自身职分的专注。

Verse 15

ममैकं सुमहत्कार्यं कर्तुमर्हसि मन्मथ । महेश्वरं कृपानाथं सतीभार्यावियोजितम्

“摩摩他啊,我有一件极其重大的事须你成就:大自在天(摩诃提婆)这位慈悲之主,已与其妻萨蒂分离。”

Verse 16

संयोजय पुनर्देव्या हिमाद्रिगृहजातया । देवी देवश्च तुष्टौ ते करिष्यत इहेप्सितम्

“当使他再与生于喜马德里家中的女神(帕尔瓦蒂)相合。女神与天神若得欢喜,便将在此赐你所愿之果。”

Verse 17

मदन उवाच । अलीकमेतद्देवेन्द्र स हि देवस्य पोरतिः । नान्यासादयितव्यानि तेजांसि मुनरब्रवीत्

摩陀那说道:“噢,天帝因陀罗,此举徒然。因为他乃神(湿婆)昔日的配偶。圣仙已宣示:如此神圣之火(威力),不可另以他法去接近或挑衅。”

Verse 18

वेदान्तेषु च मां विप्रा गर्हसंयति पुनःपुनः । महाशनो महापाप्मा कामोऽयम नलो गहान्

“而在《吠檀多》中,婆罗门们屡屡责难我:‘此欲(迦摩)乃大吞噬者,大罪人——如火焚尽屋舍。’”

Verse 19

आवृतं ज्ञानमेतेन ज्ञानिनां नित्यवैरिणा । तस्मादयं सदा त्याज्यः कामऽहिरिव सत्तमैः

“被此欲——智者恒常之敌——所覆蔽,智慧便蒙上帷幕。因此,至善之人当常弃迦摩,如弃蛇一般。”

Verse 20

एवं शीलस्य मे कस्मात्प्रतुष्यति महेश्वरः । मद्यपस्येव पापस्य वासुदेवो जगद्गुरः

“以我这般性情,摩诃伊湿伐罗怎会悦纳于我——正如婆苏提婆,这世间之师,决不会悦纳一个罪恶的醉汉?”

Verse 21

इंद्र उवाच । मैवं ब्रूहि महाभाग त्वां विनाकः पुमान्भुवि । धर्ममर्थं तथा कामं मोक्षं वा प्राप्तुमीश्वरः

因陀罗说道:“噢,大福德者,莫如此言。若无你,在世间谁还能成就法(dharma)、利(artha)、欲(kāma),乃至解脱(mokṣa)?”

Verse 22

यत्किंचित्साध्यते लोके मूलं तस्य च कामना । कथं कामं विनिंदति तस्मात्ते मोक्षसाधकाः

世间凡有所成就,其根本皆由欲愿(kāmanā)而起。既如此,怎能谴责爱欲(kāma)?因此,即便求解脱(mokṣa)者,也会以净化之形运用它。

Verse 23

सत्यं चापि श्रुतेर्वाक्यं तव रूपं त्रिधागतम् । तामसं राजसं चैव सात्त्विकं चापि मन्मथ

《圣闻》(śruti)之言确为真实:哦,曼摩他(Manmatha),你的形相有三种——惰性(tāmasa)、激性(rājasa)与清净(sāttvika)。

Verse 24

अमुक्तितः कामनया रूपं तत्तामसं तव । सुखबुद्ध्या स्पृहा या च रूपं तद्राजसं तव

当欲望出自不求解脱之心(系缚之念),那便是你的惰性相(tāmasa)。而由“乐受”之想而生的贪求,则是你的激性相(rājasa)。

Verse 25

केवलं यावदर्थार्थं तद्रूपं सात्त्विकं तव । तत्ते रूपत्रयमिदं ब्रूहि नोपासते हि के

然而,欲望若仅止于成就所需之度,那便是你的清净相(sāttvika)。请为我说明你这三重形相:世间又有谁不礼敬(不祈请)你呢?

Verse 26

त्वं साक्षात्परमः पूज्यः कुरु कार्यमिदं हि नः । अथ वा पीडितान्दृष्ट्वा सामान्यानपि पंडिताः । स्वप्राणैरपि त्रायांति परमेतन्महाफलम्

你亲自堪受至高礼敬;愿你为我等成办此事。诚然,智者见凡众受苦,亦以自身性命相护;此乃最胜大果。

Verse 27

इति संचिंत्य कार्यं त्वं सर्वथा कुरु तत्स्फुटम्

如是思惟之后,你当必定履行那项使命,分明而坚定,毫不失误。

Verse 28

इत्या कर्ण्य तथेत्युक्त्वा वसंतरतिसंयुतः । पिकादिसैन्यसंपन्नो हिमाद्रिं प्रययौ स्मरः

闻此言,思摩罗(迦摩)答曰:“如是。”遂与春神(Vasanta)及爱神妃罗蒂(Rati)相随,又具备如杜鹃等诸军,启程前往喜马德里(喜马拉雅)。

Verse 29

तत्रापश्यत शंभोः स पुण्यमाश्रममंडलम् । नानावृक्षसमाकीर्णं शांतसत्त्वसमाकुलम्

在那里,他看见商布(湿婆)那清净圣洁的修行林苑:众树繁茂,万类安宁,性情恬静的众生充盈其间。

Verse 30

तत्रापश्यत्त्रिनेत्रस्य वीरकंनाम द्वारपम् । यथा साक्षान्महेशानं गणआंश्चायुतशोऽस्य च

在那里,他见到名为毗罗迦(Vīraka)的守门者,乃三目主之门卫;又见其无量诸伽那众,恍若亲睹摩诃伊舍那(Maheśāna)本尊。

Verse 31

ददर्श च महेशानं नासाग्रकृतलोचनम् । देवदारुद्रुमच्छायावेदिका मध्यमाश्रितम् । समाकायं सुखासीनं समाधिस्थं महेश्वरम्

他又见摩诃伊舍那,目光安住于鼻端,身相端严而安坐自在;大天摩诃湿伐罗在雪松(deodāra)荫覆的坛座中央,住于三摩地。

Verse 32

निस्तरंगं विनिर्गृह्य स्थितमिंद्रियगोचरान् । आत्मानमात्मना देवं प्रविष्टं तपसो निधिम्

他摄伏诸根所缘,使心无波无浪,安住于自性之中——以自我入于天神,彼乃苦行(tapas)之宝藏。

Verse 33

तं तथाविधमालोक्य सोंतर्भेदाय यत्नवान् । भ्रमरध्वनिव्याजेन विवेश मदनो मनः

见他如是安住,伽摩天(爱神)欲破其内定,便借蜂鸣之声为幌子,从心中潜入。

Verse 34

एतस्मिन्नंतरे देवो विकासितविलोचनः । सस्मार नगराजस्य तनयां रक्तमानसः

就在此时,天神睁开双眼;其心被渴慕染色,忆起山王之女。

Verse 35

निवेदिता वीरकेण विवेश च गिरेः सुता । तस्मिन्काले महाभागा सदा यद्वदुपैति सा

经由毗罗迦通报,山之女便入内。其时,那位大福德者如常依其惯例,上前而来。

Verse 36

ततस्तस्यां मनः स्वीयमनुरक्तमवेक्ष्य च । निगृह्य लीलया देवः स्वकं पृष्ठमवैक्षत । तावदापूर्णधनुषमपश्यत रतिप्रियम्

随后,他觉察自己的心已恋著于她,便带着一丝戏谑将其摄住,回首向后望去。顷刻间,他看见罗蒂之爱者——伽摩天(爱神)——弓已满张。

Verse 37

तन्नाशकृपया देवो नानास्थानेषु सोऽगमत् । तावत्पस्यति पृष्ठस्तमाकृष्य धनुषः शरम्

出于慈悲,为不毁灭他,天神往返于诸处。然仍见其在身后,从弓上抽出一箭。

Verse 38

स नदीः पर्वताश्चैव आश्रमान्सरसीस्तथा । परिभ्रमन्महादेवः पृष्ठस्थं तमवैक्षत

他游行于江河、群山、仙人住处与湖泊之间;而大天行走之时,仍不断见那人立于身后。

Verse 39

जगत्त्रयं परिभ्रम्य पुनरागात्स्वमाश्रमम् । पृष्ठस्थमेव तं वीक्ष्य निःश्वासं मुमुचे हरः

周游三界之后,他又回到自己的道场。见其仍在身后,哈罗长叹一息。

Verse 40

ततस्तृतीयनेत्रोत्थवह्निना नाकवासिनाम् । क्रोशतां गमितः कामो भस्मत्वं पांडुनंदन

于是,第三眼所生之火使伽摩天化为灰烬;天界众生哀号呼喊,噢,般度之子。

Verse 41

सस तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोऽनलः । व्यजृंभत जगद्दग्धुं ज्वालापूरितदिङ्मुखः

那从哈罗之眼出生的火焰,既已将他焚为灰烬,便又猛然炽盛,仿佛要烧尽整个世界,四方尽被火光充满。

Verse 42

ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम् । साहंकारे जने चंद्रे सुमनस्सु च गीतके

于是,作为世界之因的婆伐(湿婆)将那“生知之火”(Jātavedas)分配:入于我执(ahaṅkāra),入于众人,入于明月,入于花朵,亦入于歌咏。

Verse 43

भृंगेषु कोकिलास्येषु विहारेषु स्मरानलम् । तत्प्राप्तौ स्नेहसंयुक्तं कामिनां हृदयं किल

“斯摩罗之火”(爱欲的热病)栖于群蜂,栖于杜鹃之喉,亦栖于游乐的林苑;当它临至之时,恋人之心确然被柔情所系。

Verse 44

ज्वालयत्यनिशं सोऽग्निर्दुश्चिकित्स्योऽसुखावहः । विलोक्य हरनिःश्वासज्वालाभस्मीकृतं स्मरम्

那火焰无间燃烧——难以医治,唯增苦恼——尤当目睹斯摩罗被哈罗(湿婆)之息焰焚成灰烬之时。

Verse 45

विललाप रतिर्द्दीना मधुना बंधुना सह । विलपंती सुबहुशो मधुना परिसांत्विता

罗蒂悲苦凄惶,与亲族摩度同声哀号;她一再啼泣,终由摩度抚慰劝解。

Verse 46

रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः । कृपया परया प्राह कामपत्नीं निरीक्ष्य च

神中之神、牛旗之主(湿婆)闻罗蒂哀诉,遂凝视迦摩之妻,以至上慈悲而宣言。

Verse 47

अमूर्तोऽपि ह्ययं भद्रे कार्यं सर्वं पतिस्तव । रतिकाले ध्रुवं बाले करिष्यति न संशयः

纵然如今他尚无形相,吉祥的女子啊,你的夫君必能成就一切。待到合欢之时,少女啊,他必定施为——毫无疑虑。

Verse 48

यदा विष्णुश्च भविता वसुदेवात्मजो विभुः । तदै तस्य सुतो यः स्यात्सपतिस्ते भविष्यति

当毗湿奴——全能的主宰——降生为婆苏提婆之子时,那由他所生的儿子将成为你的夫君。

Verse 49

सा प्रणम्य ततो रुद्रमिति प्रोक्ता रतिस्ततः । जगाम स्वेच्छया गत्या वसंतादिभिरन्विता

如是受教后,罗蒂向鲁陀罗顶礼;随即按己意启程而去,春神等众随行相伴。