Adhyaya 49
Kashi KhandaUttara ArdhaAdhyaya 49

Adhyaya 49

本章以层层嵌套的对话展开:毗耶娑向苏多转述与阿伽斯提耶发问相关的故事,司建陀则回答说,湿婆从与解脱/涅槃相应之境移步进入“爱悦殿”(Śṛṅgāra-maṇḍapa)。湿婆面向东方安坐,乌玛相伴;梵天与毗湿奴分立左右,因陀罗、诸仙(ṛṣi)与众伽那侍从环绕。 湿婆宣示毗湿维湿伐罗林伽(Viśveśvara-liṅga)的至上地位,称其为“至上光明”(parama-jyotis),亦为自身安住不动的形相(sthāvara)。他并描绘典范的帕舒帕塔修行者:持戒有律、身心清净、不执占有,专注于林伽供奉(liṅga-arcana),并严守苦行与伦理规范。 随后经文细述功德次第:听闻、忆念、启程前往、得见、触及,乃至以最微薄之物供养林伽,皆能带来层层递增的净化与吉祥,其果报甚至可与马祭(aśvamedha)与王祭(rājasūya)相提并论。章中又尊崇摩尼迦耳尼迦与迦尸为三界中独具威德之圣地,断言湿婆常以林伽之形为信众恒住护佑,并以司建陀所言“仅述其力之一分”作结,继而由毗耶娑点出阿伽斯提耶沉思领受的回应。

Shlokas

Verse 1

व्यास उवाच । शृणु सूत यथा प्रोक्तं कुंभजे शरजन्मना । देवदेवस्य चरितं विश्वेशस्य परात्मनः

毗耶娑说道:“听吧,苏多啊,且听那位‘瓶生’圣者与那位‘芦生’圣者所宣说的——即诸神之神、毗湿维湿(Viśveśa)、至上真我之神圣行迹。”

Verse 2

अगस्त्य उवाच । सेनानीः कथय त्वं मे ततो निर्वाणमंडपात् । निर्गत्य देवो देवेंद्रैः सहितः किं चकार ह

阿伽斯提耶说道:“噢,统帅(斯甘达)啊,请告诉我:那位神从涅槃曼荼罗殿离去之后,与诸天之主同往,做了什么?”

Verse 3

स्कंद उवाच । मुक्तिमंडपतः शंभुर्ब्रह्मविष्णुपुरोगमः । शृंगारमंडपं प्राप्य यच्चकार वदामि तत्

斯甘达说道:从解脱之殿出发,商布——由梵天与毗湿奴在前引领——来到“庄严(Śṛṅgāra)之殿”。他在那里所行之事,我今当宣说。

Verse 4

प्राङ्मुखस्तूपविश्येशः सहास्माभिः सहेशया । ब्रह्मणाधिष्ठितः सव्ये वामपार्श्वेथ शार्ङ्गिणा

主面向东方,登上高座而坐,与我们及女神同在。其右侧为梵天安坐;其左侧则是执持娑楞伽弓的毗湿奴。

Verse 5

वीज्यमानो महेंद्रेण ऋषिभिः परितो वृतः । गणैः पृष्ठप्रदेशस्थैर्जोषं तिष्ठद्भिरादरात्

摩诃因陀罗(因陀罗)为他执扇拂风,诸仙贤从四方环绕。众伽那立于其后,恭敬肃然,默然待命。

Verse 6

उदायुधैः सेव्यमानश्चावसन्मानभूरिभिः । ब्रह्मणे विष्णवे शंभुः पाणिमुत्क्षिप्य दक्षिणम्

在持械侍从的侍奉与诸般礼敬之中,商布向梵天与毗湿奴举起了右手。

Verse 7

दर्शयामास देवेशो लिंगं पश्यत पश्यत । इदमेव परं ज्योतिरिदमेव परात्परम्

诸天之主显现林伽,说:“看啊——看啊!唯此是至上之光;唯此是超越一切至高的至上者。”

Verse 8

इदमेव हि मे रूपं स्थावरं चाति सिद्धिदम् । एते पाशुपता सिद्धा आबाल ब्रह्मचारिणः

“此实为吾之本形——安住不动——却能赐予殊胜成就。此等乃已圆满之帕舒帕塔,童年起即守梵行者。”

Verse 9

जितेंद्रियास्तपोनिष्ठाः पंचार्थज्ञाननिर्मलाः । भस्मकूटशया दाताः सुशीला ऊर्ध्वरेतसः

他们克胜诸根,安住苦行,以五义之智而得清净;卧于灰堆之上,乐施布施,行止端正,并令精气上行(圆满梵行)。

Verse 10

लिंगार्चनरता नित्यमनन्येंद्रियमानसाः । सदैव वारुणाग्नेय स्नानद्वय सुनिर्मलाः

他们恒常礼敬林伽,诸根与心念不二不散(专注于湿婆),并常以二种沐浴而清净:水浴与火浴。

Verse 11

कंदमूलफलाहाराः परतत्त्वार्पितेक्षणाः । सत्यवंतो जितक्रोधा निर्मोहा निष्परिग्रहाः

他们以茎根果实为食,目光奉献于至上实相;他们真实不妄,降伏嗔怒,离于迷惑,不蓄不取。

Verse 12

निरीहा निष्प्रपंचाश्च निरातंका निरामयाः । निर्भगा निरुपायाश्च निःसंगा निर्मलाशयाः

他们无欲,超越世间缠缚,离怖畏与疾病;不贪福分,不作世智权谋,无所执著,心志清净。

Verse 13

निस्तीर्णोदग्रसंसारा निर्विकल्पा निरेनसः । निर्द्वंद्वा निश्चितार्थाश्च निरहंकारवृत्तयः

他们已渡过汹涌的轮回大海;无分别疑惑,亦无罪垢。超越对待二相,志向决定于道,其行无我慢。

Verse 14

सदैव मे महाप्रीता मत्पुत्रा मत्स्वरूपिणः । एते पूज्या नमस्याश्च मद्बुद्ध्यामत्परायणैः

他们恒常为我至爱——如我亲子,具我之性。凡归依于我、以心住我者,当以敬拜礼敬之,并向他们顶礼。

Verse 15

अर्चितेष्वेष्वहं प्रीतो भविष्यामि न संशयः । अस्मिन्वैश्वेश्वरे क्षेत्रे संभोज्याः शिवयोगिनः

当他们受供养礼敬时,我必欢喜——毫无疑虑。在此毗湿韦湿伐罗(Viśveśvara)圣域中,应供养并以宾礼款待湿婆的瑜伽行者。

Verse 16

कोटिभोज्यफलं सम्यगेकैक परिसंख्यया । अयं विश्वेश्वरः साक्षात्स्थावरात्मा जगत्प्रभुः

依真实的计量,在此每一善行,皆得如供养亿万众生之果。此毗湿韦湿伐罗显然即世界之主,其本体安住于不动之相(林伽)。

Verse 17

सर्वेषां सर्वसिद्धीनां कर्ता भक्तिजुषामिह । अहं कदाचिद्दृश्यः स्यामदृश्यः स्यां कदाचन

在此处,对于以奉爱而住者,我是赐予一切成就与一切圆满者。有时我可显现可见;有时我亦可隐而不见。

Verse 18

आनंदकानने चात्र स्वैरं तिष्ठामि देवताः । अनुग्रहाय सर्वेषां भक्तानामिह सर्वदा

并且在此,在阿难陀迦那那(喜乐林)中,我自在安住,诸天啊——常住此地,为赐恩并提升一切奉爱者。

Verse 19

स्थास्यामि लिंगरूपेण चिंतितार्थफलप्रदः । स्वयंभून्यस्वयंभूनि यानि लिंगानि सर्वतः । तानि सर्वाणि चायांति द्रष्टुं लिंगमिदं सदा

我将安住于林伽之形,赐予心中所念愿求之果。遍一切处的诸林伽——无论自现(svayambhū)或经安立供奉者——都仿佛恒常前来瞻礼此林伽。

Verse 20

अहं सर्वेषु लिंगेषु तिष्ठा्म्येव न संशयः । परं त्वियं परामूर्तिर्मम लिंगस्वरूपिणी

我确实住于一切林伽之中——毫无疑问。然而此(林伽)乃我至上的显现,具足我自身的林伽本性。

Verse 21

येन लिंगमिदं दृष्टं श्रद्धया शुद्धचक्षुषा । साक्षात्कारेण तेनाहं दृष्ट एव दिवौकसः

凡以信心与清净之眼瞻见此林伽者——凭此直接证悟,他便确实见到我,诸天居者啊。

Verse 22

श्रवणादस्य लिंगस्य पातकं जन्मसंचितम् । क्षणात्क्षयति शृण्वंतु देवा ऋषिगणैः सह

仅仅听闻此灵伽,累世所积之罪,刹那间尽皆消灭。愿诸天与众仙圣(ṛṣi)同来聆听。

Verse 23

स्मरणादस्य लिंगस्य पापं जन्मद्वयार्जितम् । अवश्यं नश्यति क्षिप्रं मम वाक्यान्न संशयः

仅仅忆念此灵伽,二世所积之罪必定立刻消亡。这是我的言语,毫无疑惑。

Verse 24

एतल्लिंगं समुद्दिश्य गृहान्निष्क्रमणक्षणात् । विलीयते महापापमपि जन्मत्रयार्जितम्

若有人发心指向此灵伽,自迈出家门之刹那起,纵是三世所积重罪亦皆消融。

Verse 25

दर्शनादस्य लिंगस्य हयमेधशतोद्भवम् । पुण्यं लभेत नियतं ममानुग्रहतोमराः

仅以一瞻此灵伽,必得百次马祭(Aśvamedha)所生之功德——诸不死者啊——皆由我之恩典。

Verse 26

स्वयंभुवोस्य लिंगस्य मम विश्वेशितुः सुराः । राजसूयसहस्रस्य फलं स्यात्स्पर्शमात्रतः

诸天啊,此自现(Svayambhū)之灵伽乃我所有——我乃宇宙之主。仅以触碰,便得千次王祭(Rājasūya)之果报。

Verse 27

पुष्पमात्र प्रदानाच्च चुलुकोदकपूवर्कम् । शतसौवर्णिकं पुण्यं लभते भक्तियोगतः

即使只供奉一朵花——先以一捧清水为前行——凭借虔敬之瑜伽,亦得等同百次布施黄金之功德。

Verse 28

पूजामात्रं विधायास्य लिंगराजस्य भक्तितः । सहस्रहेमकमलपूजाफलमवाप्यते

只要以虔敬之心对这位“诸林伽之王”略作供养礼拜,便能获得以千朵金莲供奉的功果。

Verse 29

विधाय महती पूजां पंचामृतपुरःसराम् । अस्य लिंगस्य लभते पुरुषार्थचतुष्टयम्

若为此林伽举行盛大供养,以五甘露(pañcāmṛta)为首要供品,便能成就人之四大目标。

Verse 30

वस्त्रपूतजलैर्लिंगं स्नापयित्वा ममामराः । लक्षाश्वमेधजनितं पुण्यमाप्नोति सत्तमः

噢,我的不死者们:人中至善者以布滤之水沐浴林伽,便得由十万次马祭(Aśvamedha)所生之功德。

Verse 31

सुगंधचंदनरसैर्लिंगमालिप्य भक्तितः । आलिप्यते सुरस्त्रीभिः सुगंधैर्यक्षकर्दमैः

以虔敬之心用芬芳檀香膏涂抹林伽——此举正如天界女神亦以馥郁香膏、如夜叉之香泥般为之涂抹。

Verse 32

सामोद धूपदानैश्च दिव्यगंधाश्रयो भवेत् । घृतदीपप्रबोधैश्च ज्योतीरूप विमानगः

以芬芳之香供养者,得成承载天香之人;以酥油灯点燃者,得光明之身,乘行辉耀之天车。

Verse 33

कर्पूरवर्तिदीपेन सकृद्दत्तेन भक्तितः । कर्पूरदेहगौरश्रीर्भवेद्भालविलोचनः

若以虔敬之心,哪怕仅一次,向迦尸之毗湿维湿伐罗供奉樟脑灯芯之灯,即得如樟脑般皎洁光耀之身,并具吉祥辉光,宛若额上具天眼。

Verse 34

दत्त्वा नैवेद्यमात्रं तु सिक्थेसिक्थे युगंयुगम् । कैलासाद्रौ वसेद्धीमान्महाभोगसमन्वितः

即便只供奉少许食供(naivedya),于诸劫世代反复行之,智者亦得居住于凯拉萨山,具足广大福乐与丰盛。

Verse 35

विश्वेशे परमान्नं यो दद्यात्साज्य सशर्करम् । त्रैलोक्यं तर्पितं तेन सदेवपितृमानवम्

凡以最上熟食,兼以酥油与糖,供奉毗湿维湿伐罗者,由此一举,令三界皆得满足——诸天、祖灵与人类同然。

Verse 36

मुखवासं तु यो दद्याद्दर्पणं चारुचामरम् । उल्लोचं सुखपर्यंकं तस्य पुण्यफलं महत्

若人布施口香之物(如槟榔叶等)、明镜、华美之扇、脚凳与安乐之榻,其福德之果实实为广大。

Verse 37

संख्या सागररत्नानां कथंचित्कर्तुमिष्यते । मुखवासादिदानस्य कः संख्यामत्र कारयेत्

或有人尚可勉强计数大海中的宝珠;然而在此,谁能计算以虔敬奉献口香等诸供养所生功德之量呢?

Verse 38

पूजोपकरणद्रव्यं यो घंटा गडुकादिकम् । भक्त्या मे भवने दद्यात्स वसेदत्र मेंतिके

凡以虔敬将供奉之具与资财——如铃、净水壶等——布施于我寺者,彼将住于此处,亲近于我。

Verse 39

यो गीतवाद्यनृत्यानामेकं मत्प्रीतये व्यधात् । तस्याग्रतो दिवारात्रं भवेत्तौर्यत्रिकं महत्

凡为令我欢喜而行歌唱、奏乐或舞蹈三者之一者,其人之前,昼夜常有盛大的三重伎乐庆典。

Verse 40

चित्रलेखनकर्मादि प्रासादे मेऽत्र कारयेत् । यः सचित्रान्महाभोगान्भुंक्ते मत्पुरतः स्थितः

凡在此我殿中令作绘画、装饰书写等诸工者,彼立于我前,得享宏大福乐,光彩庄严,丽饰具足。

Verse 41

सकृद्विश्वेश्वरं नत्वा मध्ये जन्मसुधीर्नरः । त्रैलोक्यवंदितपदो जायते वसुधापतिः

具慧之人于一生之中,纵仅一次顶礼毗湿韦湿伐罗(Viśveśvara),其后亦得生为大地主宰,足下为三界所礼敬。

Verse 42

यस्तु विश्वेवरं दृष्ट्वा ह्यन्यत्रापि विपद्यते । तस्य जन्मांतरे मोक्षो भवत्येव न संशयः

然而,若有人已得瞻礼(darśana)毗湿韦湿伐罗(Viśveśvara),却在他处遭遇不幸,则其人在来世必定得解脱(mokṣa)——毫无疑惑。

Verse 43

विश्वेशाख्या तु जिह्वाग्रे विश्वनाथकथाश्रुतौ । विश्वेशशीलनं चित्ते यस्य तस्य जनिः कुतः

若有人舌端常持“毗湿韦沙”(Viśveśa)之名,双耳饮受毗湿瓦那他(Viśvanātha)的圣迹 कथा,心中又恒常观修毗湿韦沙——此人怎会再受轮回之生?

Verse 44

लिंगं मे विश्वनाथस्य दृष्ट्वा यश्चानुमोदते । स मे गणेषु गण्येत महापुण्यबलाश्रितः

凡得见我毗湿瓦那他(Viśvanātha)之灵伽(Liṅga),并以随喜赞叹而欢悦者——当列入我之伽那(gaṇa)众中,依凭广大功德之力而安立。

Verse 46

ममापीदं महालिंगं सदा पूज्यतमं सुराः । तस्मात्सर्वप्रयत्नेन पूज्यं देवर्षि मानवैः

我此大灵伽(Mahā-Liṅga)恒为最应供奉者,纵使诸天亦然;是故当尽一切努力,由诸天、圣仙(ṛṣi)与世人共同礼拜供养。

Verse 47

यैर्न विश्वेश्वरो दृष्टो यैर्न विश्वेश्वरः स्मृतः । कृतांतदूतैस्ते दृष्टास्तैः स्मृता गर्भवेदना

凡未得见毗湿韦湿伐罗(Viśveśvara),亦不忆念毗湿韦湿伐罗者——彼等将为阎摩(Yama)使者所见;对他们而言,入胎之苦又将再被忆起、再度承受。

Verse 48

यैरिदं प्रणतं लिंगं प्रणतास्ते सुरासुरैः । यस्यै केन प्रणामेन दिक्पालपदमल्पकम् । दिक्पालपदतः पातः पातः शिवनतेर्नहि

凡向此林伽(Liṅga)顶礼者,天神与阿修罗亦向其顶礼。以他种礼敬,至多得如护方之神(守护诸方位)等微小职位;此位尚有堕落之虞,而礼拜湿婆(Śiva)则永无堕落。

Verse 49

शृण्वंतु देवर्षिगणाः समस्तास्तथ्यं ब्रुवे तच्च परोपकृत्यै । न भूर्भुवः स्वर्गमहर्जनांतर्विश्वेशतुल्यं क्वचिदस्ति लिंगम्

愿一切天界圣仙众聆听:我为利他而宣说真实之语。在Bhūḥ、Bhuvaḥ、Svarga、Maharloka或Janaloka之中,处处皆无与毗湿韦沙(Viśveśa)等同的林伽。

Verse 50

न सत्यलोके न तपस्यहो सुरा वैकुंठकैलासरसातलेषु । तीर्थं क्वचिद्वै मणिकर्णिकासमं लिंगं च विश्वेश्वरतुल्यमन्यतः

诸天啊:不在Satyaloka,不在Tapoloka,也不在Vaikuṇṭha、Kailāsa或Rasātala——处处皆无与摩尼迦耳尼迦(Maṇikarṇikā)等同的圣渡(tīrtha);亦无他处有与毗湿韦湿伐罗(Viśveśvara)等同的林伽。

Verse 51

न विश्वनाथस्य समं हि लिंगं न तीर्थमन्यन्मणिकर्णिकातः । तपोवनं कुत्रचिदस्ति नान्यच्छुभं ममानंदवनेन तुल्यम्

实无与毗湿瓦那他(Viśvanātha)等同之林伽;亦无除摩尼迦耳尼迦(Maṇikarṇikā)之外可比之圣渡。世间无他处有别的苦行圣林(tapo-vana);一切吉祥,皆不及我之阿难陀林(Ānandavana,迦尸Kāśī)。

Verse 52

वाराणसी तीर्थमयी समस्ता यस्यास्तुनामापि हि तीर्थतीर्थम् । तत्रापि काचिन्मम सौख्यभूमिर्महापवित्रा मणिकर्णिकासौ

瓦拉纳西(Vārāṇasī)通体皆为圣渡(tīrtha)所成;甚至其名亦堪称“诸圣渡之圣渡”。而在其中,有一处令我欢悦的殊胜之地——摩尼迦耳尼迦(Maṇikarṇikā),至极净化。

Verse 53

स्थानादमुष्मान्ममराजसौधात्प्राच्यां मनागीशसमाश्रितायाम् । सव्येपसव्ये च कराः क्रमेण शतत्रयी यापि शतद्वयी च

从那处——我的王宫——向东方,微微倾斜,依近主神而安;其左其右,依次排列着诸“手”(延展的台阶/露台),一列三百,另一列二百。

Verse 54

हस्ताः शतं पंच सुरापगायामुदीच्यवाच्योर्मणिकर्णिकेयम् । सारस्त्रिलोक्याः परकोशभूमिर्यैः सेविता ते मम हृच्छया हि

此摩尼迦耳尼迦——位于天河之上,处在北与东北之间——延展一百零五肘。她是三界之精髓,是无上的宝藏之地;凡侍奉于她者,确为我心所珍爱。

Verse 55

अस्मिन्ममानंदवने यदेतल्लिंगं सुधाधाम सुधामधाम । आसप्त पातालतलात्स्वयंभु समुत्थितं भक्तकृपावशेन

在我的阿难陀林中,此灵伽——甘露之所、永生之宅——因怜悯信众,自七重地下界(帕塔拉)深处自然而起。

Verse 56

येस्मिञ्जनाः कृत्रिमभावबुद्ध्या लिंगं भजिष्यंति च हेतुवादैः । तेषां हि दंडः पर एष एव नगर्भवासाद्विरमंति ते ध्रुवम्

若有人以矫饰之心、以诡辩之理而亲近灵伽——他们至上的惩罚唯此:必定不能止息于“住胎”(轮回再生)之中。

Verse 57

यद्यद्धितं स्वस्य सदैव तत्तल्लिंगेत्र देयं मम भक्तिमद्भिः । इहाप्यमुत्रापि न तस्य संक्षयो यथेह पापस्य कृतस्य पापिभिः

凡自以为对己真正有益之物,愿我之信众常于此灵伽前奉献。其功德无论今世来世皆不减损;正如罪人所作之罪,在此世并不会无端消散。

Verse 58

दूरस्थितैरप्यधिबुद्धिभिर्यैर्लिंगं समाराधि ममेदमत्र । मयैव दत्तैः शुभवस्तुजातैर्निःश्रेयसः श्रीर्वसं येत्सतस्तान्

即使身在远方,若以崇高智慧在此礼敬我之灵伽;凭我所赐的吉祥供品,究竟解脱的福德与光荣将恒常安住于诸善人之上。

Verse 59

शृणुष्व विष्णो शृणु सृष्टिकर्तः शृण्वंतु देवर्षिगणाः समस्ताः । इदं हि लिंगं परसिद्धिदं सतां भेदो मनागत्र न मत्सकाशतः

听吧,噢毗湿奴;听吧,噢造物主——愿一切天仙圣者众皆得闻。此灵伽赐予贤善者至上成就;在此与我亲临无有丝毫差别。

Verse 60

अस्मिन्हि लिंगेऽखिलसिद्धिसाधने समर्पितं यैः सुकृतार्जितं वसु । तेभ्योतिमात्राखिलसौख्यसाधनं ददामि निर्वाणपदं सुनिर्भयम्

凡以善业所获之财,奉献于此灵伽——成就一切悉地之因——我便以无量之恩赐予他们一切安乐之源:无畏的涅槃之境。

Verse 61

उत्क्षिप्य बाहुं त्वसकृद्ब्रवीमि त्रयीमयेऽस्मिंस्त्रयमेव सारम् । विश्वेश लिंगं मणिकर्णिकांबु काशीपुरी सत्यमिदं त्रिसत्यम्

我举臂再三宣告:在此由三部吠陀所成之境,唯有三者为精髓——毗湿维湿伐罗之灵伽、摩尼迦耳尼迦之圣水、以及迦尸之城。此乃真实——三重真实。

Verse 62

उत्थाय देवोथ स शक्तिरीशस्तस्मिन्हि लिंगे कृतचारुपूजः । ययौ लयं ते च सुरा जयेति जयेति चोक्त्वा नुनुवुस्तमीशम्

随后主尊——与其圣力(Śakti)同在——起身于彼灵伽前作庄严妙供。继而归入寂静;诸天齐呼“胜利!胜利!”,赞颂那位自在之主。

Verse 63

स्कंद उवाच । क्षेत्रस्य मैत्रावरुणे विमुक्तस्य महामते । प्रभावस्यैकदेशोयं कथितः कल्मषापहः

斯甘达说道:噢,大智者,这只是已解脱的迈特拉瓦鲁那圣域威德的一小部分;此处被宣说为能除垢灭罪之地。

Verse 64

तवाग्रे तु यथाबुद्धि काशीविश्लेषतापि नः । अचिरेणैव कालेन काशीं प्राप्स्यस्यनुत्तमाम्

纵然如你所想,我们须暂时忍受与迦尸的离别;然而不久之后,你必将再度抵达那无上之迦尸。

Verse 65

अस्ताचलस्य शिखरं प्राप्तवानेष भानुमान् । तवापि हि ममाप्येष मौनस्य समयोऽभवत्

太阳已至西山之巅;对你——也对我——此刻已成“牟那”(mauna)之时,即清净的默然。

Verse 66

व्यास उवाच । श्रुत्वेति स मुनिः सूत संध्योपास्त्यै विनिर्गतः । प्रणम्यौ मेयमसकृल्लोपामुद्रा समन्वितः

毗耶娑说道:听罢此言,那位圣仙,噢,苏多,便出去行“暮时礼敬”(sandhyā-upāsanā)。他与罗波慕陀罗同行,屡屡顶礼。

Verse 67

रहस्यं परिविज्ञाय क्षेत्रस्य शशिमौलिनः । अगस्त्यो निश्चितमनाः शिवध्यानपरोभवत्

彻知月冠之主(湿婆)圣域的奥秘后,阿伽斯提耶心志坚定,遂全然归向对湿婆的禅观。

Verse 68

आनंदकाननस्येह महिमानं महत्तरम् । कोत्र वर्णयितुं शक्तः सूत वर्षशतैरपि

在此处,阿难陀迦那那(Ānandakānana)的威德广大无边。噢,苏多啊,纵使历经百年,又有谁能尽述其妙?

Verse 69

यथा देव्यै समाख्यायि शिवेन परमात्मना । तथा स्कंदेन कथितं माहात्म्यं कुंभसंभवे

正如至上真我——湿婆——向女神开示一般,斯甘达也将此《摩诃阿特米亚》讲述给罐生者阿迦斯提耶。

Verse 70

तवाग्रे च समाख्यातं शुकादीनां च सत्तम । इदानीं प्रष्टुकामोसि किं तत्पृच्छ वदामि ते

此事已在你面前宣说,也在舒迦等贤圣之前讲述过了,噢,至善者。如今你欲发问;但问无妨,我将为你解答。

Verse 71

श्रुत्वाध्यायमिमं पुण्यं सर्वकल्मषनाशनम् । समस्तचिंतितफलप्रदं मर्त्यो भवेत्कृती

听闻此清净章句,能灭除一切垢染;凡人由此得成就,因为它赐予所愿一切果报。

Verse 99

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वेश्वरलिंगमहिमाख्यो नाम नवनवतितमोऽध्यायः

至此,在神圣《斯甘达摩诃往世书》中,于八万一千颂之第四《集》(Saṃhitā)之《迦尸篇》(后半,Uttarārdha)内,名为《毗湿韦湿伐罗林伽之伟大》的第九十九章圆满结束。