Adhyaya 29
Brahma KhandaDharmaranya MahatmyaAdhyaya 29

Adhyaya 29

苏多(Sūta)叙述罗诃阿修罗(Lohāsura)这位阿修罗族大力者的经历:他见长者证得崇高成就,心生离欲,寻求无与伦比的苦行之地,并选择内在化的奉爱修持——恒河置于头顶,双眼如莲,心中安住那罗延(Nārāyaṇa),腰间为梵天(Brahmā),诸天在其身中如日映水般显现。他以极严峻的苦行修持一“天界百年”,得湿婆(Śiva)赐福:身不朽坏、无惧死亡,继而又在萨拉斯瓦蒂河岸继续苦行。 因陀罗惊惧,试图破坏其苦行,引发冲突并久战不息,甚至描述为因赐福之力,连凯沙瓦(Keśava,毗湿奴)亦受挫。三位一体(梵天、毗湿奴、鲁陀罗)商议后,以“真实”(satya)的道德法力与“语缚”(vākpāśa,言语之索)制伏此阿修罗,训令他守护“真实言语之法”(dharma),不得扰乱诸神。作为交换,诸神允诺直至宇宙毁灭(pralaya)都住于其身;其具身临在遂成达摩林(Dharmāraṇya)中、近达摩伊湿瓦罗(Dharmēśvara)的一处圣渡(tīrtha)。 本章继而详述祭祖功德:在当地井泉行供水礼(tarpaṇa)与团食施(piṇḍadāna),并于特定月相日(尤以婆陀罗钵陀月 Bhādrapada 的十四日/无月日 caturdaśī/amāvāsyā)修行,可倍增祖灵(pitṛ)满足,功德或可比拟乃至超过伽耶/普拉雅伽(Gayā/Prayāga)。文中以祖灵偈(pitṛ-gāthā)为证,并给出供奉已知与未知宗系的实用真言。果报颂(phalaśruti)总结:聆听此事迹能解脱重罪,所得福德等同多次伽耶祭祖与广施牛供。

Shlokas

Verse 1

सूत उवाच । अतः परं शृणुध्वं हि लोहासुरविचेष्टितम् । बलेः पुत्रशतस्यापि कथयिष्यामि विश्रुतम्

苏多说道:现在请继续聆听罗诃阿修罗著名的行迹。我也将叙述婆利那一百位儿子的广为人知的故事。

Verse 2

यथा तौ भ्रातरौ वृद्धौ प्रापतुः स्थानमुत्तमम् । तदा प्रभृति वैराग्यं दैत्यो लोहासुरे दधौ

当那两位年长的兄弟证得至上境界之时,自那一刻起,魔族罗诃阿修罗便生起离欲之心。

Verse 3

किं करोमि क्व गच्छामि तपसे स्थानमुत्तमम् । यस्य पारं न जानंति देवता मुनयो नराः

“我当作何事?我当往何处去——去往何等至高的苦行之地——其尽头连诸天、仙圣与世人都不知晓?”

Verse 4

को मयाऽराध्यतां देवो हृदि चिंतयते भृशम् । इति चिंतयतस्तस्य मतिर्जाता महात्मनः

“我当礼敬哪一位神明?”——他在心中深深思惟;当他如此思量时,那位大心者的意志便生起了。

Verse 5

दधौ गंगां स्वशीर्षेण पुष्पवंतौ च नेत्रयोः । हृदा नारायणं देवं ब्रह्माणं कटिमंडले

他将恒河女神安置于自己头顶;又以盛开的花覆于双眼;在心中奉安那罗延天,而于腰际安置梵天,如同在已加持的曼荼罗中一般。

Verse 6

इंद्राद्या देवताः सर्वे यद्देहे प्रतिबिंबिताः । प्रपश्यंति तदात्मानं भास्करः सलिले यथा

诸天神众,以因陀罗为首,见自身映现在其身中,便于彼处观见各自之形,如日轮映现于水面。

Verse 7

तमेवाराधयिष्यामि निरंजनमकल्मषः । एवं कृत्वा मतिं दैत्य स्तपस्तेपे सुदुष्करम् । भीतो जन्मभयाद्घोराद्दुष्करं यन्महात्मभिः

“唯当礼敬彼一者——无垢清净者。”如是定意后,此大阿修罗因畏惧可怖的轮回再生,修行极其艰难之苦行;此等苦行,纵为大士亦难堪受。

Verse 8

अंबुभक्षो वायुभक्षः शीर्णपर्णाशनस्तथा । दिव्यं वर्षशतं साग्रं यदा तेपे महत्तपः । ततस्तुतोष भगवांस्त्रिशूलवरधारकः

先以水为食,继而以风为食,又食枯叶;如是修大苦行,满一百天界之年且有余。于是,持胜妙三叉戟之世尊大悦。

Verse 9

ईश्वर उवाच । वरं वृणीष्व भद्रं ते मनसा यदभीप्सितम् । लोहासुर मया देयं तव नास्ति तपोबलात्

自在天曰:“择取一愿,愿汝得吉祥;凡汝心所欲者皆可。罗诃阿修罗啊,凭汝苦行之力,我无有不与汝者。”

Verse 10

इत्युक्तो दानवस्तत्र शंकराग्रे वचोऽब्रवीत्

既蒙如是告语,彼处之魔族便在商羯罗面前陈述其言。

Verse 11

लोहासुर उवाच । यदि तुष्टोसि देवेश वरमेकं वृणोम्यहम् । शरीरस्याजरत्वं च मा मृत्योरपि मे भयम्

罗诃阿修罗说道:“若天神之主垂悦于我,我只求一愿:愿此身不受衰老侵逼,乃至对死亡亦无所畏惧。”

Verse 12

जन्मन्यस्मिन्प्रभो भूयात्स्थातव्यं हृदये मम । एवमस्तु शिवः प्राह तत्र तं दानवेश्वरम्

“就在此生此世,主啊,愿如此成就,并愿牢牢安住于我心。”当时,湿婆对那位达那婆之王答道:“如是。”

Verse 13

शर्वलब्धवरो दैवात्पुनस्तेपे महत्तपः । रम्ये सरस्वतीतीरे तरणाय भवार्णवात्

他因宿命得自舍婆(湿婆)之赐,又在秀美的萨拉斯瓦蒂河岸修行大苦行,希求渡越世间生灭之海。

Verse 14

वत्सराणां सहस्राणि प्रयुतान्यर्बुदानि च । शंकते भगवानिंद्रो भीतस्तस्य तपोबलात्

他持续了千年、万年,乃至亿万之久;尊贵的因陀罗也因此不安,畏惧那苦行所生的威力。

Verse 15

मा मे पदच्युतिर्भूयाद्दैत्यल्लोहासुरात्क्वचित् । मघवान्गुप्तरूपेण समेत्याश्रमकाननम्

(因陀罗心想:)“愿我不因魔罗诃阿修罗而在任何时候失坠天位。”于是摩伽梵(因陀罗)化作隐秘之形,前往修林道场之森。

Verse 16

तपोभंगं प्रकुरुते कंपयित्वा महासुरम् । ताडयंति शरीरे तं मुष्टिभिस्तीक्ष्णकर्कशैः

他破坏了苦行,撼动了那位大阿修罗;他们用坚硬、粗暴且锐利的拳头击打他的身体。

Verse 17

अथ तेन च दैत्येन ध्यानमुत्सृज्य वीक्षितम् । इंद्रेण तत्कृतं सर्वं तपोबलविनाशनम्

于是那位岱提耶放弃冥想,环顾四周,发觉这一切——他苦行之力的毁灭——皆是由因陀罗所致。

Verse 18

तस्य तैरभवद्युद्धमिंद्राद्यैरथ कर्क्कशैः । एकस्य बहुभिः सार्द्धं देवास्ते तेन संयुगे

随后,在他与那些冷酷者——因陀罗及众神——之间爆发了一场激战;在那场冲突中,许多天神联手对抗这位孤身一人的战士。

Verse 19

रुधिराक्लिन्नदेहा वै प्रहारैर्जर्जरीकृताः । केशवं शरणं प्राप्ता त्राहि त्राहीति भाषिणः

他们的身体浸透了鲜血,被重击打得支离破碎,于是皈依凯沙瓦(Keśava),哭喊道:“救救我们!救救我们!”

Verse 20

सूत उवाच । देवानां वाक्यमाकर्ण्य वासुदेवो जनार्दनः । युयुधे केशवस्तेन युद्धे वर्षशतं किल

苏塔(Sūta)说道:听闻众神之言,瓦苏戴瓦·贾纳达那(Vāsudeva Janārdana)——即凯沙瓦——便与他交战,据说那场战斗持续了一百年。

Verse 21

ततो नारायणं तत्र जिगाय स वरोर्जितः । अथ नारायणो देवो जितो लोहासुरेण तु

随后,他因所赐之恩而得力,在那里战胜了那罗延;于是连天神那罗延也被罗诃阿修罗所击败。

Verse 22

मंत्रयामास रुद्रेण ब्रह्मणा च पुनःपुनः । मीमांसित्वा त्रयो देवाः पुनर्युद्धसमुद्यमम्

他一再与楼陀罗及梵天商议。三位天神深思之后,再度整备,欲重启战事。

Verse 23

लोहासुरस्य दैत्यस्य वपुर्दृष्ट्वा पुनर्नवम् । महदासीत्पुनर्युद्धं दैत्यकेशवयोस्ततः

见到魔族罗诃阿修罗的身躯又一次焕然如新,魔族与凯沙瓦之间便再度爆发了一场大战。

Verse 24

न ममार यदा दैत्यो विष्णुना प्रभविष्णुना । तरसा तं केशवोऽपि पातयामास भूतले

当那魔族即使在大能毗湿奴的威力下仍不死时,凯沙瓦以猛力将他击倒在大地之上。

Verse 25

उत्तानं पतितं दृष्ट्वा पिनाकी परमेश्वरः । दधार हृदये तस्य स्वरूपं रूपवर्जितः

见他仰面倒地,持弓者毗那迦的至上主自在天,将那超越形相的本性摄持于心。

Verse 26

कण्ठे तस्थौ ततो ब्रह्मा तस्य लोहासुरस्य च । चरणौ पीडयामास स्वस्थित्या पुरुषोत्तमः

于是梵天立于那罗诃阿修罗的颈上;至上人格(普鲁绍塔摩)以自身稳固之势,重压其双足。

Verse 27

अथ दैत्यः समुत्तस्थौ भृशं बद्धोपि भूतले । दृष्ट्वोत्थितं ततो दैत्यं पातयंतं सुरोत्तमान्

随后那魔族(大阿修罗)虽被紧缚于地,仍猛然起身。见其再度腾起,并将诸天中最胜者击倒,

Verse 28

उवाच दिव्यया वाचा विरंचिः कमलासनः

莲座之上的毗阑支(梵天)以天妙之声开口说道。

Verse 29

ब्रह्मोवाच । लोहासुर सदा रक्ष वाचोधर्ममभीक्ष्णशः । त्वया यत्प्रार्थितं रुद्रात्तदेव समुपस्थितम्

梵天说道:“罗诃阿修罗啊,当恒常守护你言语之法(誓言之正法),不令间断。你向鲁陀罗所祈求的,那同一恩赐如今已临到你。”

Verse 30

अहं विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः । त्वद्देहमुपवेक्ष्यामो यावदाभूतसंप्लवम्

“我、毗湿奴与鲁陀罗——我们三位,诸天中最胜者——将守护你的身躯,直至众生最终的大毁灭。”

Verse 31

दानवेश शिवप्राप्तिर्भावभक्त्यैव जायते । शिवं चालयितुं बुद्धिः कथं तव भविष्यति

噢,达那婆之主,得证湿婆唯由真挚的虔敬而生。你心中又怎会起念,欲使湿婆动摇?

Verse 32

अचलांश्चालयेद्यस्तु प्रासादान्ब्राह्मणान्पुरान् । अचिरेणैव कालेन पातकेनैव लिप्यते

然而,凡欲撼动本应不动之物——神庙、婆罗门与圣城——不久便为罪垢所染。

Verse 33

श्मशानवत्परित्याज्यः सत्यधर्मबहिष्कृतः । सत्यवागसि भद्रं ते मा विचालय देवताः

离弃真实与达摩者,当如火葬场般远避。然而你言语真实:愿你得吉祥;莫去扰动诸天神。

Verse 34

येन यातास्तु पितरो येन याताः पितामहाः । तेन मार्गेण गंतव्यं न चोल्लंघ्या सतां गतिः

先祖与祖父所行之道,当循彼道而行;贤善之人的正途,不可逾越违犯。

Verse 35

दानवेश पिता ते हि ददौ लोकत्रयं हरेः । वाक्पाशबद्धः पाताले राज्यं चक्रे महीपतिः

噢,达那婆之主,你的父亲确曾将属于哈利的三界奉献出去。被自己誓言之索所缚,那位国王遂在帕塔拉统治。

Verse 36

तथा त्वमसि वाक्पाशाच्छिवभक्तिसमन्वितः । भूतले तिष्ठ दैत्येंद्र मा वाग्वैकल्प्यमाप्नुहि

同样,你也被自己言语的绳索所系,并具足对湿婆(Śiva)的虔敬。留在大地之上吧,达伊提亚之王;莫使言辞摇摆,陷入自相矛盾。

Verse 37

वरांस्ते च प्रदास्यामो मा विचाल्या हि देवताः

我们也将赐你诸般恩赐;但切莫扰乱诸天神。

Verse 38

व्यास उवाच । तच्छ्रुत्वा ब्रह्मणो वाक्यं संतुष्टो दानवेश्वरः । प्राह प्रसन्नया वाचा ब्रह्माणं केशवं हरम्

毗耶娑说:听闻梵天(Brahmā)之言,达那婆之主心生满足;遂以欢悦之声,向梵天、凯沙瓦(Keśava)与哈拉(Hara)致辞。

Verse 39

लोहासुर उवाच । वाक्पाशबद्धस्तिष्ठामि न पुनर्भवतां बले । ब्रह्मा विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः

罗诃阿修罗说:我既被自己言语之索所缚,便将安住于此——不再因你们的威力所迫。梵天、毗湿奴与鲁陀罗(Rudra),此三位乃诸天神中最胜者。

Verse 40

स्थास्यंति चेच्छरीरे मे किं न लब्धं मया ततः । इदं कलेवरं मे हि समारूढं त्रिभिः सुरैः

若你们将住于我这具身躯之中,那么我还有什么不能得?因为我的此身确已被三位天神所乘临——所安住。

Verse 41

भूम्यां भवतु विख्यातं मत्प्रभावात्सुरोत्तमाः

诸天中最胜者啊,凭我的威力,愿此事在大地上广为传扬。

Verse 42

लोहासुरस्य वाक्येन हर्षिता स्त्रिदशास्त्रयः । ददुः प्रत्युत्तरं तस्मै ब्रह्मविष्णुमहेश्वराः

因罗诃阿修罗之言而欢喜,三类天众皆欣然;梵天、毗湿奴与大自在天遂答复于他。

Verse 43

सत्यवाक्पाशतो दैत्यो न सत्याच्चलितो यतः । तेन सत्येन संतुष्टा दास्या मस्ते मनीप्सितम्

因你这达伊提亚不曾偏离真实——仿佛被真语之索所系——我们因这真实而欢喜;当赐予你所愿之物。

Verse 44

ब्रह्मोवाच । यथा स्नानं ब्रह्मज्ञानं देहत्यागो गयातले । धर्मारण्ये तथा दैत्य धर्म्मेश्वरपुरः स्थिते

梵天说道:“正如在伽耶沐浴、证知梵、乃至舍身,皆具无上功德;同样地,达伊提亚啊,在达摩林(Dharmāraṇya)中、于达摩自在城(Dharmmeśvara-pura)之前所行诸仪亦复如是。”

Verse 45

कूपे तर्प्पणकं श्राद्धं शंसंति पितरो दिवि । संतुष्टा पिंडदानेन गयायां पितरो यथा

天界的祖灵(Pitṛ)称赞在圣井处伴以供水礼(tarpaṇa)的施祖祭(śrāddha);正如在伽耶以团食供(piṇḍa)奉献而令祖灵满足。

Verse 46

वांछंति तर्प्पणं कूपे धर्मारण्ये विशुद्धये । दानवेन्द्र शरीरं तु तीर्थं तव भविष्यति

为求清净,人们将渴望在达摩林(Dharmāraṇya)的井边行作塔尔帕那(tarpaṇa)。而且,噢达那婆之主,你的身躯本身将成为一处圣渡(tīrtha)。

Verse 47

एकविंशतिवारांस्तु गयायां तर्प्पणे कृते । पितॄणां या परा तृप्तिर्जायते दानवाधिप

噢达那婆之主,在伽耶(Gayā)行作塔尔帕那(tarpaṇa)二十一次所生起的、令祖灵(Pitṛ)得至上满足之乐——

Verse 48

धर्मेश्वर पुरस्तात्सा त्वेकदा पितृतर्पणात् । स्याद्वै दशगुणा तृप्तिः सत्यमेव न संशयः

——而在法主(Dharmmeśvara)之前,哪怕只行一次祖灵供水(pitṛ-tarpaṇa),那份满足也确实增为十倍。此乃真实,无有疑惑。

Verse 49

पितॄणां पिंडदानेन अक्षय्या तृप्तिरस्त्विह । शिवरूपांतराले वै धर्मारण्ये धरातले

就在此地、达摩林(Dharmāraṇya)的大地上——于湿婆(Śiva)显现所标示的神圣间隙之中——以奉献皮恩达(piṇḍa)之供,愿祖灵(Pitṛ)得不朽不尽的满足。

Verse 50

श्रद्धयैव हि कर्त्तव्याः श्राद्धपिंडोदकक्रियाः । तथांतराले चास्माकं श्राद्धपिंडौ विशेषतः

诚然,施行施罗陀(śrāddha)之仪——皮恩达(piṇḍa)供与洒水奠祭——必须以信心而作。并且在此处这神圣的间隙中,我们的施罗陀与皮恩达供养之果报尤为殊胜。

Verse 51

तथा शरीरे क्वापिस्तांचिंता सत्योऽसि सुव्रत । त्रिषु लोकेषु दुष्प्रापं सत्यं ते दिवि संस्थितम्

同样地,在你身中也不要有丝毫忧惧,噢守真者、善誓者。于三界之中,真理难得;你的真实之德,乃至天界亦已确立。

Verse 52

अस्मद्वाक्येन सत्येन तत्तथाऽसुरसत्तम । गयासमधिकं तीर्थं तव जातं धरातले

凭我们所说之语的真实,必将如是,噢阿修罗中最胜者:在大地上,为你出现了一处圣地(tīrtha),与伽耶相等,甚至更胜。

Verse 53

अस्माकं स्थितिरव्यग्रा तव देहे न संशयः । सत्यपाशेन बद्धाः स्म दृढमेव त्वयाऽनघ

我们在你身中安住,安定而不受扰动,此事毫无疑虑。你以“真实之索”将我们牢牢系缚,噢无垢者。

Verse 54

विष्णुरुवाच । गयाप्रयाग कस्याऽपि फलं समधिकं स्मृतम् । चतुर्द्दश्याममावास्यां लोहयष्ट्यां पिंडदानतः

毗湿奴说道:伽耶与普拉亚伽之功德,被忆念为胜过他处;尤其在十四日与新月日(amāvāsyā),于罗诃耶什蒂(Lohayaṣṭī)奉献祭团(piṇḍa)之时。

Verse 55

बलिपुत्रस्य सत्येन महती तृप्तिरत्र हि । मा कुरुष्वात्र संदेहं तव देहे स्थिता स्वयम्

确实,凭巴利之子的真实之德,此处令祖先大得满足。对此切莫疑惑——她,那神圣的功德之力,自然安住于你身中。

Verse 56

सरस्वती पुण्यतोया ब्रह्मलोकात्प्रयात्युत । प्लावयिष्यंति देहांगं मया सह सुसंगता

圣水之河萨拉斯瓦蒂必将自梵天界(Brahmaloka)降临;与我和合相应,她将沐浴并充盈此身诸肢,以作净化。

Verse 57

यथो वै द्वारका वासो देवस्तत्र महेश्वरः । विरंचिर्यत्र तीर्थानि त्रीण्येतानि धरातले

正如兜罗迦(Dvārakā)为神圣居处,彼处礼敬大自在天;又如毗兰支(Virañci,即梵天)所在之地——在大地上,这三处皆以圣地(tīrtha)著称。

Verse 58

भविष्यति च पाताले स्वर्गलोके यमक्षये । विख्यातान्यसुरश्रेष्ठ पि तॄणां तृप्तिहेतवे

它们将在地下界(Pātāla)、天界(Svarga)以及阎摩之境中同样闻名,阿修罗之最胜者啊——被称颂为令祖灵(Pitṛ)得以满足之因。

Verse 59

अथान्यत्संप्रवक्ष्यामि गाथां पितृकृतां पराम् । आज्ञारूपां हि पुत्राणां तां शृणुष्व ममानघ

如今我将宣说另一首由祖灵(Pitṛ)所作的至上伽陀(gāthā);它以命令之相教诫诸子。无垢者啊,请聆听。

Verse 60

पितर ऊचुः । शंकरस्याग्रतः स्थानं रुद्रलोकप्रदं नृणाम् । पापदेहविशुद्ध्यर्थं पापेनोपहतात्मनाम्

祖灵(Pitṛ)说道:在商羯罗(Śaṅkara)之前有一处圣位,能赐人得入鲁陀罗之界;为净除罪身而设,救济那些被罪业所伤的心灵。

Verse 61

तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः । पितरो नरकाद्वा पि सुपुत्रेण सुमेधसा

在那里,即使仅以芝麻水(tilodaka)作供养,得以满足的祖先也能趋向吉祥善趣。确然,凭借德行具足而智慧的儿子,诸祖灵(Pitṛ)甚至可从地狱中得解脱。

Verse 62

गोप्रदानं प्रशंसंति तत्तत्र पितृमुक्तये । पित्रादिकान्समुद्दिश्य दृष्ट्वा रुद्रं च केशवम्

他们在那里称赞布施乳牛,作为令祖先得解脱之法。既已召请诸祖灵(Pitṛ)等众,当观礼并礼拜鲁陀罗(Rudra)与凯沙瓦(Keśava)二尊。

Verse 63

तिलपिण्याकपिंडेन तृप्तिं यास्यामहे पराम् । चतुर्द्दश्याममावास्यां तथा च पितृतर्पणम्

以芝麻饼渣所制之供团(tilapiṇyāka piṇḍa),我们将令祖先得至上满足。同样,祖灵供水(Pitṛ-tarpaṇa)应于十四日以及新月日举行。

Verse 64

अज्ञातगोत्रजन्मानस्तेभ्यः पिंडांस्तु निर्वपेत् । तेऽपि यांति दिवं सर्वे ये दत्त इति श्रुतिः

对于族姓(gotra)不明而出生者,也应为其施设供团(piṇḍa)。他们亦皆得升天界——圣传如是宣说:“凡受供者”。

Verse 65

सर्वकार्याणि संत्यज्य मानवैः पुण्यमीप्सुभिः । प्राप्ते भाद्रपदे मासे गंतव्या लोहयिष्टका । अज्ञातगोत्रनाम्ना तु पिंड मंत्रमिमं शृणु

求取福德之人,当舍离一切他务。待到婆陀罗钵陀月(Bhādrapada)来临,应前往罗诃耶伊湿吒迦(Lohayiṣṭakā)。如今请听此供团(piṇḍa)真言,用于族姓与名号不明者。

Verse 66

पितृवंशे मृता ये च मातृवंशे तथैव च । अतीतगोत्रजास्तेभ्यः पिंडोऽयमुपतिष्ठतु

愿此供奉之团食(piṇḍa)献给父系亡者,亦献给母系亡者——以及属于往昔、已被遗忘之族系者。

Verse 67

विष्णुरुवाच । अनेनैव तु मंत्रेण ममाग्रे सुरसत्तम । क्षीणे चंद्रे चतुर्द्दश्यां नभस्ये पिंडमाहरेत्

毗湿奴说道:以此同一真言,噢诸天中最胜者,在我面前应于那婆娑月(Nabhasya)之月亏时第十四日(tithi)奉献团食(piṇḍa)。

Verse 68

पितॄणामक्षया तृप्तिर्भविष्यति न संशयः । तिलपिण्याकपिंडेन पितरो मोक्षमाप्नुयुः

祖灵(Pitṛ)将得无尽的满足,毫无疑问。以芝麻饼所制之团食(piṇḍa)供奉,诸祖可得解脱(mokṣa)。

Verse 69

क्षणत्रयविनिर्मुक्ता मानवा जगतीतले । भविष्यंति न संदेहो लोहयष्ट्या तिलतर्पणे

世间之人必于三刹那间得解脱(离罪重),毫无疑问;只因在卢诃耶什蒂(Lohayaṣṭī)行芝麻灌供(tarpaṇa)。

Verse 70

स्नात्वा यः कुरुते चात्र पितृपिंडोदकक्रियाः । पितरस्तस्य तृप्यंति यावद्ब्रह्मदिवानिशम्

凡先沐浴而后在此行祖先团食(piṇḍa)与水供之仪者,其祖灵(Pitṛ)将恒常满足,直至梵天(Brahmā)之昼夜终尽。

Verse 71

अमावास्यादिनं प्राप्य मासि भाद्रपदे सरः । ब्रह्मणो यष्टिकायां तु यः कुर्यात्पितृतर्पणम्

在跋陀罗钵陀月(Bhādrapada)的新月日(Amāvasyā),凡于名为“梵天之杖”(Yaṣṭikā)的圣湖向祖灵(Pitṛ)行供水礼(tarpaṇa)者,必得此圣地(tīrtha)殊胜功德。

Verse 72

पितरस्तस्य तृप्ताः स्युर्यावदाभूतसंप्लवम् । तेषां प्रसन्नो भगवानादिदेवो महेश्वरः

其祖先将满足安乐,直至宇宙大劫毁灭;并且为他们之故,吉祥的主宰——摩诃伊湿伐罗(Maheśvara),本初之神——亦垂慈悦纳。

Verse 73

अस्य तीर्थस्य यात्रायां मतिर्येषां भविष्यति । गोक्षीरेण तिलैः श्वेतैः स्नात्वा सारस्वते जले

凡心志系念此圣地(tīrtha)之朝圣者,若以牛乳与白芝麻同浴于萨拉斯瓦蒂(Sarasvatī)之水中,便堪受所许之祖先功德。

Verse 74

तर्पयेदक्षया तृप्तिः पितॄणां तस्य जायते । श्राद्धं चैव प्रकु र्वीत सक्तुभिः पयसा सह

当行供水礼(tarpaṇa),则其祖灵(Pitṛ)得不坏之满足;并当以炒大麦粉(saktu)和乳同用,举行施食追荐之礼(śrāddha)。

Verse 75

अमावास्यादिनं प्राप्य पितॄणां मोदमिच्छुकः । रुद्रतीर्थे ततो धेनुं दयाद्वस्त्राणि यमतीर्थके

在新月日(Amāvasyā),欲令祖灵(Pitṛ)欢喜者,当于鲁陀罗圣地(Rudra-tīrtha)布施一头母牛;又当于阎摩圣地(Yama-tīrtha)施与衣服。

Verse 76

विष्णुतीर्थे हिरण्यं च पितॄणां मोक्षमिच्छुकः । विनाक्षतैर्विना दर्भैर्विना चासनमेव च । वारिमात्राल्लोहयष्ट्यां गयाश्राद्धफलं लभेत्

若求祖先解脱,应在毗湿奴圣渡(Viṣṇu-tīrtha)布施黄金。在罗诃耶什提(Lohayaṣṭī),即使唯以清水——无米粒、无达婆草、甚至无坐席——亦得如在伽耶(Gayā)所行施食祭(śrāddha)之功德果报。

Verse 77

सूत उवाच । एतद्वः कथितं विप्रा लोहासुरविचेष्टितम् । यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः

苏多(Sūta)说道:婆罗门诸贤啊,我已向你们叙述与罗诃阿修罗(Lohāsura)相关之事。闻此者,即便犯婆罗门杀罪或杀牛罪,亦能脱离一切罪垢。

Verse 78

एकविंशतिवारन्तु गयायां पिंड पातने । तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति

在伽耶(Gayā)供奉祭团(piṇḍa)二十一回所得之果报,只需听闻此文一次,便能圆满获得。

Verse 79

चतुःष्कोटि द्विलक्षं च सहस्रं शतमेव च । धेनवस्तेन दत्ताः स्युर्माहात्म्यं शृणु यात्तु यः

凡聆听此圣迹赞(māhātmya)者,即被视为已布施乳牛:四俱胝(crore)、二十万(lakh)、一千又一百之数。