
本章以对话展开:尤提湿提罗请问圣者摩尔甘德耶,纳尔玛达河(瑞瓦)上有一处圣地(tīrtha),其功德与瓦拉纳西等同,并能消除如“婆罗门杀罪”(brahmahatyā)等重罪。摩尔甘德耶先叙述宇宙初生的谱系,推及达克沙与月神苏摩;继而讲述苏摩因达克沙的诅咒而衰败。苏摩向梵天祈求,梵天指示他前往瑞瓦河罕见的灵节点,尤其是河流汇合处(saṅgama),在彼处修苦行并行供奉。 苏摩长久以至诚奉事湿婆,湿婆遂显现,并建立威力无比的林伽“苏摩那他”(Somanātha),据说能除苦灭罪。章中又举一则示范故事:迦ṇva王因误杀化作鹿形的婆罗门而染婆罗门杀罪之苦,来到瑞瓦汇合处沐浴礼拜苏摩那他,遇见人格化的婆罗门杀罪——一位身着红衣的少女;凭圣地威德,王得以解脱。 随后给出持戒法(vrata)的要目:在特定月相日斋戒、夜间守 vigil、以五甘露(pañcāmṛta)行灌顶沐浴(abhiṣeka)、奉献供品、燃灯奏乐、恭敬供养具德婆罗门,并守持端正的伦理行持。果报颂(phalaśruti)宣称:在苏摩那他圣地绕行、听闻与如法修持,能净除大罪,赐予健康、富足与更高世界;并提及苏摩在多处安立诸林伽,使地方朝圣融入更广阔的湿婆信仰网络。
Verse 1
श्रीमार्कण्डेय उवाच । ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् । ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत्
圣者马尔坎德耶说:随后,王啊,应前往那尔摩陀河古老的圣渡处——此一提尔塔能消除杀婆罗门之罪,确与瓦拉纳西等同。
Verse 2
युधिष्ठिर उवाच । आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे । वाराणस्या समं कस्मादेतत्कथय मे प्रभो
尤迪希提罗说:婆罗门啊,请讲述这奇事——那尔摩陀河岸发生了什么?为何此地与瓦拉纳西等同?请告知我,主啊。
Verse 3
निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम । युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः
婆罗门中最尊者啊,有一人沉没于苦恼的轮回之海,失却王国;当他沐浴于你圣言之水时,便与亲族一同离苦得安。
Verse 4
श्रीमार्कण्डेय उवाच । साधु साधु महाबाहो सोमवंशविभूषण । पृष्टोऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम्
圣者马尔坎德耶说道:“善哉,善哉!臂力无双者,月族之荣饰!你问我一处稀有的圣渡(tīrtha)——至上无比,且比所谓的秘密更为隐秘。”
Verse 5
आदौ पितामहस्तावत्समस्तजगतः प्रभुः । मनसा तस्य संजाता दशैव ऋषिपुंगवाः
在最初,祖父神(Pitāmaha)、统御一切世界之主,仅以意念便生出十位最卓越的圣仙(ṛṣi)。
Verse 6
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च
即:摩利支(Marīci)、阿特里(Atri)与安吉罗(Aṅgiras),普罗拉斯提耶(Pulastya)、普罗诃(Pulaha)、克罗图(Kratu),普罗切塔斯(Pracetas,即达克沙 Dakṣa),婆悉吒(Vasiṣṭha)、婆利古(Bhṛgu),以及那罗陀(Nārada)。
Verse 7
जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः । दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल
由普罗切塔斯生出达克沙(Dakṣa),那位威光炽盛的众生之主(Prajāpati)。据说达克沙也有五十位女儿降生于世。
Verse 8
ददौ स दश धर्माय कश्यपाय त्रयोदश । तथैव स महाभागः सप्तविंशतिमिन्दवे
他将十位(女儿)许配给法神达摩(Dharma),又将十三位许配给迦叶(Kaśyapa)。同样,那位大福者又将二十七位献与月神苏摩(Soma)。
Verse 9
रोहिणी नाम या तासामभीष्टा साभवद्विधोः । शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः
在她们之中,名为罗希尼(Rohiṇī)者成了月神最钟爱的。怜悯其余被冷落者,达克沙(Dakṣa)便诅咒了月神。
Verse 10
क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः । स च शापप्रभावेण निस्तेजाः शर्वरीपतिः
因达克沙的诅咒,月神——那位生主(Prajāpati)之裔——染上了消耗之疾。受咒力所迫,夜之主失却了光辉。
Verse 11
गतः पितामहं सोमो वेपमानोऽमृतांशुमान् । पद्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते । शरणं त्वां प्रसन्नोऽस्मि पाहि मां कमलासन
甘露般光芒的苏摩(Soma)战栗着前往祖父梵天(Brahmā)处:“莲华所生者,敬礼于你;吠陀之胎者,敬礼于你。我今归依于你,愿你垂恩护我,莲座之主。”
Verse 12
ब्रह्मोवाच । निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे । उद्विग्नमानसस्तात संजातः केन हेतुना
梵天说道:“夜之主啊,你显得光辉尽失,亦似失却月相。孩子,你心神不安——此事因何而起?”
Verse 13
सोम उवाच । दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते । निर्हारश्चास्य शापस्य कथ्यतां मे पितामह
苏摩说道:“大梵啊,世间之主啊,因达克沙之咒我已失去光辉。祖父啊,请告知我脱离此咒之法。”
Verse 14
ब्रह्मोवाच । सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा । ओङ्कारेऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे
梵天说道:“瑞瓦河处处易得,然在三处却极为难遇:在嗡迦罗(Oṅkāra)、在婆利古的圣地(Bhṛgu-kṣetra),以及在与乌尔瓦(Ūrvā)汇合之处。”
Verse 15
तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् । त्वरितोऽसौ गतस्तत्र यत्र रेवौर्विसंगमः
“去那里吧,夜之主啊,去那有瑞瓦内流(Revāntara)之岸。”他便迅速前往那处——瑞瓦与乌尔瓦汇合之地。
Verse 16
काष्ठावस्थः स्थितः सोमो दध्यौ त्रिपुरवैरिणम् । यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः
苏摩如木段般一动不动,观想三城之敌(湿婆)。待整整百年圆满,摩诃伊湿伐罗(Maheśvara)便心生欢喜。
Verse 17
प्रत्यक्षः सोमराजस्य वृषासन उमापतिः । साष्टाङ्गं प्रणिपत्योच्चैर्जय शम्भो नमोऽस्तु ते
乌摩之主(Umāpati)乘牛而坐,亲自显现于苏摩王前。苏摩以八体投地礼拜,高声呼曰:“胜利归于你,商布(Śambhu)!敬礼于你!”
Verse 18
जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः । जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः
胜利并敬礼于商羯罗(Śaṅkara),除罪者!胜利于你,伊湿伐罗(Īśvara),世界之主!胜利并敬礼于以婆苏吉(Vāsuki)为饰者!胜利并敬礼于执三叉戟与骷髅者!
Verse 19
जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः । जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः
胜利礼敬:毁灭安达迦之身者!胜利礼敬:诛灭群魔阿修罗者!胜利礼敬:无相而又显现为万有者!胜利礼敬:即是时间本身、焚烧迦摩者!
Verse 20
जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः । जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज
胜利礼敬:持幽暗之喉者!胜利礼敬:微妙清净、以圣音而被知的主宰!胜利礼敬:最初者——却无始无终、无量无边!胜利啊,商羯罗,主宰啊:愿收我为仆,我敬拜于你!
Verse 21
एवं स्तुतो महादेवः सोमराजेन पाण्डव । तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करोऽब्रवीत्
如是被苏摩王赞颂,哦般度之子,摩诃提婆心生欢喜。随后,商羯罗与湿婆女神(乌玛)同在,对那位最尊贵的国王开口说道。
Verse 22
ईश्वर उवाच । वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते । साधु साधु महासत्त्व तुष्टोऽहं तपसा तव
自在天说道:“吉祥者啊,向我祈求你心中所愿之恩赐。善哉,善哉,大心者!你的苦行已令我欢喜。”
Verse 23
सोम उवाच । दक्षशापेन दग्धोऽहं क्षीणसत्त्वो महेश्वर । शापस्योपशमं देव कुरु शर्म मम प्रभो
苏摩说道:“大自在天啊,我被达克沙的诅咒灼烧,精力衰竭。天神啊,愿你平息此咒,赐我安宁与护佑,主宰啊。”
Verse 24
ईश्वर उवाच । तव भक्तिगृहीतोऽहमुमया सह तोषितः । निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात्
自在天(Īśvara)说道:“我已被你的虔敬所摄受,与乌玛(Umā)同感欢喜。因奉事圣地渡口(tīrtha),你已成无罪;确然,你已成为‘苏摩那他’(Somanātha)。”
Verse 25
इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः । स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि । सर्वदुःखहरं तत्तु ब्रह्महत्याविनाशनम्
神中之主如是说罢,复默观片刻,遂令因都/苏摩(Indu/Soma)在大地上安立无上灵伽(liṅga):为众生满愿,尽除诸苦,并能摧灭乃至梵杀(brahma-hatyā)之罪。
Verse 26
युधिष्ठिर उवाच । सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो । दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम
由提施提罗(Yudhiṣṭhira)说道:“大主啊,请略说苏摩那他(Somanātha)的威德。最胜二生者啊,你已来作沉没于苦海之人的救护者。”
Verse 27
श्रीमार्कण्डेय उवाच । शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्यहम् । यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे
圣者马尔坎德耶(Śrī Mārkaṇḍeya)说道:“且听。我将略述此圣地渡口(tīrtha)的威德——在瑞瓦河(Revā,纳尔玛达 Narmadā)北岸、名为乌里桑伽摩(Urisaṅgama)的汇合处所发生之事。”
Verse 28
शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः । त्रिलोचनसुतः कण्वः स पापर्द्धिपरोऽभवत्
曾有一位国王名为商婆罗(Śambara)。其子为三目者(Trilocana);三目者之子名迦ṇ婆(Kaṇva),此人专意于罪恶之利与增长。
Verse 29
वने नित्यं भ्रमन्सोऽथ मृगयूथं ददर्श ह । मृगयूथं हतं तत्तु त्रिलोचनसुतेन च
他每日在林中徘徊,见到一群鹿。那群鹿确已被三目者之子(迦ṇva)所杀。
Verse 30
मृगरूपी द्विजो मध्ये चरते निर्जने वने । स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम
在那寂静的林中,有一位两次出生者化作鹿形,在群中行走。因与其相杂,迦ṇva将他杀害——噢,诸牟尼之最胜者。
Verse 31
ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् । व्यचरंश्चैव सम्प्राप्तो नर्मदामुरिसंगमे
迦ṇva为梵杀之罪(Brahmahatyā)所缠,光辉尽失,漂泊于大地;在漂泊之中,他来到那尔摩陀河,于乌里桑伽摩之处。
Verse 32
किंशुकाशोकबहले जम्बीरपनसाकुले । कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते
那是一片林木繁密之地,遍布金焰花树(kiṃśuka)与无忧树(aśoka),又多香橼与菠萝蜜;其间散布迦檀婆与波吒罗,并以毕尔瓦与橙树增其华美。
Verse 33
चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते । प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम्
林中多罗望子与瞻波迦(campaka),又为阿伽斯提树所覆荫;那森林众生繁盛,四方皆显庄严之美。
Verse 34
चित्रकैर्मृगमार्जारैर्हिंस्रैः शम्बरशूकरैः । शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम्
其地遍布斑纹之兽与野猫,凶猛的商婆罗鹿与野猪;又有野兔与牦牛相随,并以孔雀与驴点缀其间。
Verse 35
प्रविष्टस्तु वने कण्वस्तृषार्तः श्रमपीडितः । स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने
迦ṇ婆入彼林中,渴苦所逼、劳顿不堪;遂于能灭罪业之两水汇合处,在圣河瑞瓦的净水中沐浴。
Verse 36
अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर । पपौ सुविमलं तोयं सर्वपापक्षयंकरम्
噢,尤提施提罗,彼以至诚至敬礼拜娑摩那他,遂饮极其澄净之水——能尽灭一切罪垢之水。
Verse 37
फलानि च विचित्राणि चखाद सह किंकरैः । सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च
他与随从一同食用种种奇果;又因猎鹿而疲惫,便在树荫之下沉沉入睡。
Verse 38
तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः । मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः
正当此时,一位婆罗门为沐浴而前往最胜的圣地——那神圣的汇合处。行于道上,他满怀欢喜,心神专注于彼圣处。
Verse 39
अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम । त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर
那无助的女子对他说:“停下,停下,婆罗门中的至上者!”她惊恐万分,四面张望,哦,国王。
Verse 40
तावद्वृक्षसमारूढां स्त्रियं रक्ताम्बरावृताम् । रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् । रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह
随即他看见一名女子攀上树梢——身披红衣;一位少女佩戴红色花鬘,涂抹红檀香;红饰灿然,手中执着绳索套索。
Verse 41
स्त्र्युवाच । संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे । मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय
那女子说道:“婆罗门啊,请听我的口信。若你前往神圣的汇合处(saṅgama),我丈夫在那里——请立刻转告他。”
Verse 42
एकाकिनी च ते भार्या तिष्ठते वनमध्यगा । इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे
“而你的妻子孤身一人,停留在森林深处。”听罢此言,那婆罗门便前往那汇合圣地(saṅgama)——连诸天也难得抵达之处。
Verse 43
वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः । उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः
婆罗门看见迦ṇva坐在树荫之下;于是那位最胜婆罗门便对他说出了言辞。
Verse 44
ब्राह्मण उवाच । वनान्तरे मया दृष्टा बाला कमललोचना । रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता
婆罗门说道:“在幽深的森林里,我见到一位少女,眼如莲华;身姿纤细,着红衣,并以红檀香膏涂身。”
Verse 45
रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा । वृक्षारूढावदद्वाक्यं मद्भर्ता प्रेष्यतामिति
她佩戴红色花鬘,容光华美,手执绳索(pāśa),目若鹿眸;坐在树上说道:“请把这话转告我的夫君。”
Verse 46
कण्व उवाच । कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना । कस्य सा केन कार्येण सर्वमेतद्वदाशु मे
迦ṇva说道:“婆罗门中最尊者,那位鹿眼少女在何处?她属谁人?为何在此?速速将这一切告诉我。”
Verse 47
ब्राह्मण उवाच । सङ्गमादर्धक्रोशे सा उद्यानान्ते हि विद्यते । वचनाद्ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु
婆罗门说道:“离两河汇合处半个拘舍(krośa),她就在园林边缘。依梵天(Brahmā)之命,国王并不识得她。”
Verse 48
तदा स कण्वभूपालः स्वकं दूतं समादिशत् कण्व उवाच । गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि । प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः
于是迦ṇva王吩咐自己的使者:“去,问她:‘你从何处而来,将往何处而去?’”使者奉命疾行,来到那女子近前。
Verse 49
वृक्षस्थां ददृशो बालामुवाच नृपसत्तम । मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि
使者见那少女坐在树上,便说道:“大王中之最胜者,我主问你:‘你是谁?你将往何处去?’”
Verse 50
कन्योवाच । गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन्न पापानां शास्ता वैवस्वतो यमः
少女说道:“自制之人,以师为戒律之师;作恶之人,以王为惩治之主。然而在此,对隐匿之罪,真正的惩罚者乃毗婆斯梵之子阎摩。”
Verse 51
ब्रह्महत्या च संजाता मृगरूपधरद्विजात् । मया युक्तोऽपि ते राजा मुक्तस्तीर्थप्रभावतः
“弑婆罗门之罪,起于一位再生者化作鹿形。然而你们的国王——虽与我有所牵连——也因这圣地(tīrtha)之威力而得解脱。”
Verse 52
अर्धक्रोशान्तरान्मध्ये ब्रह्महत्या न संविशेत् । सोमनाथप्रभावोऽयं वाराणस्याः समः स्मृतः
“在半个拘舍(krośa)的范围之内,弑婆罗门之罪不得入侵。这便是娑摩那他(Somanātha)的威力,被忆念为与婆罗那西(Vārāṇasī)等同。”
Verse 53
गच्छ त्वं प्रेष्यतां राजा शीघ्रमत्र न संशयः । गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः
“去吧,速速请国王到此,毫无疑虑。”那仆从随即疾行而去,浑身战栗,心神大乱。
Verse 54
समस्तं कथयामास यद्वृत्तं हि पुरातनम् । तस्य वाक्यादसौ राजा पतितो धरणीतले
他将那久远往事的始末尽皆陈说。王闻其言,便倒伏于地。
Verse 55
भृत्य उवाच । कस्मात्त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् । इत्याकर्ण्य वचस्तस्य राजा वचनमब्रवीत्
仆从说道:“主上,为何为往昔所积之善恶而悲伤?”王闻其言,便开口答道。
Verse 56
प्राणत्यागं करिष्यामि सोमनाथसमीपतः । शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च
“我将于苏摩那他近前舍弃此身。速速取来火焰,并备足柴薪。”
Verse 57
आनीतं तत्क्षणात्सर्वं भृत्यैस्तद्वशवर्तिभिः । स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने
一切即刻由听命的侍从尽数奉来。随后他在两水交汇处的吉祥之水中沐浴——此处能灭诸罪——便继续前行。
Verse 58
अर्चितः परया भक्त्या सोमनाथो महीभृता । त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम्
国王以至诚至敬礼拜苏摩那他。继而恭敬绕行炽燃之火三匝,遂继续其誓愿。
Verse 59
प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् । पीताम्बरधरं देवं जटामुकुटधारिणम्
迦ṇ婆王步入火中,心内观想阎那尔达那——身披黄衣的神圣主宰,头戴结发为冠。
Verse 60
श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् । सुरारिसूदनं दध्यौ सुगतिर्मे भवत्विति
他观想那诛灭天神之敌者——与室利同在的毗湿奴,乘坐迦楼罗,执螺、轮与杵,心念:“愿我得至善道。”
Verse 61
पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज । आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम्
花雨纷落,“善哉!善哉!”之声四起,王子啊。见此无比奇观,众人相互对视,惊叹不已。
Verse 62
मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् । विमानस्थास्ततः सर्वे संजाताः पाण्डुनन्दन
当他在那火中舍身之时——侍从们亦在心中观想持杵者伽达陀罗——其后众人皆登坐天界飞车(毗曼那),般度之子啊。
Verse 63
निष्पापास्ते दिवं याताः सोमनाथप्रभावतः । ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम्
他们离罪清净,凭借娑摩那他(Somanātha)之威力而升天;就在那汇流之处,一位婆罗门正观想牛旗者(湿婆)。
Verse 64
श्रीमार्कण्डेय उवाच । सोमनाथप्रभावोऽयं शृणुष्वैकमना विधिम् । अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने
圣者马尔坎德耶说道:“此乃苏摩那他(Somanātha)之威德。汝当一心谛听其仪轨:于第八日或第十四日(月相日),无论何时,逢日曜(星期日)……”
Verse 65
विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी । उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम्
“尤其是在白半月(净半月,śukla-pakṣa)之中,第七日(tithi)又恰逢日曜:若有人以虔敬持斋,并于夜间守夜不眠……”
Verse 66
पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् । श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत्
当以牛所出之五甘露(pañcāmṛta)为至上自在天(Parameśvara)沐浴;继而以檀香膏涂抹,并奉献花鬘、香与诸般常规供品。
Verse 67
घृतेन बोधयेद्दीपं नृत्यं गीतं च कारयेत् । सोमवारे तथाष्टम्यां प्रभाते पूजयेद्द्विजान्
当以酥油点燃明灯,并安排舞蹈与歌咏。于月曜(星期一),亦于第八日(tithi),当在清晨礼敬二次生者(dvija)。
Verse 68
जितक्रोधानात्मवतः परनिन्दाविवर्जितान् । सर्वाङ्गरुचिराञ्छस्तान् स्वदारपरिपालकान्
他们应是已降伏嗔怒、能自持、并远离毁谤他人者——行止端正、仪态可亲,且守护自己正当妻室之人。
Verse 69
गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा । पुनर्भूवृषलीशूद्री चरेयुर्यस्य मन्दिरे
那些只诵念伽耶特丽(Gāyatrī)而恒常远离禁行之人——在他的家中,即使再嫁之女、被逐之女与首陀罗之女,也可往来行止而无失礼之过。
Verse 70
दूरतोऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता । हीनाङ्गानतिरिक्ताङ्गान् येषां पूर्वापरं न हि
求自身福祉者,当远远避开此等“再生者”(dvija)——肢体残缺者,或肢体异常、过多者,以及不知先后次第、无礼失序者。
Verse 71
व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् । आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः
于持戒之誓、于施行祭祖的施罗陀(śrāddha)、亦于布施之时,当远离此等人。缺乏吠陀自习(svādhyāya)的再生者,犹如铁铸的少女:形貌可观,却无真实功用。
Verse 72
आत्मानं सह याज्येन पातयन्ति न संशयः । शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः
他们必使自身与受祭者一同堕落,毫无疑问。那些只沉溺于“六业”(ṣaṭkarman)的再生者,如同娑罗摩梨(śālmalī)树之绵絮:外表丰盈,却无真实分量。
Verse 73
दातारं च तथात्मानं तारयन्ति तरन्ति च । श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः
他们能度脱施主,也度脱自身,并得以渡越。噢,帕尔塔(Pārtha)啊,凡在苏摩伊湿伐罗(Someshvara)行施罗陀(śrāddha)而弃绝嫉妒者,便获得此救度之功德。
Verse 74
प्रेतास्तस्य हि सुप्रीता यावदाभूतसम्प्लवम् । अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने
确然,他的亡祖先将一直大为欢喜,直至宇宙大劫的消融。凡向最上生者(婆罗门)施与饮食、衣服与黄金者,便为他们成就这长久的满足。
Verse 75
स याति शाङ्करे लोक इति मे सत्यभाषितम् । हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम्
他将前往商羯罗之界——此乃我真实之言。又凡在彼处布施一匹完备、年轻、洁白之马者,亦得同等殊胜之果。
Verse 76
रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् । कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि
供献之物或红或黄,具足一切吉祥相;并且连最上生者(婆罗门)与那匹马的肢体,也当以藏红花(库恩库玛)涂抹。
Verse 77
स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ । अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह
当以花鬘与花串装饰二者,并以白衣覆裹。将你的脚踏在我的肩上,登上那匹马。
Verse 78
आरूढे ब्राह्मणे ब्रूयाद्भास्करः प्रीयतामिति । स याति शांकरं लोकं सर्वपापविवर्जितः
当婆罗门已登马时,应当说道:“愿婆娑迦罗(太阳神)欢喜。”远离一切罪垢者,得至商羯罗之界。
Verse 79
उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः । सत्यलोकाच्च्युतश्चापि राजा भवति धार्मिकः
然而在月食之时,若能制御诸根而前往圣地(tīrtha),即便从真理界(Satyaloka)堕落者,也将成为持法的正义之王。
Verse 80
तस्य वासः सदा राजन्न नश्यति कदाचन । दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी
大王啊,他的居所永不毁坏;他将得一位长寿之子,而其妻亦变得和顺、依从而虔敬。
Verse 81
जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः । सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने
他将圆满活满一百年,远离一切苦恼。守持斋戒、降伏嗔怒之后,应当布施一头母牛给二次生者(婆罗门)。
Verse 82
सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् । शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम्
可布施一头带犊、乳汁充盈、并以白布相赠之母牛;无论是花斑的、黄色的、烟灰色的,或蓝点斑驳的,皆可。
Verse 83
कपिलां वा सवत्सां च घण्टाभरणभूषिताम् । रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर
人中王啊,亦可布施一头赭色(kapilā)带犊之母牛,饰以铃铛与宝饰;其蹄镀银,挤乳器为青铜,牛角包以黄金。
Verse 84
श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी । शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते
布施白牛,家族血脉兴盛;布施红牛,增益吉祥福运。斑驳之牛与黄色之牛,皆被宣说为能摧灭忧苦。
Verse 85
। अध्याय
本章终。ّ
Verse 86
पक्षान्तेऽथ व्यतीपाते वै धृतौ रविसंक्रमे । दिनक्षये गजच्छायां ग्रहणे भास्करस्य च
在半月将尽之时,于Vyatīpāta瑜伽、Dhṛti瑜伽之际,于太阳行度(过宫)之时,于日暮之刻,于所谓“象影”之时,并于日食之际——这些皆为在圣地(tīrtha)行诸圣业尤为灵验的时分。
Verse 87
ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे । मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत्
凡大心之人,前往那神圣而难得的汇合处者,当以泥土覆身,而后入于汇流之中,行圣浴。
Verse 88
हृदयान्तर्जले जाप्या प्राणायामोऽथवा नृप । गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया । तेऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करोऽब्रवीत्
大王啊,即便以心中“内水”而行持的念诵(japa),或修习调息(prāṇāyāma);以及伽雅特丽(Gāyatrī)——无论是毗湿奴派的Vaiṣṇavī、太阳派的Saurī,或湿婆派的Śaivī——若能随缘自发而具信心地修持,纵然如此之人亦得解脱诸罪。此乃商羯罗所言。
Verse 89
जगतीं सोमनाथस्य यस्तु कुर्यात्प्रदक्षिणाम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
凡绕行苏摩那他(Soma-nātha)神圣坛基(jagatī)作右绕者,等同于已环绕具七大洲之大地一周。
Verse 90
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् । भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः
即便背负杀婆罗门、饮酒、犯师床、杀胎(bhrūṇahatya)与盗金之罪者,在此亦得解脱;对此毫无疑惑。
Verse 91
तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः । व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात्
凡能自制诸根而聆听此圣地(tīrtha)功德之记述者:若有病,病者得离疾苦;若无病,便得安乐。
Verse 92
यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर । नैकापि नृप लोकेऽस्मिन् भ्रूणहत्या सुदुस्त्यजा
凡令你心中灼痛之事,且听我说,尤提施提罗啊。大王,在此世间,没有比杀胎之罪(bhrūṇahatya)更难弃除的了。
Verse 93
किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः । सोऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम्
更何况,帕尔塔啊,那“造夜者”所招致的二十六种垢染呢?连他也因抵达此圣地(tīrtha),并修行极其艰难的苦行(tapas),而得以净化。
Verse 94
विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी । श्रूयते नृप पौराणी गाथा गीता महर्षिभिः
脱离一切罪垢后,那清凉放光者——月神——得大安乐。大王啊,此古老的《往世书》圣歌常被传闻,由诸大圣仙所吟唱。
Verse 95
लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् । अतो लिङ्गत्रयं सोमः स्थापयामास भारत
诚然,若安立一座林伽,便可赎除十次杀胎之罪。因此,婆罗多啊,苏摩安立了三座林伽。
Verse 96
रेवौरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके । ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम्
第一处在瑞瓦河与大海的汇合处;第二处在婆利古迦遮。由此得至上成就后,第三处在普罗婆娑。
Verse 97
इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् । धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम्
因此,至胜圣渡口的功德全都已向你宣说:它赐予正法、名誉、寿命、天界之福,并能净化众人之心。
Verse 98
पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् । मुच्यते सर्वपापेभ्यस्तीर्थं कृत्वा परं नृप
求子者得子;无欲者得升天界。大王啊,如法完成此至上朝圣后,便能解脱一切罪业。
Verse 99
एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् । श्रुत्वा पुत्रमवाप्नोति स्नात्वा चाष्टौ न संशयः
这一切都已为你宣说——属于索摩那他(Somanātha)的功德果报。仅仅听闻便得一子;若在彼处沐浴,则得八倍福德——毫无疑惑。