Adhyaya 111
Avanti KhandaReva KhandaAdhyaya 111

Adhyaya 111

本章以对话展开:尤提施提罗请求马尔坎德耶详述斯坎达的身世因缘,并说明那尔玛达河上一处圣渡口(Skanda-tīrtha)的正当仪轨与功德。马尔坎德耶说,诸天因缺少统帅而祈求湿婆;继而叙述斯坎达显现的神圣经过:湿婆对乌玛的意向,诸天借火神阿耆尼介入,乌玛因之发下咒诅使诸天后嗣受影响,以及天界炽光之力(tejas)的转移。 阿耆尼不能承受tejas,便将其置于恒河;恒河亦将其安放于芦苇丛(śara-stamba)。克利提迦诸母哺育婴儿,婴儿显现为六面者Ṣaṇmukha,并得诸名号:迦尔蒂凯耶、库玛罗、恒河胎藏(Gaṅgāgarbha)、火生者(Agnija)。在广行苦行与巡礼诸圣地之后,斯坎达于那尔玛达南岸修极严峻的苦行。湿婆与乌玛赐福:立其为永恒的天军统帅(senāpati),并赐孔雀为乘。此地遂名“斯坎达圣渡口”,被赞为稀有而能灭罪。 章末宣说果报:于此沐浴并礼敬湿婆,功德等同大祭;以掺芝麻之水祭祖,并如法供一枚piṇḍa,即令祖灵(pitṛ)满足十二年。在此所作诸善业皆成不坏;若依经典(śāstra)所示而安然舍身,则得往湿婆之境,继而吉祥再生,具吠陀学识、健康、长寿与家族绵延。

Shlokas

Verse 1

श्रीमार्कण्डेय उवाच । नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । स्कन्देन निर्मितं पूर्वं तपः कृत्वा सुदारुणम्

圣者马尔坎德耶说道:在那尔摩陀河的南岸,有一处极其庄严辉煌的圣地(tīrtha);往昔天军统帅斯坎达行极苦苦行后,于此建立。

Verse 2

युधिष्ठिर उवाच । स्कन्दस्य चरितं सर्वमाजन्म द्विजसत्तम । तीर्थस्य च विधिं पुण्यं कथयस्व यथार्थतः

尤提希提罗说道:噢,最尊贵的二次生者啊,请如实讲述斯坎达自诞生以来的一切事迹,并说明此圣地(tīrtha)清净有功德的仪轨(vidhi)。

Verse 3

श्रीमार्कण्डेय उवाच । देवदेवेन वै तप्तं तपः पूर्वं युधिष्ठिर । विज्ञप्तेन सुरैः सर्वैरुमादेवी विवाहिता

圣者马尔坎德耶说道:往昔,噢尤提希提罗,诸神之神曾修行苦行;在众天神的祈请之下,乌玛女神与他成就婚配。

Verse 4

नास्ति सेनापतिः कश्चिद्देवानां सुरसत्तम । नीयन्ते दानवैर्घोरैः सर्वे देवाः सवासवाः

噢天众之最尊者啊,诸神并无统帅;因此一切天神——连因陀罗在内——都被可怖的达那瓦所压制并驱逐。

Verse 5

यथा निशा विना चन्द्रं दिवसो भास्करं विना । न शोभते मुहूर्तं वै तथा सेना विनायका

正如无月之夜、无日之昼,片刻也不显光辉;同样,没有统帅的军队也决不能兴盛。

Verse 6

एवं ज्ञात्वा महादेव परया दयया विभो । सेनानीर्दीयतां कश्चित्त्रिषु लोकेषु विश्रुतः

既已知此,噢摩诃提婆、威能之主,请以至上慈悲赐予一位统帅——名闻三界者。

Verse 7

एतच्छ्रुत्वा शुभं वाक्यं देवानां परमेश्वरः । कामयान उमां देवीं सस्मार मनसा स्मरम्

听闻诸天这吉祥之语,至上主宰——心念欲求女神乌玛——于意中忆起斯摩罗(迦摩),爱神。

Verse 8

तेन मूर्छितसर्वाङ्गः कामरूपो जगद्गुरुः । कामयामास रुद्राणीं दिव्यं वर्षशतं किल

受其影响,世间之师——化作为欲所动之形——四肢仿佛昏沉无力,确实渴慕鲁陀罗尼,历经神圣百年。

Verse 9

देवराजस्ततो ज्ञात्वा महामैथुनगं हरम् । संमन्त्र्य दैवतैः सार्द्धं प्रैषयज्जातवेदसम्

于是天王得知哈罗已入大合之行,便与诸神共议,遣派贾塔韦达斯(阿耆尼)。

Verse 10

तेन गत्वा महादेवः परमानन्दसंस्थितः । सहसा तेन दृष्टोऽसौ हाहेत्युक्त्वा समुत्थितः

他(阿耆尼)到达彼处,见摩诃提婆安住于至乐;忽被其察觉,阿耆尼惊呼“哀哉,哀哉!”随即起身。

Verse 11

ततः क्रुद्धा महादेवी शापवाचमुवाच ह । वेपमाना महाराज शृणु यत्ते वदाम्यहम्

于是大女神震怒,宣说诅咒之言。她颤抖着说道:“大王啊,听我向你宣告之语。”

Verse 12

अहं यस्मात्सुरैः सर्वैर्याचिता पुत्रजन्मनि । कृता रतिश्च विफला संप्रेष्य जातवेदसम्

因为诸天众神为求得一子而恳请于我;然而因遣来阇多吠陀(阿耆尼),那爱的结合竟被使成无果。

Verse 13

तस्मात्सर्वे पुत्रहीना भविष्यन्ति न संशयः । हरेणोक्तस्ततो वह्निरस्माकं बीजमावह

“因此你们众人必将无子,毫无疑问。随后,奉哈罗之命,火神携走了我们的种子。”

Verse 14

यथा भवति लोकेषु तथा त्वं कर्तुमर्हसि । मम तेजस्त्वया शक्यं गृहीतुं सुरसत्तम । देवकार्यार्थसिद्ध्यर्थं नान्यः शक्तो जगत्त्रये

“如诸世界所能行者,你当如是而行。诸神之最胜者啊,唯有你能承受我炽烈的威光;为成就诸神之事业,三界之中别无他者能胜任。”

Verse 15

अग्निरुवाच । तेजसस्तव मे देव का शक्तिर्धारणे विभो । करोति भस्मसात्सर्वं त्रैलोक्यं सचराचरम्

阿耆尼说道:“主宰啊,我有何能力承持你的炽烈威光?它能将三界一切——动者与不动者——尽皆焚为灰烬。”

Verse 16

ईश्वर उवाच । उदरस्थेन बीजेन यदि ते जायते रुजा । तदा क्षिपस्व तत्तेजो गङ्गातोये हुताशन

自在天(Īśvara)说道:“若那安住于你腹中的种子令你生起痛楚,便将那炽烈的神威投入恒河(Gaṅgā)之水中吧,噢火神胡塔沙那(Hutāśana)。”

Verse 17

एवमुक्त्वा महादेवोऽमोघं बीजमुत्तमम् । हव्यवाहमुखे सर्वं प्रक्षिप्यान्तरधीयत

说罢,大天(Mahādeva)将那至上而不失的种子尽数置入哈维亚瓦哈(Havyavāha,阿耆尼)之口,随即隐没不见。

Verse 18

गते चादर्शनं देवे दह्यमानो हुताशनः । गङ्गातोये विनिक्षिप्य जगाम स्वंनिवेशनम्

当神(Śiva)隐没不见时,阿耆尼(Agni)仍被那难以承受的炽能灼烧,便将其投入恒河之水,随后回归自身的居所。

Verse 19

असहन्ती तु तत्तेजो गङ्गापि सरितां वरा । शरस्तम्बे विनिक्षिप्य जगामाशु यथागतम्

连诸河之最胜的恒河(Gaṅgā)也难以承受那炽焰般的神威,便将其安置于一丛芦苇之中,迅速循原路而返。

Verse 20

तत्र जातं तु तद्दृष्ट्वा सर्वे देवाः सवासवाः । कृत्तिकां प्रेषयामासुः स्तन्यं पाययितुं तदा

众神与因陀罗(Indra)一同见那处诞生的婴儿,便遣派克利提迦众女神(Kṛttikās)前去,以乳汁哺育他。

Verse 21

दृष्ट्वा ता आगताः सर्वा गङ्गागर्भे महामतेः । षण्मुखैः षण्मुखो भूत्वा पिपासुरपिबत्स्तनम्

见她们都来到恒河如胎之庇护中,那位大德化现六面六口;因渴而饮吮她们乳房之乳。

Verse 22

जातकर्मादिसंस्कारान्वेदोक्तान्पद्मसम्भवः । चकार सर्वान्दाजेन्द्र विधिदृष्टेन कर्मणा

莲华生者(梵天)依照正当仪轨,以如法之行,完成了吠陀所规定的一切人生礼仪——从生育礼(jātakarma)等开始,噢达娑之王。

Verse 23

षण्मुखात्षण्मुखो नाम कार्त्तिकेयस्तु कृत्तिकात् । कुमारश्च कुमारत्वाद्गङ्गागर्भोऽग्निजोऽपरः

因具六面,故名“六面者”(Ṣaṇmukha);因与昴宿六女(Kṛttikā)相应,故称“迦尔蒂凯亚”(Kārttikeya)。又因常为童子,名“库玛罗”(Kumāra);亦著称为“恒河胎”(Gaṅgā-garbha)与“火生者”(Agnija)。

Verse 24

एवं कुमारः सम्भूतो ह्यनधीत्य स वेदवित् । शास्त्राण्यनेकानि वेद चचार विपुलं तपः

如是库玛罗显现;虽未经正式教授,却为吠陀通达者。他通晓诸多论典(śāstra),并修行广大苦行(tapas)。

Verse 25

देवारण्येषु सर्वेषु नदीषु च नदेषु च । पृथिव्यां यानि तीर्थानि समुद्राद्यानि भारत

在一切天圣之林,在诸河与溪流之中,并在大地上所有的圣地渡口(tīrtha)——自诸海起,噢婆罗多——(他往来其间)。

Verse 26

ततः पर्याययोगेन नर्मदातटमाश्रितः । नर्मदादक्षिणे कूले चचार विपुलं तपः

随后,循着时序,他依止于那尔玛达河岸;并在其南岸修行广大苦行。

Verse 27

ऋग्यजुःसामविहितं जपञ्जाप्यमहर्निशम् । ध्यायमानो महादेवं शुचिर्धमनिसंततः

他昼夜诵持由《梨俱》《夜柔》《娑摩》诸吠陀所规定的真言念诵(japa),观想大天摩诃提婆;身心清净,恒常摄持其生命气息之流。

Verse 28

ततो वर्षसहस्रान्ते पूर्णे देवो महेश्वरः । उमया सहितः काले तदा वचनमब्रवीत्

于是,当圆满的一千年已尽之时,主宰摩诃伊湿伐罗与优摩同在,于适当之刻说出了这些话。

Verse 29

ईश्वर उवाच । अहं ते वरदस्तात गौरी माता पिता ह्यहम् । वरं वृणीष्व यच्चेष्टं त्रिषु लोकेषु दुर्लभम्

伊湿伐罗说道:“爱子啊,我是赐福者;高丽为汝之母——而我确为汝之父。汝当择一愿,随汝所欲,即便在三界中亦难得者。”

Verse 30

षण्मुख उवाच । यदि तुष्टो महादेव उमया सह शङ्कर । वृणोमि मातापितरौ नान्या गतिर्मतिर्मम

六面者(Ṣaṇmukha)说道:“若大天欢喜——与优摩同在的商羯罗啊——我便择你二位为我之母与父。我别无归依,亦别无他念。”

Verse 31

एतच्छ्रुत्वा शुभं वाक्यं पुत्रस्य वदनाच्च्युतम् । तथेत्युक्त्वा तु स्नेहेन प्रेम्णा तं परिषस्वजे

听闻那从儿子唇间流出的吉祥之语,他答道:“如是。”并以慈爱与深情将他拥入怀中。

Verse 32

ततस्तं मूर्ध्न्युपाघ्राय ह्युमयोवाच शङ्करः

随后,商羯罗在他头顶轻嗅(亲吻)之后,便与乌玛一同开口说道。

Verse 33

ईश्वर उवाच । अक्षयश्चाव्ययश्चैव सेनानीस्त्वं भविष्यसि

自在天说道:“你将不朽不坏;并将成为天军之统帅。”

Verse 34

शिखी च ते वाहनं दिव्यरूपो दत्तो मया शक्तिधरस्य संख्ये । सुरासुरादींश्च जयेति चोक्त्वा जगाम कैलासवरं महात्मा

“又赐你神形之孔雀为坐骑,以赴持矛者之战。说罢‘征服诸天、阿修罗及其余众’,那位大自在者便前往殊胜的凯拉萨。”

Verse 35

गते चादर्शनं देवे तदा स शिखिवाहनः । स्थापयित्वा महादेवं जगाम सुरसन्निधौ

当神明离去而不复可见时,那位以孔雀为乘者安立了大自在天(摩诃提婆),遂前往诸天之前。

Verse 36

तदाप्रभृति तत्तीर्थं स्कन्दतीर्थमिति श्रुतम् । सर्वपापहरं पुण्यं मर्त्यानां भुवि दुर्लभम्

自那时起,此圣渡口便被称为“斯甘陀圣地(Skanda-tīrtha)”。它至为清净,能除尽诸罪,世间凡人于大地上亦难得遇。

Verse 37

तत्र तीर्थे तु यो राजन्भक्त्या स्नात्वार्चयेच्छिवम् । गन्धमाल्याभिषेकैश्च याज्ञिकं स लभेत्फलम्

大王啊,凡在此圣地以虔敬沐浴,并供奉湿婆——献香、花鬘与灌顶净水——便得与祭祀(yajña)同等之功德果报。

Verse 38

स्कन्दतीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः । तिलमिश्रेण तोयेन तस्य पुण्यफलं शृणु

请听此圣果:凡在斯甘陀圣地沐浴后,以掺芝麻之水供奉祖灵诸神(Pitṛ),便能获得广大功德。

Verse 39

पिण्डदानेन चैकेन विधियुक्तेन भारत । द्वादशाब्दानि तुष्यन्ति पितरो नात्र संशयः

婆罗多啊,只要依正法仪轨作一次团食供(piṇḍa),祖先便得满足十二年——对此毫无疑惑。

Verse 40

तत्र तीर्थे तु राजेन्द्र शुभं वा यादि वाशुभम् । इह लोके परे चैव तत्सर्वं जायतेऽक्षयम्

王中之王啊,在此圣地——无论所作是吉是凶——其果报于此世与彼世皆成不坏不尽,恒常不失。

Verse 41

तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति । शास्त्रयुक्तेन विधिना स गच्छेच्छिवमन्दिरम्

在那处圣地(tīrtha),凡依照经典(śāstra)所许可的仪轨舍身者,必往至湿婆(Śiva)的圣殿与居处。

Verse 42

कल्पमेकं वसित्वा तु देवगन्धर्वपूजितः । अत्र भारतवर्षे तु जायते विमले कुले

居住一劫(kalpa)之后,受诸天与乾闼婆(Gandharva)礼敬,他便在此阎浮提之婆罗多国土(Bhārata-varṣa)投生于清净高贵之家。

Verse 43

वेदवेदाङ्गतत्त्वज्ञः सर्वव्याधिविवर्जितः । जीवेद्वर्षशतं साग्रं पुत्रपौत्रसमन्वितः

他将通达吠陀(Veda)及其支分(Vedāṅga)之真义,远离一切疾病,寿满百年有余,并具足子孙。

Verse 44

इदं ते कथितं राजन्स्कन्दतीर्थस्य सम्भवम् । धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् । सर्वपापहरं पुण्यं देवदेवेन भाषितम्

大王啊,我已向你宣说斯甘达圣地(Skanda-tīrtha)的由来与殊胜:至为上妙,赐予福庆、名声与寿命;摧灭一切忧苦;为能除尽诸罪的清净功德,乃由诸神之神所宣示。

Verse 111

। अध्याय

本章终(Adhyāya)。