
本章由难提湿伐罗(Nandīśvara)宣说,宣布阐释湿婆至上我(Śiva Paramātman)的“二生主化身”(Dvijeśvara-avatāra),其显现旨在考验正法(dharma)的坚固与否。故事追述跋陀罗优王(Bhadrāyu)曾蒙湿婆以犀牛相(Ṛṣabha)赐福,凭此威力战胜仇敌而登王位。又交代其内廷:王后吉尔提玛利尼(Kīrtimālinī,旃陀罗昂伽陀 Candrāṃgada 之女,生于西曼提尼 Sīmantinī),以确立家系与社会背景,作为伦理试炼的场域。春日里,国王与爱后入幽深秀丽之林游乐。彼处,大自在天商羯罗(Parameśvara Śaṅkara)与湿婆女神(Śivā)开启有意的神戏(līlā):化作婆罗门夫妇(dvija-dampatī),并以幻力(māyā)化现猛虎,制造恐惧、奔逃与求护。此将至的相遇意在显露国王在困厄中求归依、面对表面脆弱时的抉择,从而把王者德行转为湿婆教义之训:恩典、幻相(māyā)与压力下辨识真实正法。
Verse 1
नन्दीश्वर उवाच । शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः । द्विजेश्वरावतारं च सशिवं सुखदं सताम्
难提湿伐罗说道:“亲爱的孩子,且听我言。如今我将宣说至上自性之湿婆的化现——他以‘二次出生者’之主的形相示现;此为吉祥圣传,能赐予贤善者安乐。”
Verse 2
यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः । यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः
亲爱的孩子,那先前所述的跋陀罗优——诸王之最——正是当年湿婆化作公牛“利沙婆”之形,赐予慈悲加持的那个人。
Verse 3
तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः । द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम्
为检验那法之真实,他又再度示现;以“二次出生者之主”(尊贵婆罗门)的形相出现,我如今将叙述那同一段圣事。
Verse 4
ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः । प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह
凭借利沙婆的威力,那位雄主在战阵中征服诸敌;及至登上王座,亲爱的孩子,他便被称为跋陀罗优。
Verse 5
चन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा । पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी
婆罗门啊,善肢女(Śubhāṅgajā)——月臂者(Candrāṅgada)之女,由西曼提尼(Sīmantinī)所生——成为他的妻子;她名为吉尔提玛丽尼(Kīrtimālinī),乃至贤至贞、笃守法义的淑女。
Verse 6
स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् । प्राविशत्संविहारार्थं वसन्तसमये मुने
圣者啊,有一次,跋陀罗优(Bhadrāyu)与心爱之人同入幽密丛林,正值春时,为求从容游赏、安闲自适。
Verse 7
अथ तस्मिन्वने रम्ये विजहार स भूपतिः । शरणागतपालिन्या तमास्यप्रियया सह
于是,在那可爱殊胜的林苑中,国王安乐游憩,与其挚爱塔玛斯雅·普丽雅同住——她是护佑归依求庇者的守护者。
Verse 8
अथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः । लीलां चकार तत्रैव शिवया सह शङ्करः
随后,至上主宰为待彼法坚固建立,便在原处示现神圣戏游——商羯罗与湿婆女神同在。
Verse 9
शिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती । व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया
湿婆女神(帕尔瓦蒂)与湿婆二者,在那林中化作婆罗门夫妇;又以自身神戏,先造出一只由幻力(māyā)所成之虎,而后显现。
Verse 10
अथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ । अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः
随后,在离那处不远之地,两人惊惧失措,奔走逃命。为猛虎追逐,他们一边逃一边哀号哭喊。
Verse 11
अथ विद्धौ च तौ तात भद्रायुः स महीपतिः । ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः
于是,亲爱的啊,婆陀罗优王(Bhadrāyu)——刹帝利中之雄、真能施与庇护者——看见那两人受了伤,正悲声呼号。
Verse 12
अथ तौ मुनिशार्दूलः स्वमायाद्विजदम्पती । भद्रायुषं महाराजमूचतुर्भयविह्वलौ
随后,那位“诸仙中之猛虎”的牟尼,以自身的幻力(摩耶)携同婆罗门夫妇;二人因恐惧而战栗,遂向大王婆陀罗优沙(Bhadrāyuṣa)启禀。
Verse 13
द्विजदम्पती ऊचतुः । पाहि पाहि महाराज नावुभौ धर्मवित्तम । एष आयाति शार्दूलो जग्धुमावां महाप्रभो
婆罗门夫妇说道:“护佑我们,护佑我们吧,大王——通达法(dharma)者!有猛虎前来要吞噬我们,伟大的主宰啊!”
Verse 14
एष हिंस्रः कालसमः सर्वप्राणिभयङ्करः । यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित्
“此兽凶暴,如同迦罗(时间/死神)本身,令一切众生惊惧。趁它尚未擒住并吞噬我们之前,请护佑我们——通达法者啊。”
Verse 15
नन्दीश्वर उवाच । इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः । अति शीघ्रं महावीरः स यावद्धनुराददे
难提伊湿伐罗说道:听到那哀号之声,诸王之主、伟大的勇士,立刻以极快之势执起弓来(欲行其事)。
Verse 16
तावदभ्येत्य शार्दूलस्त्वरमाणोतिमायिकः । स तस्य द्विजवर्य्यस्य मध्ये जग्राह तां वधूम्
就在那时,猛虎——迅疾而极其狡诈——猛然扑来;竟在那位卓越婆罗门的当中,攫住了新娘。
Verse 17
हे नाथनाथ हे कान्त हा शम्भो हा जगद्गुरो । इति रोरूयमाणां तां व्याघ्रो जग्रास भीषणः
她哀号呼喊:“噢,诸主之主!噢,至爱者!哀哉,商婆(Śambhu)!哀哉,世间之师!”——她如此哭号时,那可怖的猛虎攫住并吞噬了她。
Verse 18
तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् । न स तैर्विव्यथे किंचिद्गिरीन्द्र इव वृष्टिभिः
于是国王以锋利的箭矢射击猛虎;然而它丝毫不觉痛楚——如同群山之主,任凭骤雨也不为所动。
Verse 19
स शार्दूलो महासत्त्वो राज्ञः स्वैरकृतव्यथः । बलादाकृष्य तां नारीमपाक्रमत सत्वरः
那凶猛强悍的虎,随其所欲令国王受苦;继而以蛮力攫走那女子,迅速逃遁而去。
Verse 20
व्याघ्रेणापहृतां नारीं वीक्ष्य विप्रोतिविस्मितः । लौकिकीं गतिमाश्रित्य रुरोदाति मुहुर्मुहुः
见那女子被猛虎掳去,婆罗门惊骇至极。心神落入凡俗之境,他一再哀哭,泣不成声。
Verse 21
रुदित्वा चिरकालं च स विप्रो माययेश्वरः । भद्रायुषं महीपालं प्रोवाच मदहारकः
他长久哭泣之后,那位婆罗门——凭其神圣的摩耶实为主宰自身、能除傲慢者——便对统御大地的国王婆陀罗优沙(Bhadrāyuṣa)开口说道。
Verse 22
द्विजेश्वर उवाच । राजन्क ते महास्त्राणि क्व ते त्राणं महद्धनुः । क्व ते द्वादशसाहस्रमहानागायुतम्बलम्
那位最尊贵的再生者说道:“大王啊,你的强大神兵在哪里?你的护身铠甲与大弓在哪里?那浩大的军势——一万二千头雄壮战象与无数兵众——又在哪里?”
Verse 23
किन्ते खड्गेन शङ्खेन किं ते मंत्रास्त्रविद्यया । किं सत्त्वेन महास्त्राणां किं प्रभावेण भूयसा
宝剑与法螺于你有何用?你所知的真言神兵之术又有何用?大威力的诸般飞射武器之强盛有何价值,过度的权势又有何益——当主宰的至上实相唯可由奉爱与真实智慧趋近,而非凭空恃力之时?
Verse 24
तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति । यस्त्वं वनौकसां घातं न निवारयितुं क्षमः
这一切都已成空——乃至你身上其余所有依存之物亦然——因为你竟无力阻止对林居者的屠戮。不能护持的权柄,终究只是虚名。
Verse 25
क्षत्रस्यायं परो धर्मो क्षताच्च परिरक्षणम् । तस्मिन्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम्
对刹帝利而言,至高之法即是护人免受伤害,并守护国土。若你家族应行之法已失,你的性命又有何价值?
Verse 26
आर्तानां शरणाप्तानां त्राणं कुर्वन्ति पार्थिवाः । प्राणैरर्थैश्च धर्मज्ञास्तद्विना च मृतोपमा
深明法性的仁王,保护前来寻求庇护的受难者,即使牺牲自己的生命和财富也在所不惜。若无此保护之责,他们便与死人无异。
Verse 27
आर्तत्राणविहीनानां जीवितान्मरणं वरम् । धनिनान्पानहीनानां गार्हस्थ्याद्भिक्षुता वरम्
对于那些在困苦中失去庇护或救助的人来说,死亡优于生存。而对于那些连正当生计都匮乏的富人来说,乞讨的生活优于居家者的生活。
Verse 28
वरं विषाशनं प्राज्ञैर्वरमग्निप्रवेशनम् । कृपणानामनाथानां दीनानामपरक्षणात्
智者宣称,与其不能保护那些可怜、无助和受难的人,不如吞下毒药,甚至跳入火中。
Verse 29
नन्दीश्वर उवाच । इत्थं विलपितं तस्य स्ववीर्य्यस्य च गर्हणम् । निशम्य नृपतिः शोकादात्मन्येवमचिन्तयत्
难提湿伐罗说道:听到他如此哀号,又听到他对自身勇力的自责,国王被悲痛所淹没,便在心中这样反思。
Verse 30
अहो मे पौरुषं नष्टमद्य देवविपर्ययात् । अद्य कीर्तिश्च मे नष्टा पातकम्प्राप्तमुत्कटम्
唉!因诸天转而不佑,我今日的男儿之力已毁。今日我的名声亦尽失;我已堕入可怖之罪。
Verse 31
धर्मः कुलोचितो नष्टो मन्दभाग्यस्य दुर्मतेः । नूनं मे सम्पदो राज्यमायुष्यं क्षयमेष्यति
我族应守之正法,因我恶念与薄福而毁坏;如今我的福泽、王国,乃至寿命,必将走向衰减。
Verse 32
अद्य चैनं द्विजन्मानं हतदारं शुचार्दितम् । हतशोकं करिष्यामि दत्त्वा प्राणानतिप्रियान्
今日我将解脱此“二生者”——失妻而为忧苦所逼——使其离于悲恸,即便须奉献我最珍爱的生命之气。
Verse 33
इति निश्चित्य मनसा स भद्रायुर्नृपोत्तमः । पतित्वा पादयोस्तस्य बभाषे परिसान्त्वयन्
既已心中决断,那位卓越之王婆陀罗优(Bhadrāyu)便俯伏于其足下,继而以柔和慰藉之言开口,令其心安。
Verse 34
भद्रायुरुवाच । कृपां कृत्वा मयि ब्रह्मन् क्षत्रबन्धौ हतौजसि । शोकन्त्यज महाप्राज्ञ दास्याम्यद्य तु वाञ्छितम्
跋陀罗优说道:“婆罗门啊,请怜悯我。此刹帝利如今不过是‘武士之亲’,威力已毁;大智者啊,请舍弃悲伤。今日我将赐予你所愿之物。”
Verse 35
इदं राज्यमियं राज्ञी ममेदञ्च कलेवरम् । त्वदधीनमिदं सर्वं किन्तेऽभिलषितं वरम्
“此国土、此王后,乃至我这身躯——一切皆在你权柄之下。那么请说:你所求的恩赐为何?”
Verse 36
ब्राह्मण उवाच । किमादर्शेन चान्धस्य किं गृहेर्भैक्ष्यजीविनः । किम्पुस्तकेन मूढस्य निस्त्रीकस्य धनेन किम्
婆罗门说道:“镜子对盲者有何用?房屋对以乞食为生者有何用?书卷对愚人有何用?而财富对无妻之人又有何用?”
Verse 37
अतोऽहं हतपत्नीको भुक्तभोगो न कर्हिचित् । इमान्तवाग्रमहिषीं कामये दीयतामिति
“因此我成了被夺去妻子的人;我从未真正享受过欲乐之果。我渴求这位最尊贵的王后——请将她赐给我。”他如此说道。
Verse 38
दाता रसान्तवित्तस्य राज्यस्य गजवाजिनाम् । आत्मदेहस्य यस्यापि कलत्रस्य न कर्हिचित्
他或能施与精妙财宝与珍藏,乃至国土、象与马;然而他从不真正舍出自身——连此身之躯亦不舍——更不曾在任何时候舍与其妻。
Verse 39
परदारोपभोगेन यत्पापं समुपार्जितम् । न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि
因侵犯他人之妻、沉溺于禁忌之乐而积聚的罪业,纵使行百般忏悔与赎罪,也无法洗净。
Verse 40
ब्राह्मण उवाच । आस्तां ब्रह्मवधं घोरमपि मद्यनिषेवणम् । तपसा विधमिष्यामि किं पुनः पारदारिकम्
婆罗门说道:“且不论那可怖的杀婆罗门之罪,乃至饮酒之罪;我以苦行(tapas)亦能摧灭之。何况侵犯他人婚姻之罪,又岂不能除?”
Verse 41
तस्मात्प्रयच्छ भार्यां स्वामियां कामो न मेऽपरः । अरक्षणाद्भयार्तानां गन्तासि निरयन्ध्रुवम्
“因此,请将妻子交给她合法的丈夫——我别无他求。如果你未能保护那些恐惧并寻求庇护的人,导致他们遭受伤害,你必将堕入地狱。”
Verse 42
नन्दीश्वर उवाच । इति विप्रगिरा भीतश्चिन्तयामास पार्थिवः । अरक्षणान्महापापं पत्नीदानन्ततो वरम्
南迪什瓦拉说:国王被婆罗门的话吓坏了,心想:“不保护(寻求庇护的人)是大罪;因此,(响应婆罗门的要求)交出我的妻子是更好的选择。”
Verse 43
अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः । सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च विदिता भवेत्
“因此,在将我的妻子交给那位最卓越的婆罗门之后,我将得以解脱罪孽。我将立即投身火海,我的名声也将广为人知。”
Verse 44
इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् । तमाहूय द्विजं चक्रे पत्नीदानं सहोदकम्
他在心中如此决断,便燃起神圣祭火;随后召来两次生的婆罗门祭司,依仪轨以净水为供,行“施女成婚”(迦尼耶檀)之礼。
Verse 45
स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् । तमग्निं त्रिः परिक्रम्य शिवं दध्यौ समाहितः
他亲自沐浴而得清净,礼拜诸天之主;继而绕行那祭火三匝,心神专一,观想并禅念主宰湿婆。
Verse 46
तमथाग्निं पतिष्यन्तं स्वपदासक्तचेतसम् । प्रत्यषेधत विश्वेशः प्रादुर्भूतो द्विजेश्वरः
当他正要投身烈火——心念执著于自己的誓愿——宇宙之主毗湿韦湿(湿婆)以最尊胜婆罗门之相显现于前,制止了他。
Verse 47
तमीश्वरं पञ्चमुखं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् । प्रलम्बपिंगासुजटाकलापं मध्याह्नसद्भास्करकोटितेजसम्
我得见那至上之主——五面三目,执持毗那迦神弓,额饰新月;长长的赤金色结发垂落,光辉炽盛,胜过千万正午烈日。
Verse 48
मृणालगौरं गजचर्मवाससं गंगातरङ्गोक्षितमौलिदेशकम् । नागेन्द्रहारावलिकण्ठभूषणं किरीटकाच्यंगदकंकणोज्ज्वलम्
祂洁白如莲茎,披着象皮衣;其结发之冠处为恒河的波涛所洒润。颈间佩戴蛇王花鬘,头戴宝冠,臂钏与手镯熠熠生辉——为信徒观想而显现湿婆至为吉祥的有相(saguṇa)圣身。
Verse 49
शूलासिखट्वांगकुठारचर्ममृगाभयाष्टांगपिनाकहस्तम् । वृषोपरिस्थं शितिकण्ठभूषणं प्रोद्भूतमग्रे स नृपो ददर्श
在他面前,国王看见主宰忽然显现,光辉灿然,安坐于圣牛之上,佩戴青颈者的圣徽;其手执三叉戟、宝剑、骷髅顶杖、斧、兽皮、鹿,并作无畏印,又持毗那迦神弓。
Verse 50
ततोम्बराद्द्रुतं पेतुर्द्दिव्याः कुसुमवृष्टयः । प्रणेदुर्देवतूर्य्याणि देव्यश्च ननृतुर्जगुः
随即,从天穹疾降天花之雨;天界乐器齐鸣回响,众天女起舞歌唱,宣扬吉祥,庆赞湿婆主显现的光荣。
Verse 51
तत्राजग्मुः स्तूयमाना हरिर्ब्रह्मा तथासुराः । इन्द्रादयो नारदाद्या मुनयश्चापरेऽपि च
在那里,众人以赞颂之歌礼赞之时,哈利(毗湿奴)与梵天也到来,并有阿修罗随行;因陀罗等诸天亦至,圣者那罗陀及其他牟尼贤者也一同前来。
Verse 52
तदोत्सवो महानासीत्तत्र भक्तिप्रवर्धनः । सति पश्यति भूपाले भक्तिनम्रीकृताञ्जलौ
那里的庆典变得无比盛大,强而有力地增长众人的虔敬(bhakti)。当萨蒂注视之时,国王双手合十作阿阇梨礼,因信爱而谦卑,恭敬地立于她前奉拜。
Verse 53
तद्दर्शनानन्दविजृम्भिताशयः प्रवृद्धवाष्पाम्बुविलिप्तगात्रः । प्रहृष्टरोमा स हि गद्गदाक्षरस्तुष्टाव गीर्भिर्मुकुलीकृतांजलिः
他因得见湿婆而心怀喜乐,胸臆豁然舒展;泪流如注,浸润其身;毛发竖立——声音颤抖,言辞哽咽——他合掌作阿阇梨礼,以颂歌赞叹主宰。
Verse 54
ततस्स भगवान्राज्ञा संस्तुतः परमेश्वरः । प्रसन्नः सह पार्वत्या तमुवाच दयानिधिः
随后,至上主宰帕拉梅湿伐罗受国王赞颂而心生欢悦;他与帕尔瓦蒂同在,那慈悲之海便对他说道。
Verse 55
राजंस्ते परितुष्टोहं भक्त्या त्वद्धर्मतोऽधिकम् । वरं ब्रूहि सपत्नीकम्प्रयच्छामि न संशयः
“大王啊,我对你极为欢喜——更因你的信爱(bhakti),胜过仅仅履行本分之行。说出你所愿求的恩赐吧;我必连同你的王后一并赐予你,毫无疑虑。”
Verse 56
तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः । व्याघ्रेण या परिग्रस्ता साक्षाद्देवी शिवा हि सा
为考验你内心真实的情状,我化作婆罗门来到此处。那被猛虎擒住的女子——你当知——正是天后湿婆女神(Devī Śivā)亲自显现于你面前。
Verse 57
व्याघ्रो मायामयो यस्ते शरैरक्षत विग्रहः । धीरतान्द्रष्टुकामस्ते पत्नी याचितवानहम्
那猛虎乃是你之幻力(māyā)的显现;纵被箭矢射中,其形体亦毫无损伤。为欲观你配偶坚忍不移的勇气,我便向你求取你的妻子。
Verse 58
नन्दीश्वर उवाच । इत्याकर्ण्य प्रभोर्वाक्यं स भद्रायुर्महीपतिः । पुन प्रणम्य संस्तूय स्वामिनं नतकोऽब्रवीत्
难提自在天说道:如此听闻主宰之言后,跋陀罗优王再次顶礼,赞颂其主,并以谦恭之姿立而启言。
Verse 59
भद्रायुरुवाच एक एव वरो नाथ यद्भवान्परमेश्वरः । भवतापप्रतप्तस्य मम प्रत्यक्षतां गतः
跋陀罗优说道:“噢主宰!唯此一愿足矣——您这至上自在天(Īśvara)亲临我前;因我被轮回世苦的炽热烦恼所灼烧。”
Verse 60
यद्ददासि पुनर्नाथ वरं स्वकृपया प्रभो । वृणेहं परमं त्यक्तो वरं हि वरदर्षभात्
噢主宰,噢大主——无论您以自身慈悲再赐何种恩愿,我都舍弃一切他愿,只选择那至上的恩赐;因为从您这“赐愿者之雄牛”而来,当求的唯是最高之礼。
Verse 61
वज्रबाहुः पिता मे हि सप त्नीको महेश्वर । सपत्नीकस्त्वहं नाथ सदा त्वत्पादसेवकः
噢,大自在天(Maheśvara)啊,金刚臂(Vajrabāhu)确是我的父亲,他与妻同住。噢,主宰啊,我亦与妻相伴,恒常在你莲足下为仆奉事。
Verse 62
वैश्यः पद्माकरो नाम तत्पुत्रस्सनयाभिधः । सर्वानेतान्महेशान सदा त्वं पार्श्वगान्कुरु
“曾有一位吠舍(Vaiśya)名为莲手(Padmākara),其子名为萨那雅(Sanaya)。噢,大主宰(Maheśāna)啊,愿你使他们众人恒常在你身侧为侍从。”
Verse 63
नन्दीश्वर उवाच । अथ राज्ञी च तत्पत्नी प्रमत्ता कीर्तिमालिनी । भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम्
难提自在(Nandīśvara)说道:随后,王后——他的妻子——普罗玛塔·吉尔提玛丽妮(Pramattā Kīrtimālinī),以虔敬取悦山主吉利沙(Girīśa,湿婆),向他祈求一项殊胜的恩赐。
Verse 64
सत्युवाच । चन्द्रांगदो मम पिता माता सीमन्तिनी च मे । तयोर्याचे महादेव त्वत्पाश्वे सन्निधिं मुदा
萨蒂说道:“旃陀罗昂伽陀是我的父亲,西曼蒂尼是我的母亲。噢,大自在天摩诃提婆,我怀着欢喜恳求您——赐予他们福德,使他们得以在您圣洁的临在中、在您身旁近侍而住。”
Verse 65
नन्दीश्वर उवाच । एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः । तयोः कामवरन्दत्त्वा क्षणादन्तर्हितोऽभवत्
难提自在天说道:“如是成就。”于是,欢喜且恒常怜爱信众的高丽之主,赐予那二人心愿之恩赐;刹那之间,便从众目之前隐没不见。
Verse 66
भद्रायुरपि सुप्रीत्या प्रसादम्प्राप्य शूलिनः । सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून्
婆陀罗优亦然:以深切的虔爱获得了持三叉戟的主湿婆之慈恩;他与吉尔提玛丽妮同住,蒙湿婆赐福,享受了许多如法的世间经历。
Verse 67
कृत्वा वर्षायुतराज्यमव्याहतपराक्रमः । राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम्
他以不减的英勇统治一万年,将国度托付给儿子,随后前往主湿婆的圣前。
Verse 68
चन्द्रांगदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा । भक्त्या संपूज्य गिरिशं जग्मतुः शाम्भवं पदम्
王中之王旃陀罗昂伽陀与王后悉曼提尼,虔诚礼敬吉利沙(山主湿婆)后,证得“商婆婆”境界,抵达湿婆至上的圣住处。
Verse 69
द्विजेश्वरावतारस्ते वर्णितः परमो मया । महेश्वरस्य भद्रायुपरमानन्ददः प्रभो
主啊,我已为你宣说那至上的化身——名为“二生主”(Dvijeśa),即两次出生者之主。此化身赐予吉祥长寿与最高安乐,亦为大天摩诃提婆(摩醯首罗)所喜爱。
Verse 70
इदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः । द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठञ्शम्भुपदम्प्रयाति
此乃至上而净化的圣传——关于湿婆之化身,其名声本身亦为清净,号为“二生主”(Dvijeśa)——实在奇妙。凡聆听或诵读者,皆得至商婆(Śambhu)之境界(圣住处)。
Verse 71
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः । न श्चोतति स्वधर्मात्स परत्र लभते गतिम्
凡恒常聆听此神圣教诲,或以摄心令他人诵读者,必不失其本分之法(达摩),并于后世得至真实吉祥之道(解脱)。
Śiva and Śivā orchestrate a dharma-test (parīkṣā) by appearing as a brāhmaṇa couple and unleashing a māyā-constructed tiger, setting up a crisis scenario to evaluate Bhadrāyu’s conduct toward the vulnerable and his readiness for refuge-oriented righteousness.
The ‘māyā-tiger’ functions as a controlled apparition of fear and confusion, indicating that crises can be pedagogical veils through which Śiva reveals true dharma; the dvija-couple disguise underscores divinity’s accessibility in ordinary social forms and the need for discernment beyond appearances.
Śiva is highlighted as Dvijeśvara (appearing in a dvija/brāhmaṇa modality) alongside Śivā, together assuming the form of a brāhmaṇa couple (dvija-dampatī) as part of their joint līlā to administer and interpret the ethical trial.