Adhyaya 32
Rudra SamhitaSati KhandaAdhyaya 3259 Verses

व्योमवाणी-श्रवणं, गणानां शरणागमनं, सती-दाह-वृत्तान्तः — Hearing the Heavenly Voice; The Gaṇas Seek Refuge; Account of Satī’s Self-Immolation

第32章延续达刹祭祀冲突后的余波。那罗陀请问梵天:所谓“虚空之宣告”(vyoma-gir,天上之声)带来何种后果,达刹与众会者作何反应,战败的湿婆侍从众(Śiva-gaṇa)又去往何处。梵天答曰:诸天与在场者被天音震慑,尽皆默然,心神迷惘。因婆利古(Bhṛgu)咒力而暂退的勇猛伽那重新集结;幸存者前往湿婆处求归依。他们顶礼禀告全事:达刹的傲慢、萨蒂受辱、湿婆应得的祭分被拒、恶言相向,以及诸神普遍的不敬。伽那又述萨蒂见湿婆被排除于祭外而大怒,痛斥其父,并以自焚身躯作决断——此为决定性的圣力(Śakti)之举,显露骄慢仪式的空虚。全章强调归依湿婆、亵渎神圣之罪的深重,以及违背正法(adharma)之祭所招致的业报与宇宙性回响。

Shlokas

Verse 1

नारद उवाच । श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाऽबुधः । अन्ये च कृतवंतः किं ततश्च किमभूद्वद

那罗陀说道:“听闻天际之声后,那无明的达刹当时作何举动?其余众人又作何为?也请告知其后所发生之事。”

Verse 2

पराजिताः शिवगणा भृगुमंत्रबलेन वै । किमकार्षुः कुत्र गतास्तत्त्वं वद महामते

确实,湿婆的侍从众(湿婆伽那)被婆利古的真言之力所击败。此后他们做了什么,又去了哪里?噢大智者,请为我道出真实经过。

Verse 3

ब्रह्मोवाच । श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः । नावोचत्किंचिदपि ते तिष्ठन्तस्तु विमोहिताः

梵天说道:听到自虚空中传来的声音,诸天及其他众生无不惊异。迷惘之中,他们站立原地,连一句话也说不出来。

Verse 4

पलायमाना ये वीरा भृगुमंत्रबलेन ते । अवशिष्टा श्शिवगणाश्शिवं शरणमाययुः

那些勇士因婆利古真言之力所压制而奔逃;余下的湿婆伽那,皆前往湿婆座前,以祂为归依。

Verse 5

सर्वं निवेदयामासू रुद्रायामिततेजसे । चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते

随后他们恭敬顶礼,将一切禀告给光辉无量的鲁陀罗;并以虔敬之心,如实陈述事情的全部经过。

Verse 6

गणा ऊचुः । देवदेव महादेव पाहि नश्शरणागतान् । संशृण्वादरतो नाथ सती वार्तां च विस्तरात्

众伽那说道:“噢,诸神之神,噢,摩诃提婆,请护佑我们这些前来归依者。噢,主宰,请以恭敬与专注聆听萨蒂的事迹,并请详尽听闻其全貌。”

Verse 7

गर्वितेन महेशानदक्षेन सुदुरात्मना । अवमानः कृतस्सत्याऽनादरो निर्जरैस्तथा

因傲慢的达克沙——敌视摩诃伊湿伐罗、秉性极恶——萨蒂遭受侮辱;在场诸天也同样以轻慢与冷漠对待她。

Verse 8

तुभ्यं भागमदात्रो स देवेभ्यश्च प्रदत्तवान् । दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षस्सुगर्वितः

那邪恶的达克沙,骄慢自满,不给你在祭祀中分得一份,却将份额分给其他诸神;并且高声吐出粗暴侮辱之语。

Verse 9

ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो । विनिंद्य बहुशस्तातमधाक्षीत्स्वतनुं तदा

随后,见祭祀中竟未为你留下一份,萨蒂怒火炽盛,噢主宰。她一再斥责其父,继而将自身投入火中而献。

Verse 10

गणास्त्वयुतसंख्याका मृतास्तत्र विलज्जया । स्वांगान्याछिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम्

在那里,数以万计的伽那因羞愧而死;而我们中有些人在愤怒中,甚至以兵刃自断肢体。

Verse 11

तद्यज्ञे ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः । तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना

为摧毁那场祭祀,他们以迅疾之势冲出,披甲执兵,威怖骇人。只因他们曾受婆利古(Bhṛgu)侮辱;此人凭其自有神力,遂成对立之势。

Verse 12

ते वयं शरणं प्राप्तास्तव विश्वंभर प्रभो । निर्भयान् कुरु नस्तस्माद्दयमानभवाद्भयात्

噢主宰,宇宙之持护者!我等已来归依于你。愿你以悲悯赐我等无畏,护佑我等脱离那无慈之人所引生的恐惧。

Verse 13

अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो । दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति

噢大主,在那祭祀之中,他们尤以蓄意之辱为甚。达刹等人尽皆恶劣,傲慢无比,正是他们行此侮慢。

Verse 14

इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च नारद । तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु

如是,噢那罗陀,萨提娅(萨蒂)已将关于她族人之事的全部经过尽告于你。如今,随你所愿,便依你意处置那些心智迷妄之人。

Verse 15

ब्रह्मोवाच । इत्याकर्ण्यवचस्तस्य स्वगणानां वचः प्रभुः । सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु

梵天说道:既听闻他之言,亦闻自身侍从之语;为欲迅速知悉全部事迹,主宰梵天遂召请那罗陀前来。

Verse 16

आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शन । प्रणम्य शंकरं भक्त्या सांजलिस्तत्र तस्थिवान्

噢具天眼的天仙圣者,你迅速来到那里;以虔敬向商羯罗顶礼后,合掌立于其处。

Verse 17

त्वां प्रशस्याथ स स्वामी सत्या वार्त्तां च पृष्टवान् । दक्षयज्ञगताया वै परं च चरितं तथा

随后主宰称赞你,并询问萨蒂的消息——尤其是她前往达克沙祭祀时所发生之事的至上经过。

Verse 18

पृष्टेन शंभुना तात त्वयाश्वेव शिवात्मना । तत्सर्वं कथितं वृतं जातं दक्षाध्वरे हि यत्

亲爱的啊,当商布询问你——你确为具足湿婆本性的存在——你立刻将达克沙祭仪中所发生的一切,完整叙述出来。

Verse 19

तदाकर्ण्येश्वरो वाक्यं मुने तत्त्वन्मुखोदितम् । चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः

噢牟尼,主宰听到你口中所说之言,立刻怒焰骤起;威势极其可怖的鲁陀罗迅疾震怒。

Verse 20

उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः । आस्फालयामास रुषा पर्वतस्य तदोपरि

鲁陀罗——促成诸世界归于消融的神圣威力——拔下一绺结发;又以忿怒击打,将其掷落在那座山上。

Verse 21

तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः । संबभूव महारावो महाप्रलयभीषणः

噢圣者,当其被击之时,主宰的结发(jaṭā)裂为两半;随即响起一声巨吼,怖如大劫终末的浩劫(mahāpralaya)。

Verse 22

तज्जटायास्समुद्भूतो वीरभद्रो महाबलः । पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः

噢天仙圣者,正从那结发之中生出毗罗跋陀罗(Vīrabhadra)——力大无量,形相可怖,为湿婆众伽那之首领,自前部显现而出。

Verse 23

स भूमिं विश्वतो वृत्त्वात्यतिष्ठद्दशांगुलम् । प्रलयानलसंकाशः प्रोन्नतो दोस्सहस्रवान्

他环绕大地四方而立,身躯高出地面十指之量;巍然炽耀,如劫火般燃烧,并具千臂,势不可当。

Verse 24

कोपनिश्वासतस्तत्र महारुद्रस्य चेशितुः । जातं ज्वराणां शतकं संनिपातास्त्रयोदश

从至上主大鲁陀罗(Mahārudra)愤怒的吐息中,生起百种热病,又有十三种由诸体液合并而成的复合热病。

Verse 25

महाकाली समुत्पन्ना तज्जटापरभा गतः । महाभयंकरा तात भूतकोटिभिरावृता

从祂盘结的发髻(jaṭā)中,摩诃迦梨(Mahākālī)忽然涌现,承受那发髻所生的炽然光辉。噢,亲爱者,她极其可怖,周围簇拥着无数亿计的部多(bhūta,湿婆的灵众)。

Verse 26

सर्वे मूर्त्तिधराः क्रूराः स्वर लोकभयंकराः । स्वतेजसा प्रज्वलंतो दहंत इव सर्वतः

他们全都具形具身,凶猛可怖,连天界诸域亦为之战栗;以自身本具的光焰炽燃,仿佛从四面八方焚尽万物。

Verse 27

अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम् । कृतांजलिपुटः प्राह वाक्यं वाक्यविशारदः

随后,英勇的毗罗跋陀罗(Vīrabhadra)顶礼帕拉梅湿伐罗(主湿婆),合掌恭敬而陈辞;他善于言说,辞理明辨。

Verse 28

वीरभद्र उवाच । महारुद्र महारौद्र सोमसूर्याग्निलोचन । किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो

毗罗跋陀罗说道:“噢,大鲁陀罗(Mahārudra),噢,至怖者(Mahāraudra),以月、日与火为眼者——我当作何事?我应承担何业?愿主速速降命于我。”

Verse 29

शोषणीयाः किमीशान क्षणार्द्धेनैव सिंधवः । पेषणीयाः किमीशान क्षणार्द्धेनैव पर्वताः

噢,伊沙那(Īśāna,主湿婆),有何不可为?仅在半刹那间,诸海可被吸干;仅在半刹那间,群山可被碾作微尘。

Verse 30

क्षणेन भस्मसात्कुर्यां ब्रह्मांडमुत किं हर । क्षणेन भस्मसात्कुर्याम्सुरान्वा किं मुनीश्वरान्

噢,诃罗(湿婆)啊!在一刹那间,我能将整个宇宙之卵(梵卵、世界)化为灰烬——那又算得了什么?在一刹那间,我也能把诸天神,乃至尊贵的牟尼圣贤,尽皆焚为灰烬。

Verse 31

व्याश्वासः सर्वलोकानां किमु चार्यो हि शंकर । कर्तव्य किमुतेशान सर्वप्राणिविहिंसनम्

若对一切众生连一丝疑惧都不相宜,那么对你——噢,真实的导师商羯罗——岂更不相宜!噢,伊舍那,伤害任何有情生命之事,何曾有“正当”可言?

Verse 32

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः

如是,在《圣湿婆摩诃往世书》中——第二《鲁陀罗集》之第二《萨蒂品》——名为“毗罗跋陀罗之显现与湿婆教诲之叙述”的第三十二章至此圆满。

Verse 33

यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो । तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः

主啊,无论你为着何事差遣我,依那目的——我必凭你的恩惠之力,迅速而确然地成就那事。

Verse 34

क्षुद्रास्तरंति लोकाब्धिं शासनाच्छंकरस्य ते । हरातोहं न किं तर्तुं महापत्सागरं क्षमः

即使卑微之人,也能凭借圣者商羯罗(Śaṅkara)的命令与恩慈,渡过轮回之海。况且我蒙哈罗(Hara)护持,怎会不能越过这广大而充满大灾厄之海?

Verse 35

त्वत्प्रेषिततृणेनापि महत्कार्यं मयत्नतः । क्षणेन शक्यते कर्तुं शंकरात्र न संशयः

噢,商羯罗(Śaṅkara)!纵然只是你所遣来的一茎草,也能在刹那间不费力地成就大事——对此毫无疑惑。

Verse 36

लीलामात्रेण ते शंभो कार्यं यद्यपि सिद्ध्यति । तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम्

噢,商婆(Śambhu)!纵然凭你一念游戏(līlā)所欲之事已然成就,我仍被差遣为你的使者——此事本身,正是你赐予我的恩典。

Verse 37

शक्तिरेतादृशी शंभो ममापि त्वदनुग्रहात् । विना शक्तिर्न कस्यापि शंकर त्वदनुग्रहात्

噢,商婆(Śambhu)!连我这般力量也唯因你的恩佑而得。若无圣力(Śakti),无人具备任何能力,噢,商羯罗(Śaṅkara)——万事万物皆唯赖你的恩典而运作。

Verse 38

त्वदाज्ञया विना कोपि तृणादीनपि वस्तुतः । नैव चालयितुं शक्तस्सत्यमेतन्न संशयः

若无你的命令,无人真能移动哪怕一茎草。这是真实——毫无疑惑。

Verse 39

शंभो नियम्यास्सर्वेपि देवाद्यास्ते महेश्वर । तथैवाहं नियम्यस्ते नियंतुस्सर्वदेहिनाम्

噢,商布(Śambhu),噢,大自在天(Maheśvara)——一切天神与诸有情皆在您的约束与统御之下。同样,我亦受您摄持,因为您是统御一切具身众生的至上主宰。

Verse 40

प्रणतोस्मि महादेव भूयोपि प्रणतोस्म्यहम् । प्रेषय स्वेष्ट सिद्ध्यर्थं मामद्य हर सत्वरम्

噢,大天(摩诃提婆),我向你顶礼;再三顶礼。为成就我最深的所愿,愿哈罗(Hara)今日迅速遣我,走向命定的终极归宿。

Verse 41

स्पंदोपि जायते शंभो सख्यांगानां मुहुर्मुहुः । भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो

噢,商布(Śambhu),同伴们的肢体一次又一次地生起战栗。今日胜利必将属于我们;因此,主啊,请遣我从此处出发。

Verse 42

हर्षोत्साहविशेषोपि जायते मम कश्चन । शंभो त्वत्पादकमले संसक्तश्च मनो मम

噢,商布(Śambhu),我心中生起一种殊胜的欢喜与热忱;我的心念已全然系著于你足下的莲华。

Verse 43

भविष्यति प्रतिपदं शुभसंतानसंततिः

日复一日,吉祥的子嗣将相续而生。

Verse 44

तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् । यस्य शंभौ दृढा भक्तिस्त्वयि शोभनसंश्रये

唯有此人常得胜利;唯有此人日日吉祥——其对商布(Śambhu)之奉爱坚固不移者;噢,你这美妙的归依处。

Verse 45

ब्रह्मोवाच । इत्युक्तं तद्वचः श्रुत्वा संतुष्टो मंगलापतिः । वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः

梵天说道:听闻那番话后,吉祥之主(湿婆)心生欢喜,又对他说并赐福道:“噢,毗罗跋陀罗,愿你得胜!”

Verse 46

महेश्वर उवाच । शृणु मद्वचनं तात वीरभद्र सुचेतसा । करणीयं प्रयत्नेन तद्द्रुतं मे प्रतोषकम्

大自在天说道:“孩子啊,毗罗跋陀罗,且以清明坚定之心听我言。该做之事,当竭力而为;速速去办,因为这将使我心满意足。”

Verse 47

यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः । मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना

那邪恶的达刹,梵天之子,如今已着手举行祭祀。尤为甚者,他与我为敌;此刻他被巨大傲慢所胀满,又为无明所蒙蔽。

Verse 48

तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् । पुनरायाहि मत्स्थानं सत्वरं गणसत्तम

将那祭祀连同一切仪式随从尽皆焚成灰烬之后,速速再回到我的住处来吧,噢,众伽那中最殊胜者。

Verse 49

सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन । तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्

无论他们是天神、乾闼婆、夜叉,或任何其他众类——就在今日,骤然无迟,将他们也尽皆化为灰烬。

Verse 50

तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोपि वा । अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः

“就让它在那里——无论是毗湿奴(Viṣṇu)、梵天(Brahmā)、因陀罗(Śacī之主),乃至阎摩(Yama)。即在今日,也务必竭尽全力,将他们尽数击倒。”

Verse 51

सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन । तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्

无论是天神、乾闼婆、药叉还是其他任何人,就在今天,立即毫不迟疑地将他们化为灰烬。

Verse 52

दधीचिकृतमुल्लंघ्य शपथं मयि तत्र ये । तिष्ठंति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम्

那些在那里违背达迪奇誓言并坚持对我怀有敌意的人,通过你的努力,必须毫无疑问地将他们焚烧。

Verse 53

प्रमथाश्चागमिष्यंति यदि विष्ण्वादयो भ्रमात् । नानाकर्षणमंत्रेण ज्वालयानीय सत्वरम्

如果普拉马塔人前来,或者即使是毗湿奴等人因迷惑而靠近,就应当通过各种吸引咒语迅速燃起防护之火。

Verse 54

ये तत्रोल्लंघ्य शपथं मदीयं गर्विताः स्थिताः । ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया

那些在违背了我的庄严誓言后傲然挺立的人,既然他们是我的叛徒,就用火环焚烧他们。

Verse 55

सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् । प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम्

将达刹祭祀场内的所有人——连同他们的妻子和所有随从——全部焚烧成灰烬,然后立即回到这里。

Verse 56

तत्र त्वयि गते देवा विश्वाद्य अपि सादरम् । स्तोष्यंति त्वां तदाप्याशु ज्वालया ज्वालयैव तान्

当你到达那里时,诸天——毗湿瓦提婆等——必将恭敬赞颂你。即便如此,也要立刻以你的火焰焚烧他们;是的,当即焚尽。

Verse 57

देवानपि कृतद्रोहान् ज्वालामालासमाकुलः । ज्वालय ज्वलनैश्शीघ्रं माध्यायाध्यायपालकम्

即便是犯下背叛的诸天——被火焰花鬘所环绕——也要以炽烈之火迅速焚烧他们,噢,守护并维系神圣诵读及其正统次第者。

Verse 58

दक्षादीन्सकलांस्तत्र सपत्नीकान्सबांधवान् । प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब

噢勇士,在那里点燃毁灭之火后,焚烧达克沙及其余一切人——连同他们的妻子与亲族。随后,仿佛为自清凉般,戏谑地饮那水。

Verse 59

ब्रह्मोवाच । इत्युक्तो रोषताम्राक्षो वेदमर्यादपालकः । विरराम महावीरं कालारिस्सकलेश्वरः

梵天说道:如此被劝告后,那位大勇士——双目因忿怒而赤红——却仍为吠陀法度的守护者、万有之主、迦罗(死神)之敌,遂收敛退去,止息不行。

Frequently Asked Questions

The immediate aftermath of Dakṣa’s sacrifice: the devas’ bewilderment after a heavenly proclamation, the defeated gaṇas retreating and taking refuge in Śiva, and the gaṇas recounting Satī’s self-immolation due to Dakṣa’s insult and Śiva’s denied share.

It frames the Dakṣa-yajña not merely as a quarrel but as a doctrinal demonstration that sacrifice without reverence to Rudra is spiritually defective; Satī’s act functions as a śakti-driven correction of cosmic order and a condemnation of ego-based ritualism.

Bhṛgu’s mantra-bala (ritual/mantric power) is contrasted with Śiva’s role as ultimate refuge; the ‘vyoma-vāṇī’ underscores supra-human divine governance, while Satī’s śakti is shown as transformative power capable of overturning sacrificial authority.