Adhyaya 18
Srishti KhandaAdhyaya 18473 Verses

Adhyaya 18

Brahmā’s Puṣkara Sacrifice and the Manifestation of Sarasvatī (with Tīrtha-Merit Teachings)

《莲华往世书》PP.1.18 以毗湿摩对伽耶特丽受灌顶之事的惊叹开篇,继而由普罗阿斯提耶讲述在克利多时代,梵天于普什迦罗所行的原初大祭(yajña)。经文罗列宏大的天众会集:诸圣仙、阿底提耶、鲁陀罗、婆苏、摩卢特、那伽、乾闼婆与天女等,彰显普什迦罗为宇宙性的祭仪道场。 随后转入圣地(tīrtha)教义:萨拉斯瓦蒂在普什迦罗显现为五道水流(如苏普拉婆等名),并宣说沐浴、布施(dāna)与祭祖仪(śrāddha)的功德,尤以杰耶什塔·普什迦罗/杰耶什塔库恩达为胜,且规定绕行(pradakṣiṇā)与供献之法。其间穿插曼卡那迦的故事:大自在天/鲁陀罗垂怜介入,赐福其苦行;又叙述神话使命——萨拉斯瓦蒂作为梵天之女,奉命携带瓦达瓦火(Vaḍavāgni)至西方大海,并与恒河女神伽ṅ伽对话。篇末埋下嵌入故事《难陀》(Nandā)的线索,引向关于誓愿、真实与母爱奉献的伦理教诲。

Shlokas

Verse 1

भीष्मौवाच । अत्यद्भुतमिदं ब्रह्मन्श्रुतवानस्मि तत्त्वतः । अभिषेकं तु गायत्र्याः सदस्यत्र तथा कृतम्

毗湿摩说道:“婆罗门啊,我已如实听闻其真义。此事极其奇妙:就在此会众之中,确已为伽耶特丽举行了灌顶(abhiṣeka)之圣礼。”

Verse 2

विरोधं चैव सावित्र्या शापदानं तथा कृतम् । विष्णुना च यथा देवी सर्वस्थानेषु कीर्तिता

并且也叙述了她与萨维特丽(Sāvitrī)的争执,以及诅咒如何被宣告;又叙述了女神如何在一切处所为毗湿奴所赞颂。

Verse 3

गायत्री चापि रुद्रेण स्तुता च वरवर्णिनी । तं श्रुत्वा प्रतिमात्मानं विस्तरेण पितामहम्

伽耶特丽——容色殊胜者——亦为鲁陀罗所赞颂。听闻此事后,那位祖父(梵天),其自性为原型之相者,便详尽地开示。

Verse 4

प्रहृष्टानि च रोमाणि प्रशांतं च मनो मम । श्रुत्वा मे परमा प्रीतिः कौतूहलमथैव हि

我闻此言,毛发皆竖,而心神澄然安定。听到这些,我充满至上的喜悦——并且确实也生起极大的求知之心。

Verse 5

नारायणस्तु भगवान्कृत्वा तां परमां च वै । ब्रह्मपत्न्याः स्तुतिं भक्त्या न्यस्यतां पर्वतोपरि

于是,吉祥的主那罗延(Nārāyaṇa)确已作成那至上赞歌,怀着虔敬,将对梵天配偶的颂赞恭敬安置于山巅之上。

Verse 6

उवाच वचनं विष्णुस्तुष्टिपुष्टिप्रदायकम् । श्रीमति ह्रीमती चैव या च देवीश्वरी तथा

毗湿奴说出能赐满足与滋养之语,呼唤:室利摩底(Śrīmatī)、赫利摩底(Hrīmatī),以及同样为主宰的女神。

Verse 7

एतदेव श्रुतं ब्रह्मंस्तव वक्त्राद्विनिःसृतम् । उत्तरं तत्र यद्भूतं यच्च तस्मिन्स्थले कृतम्

“梵天啊,这确是我从你亲口所出而听闻的。现在请告诉我:在那里后来又发生了什么,在那处又做了什么。”

Verse 8

आनुपूर्व्या च तत्सर्वं भगवान्वक्तुमर्हति । श्रुतेन मे देहशुद्धिर्भविष्यति न संशयः

愿吉祥的主按次第详说这一切;我若得闻,身躯必得清净——对此毫无疑惑。

Verse 9

पुलस्त्य उवाच । यजतः पुष्करे तस्य देवस्य परमेष्ठिनः । शृणुराजन्निदं चित्रं पूर्वमेव यथाकृतम्

普拉斯提亚说道:“大王,请聆听这奇妙的往事——它在远古如何成就——当那位神祇帕拉梅什提因(梵天)在普什迦罗举行祭祀之时。”

Verse 10

आदौ कृतयुगे तस्मिन्यजमाने पितामहे । मरीचिरंगिराश्चैव पुलस्त्यः पुलहः क्रतुः

在最初的克利多时代(Kṛta Yuga),当祖父神(梵天)主持祭祀时,摩利支与安吉罗在场,普拉斯提亚、普拉诃与克罗图亦同在。

Verse 11

दक्षः प्रजापतिश्चैव नमस्कारं प्रचक्रिरे । विद्योतमानाः पुरुषाः सर्वाभरणभूषिताः

达克沙与诸生主(Prajāpati)也行恭敬礼拜。众人光辉灿然,周身佩戴各样庄严饰物。

Verse 12

उपनृत्यंति देवेशं विष्णुमप्सरसां गणाः । ततो गंधर्वतूर्यैस्तु प्रतिनंद्य विहायसि

众阿普萨拉斯在毗湿奴——诸天之主——面前翩然起舞;继而在虚空中,以乾闼婆的乐器之声向他称颂欢赞。

Verse 13

बहुभिः सह गंधर्वैः प्रगायति च तुंबरुः । महाश्रुतिश्चित्रसेन ऊर्णायुरनघस्तथा

图姆布鲁与众多乾闼婆一同高歌;摩诃室卢提、质多罗塞那、乌尔那尤,以及无垢的阿那伽亦在其列。

Verse 14

गोमायुस्सूर्यवर्चाश्च सोमवर्चाश्च कौरव । युगपच्च तृणायुश्च नंदिश्चित्ररथस्तथा

噢,俱卢后裔啊,亦有戈摩优(Gomāyu)、苏利耶瓦尔恰(Sūryavarcā)、苏摩瓦尔恰(Somavarcā);又有尤伽帕特(Yugapat)、特利那优(Tṛṇāyu)、难提(Nandi),以及奇特拉拉塔(Citraratha)。

Verse 15

त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः । कलिः पंचदशश्चात्र तारकश्चात्र षोडशः

此处,第十三位是沙利希罗(Śāliśira);第十四位是帕尔贾尼亚(Parjanya);此处第十五位是迦梨(Kali);此处第十六位是塔拉卡(Tāraka)。

Verse 16

हाहाहूहूश्च गंधर्वो हंसश्चैव महाद्युतिः । इत्येते देवगंधर्वा उपगायंति ते विभुम्

乾闼婆哈哈哈呼呼(Hāhāhūhū),以及光辉炽盛的天鹅(Haṁsa)亦然;如是诸天乾闼婆歌咏赞颂那至上主宰。

Verse 17

तथैवाप्सरसो दिव्या उपनृत्यंति तं विभुं । धातार्यमा च सविता वरुणोंशो भगस्तथा

同样,天界阿普萨拉斯(Apsaras)在那大能主宰前翩然起舞;达塔(Dhātā)、阿利耶摩(Aryamā)、萨维特利(Savitṛ)、伐楼那(Varuṇa)、安沙(Aṃśa)与婆伽(Bhaga)亦皆敬奉于彼。

Verse 18

इंद्रो विवस्वान्पूषा च त्वष्टा पर्जन्य एव च । इत्येते द्वादशादित्या ज्वलंतो दीप्ततेजसः

因陀罗(Indra)、毗婆斯梵(Vivasvān,太阳)、普善(Pūṣan)、特瓦什特利(Tvāṣṭṛ)以及帕尔贾尼亚(Parjanya)亦在其中——此等为十二阿底提耶(Āditya)之一,炽然燃耀,光辉赫奕。

Verse 19

चक्रुरस्मिन्सुरेशाश्च नमस्कारं पितामहे । मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः

于是诸天之主向毗多摩诃(梵天)恭敬顶礼;摩伽毗耶陀、舍婆以及声名显赫的尼利提也同样致敬。

Verse 20

अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः । भवो विश्वेश्वरश्चैव कपर्दी च विशांपते

众生之主啊,他名为阿阇一足与阿希尔布德尼亚;执持毗那迦之弓;不可战胜者;婆婆;宇宙之主毗湿维湿伐罗;亦名迦波尔底。

Verse 21

स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे । अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः

在那里,斯他努、婆伽与诸位可敬的鲁陀罗安住其位;两位阿湿毗尼、八位婆苏以及大力的摩鲁特也同在。

Verse 22

विश्वेदेवाश्च साध्याश्च तस्मै प्रांजलयः स्थिताः । शेषाद्यास्तु महानागा वासुकिप्रमुखाहयः

毗湿毗提婆与萨陀耶众在他面前合掌恭立;诸大那伽亦然——以舍沙为首——并有以婆苏吉为首的诸蛇族同来。

Verse 23

काश्यपः कंबलश्चापि तक्षकश्च महाबलः । एते नागा महात्मानस्तस्मै प्रांजलयः स्थिताः

迦叶波、甘婆罗与大力的多叉迦——这些高贵的那伽在他面前合掌恭立。

Verse 24

तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः । वारुणिश्चैवारुणिश्च वैनतेया व्यवस्थिताः

塔尔克夏、阿里什塔内弥,以及大力的迦楼罗;又有伐楼尼与阿楼尼——这些毗那多之子皆列阵待命,整装而立。

Verse 25

नारायणश्च भगवान्स्वयमागत्य लोकवान् । प्राह लोकगुरुं श्रीमान्सहसर्वैर्महर्षिभिः

随后,纳罗延那——至福的世尊——亲自降临于彼处,声名远播;光辉的主在一切大圣仙之前,向诸世界之师开口说道。

Verse 26

त्वया ततमिदं सर्वं त्वया सृष्टं जगत्पते । तस्माल्लोकेश्वरश्चासि पद्मयोने नमोस्तु ते

此一切皆由你遍满;此宇宙亦由你所造,噢世界之主。故你实为诸界之主。噢莲华所生者,向你致敬礼拜。

Verse 27

यदत्र ते मया कार्यं कर्तव्यं च तदादिश । एवं प्रोवाच भगवान्सार्धं देवर्षिभिः प्रभुः

“在此我当为你成办何事——当尽何等职责——愿你垂命。”至福的主、自在者,与诸天仙同在,如是说道。

Verse 28

नमस्कृत्य सुरेशाय ब्रह्मणेऽव्यक्तजन्मने । स च तत्रस्थितो ब्रह्मा तेजसा भासयन्दिशः

礼敬诸天之主——其诞生不可显现的梵天之后,梵天便安住于彼处,以自身光辉照耀十方。

Verse 29

श्रीवत्सलोमसंच्छन्नो हेमसूत्रेण राजता । सुरर्षिप्रतिमः श्रीमान्स्वयंभूर्भूतभावनः

他胸前覆有圣吉祥的室利跋蹉(Śrīvatsa)之纹,金线辉耀;宛如天界圣仙般庄严——光辉灿然,自生自在,养育一切众生。

Verse 30

शुचिरोमा महावक्षाः सर्वतेजोमयः प्रभुः । यो गतिः पुण्यशीलानामगतिः पापकर्मणां

主宰清净毛发,胸怀广大,具足一切光辉;他是行善者的归依,而作恶之人则无所归依。

Verse 31

योगसिद्धा महात्मानो यं विदुर्लोकमुत्तमं । यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम्

瑜伽成就的大圣者知他为至上之界;其主宰威德具足八种功德者,被称为诸天之最胜。

Verse 32

यं प्राप्य शाश्वतं विप्रा नियता मोक्षकांक्षिणः । जन्मनो मरणाच्चैव मुच्यंते योगभाविताः

得至于他——永恒者——啊婆罗门们,持戒自律、求解脱者,由瑜伽成熟,便从生与死二者中解脱。

Verse 33

यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः । सेवंसेवं यताहारा दुश्चरं व्रतमास्थिताः

这正是住于诸般住期(āśrama)者所称的“苦行(tapas)”:节制饮食,反复奉事,并受持难行之誓。

Verse 34

योनंत इति नागेषु प्रोच्यते सर्वयोगिभिः । सहस्रमूर्द्धा रक्ताक्षः शेषादिभिरनुत्तमैः

在诸那伽之中,一切瑜伽行者皆称他为“Yonanta”;他具千首、赤目,为至上无比者,乃舍沙等尊贵大蛇之最胜。

Verse 35

यो यज्ञ इति विप्रेंद्रैरिज्यते स्वर्गलिप्सुभिः । नानास्थानगतिः श्रीमानेकः कविरनुत्तमः

那位被诸最胜婆罗门、渴求天界者,奉为“Yajña”(祭祀、牺牲)而礼敬的,即是一位光辉独一、无上圣仙,游行于诸多住处与诸种存在之境。

Verse 36

यं देवं वेत्ति वेत्तारं यज्ञभागप्रदायिनं । वृषाग्निसूर्यचंद्राक्षं देवमाकाशविग्रहं

凡真实了知彼神者——全知之知者、赐予祭分者——其眼为公牛、火、日与月;彼天神之形体如虚空,遍满一切。

Verse 37

तं प्रपद्यामहे देवं भगवन्शरणार्थिनः । शरण्यं शरणं देवं सर्वदेवभवोद्भवं

我们为求归依于吉祥世尊,投向彼神——一切之所依;他即是归依本身,诸天众神之存在皆由他而生。

Verse 38

ऋषीणां चैव स्रष्टारं लोकानां च सुरेश्वरं । प्रियार्थं चैव देवानां सर्वस्य जगतः स्थितौ

他是诸仙之创造者,亦是诸世界之主、天众之君;为诸天所爱之旨意而安立,并为整个宇宙的恒常维系而住持。

Verse 39

कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमं । येन प्रवर्तितं सर् तं नतास्मस्सुरोत्तमं

供奉祖灵(Pitṛ)的恰当祭食(kavya),以及献给诸天的至上供品(havya)——由他使这一切运转兴起;我们向那最胜天神顶礼。

Verse 40

त्रेताग्निना तु यजता देवेन परमेष्ठिना । यथासृष्टिः कृता पूर्वं यज्ञसृष्टिस्तथा पुनः

然而,当至上主宰帕拉梅什提因(梵天 Brahmā)以三圣火行祭(yajña)时——如同先前已成的创造一般——又由祭祀再度生起创造。

Verse 41

तथा ब्रह्माप्यनंतेन लोकानां स्थितिकारिणा । अन्वास्यमानो भगवान्वृद्धोप्यथ च बुद्धिमान्

同样,梵天(Brahmā)虽已年迈却具大智慧;他由阿难陀(Ananta)侍奉相随——那位维系诸世界安住的神圣护持者。

Verse 42

यज्ञवाटमचिंत्यात्मा गतस्तत्र पितामहः । धनाढ्यैरृत्विजैः पूर्णं सदस्यैः परिपालितम्

随后,那本性不可思议的祖父神毗多摩诃(Pitāmaha,梵天 Brahmā)前往那祭场围坛;其中充满富足的祭官(ṛtvij),并由仪式议众悉心守护维持。

Verse 43

गृहीतचापेन तदा विष्णुना प्रभविष्णुना । दैत्यदानवराजानो राक्षसानां गणाः स्थिताः

于是,当毗湿奴(Viṣṇu)——威力无边、主宰一切者——执起神弓之时,代提耶(Daitya)与达那婆(Dānava)的诸王,以及罗刹(Rākṣasa)众军,皆列阵而立,备战待发。

Verse 44

आत्मानमात्मना चैव चिंतयामास वै द्रुतं । चिंतयित्वा यथातत्वं यज्ञं यज्ञः सनातनः

于是,永恒的祭祀之主——以牺牲为体的至尊——迅速以自性观照自身;如实思惟真如之后,便在其本质中构想并安立了祭祀(yajña)。

Verse 45

वरणं तत्र भगवान्कारयामास ऋत्विजाम् । भृग्वाद्या ऋत्विजश्चापि यज्ञकर्मविचक्षणाः

在那里,世尊安排拣选诸位祭官(ṛtvij)——婆利古等人——皆为通晓祭祀事业、善于辨别仪轨的司祭。

Verse 46

चक्रुर्बह्वृचमुख्यैश्च प्रोक्तं पुण्यं यदक्षरं । शुश्रुवुस्ते मुनिश्रेष्ठा वितते तत्र कर्मणि

他们遂行其仪;而诸巴呼梨支(Bahvṛc)祭官之首诵出清净有福的圣音。仪式在彼处广布展开之时,诸最胜牟尼静听其声。

Verse 47

यज्ञविद्या वेदविद्या पदक्रमविदां तथा । घोषेण परमर्षीणां सा बभूव निनादिना

她化为祭祀之圣智、吠陀之圣学,亦为通晓逐词与次第诵读者之技艺;并以至上仙圣那雄浑回荡的诵声而轰然作响。

Verse 48

यज्ञसंस्तरविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः । शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः

——由通晓祭祀铺设与陈列之法者,由精于声韵学(śikṣā)的婆罗门二生者,由明了词语训诂、推源释义之专家,以及由通达诸学、精研百艺之贤者所承持。

Verse 49

मीमांसा हेतुवाक्यज्ञैः कृता नानाविधा मुखे । तत्र तत्र च राजेंद्र नियतान्संशितव्रतान्

大王啊,种种多样的弥曼萨(Mīmāṁsā)辩论,由精通推理与论证语句者所构成;而在各处,又可见持戒自律、誓愿坚固之人,遵行既定的修持法则。

Verse 50

जपहोमपरान्मुख्यान्ददृशुस्तत्रवै द्विजान् । यज्ञभूमौ स्थितस्तस्यां ब्रह्मा लोकपितामहः

在那里,他们确实看见最杰出的两次生者——婆罗门——专注于持诵(japa)与火供;而在那祭祀之地,梵天(Brahmā)——诸世之父、祖父(Pitāmaha)——端然而立。

Verse 51

सुरासुरगुरुः श्रीमान्सेव्यमानः सुरासुरैः । उपासते च तत्रैनं प्रजानां पतयः प्रभुं

在那里,那位光辉的主宰——天神与阿修罗之师——为诸天与阿修罗同来奉事而受敬;众生之主亦在彼处礼拜那位至尊的统御者。

Verse 52

दक्षो वसिष्ठः पुलहो मरीचिश्च द्विजोत्तमः । अंगिरा भृगुरत्रिश्च गौतमो नारदस्तथा

噢,最殊胜的两次生者啊,彼处有达叉(Dakṣa)、婆悉吒(Vasiṣṭha)、普罗诃(Pulaha)与摩利支(Marīci);又有安吉罗(Aṅgiras)、婆利古(Bhṛgu)、阿底利(Atri)、瞿昙(Gautama),以及那罗陀(Nārada)。

Verse 53

विद्यामानमंतरिक्षं वायुस्तेजो जलं मही । शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च

其中有知识与中界虚空(ākāśa),以及风、火、水、地;亦有声、触、色、味、香。

Verse 54

विकृतश्च विकारश्च यच्चान्यत्कारणं महत् । ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार एव च

显现之形与其诸变,以及其他一切伟大的因性原则;同样,吠陀唯有四部,名为《梨俱》《夜柔》《娑摩》《阿闼婆》。

Verse 55

शब्दः शिक्षा निरुक्तं च कल्पश्च्छंदः समन्विताः । आयुर्वेद धनुर्वेदौ मीमांसा गणितं तथा

其中包含:śabda(语法)、śikṣā(音韵学)、nirukta(词源释义)、kalpa(祭仪法则)与chandas(韵律);亦有阿育吠陀、弓术吠陀(Dhanurveda)、弥曼萨(Mīmāṃsā)以及数学。

Verse 56

हस्त्यश्वज्ञानसहिता इतिहाससमन्विताः । एतैरंगैरुपांगैश्च वेदाः सर्वे विभूषिताः

并具象马之学,复有伊提哈娑(传统史传)相随;诸吠陀皆由这些支分与副支分而庄严。

Verse 57

उपासते महात्मानं सहोंकारं पितामहं । तपश्च क्रतवश्चैव संकल्पः प्राण एव च

他们礼敬大魂之祖父梵天(Pitāmaha),并与神圣音节“唵”(Oṃ)同奉;亦礼敬苦行(tapas)、祭祀(kratu)、誓愿之决意(saṅkalpa)以及生命之息(prāṇa)。

Verse 58

एते चान्ये च बहवः पितामहमुपस्थिताः । अर्थो धर्मश्च कामश्च द्वेषो हर्षश्च सर्वदा

这些以及许多其他者,皆侍立于祖父梵天(Pitāmaha)之前:财利(artha)、正法(dharma)、欲求(kāma)、憎恨与欢喜,恒常同在。

Verse 59

शुक्रो बृहस्पतिश्चैव संवर्तो बुध एव च । शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च

同样也有舒克罗(Śukra,金星)、布里哈斯帕提(Bṛhaspati,木星)、桑瓦尔塔(Saṃvarta)、布达(Budha,水星),以及沙奈什查罗(Śanaiścara,土星)与罗睺(Rāhu)——确然一切诸“行星神”(graha,天界影响者)皆在其中。

Verse 60

मरुतो विश्वकर्मा च पितरश्चापि भारत । दिवाकरश्च सोमश्च ब्रह्माणं पर्युपासते

噢,婆罗多啊,风神众(Marut)、毗湿伐羯磨(Viśvakarmā)与祖灵(Pitṛ),以及太阳与月亮,皆以恭敬之心礼拜梵天(Brahmā)。

Verse 61

गायत्री दुर्गतरणी वाणी सप्तविधा तथा । अक्षराणि च सर्वाणि नक्षत्राणि तथैव च

伽耶特丽(Gāyatrī),能令众生渡越艰难者;以及七重之语(Vāṇī,七种言说);一切字母;并且一切宿(nakṣatra,月宿)亦复如是。

Verse 62

भाष्याणि सर्वशास्त्राणि देहवंति विशांपते । क्षणा लवा मुहूर्ताश्च दिनं रात्रिस्तथैव च

噢,人中王啊,有诸注疏(bhāṣya)与一切论典(śāstra);亦有具身之众生;并且诸时量——刹那、须臾、牟呼尔多(muhūrta)——以及昼与夜。

Verse 63

अर्द्धमासाश्च मासाश्च क्रतवः सर्व एव च । उपासते महात्मानं ब्रह्माणं दैवतैः सह

半月期与诸月,乃至一切祭仪(kratu)皆与诸天同在,礼敬大魂之梵天(Brahmā)。

Verse 64

अन्याश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च । प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या मतिस्तथा

又有其他殊胜女神:Hṛī(谦羞)、Kīrti(名闻)、Dyuti(辉耀);Prabhā(光华)、Dhṛti(坚忍)、Kṣamā(宽恕)、Bhūti(福盛);Nīti(正行)、Vidyā(智慧)以及Mati(明悟)。

Verse 65

श्रुतिः स्मृतिस्तथा क्षांतिः शांतिः पुष्टिस्तथा क्रिया । सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः

亦有Śruti与Smṛti,并有Kṣānti(忍辱)、Śānti(寂静安和)、Puṣṭi(滋养丰盈)与Kriyā(神圣行持)。诸天Apsaras——天界仙女——皆善舞善歌。

Verse 66

उपतिष्ठंति ब्रह्माणं सर्वास्ता देवमातरः । विप्रचित्तिः शिविः शंकुरयःशंकुस्तथैव च

于是诸位天母皆前来侍奉梵天Brahmā;又有Vipracitti、Śivi、Śaṅku,以及同来的Ayaḥśaṅku。

Verse 67

वेगवान्केतुमानुग्रः सोग्रो व्यग्रो महासुरः । परिघः पुष्करश्चैव सांबोश्वपतिरेव च

又有Vegavān、Ketumān、Ugra、Sogra、Vyagra,以及大阿修罗Mahāsura;并有Parigha、Puṣkara,亦有Sāmbha与Aśvapati。

Verse 68

प्रह्लादोथ बलि कुंभः संह्रादो गगनप्रियः । अनुह्रादो हरिहरौ वराहश्च कुशो रजः

亦有Prahlāda、Bali、Kumbha、Saṃhrāda与Gaganapriya;又有Anuhrāda、Hari与Hara、Varāha、Kuśa以及Raja。

Verse 69

योनिभक्षो वृषपर्वा लिंगभक्षोथ वै कुरुः । निःप्रभः सप्रभः श्रीमांस्तथैव च निरूदरः

有人化为吞食子宫者;有人化为关节如结的公牛;又有人化为吞食林伽者——诚然如此,哦库鲁。有人失却光辉;有人光耀而富足;又有人同样变为无腹之形。

Verse 70

एकचक्रो महाचक्रो द्विचक्रः कुलसंभवः । शरभः शलभश्चैव क्रपथः क्रापथः क्रथः

名为:独轮(Ekacakra)、大轮(Mahācakra)、双轮(Dvicakra)、族生(Kulasaṃbhava);又有舍罗婆(Śarabha)与舍罗婆(Śalabha);并且还有克拉帕塔(Krapatha)、克拉帕塔(Krāpatha)与克拉塔(Kratha)。

Verse 71

बृहद्वांतिर्महाजिह्वः शंकुकर्णो महाध्वनिः । दीर्घजिह्वोर्कनयनो मृडकायो मृडप्रियः

他腰身宽广,舌大无比,耳如海螺,声若雷霆;舌长,目如太阳,身形柔和,且为摩利陀(湿婆)所钟爱。

Verse 72

वायुर्गरिष्ठो नमुचिश्शम्बरो विज्वरो विभुः । विष्वक्सेनश्चंद्रहर्ता क्रोधवर्द्धन एव च

名为:风神(Vāyu)、最重者(Gariṣṭha)、那牟支(Namuci)、商婆罗(Śambara)、离热(Vijvara)、自在者(Vibhu)、毗湿伐军(Viṣvaksena)、夺月者(Candraharta),以及增怒者(Krodhavardhana)。

Verse 73

कालकः कलकांतश्च कुंडदः समरप्रियः । गरिष्ठश्च वरिष्ठश्च प्रलंबो नरकः पृथुः

名为:迦罗迦(Kālaka);迦罗迦安多(Kalakānta);军陀达(Kuṇḍada);好战者;最沉重者;最卓越者;普罗兰婆(Pralamba);那罗迦(Naraka);以及普利图(Pṛthu)。

Verse 74

इंद्रतापन वातापी केतुमान्बलदर्पितः । असिलोमा सुलोमा च बाष्कलि प्रमदो मदः

因陀罗塔帕那、瓦塔毗、计都曼、巴拉达尔毗塔、阿西洛玛、苏洛玛、巴什迦利、普拉玛达与玛达——这些便是所提及的名号。

Verse 75

सृगालवदनश्चैव केशी च शरदस्तथा । एकाक्षश्चैव राहुश्च वृत्रः क्रोधविमोक्षणः

又有豺面者(Sṛgālavadana)、克西(Keśī),以及沙拉达(Śarada);并有独眼者(Ekākṣa)、罗睺(Rāhu)、弗利陀罗(Vṛtra)与“解脱忿怒者”(Krodha-vimokṣaṇa)。

Verse 76

एते चान्ये च बहवो दानवा बलवर्द्धनाः । ब्रह्माणं पर्युपासंत वाक्यं चेदमथोचिरे

这些以及许多其他因力量而日益强盛的达那婆(Dānavas),侍立于梵天(Brahmā)左右;随后他们说出了如下言辞。

Verse 77

त्वया सृष्टाः स्म भगवंस्त्रैलोक्यं भवता हि नः । दत्तं सुरवरश्रेष्ठ देवेभ्यधिकाः कृताः

噢吉祥的主啊,我们由你所造;确然,这三界也由你赐与我们。噢诸神中最胜者,你使我们甚至凌驾于诸天(deva)之上。

Verse 78

भगवन्निह किं कुर्मो यज्ञे तव पितामह । यद्धितं तद्वदास्माकं समर्थाः कार्यनिर्णये

噢主啊,在你的祭祀(yajña)之中,我们当在此作何事,噢祖父(Pitāmaha)?请告知对我们有益之道;此事之决断,我们有能力奉行。

Verse 79

किमेभिस्ते वराकैश्च अदितेर्गर्भसंभवैः । दैवतैर्निहतैः सर्वैः पराभूतैश्च सर्वदा

你这些出自阿底提胎藏的可怜之子有何用——诸天尽被诛灭,且恒常受挫败?

Verse 80

पितामहोसि सर्वेषामस्माकं दैवतैः सह । तव यज्ञसमाप्तौ च पुनरस्मासु दैवतैः

你与诸天同为我等众生之祖;待你的祭祀圆满之时,愿你复归我等,并携诸神同来。

Verse 81

श्रियं प्रति विरोधश्च भविष्यति न संशयः । इदानीं प्रेक्षणं कुर्मः सहिताः सर्वदानवैः

必将有人反对圣母室利(吉祥与福德),此无疑也。如今让我们与一切达那婆同往观之。

Verse 82

पुलस्त्य उवाच । सगर्वं तु वचस्तेषां श्रुत्वा देवो जनार्दनः । शक्रेण सहितः शंभुमिदमाह महायशाः

普罗萨底耶曰:闻彼等傲言,神圣的阇那尔达那,威名赫赫,与释迦(因陀罗)同在,遂对商婆(湿婆)说道如下。

Verse 83

विघ्नं प्रकर्तुं वै रुद्र आयाता दनुपुंगवाः । ब्रह्मणामंत्रिताश्चेह विघ्नार्थं प्रयतंति ते

诚然,达那婆之魁首为造障碍而至此——由楼陀罗所召;又在此事上受梵天相邀,他们在此竭力,只为行阻挠之业。

Verse 84

अस्माभिस्तु क्षमाकार्या यावद्यज्ञः समाप्यते । समाप्ते तु क्रतावस्मिन्युद्धं कार्यं दिवौकसां

我们当忍耐,直至圣祭(yajña)圆满。待此仪轨既毕,诸天便当出战交锋。

Verse 85

यथानिर्दानवा भूमिस्तथा कार्यं त्वया विभो । जयार्थं चेह शक्रस्य भवता च मया सह

如同大地已被清除诸达那婆(Dānava),你亦当如此成办此事,伟力者啊——为使释迦(Śakra)得胜,就在此处,你与我同心而行。

Verse 86

द्विजानां परिवेष्टारो मरुतः परिकल्पिताः । दानवानां धनं यच्च गृहीत्वा तद्यजामहे

诸摩卢特(Marut)被任命为侍奉两次生者的随侍。凡我等所夺取之达那婆(Dānava)财宝,皆以此资粮奉行此祭。

Verse 87

अत्रागतेषु विप्रेषु दुःखितेषु जनेष्विह । व्ययं तस्य करिष्यामो दासभावे निवेशिताः

当婆罗门与受苦之众来到此处时,我等以仆从之心自处,必为他们承担所需之费。

Verse 88

वदंतमेवं तं विष्णुं ब्रह्मा वचनमब्रवीत् । एते दनुसुताः क्रुद्धा युष्माकं कोपनेप्सिताः

毗湿奴(Viṣṇu)如是言时,梵天(Brahmā)对他说:“这些达奴(Danu)之子已然震怒,正欲激起你的忿怒。”

Verse 89

भवता च क्षमा कार्या रुद्रेण सह दैवतैः । कृते युगावसाने तु समाप्तिं चक्रतौ गते

你也当与鲁陀罗及诸天同施宽恕;当克利多劫至其终末,轮回之周期亦趋圆满之时。

Verse 90

मया च प्रेषिता यूयमेते च दनुपुंगवाः । संधिर्वा विग्रहो वापि सर्वैः कार्यस्तदैव हि

你们是我所差遣的,这些亦是诸达那婆中的魁首;因此你们众人当即刻成就:或立盟约,或兴战事。

Verse 91

पुलस्त्य उवाच । पुनस्तान्दानवान्ब्रह्मा वाक्यमाह स्वयंप्रभुः । दानवैर्न विरोधोत्र यज्ञे मम कथंचन

普拉斯提耶说道:于是自生之主梵天又对那些达那婆宣言:“在我的祭祀(yajña)中,此处无论如何不可与达那婆起争端。”

Verse 92

मैत्रभावस्थिता यूयमस्मत्कार्ये च नित्यशः । दानवा ऊचुः । सर्वमेतत्करिष्यामः शासनं ते पितामह

你们当安住于友善之心,恒常奉行我们的事业。达那婆说道:“这一切我们都将奉行——此乃你的诏命,噢祖父(Pitāmaha)。”

Verse 93

अस्माकमनुजा देवा भयं तेषां न विद्यते । पुलस्त्य उवाच । एतच्छुत्वा तदा तेषां परितुष्टः पितामहः

“诸天乃我等之弟;故彼等无所畏惧。”普拉斯提耶说:祖父(梵天)闻此言,遂对他们心生欢喜。

Verse 94

मुहूर्तं तिष्ठतां तेषामृषिकोटिरुपागता । श्रुत्वा पैतामहं यज्ञं तेषां पूजां तु केशवः

当他们在那里停留片刻之时,亿万圣仙(ṛṣi)纷至沓来。听闻那与祖父神梵天(Pitāmaha, Brahmā)相关的太初祭祀(yajña),吉舍婆(Keśava,毗湿奴 Viṣṇu)亦前来,受他们的礼敬供奉。

Verse 95

आसनानि ददौ तेषां तदा देवः पिनाकधृत् । वसिष्ठोर्घं ददौ तेषां ब्रह्मणा परिचोदितः

于是,执持毗那迦(Pināka)的主宰——湿婆(Śiva)为他们设下座位;而婆悉吒(Vasiṣṭha)在梵天(Brahmā)的催促下,献上阿尔伽(arghya)——迎宾的圣供。

Verse 96

गामर्घं च ततो दत्वा पृष्ट्वा कुशलमव्ययम् । निवेशं पुष्करे दत्वा स्थीयतामिति चाब्रवीत्

随后,他献上恭敬之礼并询问他们不衰的安泰,又在补湿迦罗(Puṣkara)为他们安排住处,并说道:“请住在此处。”

Verse 97

ततस्ते ऋषयः सर्वे जटाजिनधरास्तथा । शोभयंतः सरःश्रेष्ठं गङ्गामिव दिवौकसः

于是诸位圣仙皆披结发(jāṭā),身着树皮与兽皮之衣,令那最胜之湖更显庄严,正如天界众生装点恒河(Gaṅgā)一般。

Verse 98

मुंडाः काषायिणश्चैके दीर्घश्मश्रुधराः परे । विरलैर्दशनैः केचिच्चिपिटाक्षास्तथा परे

有的剃发光头,有的披着赭色僧衣(kaṣāya)。有的蓄着长须;有的牙齿稀疏,有的双目深陷。

Verse 99

बृहत्तनूदराः केपि केकराक्षास्तथापरे । दीर्घकर्णा विकर्णाश्च कर्णैश्च त्रुटितास्तथा

有些身躯与腹部巨大;有些眼目斜视或扭曲。又有些耳朵修长,有些耳形残缺畸变,还有些耳朵破裂断损。

Verse 100

दीर्घफाला विफालाश्च स्नायुचर्मावगुंठिताः । निर्गतं चोदरं तेषां मुनीनां भावितात्मनां

有些具长如犁铧之刃,有些却全无;他们被筋与皮所裹覆,而那些自制修行的牟尼之腹,竟向外隆起。

Verse 101

दृष्ट्वा तु पुष्करं तीर्थं दीप्यमानं समंततः । तीर्थलोभान्नरव्याघ्र तस्य तीरे व्यवस्थिताः

然而当他们见到普什迦罗的圣地渡口(tīrtha)四方辉耀之时,那些人——噫,人中之虎——因渴慕诸圣地,便立于其岸。

Verse 102

वालखिल्या महात्मानो ह्यश्मकुट्टास्तथापरे । दंतोलूखलिनश्चान्ये संप्रक्षालास्तथापरे

其中有大心的瓦拉契利亚(Vālakhilya)诸圣;亦有称为阿湿摩库塔(Aśmakuṭṭa)者。又有名为檀多卢卡林(Dantolūkhalin)者,亦有名为三普拉克沙拉(Saṃprakṣāla)者。

Verse 103

वायुभक्षा जलाहाराः पर्णाहारास्तथापरे । नाना नियमयुक्ताश्च तथा स्थंडिलशायिनः

有些以“食风”为生,有些仅以水为食,还有些只食树叶。又有些奉行种种戒律与苦行,也有些卧睡于裸地之上。

Verse 104

सरस्यस्मिन्मुखं दृष्ट्वा सुरूपास्याः क्षणादभुः । किमेतदिति चिंत्याथ निरीक्ष्य च परस्परम्

他们在那湖中看见那位容貌端严的女子之面容,刹那间心神迷惘。心中思量“这是何事?”,随即彼此相望,惊异不已。

Verse 105

अस्मिंस्तीर्थे दर्शनेन मुखस्येह सुरूपता । मुखदर्शनमित्येव नाम कृत्वा तु तापसाः

在此圣地渡口(tīrtha),只要在此瞻见那面容,人在此世的面貌便得端美。因此诸苦行者为之立名曰“穆迦达尔沙那”(Mukhadarśana,见面之圣观)。

Verse 106

स्नाता नियमयुक्ताश्च सुरूपास्ते तदाभवन् । देवपुत्रोपमा जाता अनौपम्य गुणान्विताः

他们沐浴之后,又安住于戒律与持守之行,遂得形貌庄严,宛如天神之子,具足无比的德行。

Verse 107

शोभमाना नरश्रेष्ठ स्थिताः सर्वे वनौकसः । यज्ञोपवीतमात्रेण व्यभजंस्तीर्थमंजसा

噢,人中至胜者,一切林居仙者皆光彩照人而立;仅凭佩持祭绳(yajñopavīta),便轻易辨识出那圣地渡口(tīrtha)。

Verse 108

जुह्वतश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः । चिंतयंतो हि राजेंद्र तपसा दग्धकिल्बिषाः

他们向圣火奉献供物,修行种种仪轨;而且,噢,诸王之王,他们常住观照沉思,以苦行(tapas)焚尽诸罪垢。

Verse 109

न यास्यामो परं तीर्थं ज्येष्ठभावेत्विदं सरः । ज्येष्ठपुष्करमित्येव नाम चक्रुर्द्विजातयः

“我们不再前往别的圣渡;以其至高尊位,此湖为最先最胜。”于是诸二生者(婆罗门)为它立名曰“耆什吒·补湿迦罗”(Jyeṣṭha-Puṣkara,最长、最尊之补湿迦罗)。

Verse 110

तत्र कुब्जान्बहून्दृष्ट्वा स्थितांस्तीर्थसमीपतः । बभूवुर्विस्मितास्तत्र जना ये च समागताः

在那里,人们看见许多驼背者立于圣渡(tīrtha)近旁;凡聚集而来的众人皆惊异不已。

Verse 111

दत्वा दानं द्विजातिभ्यो भांडानि विविधानि च । श्रुत्वा सरस्वतीं प्राचीं स्नातुकामा द्विजागताः

他们向二生者施与布施,并奉上各类器皿;又听闻那向东流的萨拉斯瓦蒂河,于是诸婆罗门怀着沐浴圣水之愿而来到此处。

Verse 112

सरस्वतीतीर्थवरा नानाद्विजगणैर्युता । बदरेंगुदकाश्मर्य प्लक्षाश्वत्थविभीतकैः

那萨拉斯瓦蒂的殊胜圣渡(tīrtha),为无数二生者贤众所常至,周围点缀着枣树(badara)、iṅgudaka、kāśmarya、榕属的plakṣa、圣无花果aśvattha与诃子vibhītaka诸树。

Verse 113

पौलोमैश्च पलाशैश्च करीरैः पीलुभिस्तथा । सरस्वतीतीर्थरुहैर्धन्वनैः स्यंदनैस्तथा

又有pauloma树、palāśa树、karīra灌木与pīlu树;并有环绕萨拉斯瓦蒂诸圣渡而生的旷野草木,以及荒旱之地与syaṃdana树同在其间。

Verse 114

कपित्थैः करवीरैश्च बिल्वैराम्लातकैस्तथा । अतिमुक्तकपंडैश्च पारिजातैश्च शोभिता

其地以迦毗他(木苹果)树、迦罗毗罗(夹竹桃)树、毗罗树与阿摩罗多迦树为饰,又有阿提穆克多迦藤蔓与成簇花叶,并有波利阇多树庄严其间。

Verse 115

कदंबवनभूयिष्ठा सर्वसत्वमनोरमा । वाय्वंबुफलपर्णादैर्दंतोलूखलिकैरपि

彼处多有迦檀婆林,悦乐一切众生;并且具备洁齿之枝与小臼等器物,乃由风、水、果实与叶等诸物所成。

Verse 116

तथाश्मकुट्टमुख्यैश्च वरिष्ठैर्मुनिभिर्वृता । स्वाध्यायघोषसंघुष्टा मृगयूथशताकुला

同样,此地为最上诸牟尼所环绕,其中以阿湿摩库塔为首;又回响着诵读吠陀之声,并充满数百群鹿。

Verse 117

अहिंसैर्धर्मपरमैस्तथा चातीव शोभिता । सुप्रभा कांचनाख्या च प्राची नंदा विशालका

以阿希ṃ萨(不害)与奉持至上之法(Dharma)为庄严,其光辉极盛——名为苏普拉婆(Suprabhā),亦称迦旃那(Kāñcanā);又有名为普罗契(Prācī)、难陀(Nandā)与毗舍罗迦(Viśālakā)之地。

Verse 118

स्रोतोभिः पंचभिस्तत्र वर्तते पुष्करे नदी । पितामहस्य सदसि वर्त्तमाने महीतले

在普湿迦罗(Puṣkara)之地,此河分为五道水流,行于大地之上,于祖父——梵天(Pitāmaha, Brahmā)之会中流转。

Verse 119

वितते यज्ञवाटे तु स्वागतेषु द्विजादिषु । पुण्याहघोषैर्विततैर्देवानां नियमैस्तथा

当祭祀的坛场(yajña-vāṭa)完全布置妥当,婆罗门等受敬之宾亦已依礼迎接;吉祥的祝祷之声回荡,诸天(deva)所规定的仪轨也都如法奉行——

Verse 120

देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तथा । तत्र चैव महाराज दीक्षिते च पितामहे

当诸天(deva)心绪激荡,而那场祭祀仪轨正进行之时,就在彼处——大王啊——连祖父神毗多摩诃(梵天 Brahmā)也在受持灌顶誓戒(dīkṣā)的圣洁加行之中。

Verse 121

यजतस्तस्य सत्रेण सर्वकामसमृद्धिना । मनसा चिंतिता ह्यर्था धर्मार्थकुशलास्तथा

当他举行那场萨特拉(satra)祭会,具足成就一切所愿之力时,他心中所思之事皆真实得遂;并且于法(dharma)与利(artha)之业亦得善巧与圆满。

Verse 122

उपतिष्ठंति राजेंद्र द्विजातींस्तत्र तत्र ह । जगुश्च देवगंधर्वा ननृतुश्चाप्सरोगणाः

王中之王啊,诸处皆有人恭敬侍奉二生者(dvija);天界乾闼婆(Gandharva)歌咏不绝,而众阿普萨拉斯(Apsaras)翩然起舞。

Verse 123

वादित्राणि च दिव्यानि वादयामासुरंजसा । तस्य यज्ञस्य संपत्या तुतुषुदेर्वता अपि

他们轻而易举地奏响诸般天乐之器。因那场祭祀(yajña)的兴盛与圆满成就,连诸天(deva)也心生欢喜。

Verse 124

विस्मयं परमं जग्मुः किमु मानुषयोनयः । वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे

他们都惊叹至极——更何况由人胎所生者——当那场祭祀(yajña)在普什卡拉(Puṣkara)进行之时,祖父神毗多摩诃(梵天 Brahmā)亲临其间。

Verse 125

अब्रुवन्नृषयो भीष्म तदा तुष्टास्सरस्वतीम् । सुप्रभां नाम राजेंद्र नाम्ना चैव सरस्वतीम्

于是,噢毗湿摩(Bhīṣma),诸位圣仙(ṛṣi)心生欢喜,向萨拉斯瓦蒂(Sarasvatī)说道:“大王,她名为苏普拉婆(Suprabhā),亦以萨拉斯瓦蒂之名而闻。”

Verse 126

ते दृष्ट्वा मुनयः सर्वे वेगयुक्तां सरस्वतीम् । पितामहं भासयंतीं क्रतुं ते बहु मेनिरे

诸位牟尼(muni)见萨拉斯瓦蒂(Sarasvatī)以迅疾之势奔涌而来,光辉照耀祖父神毗多摩诃(梵天 Brahmā),便都以为将要举行一场宏大的祭式(kratu)。

Verse 127

एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती । पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्

因此,在普什卡拉(Puṣkara),萨拉斯瓦蒂(Sarasvatī)——诸河之最胜者——为祖父神毗多摩诃(梵天 Brahmā)之缘而显现,也为令智者心满意足。

Verse 128

पुण्यस्य पुण्यताकारि पंचस्रोतास्सरस्वती । सुप्रभा नाम राजेंन्द्र नाम्ना चैव सरस्वती

大王,有一位萨拉斯瓦蒂(Sarasvatī),具足并生起功德(puṇya),为五道分流之河。她名为苏普拉婆(Suprabhā),亦称萨拉斯瓦蒂。

Verse 129

यत्र ते मुनयश्शान्ता नानास्वाध्यायवादिनः । ते समागत्य ऋषयस्सस्मरुर्वै सरस्वतीम्

在那里,那些安寂的牟尼——诵持并阐释种种吠陀学业者——聚集一处;诸仙人确实忆念并祈请了萨拉斯瓦蒂(Sarasvatī)。

Verse 130

साभिध्याता महाभागा ऋषिभिः सत्रयाजिभिः । समास्थिता दिशं पूर्वां भक्तिप्रीता महानदी

那条伟大而吉祥的河流——为举行萨特拉祭(sattrayajña)的诸仙所敬奉并祈请——因其虔敬而欢喜,遂安住于东方之方。

Verse 131

प्राची पूर्वावहा नाम्ना मुनिवंद्या सरस्वती । इदमन्यन्महाराज शृण्वाश्चर्यवरं भुवि

萨拉斯瓦蒂向东流去,名为“普尔瓦瓦哈”(Pūrvāvahā),为诸牟尼所礼敬。如今,伟大的王啊,请再听一段世间至奇之事。

Verse 132

क्षतो मंकणको विप्रः कुशाग्रेणेति नः श्रुतम् । क्षतात्किल करे तस्य राजन्शाकरसोस्रवत्

我们听闻:婆罗门曼卡纳卡(Maṅkaṇaka)被库沙草(kuśa)叶尖所伤。大王啊,据说他手上的伤口竟流出了甘蔗之汁。

Verse 133

स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् । ततस्तस्मिन्प्रनृत्ते तु स्थावरं जंगमं च यत्

见到那甘蔗之汁,他欢喜充满,便起舞。及至他如此舞动之时,凡彼处所有——无论不动之物与有情之众——皆为之所感。

Verse 134

प्रानृत्यत जगत्सर्वं तेजसा तस्य मोहितम् । शक्रादिभिस्सुरै राजन्नृषिभिश्च तपोधनैः

诸世界皆起舞,被他的光辉所迷惑——噢,国王——天神以释迦(Śakra)为首,以及富于苦行之力的圣仙(ṛṣi)都亲见此景。

Verse 135

विज्ञप्तस्तत्र वै ब्रह्मा नायं नृत्येत्तथा कुरु । आदिष्टो ब्रह्मणा रुद्र ऋषेरर्थे नराधिप

于是众人向梵天(Brahmā)祈请:“此人不应如此起舞;请按那样处置。”奉梵天之命,鲁陀罗(Śiva)为圣仙之故而行事——噢,国王。

Verse 136

नायं नृत्येद्यथा भीम तथा त्वं वक्तुमर्हसि । गत्वा रुद्रो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि

“他并非如你所言以可怖之态起舞;你不应如此言说。”因为鲁陀罗前往见到圣仙时,确实被极大的欢喜所充满。

Verse 137

भो भो विप्रर्षभ त्वं हि नृत्यसे केन हेतुना । नृत्यमानेन भवता जगत्सर्वं च नृत्यति

“噢,婆罗门之雄,请告知我:你为何起舞?因为当你舞动之时,仿佛整个世界也随之共舞。”

Verse 138

तेनायं वारितः प्राह नृत्यन्वै मुनिसत्तमः । मुनिरुवाच । किं न पश्यसि मे देव कराच्छाकरसोस्रवत्

被他制止时,最胜圣仙仍在起舞而开口说道。圣者曰:“噢,主宰,难道你看不见吗?甘蔗之汁正从我手中流出。”

Verse 139

तं तु दृष्ट्वाप्र नृत्तोहं हर्षेण महतावृतः । तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्

我一见到他,便俯首顶礼,心中充满大欢喜。随后,主神含笑,对那被欲染所迷的圣仙开口说道。

Verse 140

अहं न विस्मयं विप्र गच्छामीह प्रपश्य मां । एवमुक्तो मुनिश्रेष्ठो महादेवेन कौरव

“婆罗门啊,我并非以神秘之法离去——看,我就在此处。”被大自在天如此告诫,俱卢之裔啊,那最上圣仙为之震动。

Verse 141

ध्यायमानस्तदा कोयं प्रतिषिद्धोस्मि येन हि । अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितस्तथा

当我沉入观想之时,究竟是谁阻止了我?因为,诸王之王啊,那时我被指尖击中了自己的拇指。

Verse 142

ततो भस्मक्षताद्राजन्निर्गतं हिमपांडुरं । तद्दृष्ट्वा व्रीडितश्चासौ प्राह तत्पादयोः पतन्

于是,国王啊,从灰烬中现出一物,洁白如雪。见此情景,他心生惭愧,便伏倒在其足下而说道。

Verse 143

नान्यद्देवादहं मन्ये रुद्रात्परतरं महत् । चराचरस्य जगतो गतिस्त्वमसि शूलधृत्

我不认为有任何神祇能超越鲁陀罗之伟大。持三叉戟者啊,你是此一世界——动与不动——的归依与最终归宿。

Verse 144

त्वया सृष्टमिदं सर्वं वदंतीह मनीषिणः । त्वामेव सर्वं विशति पुनरेव युगक्षये

智者宣说:这一切皆由你所造;至劫末之时,万有复归于你。

Verse 145

देवैरपि न शक्यस्त्वं परिज्ञातुं मया कुतः । त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोपि ये

连诸天神尚不能尽知于你,我又怎能?因为在你之中皆可见:诸神,乃至梵天等一切。

Verse 146

सर्वस्त्वमसि देवानां कर्ता कारयिता च यः । त्वत्प्रसादात्सुराः सर्वे भवंतीहाकुतोभयाः

你即是一切;你是行者,亦是令诸神行事者。蒙你恩典,此间诸天皆得无畏,不惧四方。

Verse 147

एवं स्तुत्वा महादेवमृषिश्च प्रणतोब्रवीत् । भगवंस्त्वत्प्रसादेन तपो न क्षीयते त्विह

如是赞颂大天(摩诃提婆)后,仙人俯伏而言:“世尊啊,承你慈恩,我的苦行于此不致衰减。”

Verse 148

ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् । तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा

于是神明心生欢喜,又对那仙人说道:“婆罗门啊,愿凭我恩典,你的苦行增长千倍。”

Verse 149

प्राचीमेवेह वत्स्यामि त्वया सार्द्धमहं सदा । सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः

我将住在此处东方,常与你相伴。因为萨拉斯瓦蒂至为神圣,尤其在这片圣域之中。

Verse 150

न तस्य दुर्लर्भं किंचिदिह लोके परत्र च । सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्

凡在萨拉斯瓦蒂河的北岸舍身者,于此世与彼世皆无不可得之事。

Verse 151

प्राचीतटे जाप्यपरो न चेह म्रियते पुनः । आप्लुतो वाजिमेधस्य फलमाप्स्यति पुष्कलं

在东岸,专心持诵者不再于此复死;并且在彼处沐浴后,得广大功德,等同马祭(Aśvamedha)之果。

Verse 152

नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः । जलाहारो वायुभक्षः पर्णाहारश्च तापसः

他们以戒律与斋戒克制自身之身:苦行者或以水为食,或以风为粮,或以叶为生。

Verse 153

तथा स्थंडिलशायी च ये चान्ये नियमाः पृथक् । करोति यो द्विजश्रेष्ठो नियमांस्तान्व्रतानि च

同样,那位最胜的再生者(婆罗门),修行卧地等种种别异戒行,亦将这些戒行化为神圣誓愿。

Verse 154

स याति शुद्धदेहश्च ब्रह्मणः परमं पदं । तस्मिंस्तीर्थे तु यैर्दत्तं तिलमात्रं तु कांचनं

他身得清净,得至梵天(Brahmā)之至上住处;而在那圣地渡口(tīrtha),即使仅以一粒芝麻之量的黄金供施,也能成就广大功德。

Verse 155

मेरुदानसमं तत्स्यात्पुरा प्राह प्रजापतिः । तस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंति हि मानवाः

往昔,生主(Prajāpati)宣说:此功德等同于布施须弥山(Meru)之大施。因此,凡人在那圣地渡口(tīrtha)行施祖祭(śrāddha)者……

Verse 156

एकविंशकुलोपेताः स्वर्गं यास्यंति ते नराः । पितॄणां च शुभं तीर्थं पिंडेनैकेन तर्पिताः

这些人连同其家族二十一代所蒙之福德,将往生天界;并且只以一团食供(piṇḍa)便能令祖灵(Pitṛ)满足,因为此即成为祖先所喜的吉祥圣行。

Verse 157

ब्रह्मलोकं गमिष्यंति स्वपुत्रेणेह तारिताः । भूयश्चान्नं न चेच्छंति मोक्षमार्गं व्रजंति ते

他们在此由自己的儿子得以救度,前往梵界(Brahmaloka);其后不再贪求饮食,便行于解脱(mokṣa)之道。

Verse 158

प्राचीनत्वं सरस्वत्या यथा भूतं शृणुष्व तत् । सरस्वती पुरा प्रोक्ता देवैः सर्वैः सवासवैः

请听我如实叙说萨拉斯瓦蒂(Sarasvatī)的古老因缘:在久远之时,诸天神众与八位婆苏(Vasus)一同称说萨拉斯瓦蒂。

Verse 159

तटं त्वया प्रयातव्यं प्रतीच्यां लवणोदधेः । वडवाग्निमिमं नीत्वा समुद्रे निक्षिपस्व ह

你必须前往咸海的西岸;带着这瓦达瓦(Vaḍavā)之火,将其投入海中。

Verse 160

एवं कृते सुराः सर्वे भवंति भयवर्जिताः । अन्यथा वाडवाग्निस्तु दहते स्वेन तेजसा

此事若成,众神皆得无畏;否则,这海底之火(Vāḍavāgni)将以其烈焰之力焚烧一切。

Verse 161

तस्माद्रक्षस्व विबुधानेतस्मादचिराद्भयात् । मातेव भव सुश्रोणि सुराणामभयप्रदा

因此,请保护众神免受这迫在眉睫的恐惧。噢,美丽的女神,请像母亲一样,赐予提婆们无畏。

Verse 162

एवमुक्ता तु सा देवी विष्णुना प्रभविष्णुना । आह नाहं स्वतंत्रास्मि पिता मे व्रियतां स्वराट्

毗湿奴(Viṣṇu)这样说后,那位女神回答道:“我并非独立自主;此事请先征求我父亲,那位主宰者的意见。”

Verse 163

तदाज्ञाकारिणी नित्यं कुमारीह धृतव्रता । पित्रादेशाद्विना नाहं पदमेकमपि क्वचित्

我永远服从他的命令;在此我仍是处女,坚守誓言。若无父亲许可,我绝不迈出任何一步。

Verse 164

गच्छामि तस्मात्कोप्यन्य उपायश्चिंत्यतामहो । तदाशयं विदित्वाहुस्ते समेत्य पितामहं

“因此我将离去;唉,请另想他法。洞悉他的心意后,他们便一同前往毗多摩诃(梵天)处。”

Verse 165

नान्येन शक्यते नेतुं वडवाग्निः पितामह । अदृष्टदोषाम्मुक्त्वैकां कुमारीं तनयां तव

“噢,毗多摩诃啊,除你之外无人能移走瓦达瓦火。故当拣出一位无可指摘的处女——你的女儿——由她来成就此事。”

Verse 166

सरस्वतीं समानीय कृत्वांके वरवर्णिनीं । शिरस्याघ्रायसस्नेहमुवाचाथसरस्वतीम्

他召来萨拉斯瓦蒂,将那肤色莹美的女神安置于膝上,慈爱地嗅闻她的头顶,随后对萨拉斯瓦蒂开口说道。

Verse 167

मां च देवि सुराः प्राहुः स त्वं ब्रूहि यशस्विनीम् । नीत्वा विनिक्षिपेदेनं बाडवं लवणांबुनि

“诸天对我说:‘女神啊——你这光荣者,当去劝告她;并携此马面之火,将之投入大海的咸水之中。’”

Verse 168

पितुर्वाक्यं हि तच्छ्रुत्वा वियुक्ता कुररी यथा । पित्रा तदैव सा कन्या रुरुदे दीनमानसा

听到父亲的话,那少女立刻哭泣——如同与伴侣分离的库拉丽鸟——心神凄楚,满怀哀伤。

Verse 169

शोभते तन्मुखं तस्याः शोकबाष्पाविलेक्षणं । सितं विकसितं तद्वत्पद्मं तोयकणोक्षितम्

她的面容依然秀美,虽被悲泪所蒙——宛如盛放的白莲,点点水珠洒落其上。

Verse 170

तत्तथाविधमालोक्य पितामहपुरस्सराः । विबुधाः शोकभावस्य सर्वे वशमुपागताः

见他如此境况,诸天在毗多摩诃(梵天)率领下,尽皆为忧悲所摄。

Verse 171

संस्तभ्य हृदयं तस्याः शोकसंतापितं तदा । पितामहस्तामुवाच मा रोदीर्नास्ति ते भयम्

于是他安定她那被忧苦灼烧的心,祖父(梵天)对她说道:“莫哭,你无所畏惧。”

Verse 172

मान लाभश्च भविता तव देवानुभावतः । नीत्वा क्षारोदमध्ये तु क्षिपस्व ज्वलनं सुते

凭诸天之威力,你将得荣誉与利益。故而,孩子啊,携此火投于咸海之中。

Verse 173

एवमुक्ता तु सा बाला बाष्पाकुलितलोचना । प्रणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा

她既受此言,少女泪眼朦胧,礼拜莲华所生者(梵天),说道:“我将前往。”

Verse 174

मा भैरुक्ता पुनस्तैस्तु पित्रा चापि तथैव सा । त्यक्त्वा भयं हृष्टमनाः प्रयातुं समवस्थिता

他们又对她说:“不要害怕。”她的父亲也如此安慰。她抛却恐惧,心生欢喜,站立就绪,准备启程。

Verse 175

तस्याः प्रयाणसमये शंखदुंदुभिनिस्वनैः । मंगलानां च निर्घोषैर्जगदापूरितं शुभैः

在她启程之时,世界充满吉祥之音:海螺与战鼓般的敦都毗鼓回响,祝福的呼声亦隆隆传遍。

Verse 176

सितांबरधराधन्या सितचंदनमंडिता । शरदंबुजसच्छाय तारहारविभूषिता

她福德具足,身着白衣,涂饰白檀香膏;光辉如秋莲,颈间更以珍珠项链为饰。

Verse 177

संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा । शुभां कीर्तिं सुरेशस्य पूरयंती दिशो दश

她面如满月,目若莲瓣;她将天帝之吉祥名声广布,充满十方。

Verse 178

स्वतेजसा तद्धृदयान्निःसृता भासयज्जगत् । अनुव्रजन्ती तां गंगा तयोक्ता वरवर्णिनी

她凭他自身光辉之力,自其心中涌出,照耀世间。循着她的行迹,恒河亦随行相伴;他以言辞称呼那位容色殊胜的淑女。

Verse 179

द्रक्ष्यामि त्वां पुनरहं प्रयासि कुत्र मे सखि । एवमुक्ता तु सा गंगा प्रोवाच मधुरां गिरम्

“我还将再见到你。我的友人啊,你要往哪里去?”被如此问及,女神恒河以甘美之言答道。

Verse 180

यदैवायास्यसि प्राचीं दिशं मां पश्यसे शुभे । विबुधैस्त्वं परिवृता दर्शनं तव संश्रये

“每当你走向东方、见到我时,吉祥者啊——在诸天环绕之中——我将赐你我的达尔善;于对你的瞻礼之见,我得归依。”

Verse 181

उदङ्मुखी तदा भूत्वा त्यज शोकं शुचिस्मिते । अहं चोदङ्मुखी पुण्या त्वं तु प्राची सरस्वति

“那时你当面向北方,舍弃忧愁,纯净微笑者啊。我亦将在此吉祥之行中面北;而你,萨拉斯瓦蒂,应当面向东方。”

Verse 182

तत्र क्रतुशतं पुण्यं स्नानदानेन सुव्रते । श्राद्धदाने तथा नित्यं पितॄणां दत्तमक्षयम्

“在那里,善誓者啊,以沐浴与布施所得之福德,等同百次祭祀;同样,常行之祭祖施食(śrāddha)所献于祖灵者,亦成不坏之功德。”

Verse 183

ये करिष्यंति मनुजा विमुक्तास्त्ते ऋणैस्त्रिभिः । मोक्षमार्गं गमिष्यंति विचारो नात्र विद्यते

“凡人若如此行持,便能解脱三重之债;他们将行于解脱(mokṣa)之道——对此毫无疑虑。”

Verse 184

तामुवाच ततो गंगा पुनर्दर्शनमस्तु ते । गच्छ स्वमालयं भद्रे स्मर्तव्याहं त्वयानघे

随后恒河女神对她说:“愿你再得见我。吉祥者啊,回到你自己的住处;无罪者啊,请记念我。”

Verse 185

यमुनापि तथैवं सा गायत्री च मनोरमा । सावित्र्या सहिताः सर्वाः सखीं संप्रैषयंस्तथा

同样地,亚穆那女神与那妩媚的伽耶特丽,并与萨维特丽同在——她们众人也在那时派遣女友为使者。

Verse 186

ततो विसृज्य तान्देवान्नदी भूत्वा सरस्वती । उत्तंकस्याश्रमपद उद्भूता सा मनस्विनी

随后,遣散诸神之后,萨拉斯瓦蒂化作河流,在乌坦迦的修行林地处涌现而出,她心志坚决。

Verse 187

अधस्तात्प्लक्षवृक्षस्य अवरोप्य च तां तनुम् । अवतीर्णा महाभागा देवानां पश्यतां तदा

于是,她将那形体降至普拉克沙树下;那大福德者当时降临,诸神在旁注视。

Verse 188

विष्णुरूपस्तरुः सोत्र सर्वदेवैस्तु वंदितः । संसेव्यश्च द्विजैर्नित्यं फलहेतोर्महोदयः

在此,这棵树即是毗湿奴之形,为诸神所礼敬。应当常由二次生者恭敬供奉礼拜,因为它是赐予吉祥果报的大施主。

Verse 189

अनेकशाखाविततश्चतुर्मुख इवापरः । तत्कोटरकुटीकोटि प्रविष्टानां द्विजन्मनाम्

它枝条繁茂伸展,宛如另一位四面梵天;无数“再生者”婆罗门进入其树洞与如茅舍般的空隙之中。

Verse 190

श्रूयंते विविधा वाचः सुराणां रक्तचेतसाम् । वनस्पतिरपुष्पोपि पुष्पितश्चोपलक्ष्यते

可听见诸天心火炽盛时发出的种种言语;甚至那平日无花之树,也被看见忽然开花。

Verse 191

जातीचंपकवत्पुष्पैः शाखालग्नैः शुकैः शुभैः । केतकीभिः सुरभिभिरशोभत सरिद्वरा

那殊胜之河熠熠生辉:枝上栖着吉祥的鹦鹉,花朵如茉莉与瞻波迦般缀满其间,又有芬芳的鸡蛋花(ketakī)飘香。

Verse 192

कोकिलाभिस्स मालेव फेनकैः पुष्पितेव सा । हरेणेव यथा गंगा प्लक्षेणैव हि सा तथा

杜鹃如花鬘般为她作饰,白花似泡沫般盛开;她显现如是——正如恒河常与诃利相系,她也确然与普拉克沙树相连。

Verse 194

एवमुक्तेन सा तेन प्रत्युक्ता विष्णुना तदा । न ते दाहभयं त्याज्यस्त्वयायं वह्निराट्स्वयम्

她既被他如此告知,便当时得毗湿奴答曰:“你不可舍弃被焚之惧;此火王亲临于此,正是因你之故。”

Verse 195

पश्चिमं सागरं नेतुं वाडवज्वलनं शुभे । एवं क्रमेण गच्छंत्या तदापं प्राप्स्यते शुभे

“吉祥者啊,当将那海底之火——瓦ḍ瓦之焰——送往西方大海。如此循序前行,你终将抵达那片水域,吉祥者啊。”

Verse 196

ततस्तं शातकुंभस्थं कृत्वासौ वडवानलं । समर्पयत गोविंदः सरस्वत्या महोदरे

随后,Govinda将那火化为“瓦ḍ瓦那罗”,置于金器之中,投入萨拉斯瓦蒂河那广大深腹的幽深处。

Verse 197

सा तं गृहीत्वा सुश्रोणी प्रतीच्यभिमुखी ययौ । अंतर्द्धानेन संप्राप्ता पुष्करं सा महानदी

她将其携持在身,那腰肢秀美的女神面向西方而行;以隐没之法,抵达了普什迦罗——她,这条大河。

Verse 198

मर्यादापर्वते तस्मिन्संभूता विमला सरित् । पुष्करारण्यं विपुलं सुरसिद्धनिषेवितम्

自那界限之山,清净之河“毗摩罗”涌现;其处有广袤的普什迦罗林野,为诸天与悉地成就者所常来往。

Verse 199

पितामहेन यत्रासीद्यज्ञसत्रं निषेवितम् । सिध्यर्थं मुनिमुख्यानामागतासौ महानदी

在那处,往昔“祖父”毗湿摩(梵天)曾举行并亲临祭会(yajña-satra);为使诸首座牟尼得遂所愿,那条大河亦来到此地。

Verse 200

येषु तत्र कृतो होमः कुंडेष्वासीद्विरिंचिना । तानि सर्वाणि संप्लाव्य तोयेनाप्युद्गता हि सा

在那里,在毗邻支(梵天)曾行火供的诸火坛之中,她确实涌起,以清水尽皆漫溢,完全淹没了它们。

Verse 201

तत्र क्षेत्रे महापुण्या पुष्करे सा तथोत्थिता । तेन तत्पूरणं प्रोक्तं वायुना जगदायुषा

在那圣地——普什迦罗——她涌现而起,功德无量。因此,此部《普罗那》由风神伐由宣说,他乃世间之寿命与气息。