
Rudra’s Removal of Brahmahatyā; Kapālamocana and Avimukta Māhātmya; Origins of Nara and Karṇa (link to Arjuna/Karna query)
因毗湿摩询问阿周那“有三位父亲”的缘由,以及迦尔那被称为kānīna与sūta的双重身份,普罗陀斯提亚追述创世时代的一连串因缘。梵天因忿怒而生出汗生勇士昆达利(Kuṇḍalī),其势逼迫鲁陀罗;毗湿奴以一声huṁkāra施起迷惑,使争端暂息。继而在施舍与骷髅钵的情节中,Nara显现并与Nārāyaṇa相应;汗生与血生诸类的久战,则被推延至Dvāpara与Kali交界之时。 随后叙事转向梵天五面光辉,以及鲁陀罗斩落第五首之举,由此引发brahmahatyā之罪与持颅者(Kapālika)之相。毗湿奴开示以灰与骨饰为忏悔之法;鲁陀罗持誓游行,终被指向Avimukta/瓦拉纳西。于Kapālamocana圣渡处,颅骨自落,并宣说沐浴、布施(dāna)、火供(homa)与祭祖(śrāddha)所成之功德,能与解脱相连。
Verse 1
भीष्म उवाच । कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा । कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते
毗湿摩(Bhīṣma)说道:阿周那——诛灭敌方勇士者——怎会由三位男子而生?而迦尔那(Karṇa)又为何既被称为“迦尼那”(kānīna,未婚女所生之子),又被称为“苏多之子”(sūta-jā,车夫族裔所生)?
Verse 2
वरं तयोः कथं भूतं निसर्गादेव तद्वद । बृहत्कौतूहलं मह्यं तद्भवान्वक्तुमर्हति
请告诉我,那关于二人的恩赐是如何成就的,正如自始便自然发生一般。我心中疑问甚大,愿你为我开示。
Verse 3
पुलस्त्य उवाच । छिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महता वृतः । ललाटे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि
普罗诃斯底耶(Pulastya)说道:久远以前,当一张面容被斩断之时,梵天(Brahmā)为大怒所覆;他取下额上所生之汗,掷击于大地。
Verse 4
स्वेदतः कुंडली जज्ञे सधनुष्को महेषुधिः । सहस्रकवची वीरः किंकरोमीत्युवाच ह
从(神祇的)汗水中诞生了昆达利(Kuṇḍalī)——执弓在手,具足强大神矢;勇士披戴千重甲胄,随即说道:“我当为您效劳做什么?”
Verse 5
तमुवाच विरिंचस्तु दर्शयन्रुद्रमोजसा । हन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः
于是毗林叉(梵天 Brahmā)开口,强势指示鲁陀罗(Rudra): “当诛此恶心之徒,使其不再复生。”
Verse 6
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः । संप्रतस्थे महेशस्य बाणहस्तोतिरौद्रदृक्
听闻梵天之言,他自背后举起弓,手执箭矢,目光极其凶烈,遂向大自在天(Maheśa)进发。
Verse 7
दृष्ट्वा पुरुषमत्युग्रं भीतस्तस्य त्रिलोचनः । अपक्रांतस्ततो वेगाद्विष्णोराश्रममभ्यगात्
见那人凶怖至极,三眼者(Trilocana)心生畏惧;遂疾速退却,奔赴毗湿奴(Viṣṇu)的静修林(āśrama)。
Verse 8
त्राहित्राहीति मां विष्णो नरादस्माच्च शत्रुहन् । ब्रह्मणा निर्मितः पापो म्लेच्छरूपो भयंकरः
“救我,救我啊,毗湿奴——灭敌者——救我脱离此人!梵天造出一个罪恶而可怖者,具‘弥勒叉’(mleccha)之形,令人战栗。”
Verse 9
यथा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पते । हुंकारध्वनिना विष्णुर्मोहयित्वा तु तं नरम्
“世间之主啊,请如此施为:即使他盛怒,也不至于击打我。”随即,毗湿奴以“吽(huṁ)”之声令那人迷惑。
Verse 10
अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुः । तत्र प्राप्तं विरूपाक्षं सांत्वयामास केशवः
对一切众生皆不可见——其自性即瑜伽、遍观宇宙之主——凯沙瓦到达彼处,安慰了毗卢帕叉。
Verse 11
ततस्स प्रणतो भूमौ दृष्टो देवेन विष्णुना । विष्णुरुवाच । पौत्रो हि मे भवान्रुद्र कं ते कामं करोम्यहम्
随后,当他俯伏于地时,被神毗湿奴所见。毗湿奴说道:“鲁陀罗啊,你确是我的孙辈;你有何所愿,我当为你成就?”
Verse 12
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह । कपालं दर्शयित्वाग्रे प्रज्वलंस्तेजसोत्कटम्
见到那罗延天神,他说道:“请赐我施舍。”并在前举起骷髅钵,周身炽燃,光焰猛烈而夺目。
Verse 13
कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिन्तयत् । कोन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम्
毗湿奴见鲁陀罗手执骷髅钵,便思惟道:“此时此刻,还有谁比他更堪为受施之行乞者?”
Verse 14
योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत् । तद्बिभेदातितीक्ष्णेन शूलेन शशिशेखरः
他心中断定“此者堪当”,便献出右臂;随即月冠者湿婆以极其锋利的三叉戟将其刺穿。
Verse 15
प्रावर्तत ततो धारा शोणितस्य विभोर्भुजात् । जांबूनदरसाकारा वह्निज्वालेव निर्मिता
于是从那大能者的臂上涌出血流——宛如融化的阎浮那陀金,又似由火焰之舌凝成。
Verse 16
निपपात कपालांतश्शम्भुना सा प्रभिक्षिता । ऋज्वी वेगवती तीव्रा स्पृशंती त्वांबरं जवात्
被商婆掷入其颅骨的空腔之中,她坠落而下——笔直、迅疾、猛烈——快得仿佛触及苍穹。
Verse 17
पंचाशद्योजना दैर्घ्याद्विस्ताराद्दशयोजना । दिव्यवर्षसहस्रं सा समुवाह हरेर्भुजात्
她长五十由旬、宽十由旬,在哈利(毗湿奴)的臂上承载了千个天界之年。
Verse 18
इयंतं कालमीशोसौ भिक्षां जग्राह भिक्षुकः । दत्ता नारायणेनाथ कापाले पात्र उत्तमे
在这段时日里,那位主宰——虽现乞士之相——仍受纳布施;此布施由那罗延那奉入上妙的颅钵之中,噫,尊主。
Verse 19
ततो नारायणः प्राह शंभुं परमिदं वचः । संपूर्णं वा न वा पात्रं ततो वै परमीश्वरः
于是那罗延对商婆说出至上的言辞:“受者之器或圆满、或未圆满,至高的主皆随其因缘而施行。”
Verse 20
सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः । शशिसूर्याग्निनयनः शशिशेखरशोभितः
诃罗(湿婆)听闻诃利之语,声如含水重云之轰鸣;他立于彼处,三目如月、如日、如火,顶戴新月,光辉庄严。
Verse 21
कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम् । अंगुल्या घटयन्प्राह कपालं परिपूरितम्
他将目光安住于骷髅钵,以三目观照阇那尔达那;以指轻整其位,宣言道:“此颅已圆满充盈。”
Verse 22
श्रुत्वा शिवस्य तां वाणीं विष्णुर्धारां समाहरत् । पश्तोऽथ हरेरीशः स्वांगुल्या रुधिरं तदा
毗湿奴闻湿婆之言,便收摄那流注之势。随后主为诃利之故,于彼时以自身之指引出鲜血。
Verse 23
दिव्यवर्षसहस्रं च दृष्टिपातैर्ममंथ सः । मथ्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमात्
他以目光之力搅拌,历经一千天界之年。那血色团块被搅动之时,浑浊的泡沫与气泡便渐次生起。
Verse 24
बभूव च ततः पश्चात्किरीटी सशरासनः । बद्धतूणीरयुगलो वृषस्कंधोङ्गुलित्रवान्
其后他显现为戴冠之相,执弓在手;双箭囊紧系于身,肩阔力雄如公牛,并佩弓手护指。
Verse 25
पुरुषो वह्निसंकाशः कपाले संप्रदृश्यते । तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः
一位普鲁沙(神圣之人)如火焰炽然,清晰地显现在头骨之中。见到他后,世尊毗湿奴对鲁陀罗(湿婆)说了如下言辞。
Verse 26
कपाले भव को वाऽयं प्रादुर्भूतोऽभवन्नरः । वचः श्रुत्वा हरेरीशस्तमुवाच विभो शृणु
“噢,婆婆(湿婆)啊,这在头骨上显现的人究竟是谁?”听到哈利(毗湿奴)之言,主宰答道:“大能者啊,且听。”
Verse 27
नरो नामैष पुरुषः परमास्त्रविदां वरः । भवतोक्तो नर इति नरस्तस्माद्भविष्यति
此人名为那罗(Nara),乃通晓无上神兵者中最殊胜者。既然你称他为“那罗”,因此他确将名为那罗。
Verse 28
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः । संग्रामे देवकार्येषु लोकानां परिपालने
那罗与那罗延(Nārāyaṇa)二者,必将在此世代闻名——于战阵之中、于为诸天所行之事业中,并于护持诸世界之中。
Verse 29
एष नारायणसखो नरस्तस्माद्भविष्यति । अथासुरवधे साह्यं तव कर्ता महाद्युतिः
由彼因缘,他将成为那罗(Nara),为那罗延(Nārāyaṇa)之挚友;在诛灭阿修罗之时,那位大放光辉者必助你一臂之力。
Verse 30
मुनिर्ज्ञानपरीक्षायां जेता लोके भविष्यति । तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः
在智慧之试炼中,这位牟尼将于世间得胜;此物神圣而光辉超绝——乃梵天(Brahmā)之第五首。
Verse 31
तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात् । मम दृष्टि निपाताच्च त्रीणि तेजांसि यानि तु
由梵天炽盛之光、由你臂上之血、又由我目光之坠落——由此生起三种火焰般的光能。
Verse 32
तत्संयोगसमुत्पन्नः शत्रुं युद्धे विजेष्यति । अवध्या ये भविष्यंति दुर्जया अपि चापरे
由彼合和而生者,必于战阵中克胜仇敌;纵使有不可杀者,乃至其他难以战胜之辈,也将被击败。
Verse 33
शक्रस्य चामराणां च तेषामेष भयंकरः । एवमुक्त्वा स्थितः शंभुर्विस्मितश्च हरिस्तदा
“对释迦(因陀罗)与诸不死天众而言,此者实为可怖。”如是说罢,商婆(湿婆)伫立不动;彼时,诃利(毗湿奴)大为惊异。
Verse 34
कपालस्थः स तत्रैव तुष्टाव हरकेशवौ । शिरस्यंजलिमाधाय तदा वीर उदारधीः
他端坐于骷髅之上,那位心志高贵的勇士合掌置于头顶,赞颂哈罗(湿婆)与凯沙瓦(毗湿奴)。
Verse 35
किंकरोमीति तौ प्राह इत्युक्त्वा प्रणतः स्थितः । तमुवाच हरः श्रीमान्ब्रह्मणा स्वेन तेजसा
他说道:“我当作何事(以奉你们)?”说罢便恭敬俯伏而立。随后,光辉赫奕的哈罗(湿婆)以自身的神威(tejas)开口,对他说话,宛如向梵天宣示。
Verse 36
सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदय । इत्थमुक्त्वांजलिधरं स्तुवंतं शंकरो नरम्
“已造出一人,手执弓矢;如今你当诛灭此人。”如此说罢,商羯罗(湿婆)对那合掌赞颂、恭立之人说道。
Verse 37
तथैवांजलिसंबद्धं गृहीत्वा च करद्वयम् । उद्धृत्याथ कपालात्तं पुनर्वचनमब्रवीत्
于是,他握住那合掌的双手,将他从骷髅上扶起,又再次对他说道。
Verse 38
स एष पुरुषो रौद्रो यो मया वेदितस्तव । विष्णुहुंकाररचितमोहनिद्रां प्रवेशितः
“此人正是我曾告知于你的那位凶猛之者;他已被引入由毗湿奴圣音‘吽’(huṃkāra)所造的迷惑之睡。”
Verse 39
विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरः । नारायणस्य प्रत्यक्षं नरेणानेन वै तदा
说罢“速速唤醒他”,哈罗(湿婆)便隐没不见。于是借由此人,纳罗延那亲自显现于众人之前。
Verse 40
वामपादहतः सोपि समुत्तस्थौ महाबलः । ततो युद्धं समभवत्स्वेदरक्तजयोर्महत्
虽被左足击中,他亦以大力再度起身。随即,斯韦达与拉克塔之间爆发了一场宏大的战斗。
Verse 41
विस्फारितधनुः शब्दं नादिताशेषभूतलम् । कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम्
弓弦震响之声回荡遍满大地;而那汗生者仅有的甲胄,也被血生者当即卸去。
Verse 42
एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोः । युध्यतोः समतीतं च स्वेदरक्तजयोर्नृप
就这样,两者相遇交战之时,他们鏖战不息,历经两载天年,哦,国王——皆汗流浃背,血迹斑斑。
Verse 43
रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव संगतौ । विचिन्त्य वासुदेवोगाद्ब्रह्मणः सदनं परम्
见那血生者具两臂,与汗生者相聚一处,婆苏提婆沉思片刻,遂前往梵天至上的宫殿。
Verse 44
ससंभ्रममुवाचेदं ब्रह्माणं मधुसूदनः । रक्तजेनाद्य भो ब्रह्मन्स्वेदजोयं निपातितः
摩杜苏陀那满怀惊惶对梵天说道:“噢,婆罗门啊,今日这由汗而生者,已被那血生之者击倒。”
Verse 45
श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनम् । हरे द्यजन्मनि नरो मदीयो जीवतादयम्
梵天闻此心神不宁,便对摩杜苏陀那说道:“噢,哈利啊,愿我这人于来世得以再生存活——如我所求。”
Verse 46
तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यति । गत्वा तयो रणमपि निवार्याऽऽह च तावुभौ
毗湿奴欣然说道:“必将如此。”随后他前往二人处,止息其战,并对他们二者开口。
Verse 47
अन्यजन्मनि भविता कलिद्वापरयोर्मिथः । संधौ महारणे जाते तत्राहं योजयामि वां
在另一世中,当迦梨与堕婆罗两劫交接之际兴起大争战时,我将在那里使你们二人相会相逢。
Verse 48
विष्णुना तु समाहूय ग्रहेश्वरसुरेश्वरौ । उक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया
毗湿奴遂召来诸星之主与诸天之主,说道:“这两位善人当依我之命而受护持。”
Verse 49
सहस्रांशो स्वेदजोयं स्वकीयोंऽशो धरातले । द्वापरांतेवतार्योयं देवानां कार्यसिद्धये
此乃千光之日神;由汗而生,为自身之分在大地。至兜跋罗纪末,他将示现为化身,以成就诸天之事业。
Verse 50
यदूनां तु कुले भावी शूरोनाम महाबलः । तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि
在夜度族系中,将有一位大力之人名为舒罗(Śūra)。其女名普利他(Pṛthā),容貌于世无双。
Verse 51
उत्पत्स्यति महाभागा देवानां कार्यसिद्धये । दुर्वासास्तु वरं तस्यै मंत्रग्रामं प्रदास्यति
那位大福德的女子将为成就诸天之事业而出生;而杜尔婆娑(Durvāsā)必赐她恩惠,授与一组神圣真言。
Verse 52
मंत्रेणानेन यं देवं भक्त्या आवाहयिष्यति । देवि तस्य प्रसादात्तु तव पुत्रो भविष्यति
凭此真言,凡以虔敬召请之神祇——女神啊——由彼神之恩德,你必得一子。
Verse 53
सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वला । चिंताभिपन्ना तिष्ठंती भजितव्या विभावसो
她在日出时见到你,心怀渴慕,且值经期,忧惧萦怀而伫立不动。噢毗婆婆苏(火神),当接纳并亲近她为伴。
Verse 54
तस्या गर्भे त्वयं भावी कानीनः कुंतिनंदनः । भविष्यति सुतो देवदेवकार्यार्थसिद्धये
在她的胎中,你将被孕育,噢昆蒂之子,作为一位非婚所生之子;而那孩子将为成就诸天神圣事业之旨意而来。
Verse 55
तथेति चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरः । पुत्रमुत्पादयिष्यामि कानीनं बलगर्वितम्
说罢“如是”,那日神——光辉之聚——宣言道:“我将生出一子,乃非婚之子,恃力而自豪。”
Verse 56
यस्य कर्णेति वै नाम लोकः सर्वो वदिष्यति । मत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः
整个世界确会以“迦尔那(Karṇa)”之名称呼他。噢毗湿奴,凭我之恩赐,这位心性高贵者将在婆罗门中备受敬重。
Verse 57
अदेयं नास्ति वै लोके वस्तु किंचिच्च केशव । एवं प्रभावं चैवैनं जनये वचनात्तव
噢凯沙瓦,在此世间实无任何事物应当吝于施与。故凭你一句圣言,我使他具足如此威力与功德之效。
Verse 58
एवमुक्त्वा सहस्रांशुर्देवं दानवघातिनम् । नारायणं महात्मानं तत्रैवांतर्दधे रविः
如此对那大圣主那罗延——诛灭达那婆者——言毕,千光者(太阳)便在原地隐没不见。
Verse 59
अदर्शनं गते देवे भास्करे वारितस्करे । वृद्धश्रवसमप्येवमुवाच प्रीतमानसः
当神圣的太阳隐没、盗贼已被制止之时,他心怀欢喜,也如此对弗利达施罗婆斯(Vṛddhaśravas)说道。
Verse 60
सहस्रनेत्ररक्तोत्थो नरोऽयं मदनुग्रहात् । स्वांशभूतो द्वापरांते योक्तव्यो भूतले त्वया
凭我的恩赐,此人由“千眼者”的血而生;他乃我自身精髓之一分。至兜婆罗纪(Dvāpara)末时,你当使他降用于大地。
Verse 61
यदा पांडुर्महाभागः पृथां भार्यामवाप्स्यति । माद्रीं चापि महाभाग तदारण्यं गमिष्यति
当大福德的般度(Pāṇḍu)迎娶普利塔(Pṛthā,昆蒂 Kuntī)为妻,并且也迎娶摩德丽(Mādrī),尊者啊,那时他将前往森林。
Verse 62
तस्याप्यरण्यसंस्थस्य मृगः शापं प्रदास्यति । तेन चोत्पन्नवैराग्यः शतशृगं गमिष्यति
即便他住在林中,也将有一只鹿对他宣下诅咒;由此他心生出离之念,并将前往百峰山(Śataśṛṅga)。
Verse 63
पुत्रानभीप्सन्क्षेत्रोत्थान्भार्यां स प्रवदिष्यति । अनीप्संती तदा कुंती भर्त्तारं सा वदिष्यति
他渴望得“田中所生”的儿子(以尼瑜伽 niyoga 之法),便会对妻子开口;然而昆蒂(Kuntī)并不愿意,那时她将对丈夫陈说。
Verse 64
नाहं मर्त्यस्य वै राजन्पुत्रानिच्छे कथंचन । दैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप
大王啊,我绝不愿从凡人男子得子。人中之主啊,我唯愿凭诸天神的恩典与垂佑而得子。
Verse 65
प्रार्थयंत्यै त्वया शक्र कुंत्यै देयो नरस्ततः । वचसा च मदीयेन एवं कुरु शचीपते
舍迦罗(因陀罗)啊,既然昆蒂向你恳求,就应赐她一位男子。凭我之言——如此行之,舍姬之主啊。
Verse 66
अथाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचः । अस्मिन्मन्वंतरेऽतीते चतुर्विंशतिके युगे
于是,诸神之主满怀忧伤,对毗湿奴说道:“在这已逝的摩奴劫中,于第二十四个瑜伽时代……”
Verse 67
अवतीर्य रघुकुले गृहे दशरथस्य च । रावणस्य वधार्थाय शांत्यर्थं च दिवौकसाम्
他降生于罗伽族裔,入达沙罗陀之家,为诛灭罗波那,并为天界众生带来安宁。
Verse 68
रामरूपेण भवता सीतार्थमटता वने । मत्पुत्रो हिंसितो देव सूर्यपुत्रहितार्थिना
主啊,当你以罗摩之形在林中寻觅悉多而行时,我的儿子却被杀害——被那为太阳之子(修伽利婆)谋求福祉者所杀。
Verse 69
वालिनाम प्लवंगेंद्रः सुग्रीवार्थे त्वया यतः । दुःखेनानेन तप्तोहं गृह्णामि न सुतं नरम्
因你为苏格利瓦之故杀了猴王婆梨,我被此悲痛灼烧;因此,噢人啊,我不接受你的儿子。
Verse 70
अगृह्णमानं देवेंद्रं कारणांतरवादिनम् । हरिः प्रोचे शुनासीरं भुवो भारावतारणे
当众神之主因陀罗不愿应允、又提出种种托辞时,诃利便对舒那西罗谈及解除大地重负之事。
Verse 71
अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभो । सूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते
主啊,我将降临人间,为毁灭太阳之子,并为你的儿子成就胜利。
Verse 72
सारथ्यं च करिष्यामि नाशं कुरुकुलस्य च । ततो हृष्टोभवच्छक्रो विष्णुवाक्येन तेन ह
“我亦将为御者执缰——并(促成)俱卢族系的毁灭。”听闻毗湿奴此言,释迦(因陀罗)心生欢喜。
Verse 73
प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तव । एवमुक्त्वा वरं देवः प्रेषयित्वाऽच्युतः स्वयम्
主欢喜地接纳那人,说:“如是;愿你所言成真。”如此赐下恩许后,神祇阿周多遣他前行,而自身亦复施行其事。
Verse 74
गत्वा तु पुंडरीकाक्षो ब्रह्माणं प्राह वै पुनः । त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्
随后,莲华眼的主——普恩达利迦克沙——前往梵天处,再次说道:“这一切皆由你所造:三界全体,含一切动与不动的众生。”
Verse 75
आवां कार्यस्य करणे सहायौ च तव प्रभो । स्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे
主啊,我们二人乃是你成办此业的助伴;然而此事既由你亲自完成,你却不明白,天神啊,如何再令其终止、使之复归于无。
Verse 76
कृतं जुगुप्सितं कर्म शंभुमेतं जिघांसता । त्वया च देवदेवस्य सृष्टः कोपेन वै पुमान्
你欲杀此商婆(Śambhu),实为可憎之业;并且因你的忿怒,确有一人被造出——由众神之神的怒焰而生。
Verse 77
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु । गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर
为净除此罪,当行最上忏悔。主啊,摄持三圣火,奉行阿耆尼霍多罗(Agnihotra)之祭。
Verse 78
पुण्यतीर्थे तथा देशे वने वापि पितामह । स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात्
祖父(Pitāmaha)啊,于福德圣地(tīrtha),或于清净之境,乃至林野之中,当与自妻同修祭祀(yajña),以你从我们所受纳之物作为所需供具。
Verse 79
सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पते । आदेशं ते करिष्यंति यतोस्माकं भवान्प्रभुः
一切诸神——连同阿底提耶与鲁陀罗,噢世界之主——都将奉行你的命令,因为你是我们的主宰。
Verse 80
एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकः । आहवनीयस्तृतीयस्तु त्रिकुंडेषु प्रकल्पय
伽尔哈帕提耶火为第一主火;达克希那火为第二;阿哈瓦尼耶火为第三——当安置于三座火坛之中。
Verse 81
वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौ । चतुःकोणे हरं देवं ऋग्यजुःसामनामभिः
当以圆形礼敬我;继而以弓形礼敬我。又当以四角之形礼敬神圣的哈罗主,以《梨俱》《夜柔》《娑摩》之名而称诵。
Verse 82
अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च । दिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि
点燃圣火之后,以苦行得至无上圆满;你将献供一千个天界之年,随后使诸火寂灭。
Verse 83
अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यते । सुकृतेनाग्निहोत्रेण प्रशुद्ध्यंति भुवि द्विजाः
在此所说,未有任何净化法胜过阿耆尼霍多罗。由善行而成的阿耆尼霍多罗,使地上的二次生者得以清净。
Verse 84
पंथानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमी । एकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना
通往诸天之界的道路,已由婆罗门指示。身为居家行者的两次生者,应恒常守持那唯一的圣火。
Verse 85
विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यते । भीष्म उवाच । योऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः
若无圣火,此世两次生者便不能获得居家之道所应得的饮食资养。毗湿摩说道:“那位名为那罗的持弓之人,出自一具头骨而生……”
Verse 86
किमेष माधवाज्जात उताहो स्वेन कर्मणा । उत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम्
此人是由摩达婆(毗湿奴)而生,还是由自身业力所成?抑或由鲁陀罗所生——又或是出于深思熟虑而有意造作?
Verse 87
ब्रह्मन्हिरण्यगर्भोऽयमंडजातश्चतुर्मुखः । अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम्
婆罗门啊,此金胎(Hiraṇyagarbha)由宇宙之卵而生,本具四面;那么,他那奇妙的第五面又是如何生起的?
Verse 88
सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित् । सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात्
在萨埵之中不见罗阇;在罗阇之中亦从无萨埵。若圣尊梵天安住于萨埵,他又怎会生起罗阇的激荡?
Verse 89
मूढात्मना नरो येन हंतुं हि प्रहितो हरं । पुलस्त्य उवाच । महेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ
普拉斯提亚说:“那被迷惑而奉命去杀害哈罗(湿婆)之人——当知大自在天(湿婆)与哈利(毗湿奴)确是此二者,皆安住于正道。”
Verse 90
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः । ब्रह्मणः पंचमं वक्त्रमूर्द्ध्वमासीन्महात्मनः
对那两位大心者而言,无论可得或不可得,没有一事不为所知。至于伟大的梵天,则有第五张面容,朝向上方。
Verse 91
ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितः । ततोऽयं तेजसा सृष्टिममन्यत मया कृता
随后梵天陷入迷妄,又被罗阇斯之性所助长。于是凭借自身的光辉,他妄想此造化乃由他所成。
Verse 92
मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तिता । सह देवाः सगंधर्वाः पशुपक्षिमृगाकुलाः
“除我之外,实无他神能令此创造运转。”——连同诸天(提婆)、乾闼婆,以及无数走兽、飞鸟与野生群类。
Verse 93
एवं मूढः स पंचास्यो विरिंचिरभवत्पुनः । प्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम्
如是,虽在迷妄中,那五面者仍复为毗林支(梵天)。其朝东之口,成为《梨俱吠陀》的开显之源。
Verse 94
द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकम् । तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकम्
他的第二面使《夜柔吠陀》流布运转;第三面为《娑摩吠陀》之源;第四面则阐明《阿闼婆吠陀》的义旨与宗趣。
Verse 95
सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान् । वेदानधीते वक्त्रेण पंचमेनोर्द्ध्वचक्षुषा
以第五张口——目光上举——他诵习诸吠陀,并连同其辅支、诸《伊提哈娑》、其中秘奥之教与汇编诸集一并研习。
Verse 96
तस्याऽसुरसुराः सर्वे वक्त्रस्याद्भुतवर्चसः । तेजसा न प्रकाशंते दीपाः सूर्योदये यथा
在他面容奇妙的光辉之前,一切天神与阿修罗都失却光彩,正如日出之时,灯火在太阳威光前不复显明。
Verse 97
स्वपुरेष्वपि सोद्वेगा ह्यवर्तंत विचेतसः । न कंचिद्गणयेच्चान्यं तेजसा क्षिपते परान्
即便在各自的城中,他们也惶惶不安地往来,心神失定;不把他人视为可敬可计之者,并以炽烈之力击倒众生。
Verse 98
नाभिगंतु न च द्रष्टुं पुरस्तान्नोपसर्पितुम् । शेकुस्त्रस्ताः सुरास्सर्वे पद्मयोनिं महाप्रभुम्
诸天神惊惧不已,既不能趋近,亦不能瞻视,更不能在那位大威光的莲华生者(梵天)面前靠前一步。
Verse 99
अभिभूतमिवात्मानं मन्यमाना हतत्विषः । सर्वे ते मंत्रयामासुर्दैवता हितमात्मनः
他们自觉仿佛被压倒,光辉黯淡;于是诸天神一同商议,思量何者才是自身的福祉。
Verse 100
गच्छामः शरणं शंभुं निस्तेजसोऽस्य तेजसा । देवा ऊचुः । नमस्तेसर्वसत्वेश महेश्वर नमोनमः
被他的光明所压倒,我们自身的光彩尽失,遂归依于商布(Śambhu)。诸天神说道:“礼敬于你,众生之主;大自在天(Maheśvara)啊,我们一次又一次向你顶礼。”
Verse 101
जगद्योने परंब्रह्म भूतानां त्वं सनातनः । प्रतिष्ठा सर्वजगतां त्वं हेतुर्विष्णुना सह
宇宙之胎啊,至上梵(Parabrahman)啊——你是万有众生的永恒者。你是诸世界的依止;并与毗湿奴(Viṣṇu)同为存在与化生之因。
Verse 102
एवं संस्तूयमानोसौ देवर्षिपितृदानवैः । अंतर्हित उवाचेदं देवाः प्रार्थयतेप्सितम्
他受诸天神、天仙圣者、祖灵与达那婆(Dānavas)如是赞颂,却仍隐而不现,开口说道:“诸神啊,祈求你们所愿的恩赐吧。”
Verse 103
देवा ऊचुः । प्रत्यक्षदर्शनं दत्वा देहि देव यथेप्सितम् । कृत्वा कारुण्यमस्माकं वरश्चापि प्रदीयताम्
诸天神说道:“主啊,请先赐予我们亲见你的显现,然后赐下所愿。愿你怜悯我们,也请施与一项恩赐。”
Verse 104
यदस्माकं महद्वीर्यं तेज ओजः पराक्रमः । तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा
我们所有的伟大勇力、光辉、精进与威能——这一切都被梵天以其五面之相的光耀所吞没。
Verse 105
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो । जायते तु यथापूर्वं तथा कुरु महेश्वर
一切光辉都已消逝;凭你的恩慈,主啊,愿它们如昔再度生起。请如此施为,摩诃湿伐罗。
Verse 106
ततः प्रसन्नवदनो देवैश्चापि नमस्कृतः । जगाम यत्र ब्रह्माऽसौ रजोहंकारमूढधीः
于是他面容安然,又受诸天礼拜,便前往那梵天所在之处;彼之慧解为“罗阇斯”与我慢所迷。
Verse 107
स्तुवंतो देवदेवेशं परिवार्य समाविशन् । ब्रह्मा तमागतं रुद्रं न जज्ञे रजसावृतः
他们赞颂诸神之主,环绕着他进入其处;然而梵天被“罗阇斯”所覆,竟不识已至的鲁陀罗。
Verse 108
सूर्यकोटिसहस्राणां तेजसा रंजयन्जगत् । तदादृश्यत विश्वात्मा विश्वसृग्विश्वभावनः
以千千万万日轮之光照耀世界之时,那“宇宙之我”显现——宇宙的创造者与护持者。
Verse 109
सपितामहमासीनं सकलं देवमंडलम् । अभिगम्य ततो रुद्रो ब्रह्माणं परमेष्ठिनम्
随后,鲁德拉(Rudra)走近至尊主梵天(Brahmā),众神集会以及祖父(Pitāmaha)皆在其座前。
Verse 110
अहोतितेजसा वक्त्रमधिकं देव राजते । एवमुक्त्वाट्टहासं तु मुमोच शशिशेखरः
“啊!神啊,您的面容闪耀着炽热的光辉。”说完这话,月冠者(Śaśiśekhara)发出了一阵响亮的大笑。
Verse 111
वामांगुष्ठनखाग्रेण ब्रह्मणः पंचमं शिरः । चकर्त कदलीगर्भं नरः कररुहैरिव
他用左手拇指尖锐的指甲尖切断了梵天的第五个头——就像人用指甲切开香蕉树柔软的芯一样。
Verse 112
विच्छिन्नं तु शिरः पश्चाद्भवहस्ते स्थितं तदा । ग्रहमंडलमध्यस्थो द्वितीय इव चंद्रमाः
随后,那颗被砍下的头落在了巴瓦(Bhava)的手中;它位于行星圈的中央,看起来就像第二个月亮。
Verse 113
करोत्क्षिप्तकपालेन ननर्त च महेश्वरः । शिखरस्थेन सूर्येण कैलास इव पर्वतः
摩诃提婆(Mahādeva)手中高举着头骨碗起舞;那座山峰顶端悬着太阳,看起来就像凯拉萨山(Mount Kailāsa)。
Verse 114
छिन्ने वक्त्रे ततो देवा हृष्टास्तं वृषभध्वजम् । तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनम्
当那面容被斩断之时,诸天欢喜,便以种种赞颂之歌礼赞那持牛旗之主(湿婆)、诸神之神、结发之尊。
Verse 115
देवा ऊचुः । नमः कपालिने नित्यं महाकालस्य कालिने । ऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने
诸天说道:“恒常顶礼骷髅持者(Kapālin),顶礼大时(Mahākāla)之时;顶礼具足自在与智慧者,赐与一切福分与功德之分者。”
Verse 116
नमो हर्षविलासाय सर्वदेवमयाय च । कलौ संहारकर्ता त्वं महाकालः स्मृतो ह्यसि
顶礼于汝,汝之神戏为欢悦之乐;顶礼于汝,汝具一切诸神之体。在迦梨时代,汝为毁灭之行者;诚然,汝被忆念为大时(Mahākāla)。
Verse 117
भक्तानामार्तिनाशस्त्वं दुःखांतस्तेन चोच्यसे । शंकरोष्याशुभक्तानां तेन त्वं शंकरः स्मृतः
汝能摧灭信众之苦恼,故称为“苦之终”。又因汝赐予迅速归依者以吉祥,故汝被忆念为“善作者”(Śaṅkara)。
Verse 118
छिन्नं ब्रह्मशिरो यस्मात्त्वं कपालं बिभर्षि च । तेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीद नः
因汝斩断梵天之首,故持其颅骨;是以,神啊,汝名为骷髅持者(Kapālī)。今日我等赞颂于汝,愿汝垂慈于我等。
Verse 119
एवं स्तुतः प्रसन्नात्मा देवान्प्रस्थाप्य शंकरः । स्वानि धिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः
如是受赞,商羯罗心神澄然,遣诸天众各归其所;而吉祥的世尊既安立自身诸神圣住处,便仍住于彼处,满怀欢喜。
Verse 120
विज्ञाय ब्रह्मणो भावं ततो वीरस्य जन्म च । शिरो नीरस्य वाक्यात्तु लोकानां कोपशांतये
既了知梵天之意,又知那英勇者之诞生;依关于“无水者”的命令而生出其首,以平息诸世界的忿怒。
Verse 121
शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम् । तेजोनिधि परं ब्रह्म ज्ञातुमित्थं प्रजापतिम्
他以合掌置于头顶,继而赞颂并礼拜于彼;如是求知般若主(Prajāpati)——至上梵、光辉之宝藏。
Verse 122
निरुक्तसूक्तरहस्यैरृग्यजुः सामभाषितैः । रुद्र उवाच । अप्रमेय नमस्तेस्तु परमस्य परात्मने
凭借诸颂之奥义与吠陀之密旨——以《梨俱》《夜柔》《娑摩》之言而宣说——鲁陀罗说道:“不可测者啊,敬礼于你,至上者,最高之自性。”
Verse 123
अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयः । विजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते
你是诸奇妙之所生,亦是无尽光辉之宝藏。由胜利而你成为宇宙之本性;大放光明者啊,你是创造之创造者。
Verse 124
ऊर्द्ध्ववक्त्र नमस्तेस्तु सत्वात्मकधरात्मक । जलशायिन्जलोत्पन्न जलालय नमोस्तु ते
噢,面向上方者,向你顶礼——你以清净善性(萨埵)为体,承持大地。噢,卧于水上者,由水而生者,亦为众水之所依;向你顶礼。
Verse 125
जलजोत्फुल्लपत्राक्ष जय देव पितामह । त्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर
噢,眼如盛开莲瓣者,愿胜利归于你,神圣的祖父(梵天)!因为我这位主宰,昔日正是由你为成就创造之业而生起。
Verse 126
यज्ञाहुतिसदाहार यज्ञांगेश नमोऽस्तु ते । स्वर्णगर्भ पद्मगर्भ देवगर्भ प्रजापते
向你顶礼,噢,祭祀(yajña)诸支之主;你恒常的资粮乃是祭献的供物。噢,众生之主(Prajāpati),金胎(Hiraṇyagarbha)、莲胎(Padmagarbha)、神胎(Devagarbha)!
Verse 127
त्वं यज्ञस्त्वं वषट्कारः स्वधा त्वं पद्मसंभव । वचनेन तु देवानां शिरश्छिन्नं मया प्रभो
你即是祭祀(yajña);你即是“vaṣaṭ”的呼声;你即是“svadhā”的供献,噢,莲华所生者。然而因我一言,诸天之首已被斩落,噢,主宰。
Verse 128
ब्रह्महत्याभिभूतोस्मि मां त्वं पाहि जगत्पते । इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत्
“我为杀婆罗门之罪所压伏;护佑我吧,宇宙之主。”诸神之神如此发问后,梵天便说出了这些话。
Verse 129
ब्रह्मोवाच । सखा नाराणो देवः स त्वां पूतं करिष्यति । कीर्तनीयस्त्वया धन्यः स मे पूज्यः स्वयं विभुः
梵天说道:“神圣的那罗延是你的朋友;他将使你清净。福德者啊,你当称颂他——他堪受赞扬与传诵。他实为我所礼敬之主,至上的自在天。”
Verse 130
अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुना । येन ते भक्तिरुत्पन्ना स्तोतुं मां मतिरुत्थिता
你确已被那位神——毗湿奴——所忆念与观照;由他而生你的信爱之心,也由此兴起你赞颂我的意愿。
Verse 131
शिरश्छेदात्कपाली त्वं सोमसिद्धांतकारकः । कोटीः शतं च विप्राणामुद्धर्तासि महाद्युते
因头颅被断,你成为“持颅者”迦波利,并立定苏摩的神圣法则。大光辉者啊,你是百俱胝婆罗门的救度者。
Verse 132
ब्रह्महत्याव्रतं कुर्या नान्यत्किंचन विद्यते । अभाष्याः पापिनः क्रूरा ब्रह्मघ्नाः पापकारिणः
当行“梵杀”之赎罪誓戒,别无他法。杀害婆罗门者罪恶而残忍,不可与之交谈,乃作恶之人。
Verse 133
वैतानिका विकर्मस्था न ते भाष्याः कथंचन । तैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम्
那些虽行吠陀祭仪却仍陷于禁行之业者,切不可与之言谈。见到此类人后,当如法而行——转目仰望婆娑迦罗,即太阳。
Verse 134
अंगस्पर्शे कृते रुद्र सचैलो जलमाविशेत् । एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः
噢,鲁陀罗,若已发生身体接触,当仍着衣入水;如此便能获得古代圣贤所认可的清净。
Verse 135
स भवान्ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचर । चीर्णे व्रते पुनर्भूयः प्राप्स्यसि त्वं वरान्बहून्
你确是杀害婆罗门者;因此当修持清净之誓。待此誓圆满奉行之后,你将再度获得诸多恩赐。
Verse 136
एवमुक्त्वा गतो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान् । अचिंतयत्तदाविष्णुं ध्यानगत्या ततः स्वयं
如是说罢,梵天离去。鲁陀罗未能领会其意;于是当时他凭自身威力,开始观想毗湿奴,步入禅定之道。
Verse 137
लक्ष्मीसहायं वरदं देवदेवं सनातनम् । अष्टांगप्रणिपातेन देवदेवस्त्रिलोचनः
三目天主以八支礼拜,向永恒的天中之天——与吉祥天女拉克希米同在、赐福施恩的毗湿奴——俯伏顶礼。
Verse 138
तुष्टाव प्रणतो भूत्वा शंखचक्रगदाधरम् । रुद्र उवाच । परं पराणाममृतं पुराणं परात्परं विष्णुमनंतवीर्यं
他俯首赞颂那持螺、轮、杵之主。鲁陀罗说道:“毗湿奴为至上之至上——不死者、太古者;高于最高者,神威无尽。”
Verse 139
स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणम् । परात्परं पूर्वजमुग्रवेगं गंभीरगंभीरधियां प्रधानम्
我恒常忆念至为可敬的至上之人——那罗延(Nārāyaṇa),无与伦比、太古本初;超越至高之上,为万源之始,威势不可阻,乃深邃心识所观想之首要。
Verse 140
नतोस्मि देवं हरिमीशितारं परात्परं धामपरं च धाम । परापरं तत्परमं च धाम परापरेशं पुरुषं विशालम्
我顶礼哈利(Hari),神圣的主宰与至上统御者——超越至高之上;为至上住处,亦是一切住处之根基;超越高与下;究竟归依;统摄高下诸界之主;广大遍满的至上之人。
Verse 141
नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज । सदास्थितत्वात्पुरुषप्रधानं शांतं प्रधानं शरणं ममास्तु
我赞颂那罗延(Nārāyaṇa),其性至净——既超越亦内在——创造了这微妙的宇宙。因其恒常安住,祂为至上之人、首要本原——寂静而太初;愿祂成为我的归依。
Verse 142
नारायणं वीतमलं पुराणं परात्परं विष्णुमपारपारम् । पुरातनं नीतिमतां प्रधानं धृतिक्षमाशांतिपरं क्षितीशम्
我顶礼那罗延(Nārāyaṇa)——无垢而太古——亦即毗湿奴(Viṣṇu),超越至上之至上,深不可测、无边无际;那无始古圣,义行者之首,其性为坚忍、宽恕与寂静,乃大地之主宰。
Verse 143
शुभं सदा स्तौमि महानुभावं सहस्रमूर्द्धानमनेकपादम् । अनंतबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम्
我恒常赞颂那吉祥的大灵之主——千首多足、无量臂膀,以月与日为眼;祂既为可坏亦为不坏,安卧于乳海之上。
Verse 144
नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशैरगम्यम् । त्रिसर्गसंस्थं त्रिहुताशनेत्रं त्रितत्वलक्ष्यं त्रिलयं त्रिनेत्रम्
我赞颂那罗延(Nārāyaṇa)——至上者、诸主之主、超越至高者,连诸天(deva)亦不可及。祂安住为三重创造之依止;祂之眼即三圣火;祂是由三种本原(tattva)所识之归趣;祂是三者之归灭;祂亦为三目者。
Verse 145
नमामि नारायणमप्रमेयं कृते सितं द्वापरतश्च रक्तम् । कलौ च कृष्णं तमथो नमामि ससर्ज यो वक्त्रत एव विप्रान्
我顶礼那不可度量的那罗延(Nārāyaṇa):在克利多时代(Kṛta-yuga)呈白色,在堕婆罗时代(Dvāpara-yuga)呈红色,在迦梨时代(Kali-yuga)呈黑色。我再度顶礼那位从自己口中创造婆罗门(brāhmaṇa)者。
Verse 146
भुजांतरात्क्षत्रमथोरुयुग्माद्विशः पदाग्राच्च तथैव शूद्रान् । नमामि तं विश्वतनुं पुराणं परात्परं पारगमप्रमेयम्
从祂的臂中生出刹帝利(Kṣatriya);从祂双腿之股生出吠舍(Vaiśya);从祂足尖亦生出首陀罗(Śūdra)。我顶礼那古老者:其身即宇宙,超越一切超越,不可度量,越过最远之彼岸。
Verse 147
सूक्ष्ममूर्त्तिं महामूर्त्तिं विद्यामूर्त्तिममूर्तिकम् । कवचं सर्वदेवानां नमस्ये वारिजेक्षणम्
我顶礼莲目者:形相微妙,形相广大;以神圣智慧为身,而又无相;祂是诸天(deva)一切的护甲与庇护。
Verse 148
सहस्रशीर्षं देवेशं सहस्राक्षं महाभुजम् । जगत्संव्याप्य तिष्ठंतं नमस्ये परमेश्वरम्
我顶礼至上自在天、诸天之主:具千首千眼,臂力广大;遍满整个宇宙而安住,扶持并维系一切。
Verse 149
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् । नीलमेघप्रतीकाशं नमस्ये शार्ङ्गपाणिनम्
我顶礼毗湿奴——神圣的归依处与赐予归依者,常胜而永恒,光辉如深色雨云,执持娑尔恩伽(Śārṅga)神弓者。
Verse 150
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् । भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम्
我顶礼哈利——清净无垢、遍一切处、常住不变,体性如虚空,太初本源;超越有与无,遍满一切者。
Verse 151
न चात्र किंचित्पश्यामि व्यतिरिक्तं तवाच्युत । त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम्
噢阿周陀(Acyuta),我在此不见有任何离于你而存在之物;诚然,我观此一切宇宙——动与不动——皆为你所充满。
Verse 152
एवं तु वदतस्तस्य रुद्रस्य परमेष्ठिनः । इतीरितेस्तेन सनातन स्वयं परात्परस्तस्य बभूव दर्शने
当至上主鲁陀罗如此宣说之时,且由他如是宣告之后,永恒者——自身即超越一切超越者——便以可见之形显现在他面前。
Verse 153
रथांगपाणिर्गरुडासनो गिरिं विदीपयन्भास्करवत्समुत्थितः । वरं वृणीष्वेति सनातनोब्रवीद्वरस्तवाहं वरदः समागतः
于是永恒者——手执神轮、乘坐迦楼罗——如日升起,照耀群山。他说道:“当择一愿。我以施愿者而来;我在此赐你恩惠。”
Verse 154
इतीरिते रुद्रवरो जगाद ममातिशुद्धिर्भविता सुरेश । न चास्य पापस्य हरं हि चान्यत्संदृश्यतेग्र्यं च ऋते भवं तम्
话既说毕,尊胜的鲁陀罗答曰:“诸天之主啊,我必得彻底清净。为除去此罪,未见更高无上的法门——唯有婆婆(湿婆)一尊。”
Verse 155
ब्रह्महत्याभिभूतस्य तनुर्मे कृष्णतां गता । शवगंधश्च मे गात्रे लोहस्याभरणानि मे
为弑婆罗门之罪所压,我的身躯已变黯黑;尸臭缠附四肢,而我身上的饰物也都化作铁器。
Verse 156
कथं मे न भवेदेवमेतद्रूपं जनार्दनम् । किं करोमि महादेव येन मे पूर्विका तनूः
阎那尔达那怎会不以此形相向我显现?大天啊,我当作何行持,方能复得我先前的身相与境界?
Verse 157
त्वत्प्रसादेन भविता तन्मे कथय चाच्युत । विष्णुरुवाच । ब्रह्मवध्या परा चोग्रा सर्वकष्टप्रदा परा
“凭你的恩慈,此事必能成就——请告知我吧,阿周陀。”毗湿奴答曰:“弑婆罗门之罪至高而可怖,能招致一切苦难。”
Verse 158
मनसापि न कुर्वीत पापस्यास्य तु भावनाम् । भवता देववाक्येन निष्ठा चैषा निबोधिता
即便在心念中,也不应生起此罪之想。凭你神圣的宣言,这坚定的誓愿亦已昭示并确立。
Verse 159
इदानीं त्वं महाबाहो ब्रह्मणोक्तं समाचर । भस्मसर्वाणि गात्राणि त्रिकालं घर्षयेस्तनौ
现在,臂力强大的尊者啊,请遵照梵天的指示:每天三次将圣灰涂抹在你身体的所有肢体上。
Verse 160
शिखायां कर्णयोश्चैव करे चास्थीनि धारय । एवं च कुर्वतो रुद्र कष्टं नैव भविष्यति
把骨头戴在你的发髻上、耳朵上,还有手上。鲁德拉啊,这样做的人将不会遭遇任何苦难。
Verse 161
संदिश्यैवं स भगवांस्ततोंऽतर्द्धानमीश्वरः । लक्ष्मीसहायो गतवान्रुद्रस्तं नाभिजज्ञिवान्
那位受佑的主、至高无上的主在这样指示之后,便从视线中消失了。他在吉祥天女的陪伴下离去,然而鲁德拉并没有认出他。
Verse 162
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम् । हिमवंतं समैनाकं मेरुणा च सहैव तु
众神之主卡帕拉帕尼(手持骷髅者)在这片大地上游荡——前往喜马拉雅山和梅纳卡山,同时也去了须弥山。
Verse 163
कैलासं सकलं विंध्यं नीलं चैव महागिरिम् । कांचीं काशीं ताम्रलिप्तां मगधामाविलां तथा
凯拉萨山、整个温迪亚山脉,还有尼拉山——连同那座大山;同样还有坎奇、卡希、塔姆拉利普塔、摩揭陀以及阿维拉。
Verse 164
वत्सगुल्मं च गोकर्णं तथा चैवोत्तरान्कुरून् । भद्राश्वं केतुमालं च वर्षं हैरण्यकं तथा
他又提及跋蹉古尔摩(Vatsagulma)与瞿迦耳那(Gokarṇa),以及北方的俱卢(Kuru);又有跋陀罗阿湿婆(Bhadrāśva)与计都摩罗(Ketumāla),并名为希兰尼亚迦(Hiraṇyaka)之地。
Verse 165
कामरूपं प्रभासं च महेंद्रं चैव पर्वतम् । ब्रह्महत्याभिभूतोसौ भ्रमंस्त्राणं न विंदति
他漂泊至迦摩卢波(Kāmarūpa)、至普罗婆娑(Prabhāsa),又至摩诃因陀罗山(Mahendra);然而为“梵杀罪”(brahma-hatyā)所压覆,他终未得庇护与解脱。
Verse 166
त्रपान्वितः कपालं तु पश्यन्हस्तगतं सदा । करौ विधुन्वन्बहुशो विक्षिप्तश्च मुहुर्मुहुः
他满怀羞惭,屡屡凝视那常在手中的骷髅钵;他一再抖动双手,又一次次在不安中挥掷摆荡。
Verse 167
यदास्य धुन्वतो हस्तौ कपालं पतते न तु । तदास्य बुद्धिरुत्पन्ना व्रतं चैतत्करोम्यहम्
当他抖动双手时,那骷髅钵却并未坠落;于是他心中生起明悟:“我当奉行此誓愿。”
Verse 168
मदीयेनैव मार्गेण द्विजा यास्यंति सर्वतः । ध्यात्वैवं सुचिरं देवो वसुधां विचचार ह
“循我此道,诸‘再生者’(dvija)将遍行四方。”他如此久长思惟后,那位神圣者便周游大地。
Verse 169
पुष्करं तु समासाद्य प्रविष्टोऽरण्यमुत्तमम् । नानाद्रुमलताकीर्णं नानामृगरवाकुलम्
抵达普什迦罗(Puṣkara)后,他进入一片殊胜的森林,遍布各类树木藤蔓,回响着种种野兽的鸣叫。
Verse 170
द्रुमपुष्पभरामोद वासितं यत्सुवायुना । बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्
清风携带树花浓郁的芬芳,使林中尽是馨香;大地表面仿佛以花朵装点,宛如有人用心安放一般。
Verse 171
नानागधंरसैरन्यैः पक्वापक्वैः फलैस्तथा । विवेश तरुवृंदेन पुष्पामोदाभिनंदितः
在花香称颂的成簇树木之间,他走入一片果林,果实或熟或青,具足多样的香气与滋味。
Verse 172
अत्राराधयतो भक्त्या ब्रह्मा दास्यति मे वरम् । ब्रह्मप्रसादात्संप्राप्तं पौष्करं ज्ञानमीप्सितम्
在此我以虔敬礼拜时,梵天(Brahmā)必赐我恩愿;凭梵天的慈恩,我已获得所求的普什迦罗圣智。
Verse 173
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम् । एवं वै ध्यायतस्तस्य रुद्रस्यामिततेजसः
彼能灭罪,能降伏恶人,能增长滋养、吉祥与力量——这确是观想那无量光辉之鲁陀罗(Rudra)所得之果。
Verse 174
आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कंजजः । उवाच प्रणतं रुद्रमुत्थाप्य च पुनर्गुरुः
随后,莲华所生的梵天因(鲁陀罗的)虔敬而欢喜而至;他扶起俯伏的鲁陀罗,这位可敬的导师又再次开口。
Verse 175
दिव्यव्रतोपचारेण सोहमाराधितस्त्वया । भवता श्रद्धयात्यर्थं ममदर्शनकांक्षया
凭借你神圣誓愿的修持与供奉,你已礼敬了我;你以极深的信心,如此强烈地渴望得见我。
Verse 176
व्रतस्था मां हि पश्यंति मनुष्या देवतास्तथा । तदिच्छया प्रयच्छामि वरं यत्प्रवरं वरम्
凡安住于誓愿者,皆得见我——人类亦然,诸天亦然。顺应此愿,我赐予福佑,乃至上之福佑。
Verse 177
सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितम् । मनोवाक्कायभावैश्च संतुष्टेनांतरात्मना
因此,为成就一切所愿,当修此誓愿:内心安足者,以意、语、身与志向自持而行。
Verse 178
कं ददामि च वै कामं वद भोस्ते यथेप्सितम् । रुद्र उवाच । एष एवाद्य भगवन्सुपर्याप्तो महा वरः
“我当赐你何人,又赐你何等恩赐?先生,请如你所愿直言。”鲁陀罗说:“唯此而已,世尊;今日此大恩已圆满足够。”
Verse 179
यद्दृष्टोसि जगद्वंद्य जगत्कर्तर्नमोस्तुते । महता यज्ञसाध्येन बहुकालार्जितेन च
噢,世界的创造者,受全宇宙礼敬者——向你顶礼。凭借历时久远、艰苦成就的宏大祭祀(yajña),我得以亲见于你。
Verse 180
प्राणव्ययकरेण त्वं तपसा देव दृश्यते । इदं कपालं देवेश न करात्पतितं विभो
噢,神啊,唯有以耗尽生命气息的苦行(tapas),方能得见于你。噢,诸神之主,遍一切者——这骷髅钵并未从你的手中坠落,噢,大能者。
Verse 181
त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभो । त्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत्
噢,主啊,此等行持卑鄙,令诸仙(ṛṣi)蒙羞。然因你的恩典,这一戒行——所谓迦波利迦(Kāpālika)之誓——竟得以承担。
Verse 182
सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यताम् । पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे
对于已归依者,此事已然决定。如今请在此宣说大誓(mahāvrata),并告诉我应在何处圣地迅速奉行;为我详明开示。
Verse 183
पूतो भवामि येनाहं मुनीनां भावितात्मनाम् । ब्रह्मोवाच । अविमुक्तं भगवतः स्थानमस्ति पुरातनम्
“凭此我得以净化——在那些以观修陶冶其心的牟尼(muni)之前。”梵天(Brahmā)说道:“主有一处古老的圣住处,名为阿毗穆克多(Avimukta)。”
Verse 184
कपालमोचनं तीर्थं तव तत्र भविष्यति । अहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति
在那里,将为你出现一处名为“迦波罗摩遮那”(Kapālamocana)的圣渡口。你与我将住于彼处,毗湿奴亦将同在。
Verse 185
दर्शने भवतस्तत्र महापातकिनोपि ये । तेपि भोगान्समश्नंति विशुद्धा भवने मम
在彼处,仅凭见到你,即便犯下重罪之人,也能享受天界之乐,并在我之居所中得以净化。
Verse 186
वरणापि असीचापि द्वे नद्यौ सुरवल्लभे । अंतराले तयोः क्षेत्रे वध्या न विशति क्वचित्
噢,诸天所爱者,瓦拉那(Varaṇā)与阿西(Asī)乃两条河流。在二河之间的圣域中,注定受刑之人从不进入。
Verse 187
तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तव । आदेहपतनाद्ये तु क्षेत्रं सेवंति मानवाः
在一切圣渡(tīrtha)之中,你最为殊胜;在一切圣域(kṣetra)之中,你最为尊上。自始至身躯陨落之时,人们皆奉事此圣地。
Verse 188
ते मृता हंसयानेन दिवं यांत्यकुतोभयाः । पंचक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव
若在彼处身终,他们乘天鹅所载的天车升入天界,四方无惧。我已赐予你一片方圆五拘舍(krośa)的圣域。
Verse 189
क्षेत्रमध्याद्यदा गंगा गमिष्यति सरित्पतिम् । तदा सा महती पुण्या पुरी रुद्र भविष्यति
当圣洁的恒河自圣域中央流向诸河之主——大海之时,那地方将成为鲁陀罗的宏伟而神圣之城。
Verse 190
पुण्या चोदङ्मुखी गंगा प्राची चापि सरस्वती । उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी
圣洁的恒河向北流,萨拉斯瓦蒂向东流;而阇诃那毗河亦向北流行两由旬。
Verse 191
तत्र वै विबुधाः सर्वे मया सह सवासवाः । आगता वासमेष्यंति कपालं तत्र मोचय
在那里,确实一切天神——与我同来,并与因陀罗同在——已至并将居住于此。就在此处,放下那骷髅。
Verse 192
तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन् । श्राद्धैस्तु प्रीणयिष्यंति तेषां लोकोऽक्षयो दिवि
然而,凡至彼圣渡口,以供奉食团(piṇḍa)并行施罗陀(śrāddha)之礼而令祖先欢喜者,彼等于天界得不坏之住处。
Verse 193
वाराणस्यां महातीर्थे नरः स्नातो विमुच्यते । सप्तजन्मकृतात्पापाद्गमनादेव मुच्यते
在婆罗那西这伟大圣渡口,人若沐浴便得解脱;诚然,仅仅前往彼处,亦能脱离七生所积之罪。
Verse 194
तत्तीर्थं सर्वतीर्थानामुत्तमं परिकीर्तितम् । त्यजंति तत्र ये प्राणान्प्राणिनः प्रणतास्तव
那圣洁的渡口被称颂为一切圣地(tīrtha)之最上。凡众生若以虔敬向你顶礼,于彼处舍离生命之息,便得至高归宿。
Verse 195
रुद्रत्वं ते समासाद्य मोदंते भवता सह । तत्रापि हि तु यद्दत्तं दानं रुद्र यतात्मना
他们得至鲁陀罗之境,与您同欢。即便在彼处,噢鲁陀罗,凡自律之人所施之布施,亦成真实功德。
Verse 196
स्यान्महच्च फलं तस्य भविता भावितात्मनः । स्वांगस्फुटित संस्कारं तत्र कुर्वंति ये नराः
其果报必极广大,属于那心已熏修、自持之人。凡人在彼处以自身经由净化与成就(saṃskāra)而具足准备,行所规定之仪轨者,必得大果。
Verse 197
ते रुद्रलोकमासाद्य मोदंते सुखिनः सदा । तत्र पूजा जपो होमः कृतो भवति देहिनां
他们抵达鲁陀罗之界,恒常欢喜安乐。在彼处,礼拜、诵咒与火供,仿佛皆为一切有身众生而代行圆满。
Verse 198
अनंतफलदः स्वर्गो रुद्रभक्तियुतात्मनः । तत्र दीपप्रदाने तु ज्ञानचक्षुर्भवेन्नरः
对心中具足鲁陀罗信爱之人,天界赐予无尽果报。若在彼处供奉明灯,则此人得开智慧之眼。
Verse 199
अव्यंगं तरुणं सौम्यं रूपवंतं तु गोसुतम् । योङ्कयित्वा मोचयति स याति परमं पदम्
凡能套轭而后放生一头无瑕、年轻、温和、俊美的公牛犊者,必得至上归处。
Verse 200
पितृभिः सहितो मोक्षं गच्छते नात्र संशयः । अथ किं बहुनोक्तेन यत्तत्र क्रियते नरैः
与诸Pitṛ(祖灵)相随,他必得解脱,此无疑也。何必多言?世人于彼处所作之事,皆得其相应之果。