
रक्तबीजवधः (Raktabījavadhaḥ)
Surya's Progeny
第88章叙述女神(Devī)显现诸母神摩多利迦(Mātrikā),由众天神之力化生,以助战镇伏阿修罗。阿修罗罗刹多毗阇(Raktabīja)得有可怖之赐福:其血每一滴落地,便生出新的阿修罗,使战势愈发凶猛。诸摩多利迦遂饮其血,不令滴落,从而断绝其繁衍之源。最终罗刹多毗阇被诛,魔军溃散,女神的神圣胜利光耀显现。
Verse 1
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधोनाम सप्ताशीतितमोऽध्यायः । अष्टाशीतितमोऽध्यायः- ८८ । ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥
如是,在《圣摩尔迦ṇḍeya往世书》中,于萨伐尔尼迦·摩奴万多罗之段,在《女神威德》(Devī-māhātmya)中,第八十七章名为“诛杀旃陀与牟ṇ陀”者至此终了。(今起)第八十八章。仙人说道:当达伊提耶旃陀被杀、牟ṇ陀被击倒,且众多军旅被歼灭之时,阿修罗之主(遂作回应……)。
Verse 2
ततः कोपपराधीनचेता शुम्भः प्रतापवान् । उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥
于是,强大的舒姆婆(Śumbha)被忿怒所制,命令达伊提耶的全军整备出战。
Verse 3
अद्य सर्वबलैर्दैत्या षडशीतीरुदायुधाः । कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥
今日,当令达伊提耶八十六部,甲兵具足,尽其全力出征;又令甘布族(Kambū)八十四部出动,并由其自军环卫而行。
Verse 4
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै । शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥
奉我之命,令五十支阿修罗族类,具亿万之力;又令一百支“达乌摩罗”族类,齐皆出征前进。
Verse 5
कालका दौर्हृदा मौर्याः कालकेयास्तथासुराः । युद्धाय सज्जा निर्यन्तु आज्ञया त्वरिता मम ॥
奉我之命,迦罗迦、道尔赫利陀、摩乌利耶,以及迦罗迦耶等诸阿修罗——皆已备战——速速出阵。
Verse 6
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः । निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥
既已如此颁令,阿修罗之主、统御可怖的舒姆婆,便在数千大军簇拥之下出发。
Verse 7
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् । ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥
见那极其可怖的军势逼近,旃迪迦以弓弦的震响充满天地之间的虚空。
Verse 8
स च सिंहः महानादमतीव कृतवान्नृप । घण्टास्वनेन तन्नादमम्बिका चाप्यबृंहयत् ॥
王啊,那狮子发出极其洪大的咆哮;安毗迦亦以其铃声铿然,使那声势更为增盛。
Verse 9
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा । निनादैर्भोषणैः काली जिग्ये विस्तारितानना ॥
迦梨张口大开,其吼声胜过弓弦、狮子与铃铎之音,以可怖的咆哮充满四方诸面。
Verse 10
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् । देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥
闻此咆哮,四方的底提耶军队为之骚动;而女神与其狮子及迦梨同在,被那些暴怒的敌众环绕而立。
Verse 11
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् । भवायामरसिंहानामतिवीर्यबलान्विताः ॥
就在那一刻,王啊,为了毁灭憎恨诸天者,并为不死众军之安泰,具足非凡勇力与威能的诸种神力应时而生。
Verse 12
ब्रह्मेशगुहविष्णूनां तथेंद्रस्य च शक्तयः । शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥
梵天、伊沙(湿婆)、古诃(斯坎达)、毗湿奴以及因陀罗之诸沙克蒂,自其身中涌现,前往旃提迦,并取与各自本尊相似之形。
Verse 13
यस्य देवस्य यद्रूपं यथाभूषणवाहनम् । तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥
诸神各具何等形相——连同其饰物与乘具——其沙克蒂亦如是显现,前来与阿修罗交战。
Verse 14
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥
在一辆以天鹅驾轭的天车前方,手持念珠与净水壶而来的,是梵天的圣力(Śakti);她名为梵摩尼(Brahmāṇī)。
Verse 15
माहेश्वरी वृषारूढा त्रिशूलवरधीरिणी । महाहिवलया प्राप्ता चन्द्रलेखाविभूषणा ॥
摩醯湿伐梨(Māheśvarī)乘牛而至,执三叉戟并施与恩赐;以大蛇为饰,额间(或顶上)点缀新月之印。
Verse 16
कौमारी शक्तिहस्ता च मयूरवरवाहना । योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥
鸠摩梨(Kaumārī)手持长枪,乘坐殊胜孔雀而来,为与代底耶(Daitya)诸魔交战——她即是以古诃(Guha,斯甘达 Skanda)之形显现的安比迦(Ambikā)。
Verse 17
तथैव वैष्णवी शक्तिर्गरुडोपरी संस्थिता । शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥
同样,毗湿奴之圣力——毗湿奴妃(Vaiṣṇavī Śakti)立于迦楼罗(Garuḍa)之上而前进;她手持海螺、神轮、钉锤、娑楞伽弓(Śārṅga)与宝剑。
Verse 18
जज्ञे वाराहमतुलं रूपं या बिभ्रती हरेः । शक्तिः साप्यायौ तत्र वाराहीं बिभ्रती तनुम् ॥
随即显现出无与伦比的野猪之形,为她所承载——那是诃利(毗湿奴 Viṣṇu)的威力;那位圣力亦来到此处,具现为伐罗醯(Vārāhī)之身。
Verse 19
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥
随后,娜罗辛希(Nārasiṃhī)来到那里,现出与那罗辛哈相似的形相;仅凭一次甩动鬃发,便将成簇的星辰抛散四方。
Verse 20
वज्रहस्ता तथैवेन्द्रि गजराजोपरि स्थिता । प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥
同样,因陀罗力(Aindrī)也到来,手持金刚杵(雷霆),端坐于象王之上;她具千眼,正如释迦罗(因陀罗)一般——她亦如是。
Verse 21
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः । हन्यन्तामसुराः शीघ्रं मम प्रीत्या'ह चण्डिकाम् ॥
于是,伊沙那(Īśāna)为诸神圣威力(Śakti)所环绕,对旃提迦(Caṇḍikā)说道:“愿诸阿修罗速速被诛——以遂我意。”
Verse 22
ततो देवोशरीरात्तु विनिष्क्रान्तातिभीषणा । चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी ॥
随后,从那位神的身躯中涌现出最为可怖的威力——旃提迦(Caṇḍikā)极其猛烈的圣力(Śakti)——其咆哮如百位湿婆的雷霆轰鸣。
Verse 23
सा चाह धूम्रजटिलमीशानमपराजिता । दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥
她不可征服,便对那位烟色结发的伊沙那(Īśāna)说道:“大主啊,请作为我的使者,前往顺婆与尼顺婆之侧。”
Verse 24
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ । ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥
去告知舒姆婆与尼舒姆婆——那两位因傲慢而膨胀的达底耶——以及在那里为战斗而集结的其余诸魔。
Verse 25
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥
“让因陀罗重得三界;让诸天再度分享祭献之供物。你们——若欲保命,便下往钵多罗(Pātāla)。”
Verse 26
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः । तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥
“然而,若你们沉醉于力量与傲慢,仍渴求战斗——那就来吧;让我的诸śivā以你们的血肉得其满足。”
Verse 27
यतो नियुक्तो दौत्येन तया देव्याः शिवः स्वयम् । शिवदूतीति लोके 'स्मिंमस्ततः सा ख्यातिमागताः ॥
由于湿婆自身被那位女神任命为使者之职,因此她在世间以“湿婆使者女神”之名而著称,即 Śivadūtī(“以湿婆为使者者”)。
Verse 28
ते 'पि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः । अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥
听闻由舍婆(Śarva,即湿婆)宣告的女神之言,那些伟大的阿修罗——怒火充盈——便前往迦底耶耶尼(Kātyāyanī)驻立之处。
Verse 29
ततः प्रथमेवाग्रे शरशक्त्यृष्टिवृष्टिभिः । ववर्षुरुद्धतामर्षास्तां देवीं अमरारयः ॥
就在一开始,诸天之敌——傲慢而暴怒——便向那位女神倾泻如雨的武器:箭矢、长矛与投枪。
Verse 30
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् । चिच्छेद लीलया'ध्मातधनुर्मुक्तैर्महेषुभिः ॥
而她以满弓所发的巨箭,仿佛嬉戏一般,将飞来的诸般投射武器——箭矢、三叉戟、长矛与战斧——尽皆斩碎。
Verse 31
तस्याग्रतस्तथा काली शूलपातविदारितान् । खट्वाङ्गपोथितांश्चारिन् कुर्वती व्यचरत्तदा ॥
在她面前,迦梨(Kālī)随即游走驰骋,使诸战士或被其三叉戟坠击而撕裂,或被其卡特瓦昂伽(khaṭvāṅga)棍棒碾碎。
Verse 32
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः । ब्रह्माणी चाकरॊच्छत्रून् येन येन स्म धावति ॥
婆罗摩尼(Brahmāṇī)从她的净水瓶(kamaṇḍalu)中洒出清水,使敌众丧失精力与威力——无论他们奔逃到何处,她都在彼处令其如此。
Verse 33
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी । दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥
摩醯湿伐梨(Māheśvarī)以三叉戟诛杀,毗湿奴妃(Vaiṣṇavī)以神轮(cakra)斩灭。鸠摩利(Kaumārī)盛怒非常,也以长矛击倒诸阿修罗。
Verse 34
ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः । पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥
因因陀罗母神阿因德丽(Aindrī)之金刚雷霆坠落,数百名底提耶与达那婆被劈裂,倒伏大地,血流如注成洪。
Verse 35
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः । वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥
他们被她的吻部猛击而粉碎,胸膛又被獠牙尖端刺伤,遂在野猪形的瓦罗希(Vārāhī)前倒下;并且还被她的轮盘(cakra)劈开。
Verse 36
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् । नारसिंही चचाराजौ नादापूर्णदिगन्तरा ॥
那罗辛希(Nārasiṃhī)以利爪撕裂诸敌,吞噬巨大的阿修罗,在战阵中往来驰骋——其咆哮充满四方与方隅之间的虚空。
Verse 37
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः । पेतुः पृथ्व्यां पतितांस्तांश्चखादाथ सा तदा ॥
因她凶烈的笑声,受湿婆使者希瓦杜蒂(Śivadūtī)所折磨的阿修罗纷纷倒地;随后她吞噬了那些倒下者。
Verse 38
इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् । दृष्ट्वाभ्युपायैर्विविधैर्ने॑शुर्देवारिसैनिकाः ॥
于是,见诸母神(Mātṛkā)忿怒之军碾碎大阿修罗,天神之敌的士卒惊惶失措,发出种种呼号,并施展各类诡计。
Verse 39
पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् । योध्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥
见诸代提耶欲逃,复为众母神(Mātṛgaṇa)之军所逼迫,大阿修罗罗刹多毗阇(Raktabīja)怒火炽然,挺身冲前以战。
Verse 40
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥
凡其身上有一滴血落于地,便从大地之中又生出一尊大阿修罗,形量与其无异。
Verse 41
युयुधे स गदापाणिपरिन्द्रशक्त्या महासुरः । ततश्चैन्द्रि स्ववज्रेण रक्तबीजमताडयत् ॥
彼大阿修罗执杵(mace)以巨力奋战;其后,因陀罗母神阿因德丽(Aindrī)以自身之金刚杵(vajra)击中罗刹多毗阇。
Verse 42
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥
其被金刚杵迅疾击中之时,鲜血顿时大量涌出;随即又有战士生起,形貌相同,勇力亦同。
Verse 43
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥
其身落下几许血滴,便诞生几许众生——皆具其精力、气力与勇武。
Verse 44
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः । समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥
那些男子也——由血而生——在彼处与诸母神(摩多梨迦)交战;因狂暴的兵刃之雨倾泻,此战极其可怖。
Verse 45
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा । ववाऽह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥
又一次,当他的头被金刚(雷霆之器)一击所伤,鲜血涌流之时,便有成千上万的男子从那血中出生。
Verse 46
वैष्णवी समरे चैनं चक्रेणाभिजघान ह । गदया दाडयामास ऐन्द्री तमसुरेश्वरम् ॥
于是战斗中,毗湿奴女神(Vaiṣṇavī)以神轮(cakra)击中他;因陀罗女神(Aindrī)又以金刚杵之槌(钉锤、权杖)痛击那阿修罗之主。
Verse 47
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः । सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥
从他被毗湿奴女神之神轮所斩而流出的血中,成千上万与他同等身量的大阿修罗四散蔓延,充满了世界。
Verse 48
शक्त्या जघान कौमारो वाराही च तथासिना । माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥
鸠摩利女神(Kaumārī)以其神枪(śakti)刺击大阿修罗罗多毗阇(Raktabīja);婆罗诃利(Vārāhī)亦以宝剑斩击他;摩醯湿伐利(Māheśvarī)则以三叉戟(triśūla)击中他。
Verse 49
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् । मातः कोपसमाविष्टो रक्तबीजो महासुरः ॥
那魔亦然——罗多毗阇(Raktabīja),伟大的阿修罗——被狂怒所攫,挥起钉锤,逐一击打诸位。
Verse 50
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि । पपात यो वै रक्तौघस्तेनासञ्चतशोऽसुराः ॥
当他被长矛、三叉戟等诸般兵刃多方刺击时,血流如注倾落大地;由此,阿修罗无量无数地生起。
Verse 51
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥
而由那阿修罗之血所生的诸阿修罗充塞四方,遍满世界;于是诸天为极大恐惧所攫。
Verse 52
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा । उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥
见诸天心志沮丧,旃迪迦迅速开口。她对迦梨说道:“噢,遮牟荼(Cāmuṇḍā),张开你的口,令其广大无边!”
Verse 53
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥
“以你这迅疾之口,承受那血滴——由我兵刃落下所生的诸大阿修罗。趁其坠落之时,将血尽数接住。”
Verse 54
भक्षयन्ती चर रणॆ तदुत्पन्नान् महासुरान् । एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति । भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ॥
“你当在战场上巡行,吞噬从那里生起的诸大阿修罗。如此,此魔将趋于毁灭,其血将被耗尽;当那些凶暴者被你吞食之时,便不再有他者从血中再生。”
Verse 55
ऋषिरुवाच इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् । मुखेन काली जगृहे रक्तबीजस्य शोणितम् ॥
仙人说道:对她如此言毕,女神遂以三叉戟刺击彼者;而迦梨以其口攫取(吸饮尽)罗多毗阇之血。
Verse 56
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् । न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ॥
随后他在那里以钉锤击打旃提迦;然而钉锤之击,连丝毫痛楚也未能加诸于她。
Verse 57
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् । यतस्ततः स्ववक्त्रेण वामुण्डा सम्प्रतीच्छति ॥
自其被击之身,涌出大量鲜血;凡血滴所落之处,遮母荼皆以自身之口承接。
Verse 58
मुखे समुद्गता येऽस्य रक्तपातान्महासुराः । तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥
由其滴落之血所生的诸大阿修罗——遮母荼尽皆吞噬;并且她亦饮尽其血。
Verse 59
देवी शूलेन चक्रेण बाणैरसिभिरृष्टीभिः । जघान रक्तबीजं तं चामुण्डापीतशोणितम् ॥
女神以长枪与神轮(飞轮)、以箭矢、宝剑与投枪击杀罗多毗阇;而阇牟陀则饮其血。
Verse 60
स पपात महीपृष्ठे शस्त्रसंहतितो हतः । नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥
在众多兵器的合击之下,他被杀而仆倒于大地之上。大王啊,那大阿修罗罗多毗阇横卧其间,血已被尽数吸尽。
Verse 61
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप । तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥
于是,诸天得到了无与伦比的欢喜,大王啊;而他们的众母神(摩多利伽那),因血之狂醉而沉迷,开始起舞。
The chapter stages a problem of seemingly inexhaustible causation through Raktabīja’s blood-born replication, then resolves it by subordinating unchecked generation to conscious divine regulation (śakti guided by buddhi and strategy). The ethical-theological axis is the restoration of cosmic order: violence is framed not as conquest but as containment of adharma that threatens the sacrificial and sovereign balance of the three worlds.
Although embedded in the Sāvarṇika Manvantara frame, the adhyāya functions primarily as a Devīmāhātmya battle-unit: it demonstrates how divine power consolidates in crisis through emanational śaktis (the Mātṛkās). This reinforces the Manvantara-level theme that cosmic governance across ages depends on periodic interventions where devas’ energies externalize to re-stabilize dharma.
Adhyāya 88 is central to Śākta theology: it formalizes the Mātṛkā-gaṇa as derivative yet autonomous embodiments of the gods’ powers under Devī’s command, introduces Śivadūtī as a revelatory emissary-form, and presents the paradigmatic solution to Raktabīja—Kālī/Cāmuṇḍā drinking the blood—as an iconic demonstration of Devī’s supreme tactical sovereignty and the integration of fierce (ugra) forms into salvific cosmic order.